भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः । यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥
भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । स॒म्ऽदृशः॑ । वा॒मी । प्रऽणी॑तिः । सु॒ऽरणाः॑ । उप॑ऽइतयः । यत् । ई॒म् । सु॒ऽमि॒त्राः । विशः॑ । अग्रे॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑तः । ज॒र॒ते॒ । दवि॑द्युतत् ॥
अग्नेः वक्ष्यमाणगुणस्य संदृशः संदृष्टयः वध्र्यश्वस्य एतन्नामकस्य मम पितुः भद्राः कल्याणकारिण्यो भवन्तु । यद्वा । वध्र्यश्वस्य वध्र्यश्वकुले जातस्याग्नेः संदृष्टयो भजनीया भवन्तु । प्रणीतिः तस्य प्रणयनं वामी कल्याणं च भवतु । तथा उपेतयः यज्ञं प्रत्युपगतयः सुरणाः शोभनरमणा भवन्तुः । सुमित्राः एतन्नामधेयाः विशः अमी मनुष्याः ईम् एनमग्निम् अग्रे प्रथमं यत् यदा इन्धते हविर्भिर्दीपयन्ति तदा घृतेनाहुतः हविर्भिश्च दविद्युतत् भृशं द्योतमानः । ' दाधर्ति दर्धर्ति° ' इत्यादिना निपातितः । सोऽग्निः जरते अस्माभिः स्तूयते ॥
“May Agni's regards be benevolent to Vadhryaśva; may his guidance be auspicious, his approaches(to the sacrifice) favourable; when the Sumitra people first kindled Agni, then fed with butter and brilliantly blazinghe is glorified.”
Auspicious is the aspect of Vadhryasva's fire good is its guidance, pleasant are its visitings.
When first the people Of Sumitra kindle it, with butter poured thercon it crackles and shines bright.
Auspicious are the manifestations of the fire of Vadhryaśva; his guidance is valuable; reverent approaches (to him) bring joy.
When the clans that are good allies kindle him at the beginning,
bepoured with ghee he awakens, flashing again and again.
Schön ist des Agni Vādhriaçva Glanzgestalt, lieb seine Führung, sehr erfreulich ist sein Nahn; Wenn ihn zuerst entzündet der Sumitra's Schar, so rauscht mit Fett begossen er in hellem Glanz.
Glückbringend ist der Anblick von Vadhryasva´s Feuer, trefflich dessen Führung, erfreulich die Aufwartungen. Wenn ihn die Sumitra-Clane zuvor anzünden, so wird er mit Schmalz begossen munter, hell leuchtend.
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् । घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥
घृ॒तम् । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वर्ध॑नम् । घृ॒तम् । अन्न॑म् । घृ॒तम् । ऊँ॒ इति॑ । अ॒स्य॒ । भेद॑नम् । घृ॒तेन॑ । आऽहु॑तः । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । सूर्यः॑ऽइव । रो॒च॒ते॒ । स॒र्पिःऽआ॑सुतिः ॥
वध्र्यश्वस्य संबन्धिनः अग्नेः घृतं दीयमानं हविः वर्धनं भवतु । तथा घृतमन्नम् अदनीयं भवतु । तथा अस्य अग्नेः घृतमु घृतमेव मेदनं पुष्टिकरं भवतु । येनाग्निः पुष्टो भवति तन्मेदनम् । तेन घृतेनाहुतः अग्निः उर्विया उर्वत्यन्तं वि पप्रथे स्वतेजसा विप्रथितो भवति । तथा सर्पिरासुतिः सर्पिरासूयते यस्मिन्निति सोऽग्निः सूर्य इव रोचते दीप्यते ॥
“May ghī be the augmenter of the Agni of Vadhryaśva; may ghī be his food; may ghī be hisnutriment; sacrified to with ghī he expands exceedingly; he shines like the sun, when the clarified butter ispoured out for him.”
Butter is that which makes Vadhryaiva's fire growstrong: the butter is its food, the butter makes it fat.
It spreads abroad when butter hath been offered it, and balmed with streams of butter shines forth like the Sun.
The strengthener of the fire of Vadhryaśva is ghee; ghee is his food, ghee his fattener.
Bepoured with ghee, he spreads out widely. He shines like the sun—his potion melted butter.
Fett ist des Agni Vādhriaçva Labetrunk, und Fett ihm Speise, fette Butter seine Mast; Mit Fett begossen dehnt er in die Weite sich, mit Schmalz getränkt erstrahlet er der Sonne gleich.
Schmalz ist Stärkung für Vadhryasva´s Feuer, Schmalz seine Speise. Schmalz seine Mästung. Mit Schmalz begossen dehnt er sich weithin aus; wie die Sonne leuchtet er, dessen Tränklein Schmalz ist.
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः । स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥
यत् । ते॒ । मनुः॑ । यत् । अनी॑कम् । सु॒ऽमि॒त्रः । स॒म्ऽई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी॑यः । सः । रे॒वत् । शो॒च॒ । सः । गिरः॑ । जु॒ष॒स्व॒ । सः । वाज॑म् । द॒र्षि॒ । सः । इ॒ह । श्रवः॑ । धाः॒ ॥
हे अग्ने ते त्वदीयं यत् अनीकं रश्मिसंघं मनुः एतन्नामकः यथा समीधे हविर्भिः सम्यग्दीपयति सुमित्रः एतन्नामकोऽहं समीधे सम्यग्दीपयामि। ‘ ञिइन्धी दीप्तौ'। लिटि ‘ इन्धिभवतिभ्यां च' इति कित्त्वान्नलोपः । तदिदं सोऽयं रश्मिसंधः नवीयः नवतरो भवतु । सः त्वं रेवत् धनयुक्तं यथा भवति तथा शोच प्रज्वल । सः एव त्वं गिरः अस्मदीयाः स्तुतीः जुषस्व सेवस्व । सः त्वं वाजं शत्रुबलं दर्षि विदारय । तथा इह मयि श्रवः अन्नं धाः धेहि ॥
“May that your army of flame, Agni, which Manu, which Sumitra has kindled, be the newest; do youshine wealthily; do you graciously accept our praises; do you destroy the might (of our foes), do you grant usabundance.”
Still newest is this face of thine, O Agni, which Manu and Sumitra have enkindled.
So richly shine, accept our songs with favour, so give us strengthening food, so send us glory.
Which face of yours Manu kindled, which (did) the good ally, o Agni, that is this one here anew.
Blaze richly; take pleasure in the songs. Break out the prize; confer
fame here.
Die Glanzgestalt, die Manu, die Sumitra dir hat entflammt, die strahlt, o Agni, neu hier; So leuchte hell, nimm freundlich an die Lieder, erschliesse Gut, und schenk uns reiche Schätze.
Dein Antlitz, das Manu, das Sumitra entflammt hat, o Agni, dies ist auch das allerneueste. Flamme prangend, hab an der Lobrede Gefallen, schlag Lohn heraus, bringe Ruhm ein!
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व । स न॑: स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥
यम् । त्वा॒ । पूर्व॑म् । ई॒ळि॒तः । व॒ध्रि॒ऽअ॒श्वः । स॒म्ऽई॒धे । अ॒ग्ने॒ । सः । इ॒दम् । जु॒ष॒स्व॒ । सः । नः॒ । स्ति॒ऽपाः । उ॒त । भ॒व॒ । त॒नू॒ऽपाः । दा॒त्रम् । र॒क्ष॒स्व॒ । यत् । इ॒दम् । ते॒ । अ॒स्मे इति॑ ॥
ईळितः । व्यत्ययेन कर्तरि क्तः । स्तोता वध्र्यश्वः मम पिता पूर्वं पूर्वस्मिन्काले संजातं यं त्वा त्वां समीधे हविर्भिः सम्यगदीपयत् सः त्वमिदानीं मया क्रियमाणम् इदं स्तोत्रं जुषस्व सेवस्व । यद्वा । वध्र्यश्वस्तस्य पुत्रोऽहं सम्यग्दीपितवानस्मि । सः त्वं नः अस्माकं स्तिपाः। पृषोदरादिः । पस्त्यं गृहम् । तस्य रक्षकः भव । यद्वा । उपस्थितान् ज्योतिष्टोमादीन्यागान् पालयतीति स्तिपाः । अस्मदीयानां यज्ञानां पालयिता भव। उत अपि च तनूपाः स्वाङ्गानां रक्षको भव। किंच दात्रं तद्धनं रक्षस्व यदिदं धनं ते तव स्वभूतेषु अस्मे अस्मासु तिष्ठति ॥
“Do you, Agni, whom Vadhryaśva propitiating you formerly kindled, accept this; be the proector of oursacrifices, be the protector of our bodies; preserve this wealth which has been given to us by you.”
Accept this offering, Agni, whom aforetime Vadhryasva, hath entreated and enkindled.
Guard well our homes and ople, guard our bodies, protect thy girt to us which thou hast granted.
You whom Vadhryaśva, when reverently invoked, kindled formerly, o Agni, do you take pleasure in this (new face) here.
Become the protector of our people and the protector of our own
bodies. Guard the gift—whatever you have for us here.
Du, den zuvor entflammt hat Vadhriaçva, der rühmliche, nimm an dies Opfer, Agni, Behüt' uns selbst, behüte unsre Leute, beschirm die Gabe, die du uns gewährest.
Du, den zuerst Vadhryasva, dazu berufen, entflammt hat, o Agni, hab auch an diesem Gefallen! Sei du uns Schützer der Angehörigen und sei Schützer der eigenen Person; erhalte die Gabe, welche du für uns hast!
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् । शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥
भव॑ । द्यु॒म्नी । वा॒ध्रि॒ऽअ॒श्व॒ । उ॒त । गो॒पाः । मा । त्वा॒ । ता॒री॒त् । अ॒भिऽमा॑तिः । जना॑नाम् । शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । सु॒ऽमि॒त्रः । प्र । नु । वो॒च॒म् । वाध्रि॑ऽअश्वस्य । नाम॑ ॥
हे वाध्र्यश्व वध्र्यश्वकुले जाताग्ने द्युम्नी । 'द्युम्नं द्योततेर्यशो वान्नं वा'। तद्वान् भव । उत अपि च गोपाः गोपयिता भव । किंच त्वा त्वाम् कश्चिदपि मा तारीत् मा हिनस्तु । यतः जनानां शत्रूणाम् अभिमातिः अभिभवनशीलमानयुक्तोऽभिभविता भवसि । किंच शूरइव बलवानिव धृष्णुः शत्रुधर्षणशीलः तस्मात् च्यवनः तेषां च्यावयिता भवसि । अथ वाध्र्यश्वस्य अग्नेस्तव नाम अग्निर्जातवेदा वैश्वानर इत्यादीनि नामानि नु क्षिप्रं सुमित्रः अहं प्र वोचं प्रब्रवीमि । तस्मान्मेऽन्नादियुक्तो भव ॥
“Kinsman of Vadhryaśva, be the possessor of food and our protector; let no one assail you, (for youare) the overcomer of men; like a resolute warrior (you are) the overthrower (of enemies); I, Sumitra, celebratethe names of the kinsmen of Vadhyaśva.”
Be splendid, guard us Kinsman of Vadhryasva: let not the enmity of men o'ercome thee,
Like the bold hero Cyavana, I Sumitra tell forth the title of Vadhryaiva's Kinsman.
Become possessed of brilliance, o son of Vadhryaśva, and our herdsman. Let the hostile intent of the peoples not overtake you.
A rouser like a bold champion, a good ally—I shall now proclaim the name of Vadhryaśva’s son.
Sei, Vādhriaçva, Hüter und Erfreuer, nie überwinde dich der Menschen Arglist; Kühn wie ein Held, erschütternd und befreundet, will ich den Namen Vādhriaçva's kund thun.
Sei glanzreich, Kind des Vadhryasva, und ein Schützer; nicht sollen die Anschläge der Menschen über dich Macht bekommen! Sei mutig wie ein Aufrüttler, und doch ein Sumitra, ein guter Freund. Ich will jetzt den Namen des Vadhryasvafeuers verkünden.
सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ । शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्या॑: ॥
सम् । अ॒ज्र्या॑ । प॒र्व॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । जि॒गे॒थ॒ । शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । जना॑नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽयून् । अ॒भि । स्याः॒ ॥
हे अग्ने अज्र्या। अजन्ति गच्छन्तीत्यज्रयो जनाः। तेभ्यो हितानि पर्वत्या पर्वतभवानि वसूनि गवादिलक्षणानि सं जिगेथ शत्रुभ्यः संजितवानसि । तथा आर्यां बलवद्भिः कृतान् दासा दासैरसुरैः कृतान वृत्राणि उपद्रवान् सं जिगेथ । तान् हतवानसीत्यर्थः।' जि जये । लिटि रूपम्। शूरइव धृष्णुः जनानां च्यवनः त्वं पृतनायून् संग्रामकामान् अभि ष्याः अभिभब । पृतनायूनित्यत्र लोपाभावश्छान्दसः । ‘ अश्वाघस्यात्' इत्यात्वं विधीयमानमस्मादपि व्यत्ययेन भवति ॥ ॥ १९ ॥
“You have gained mountain-treasures beneficial to men, (you have defeated the hostilities) of strongmen, Dāsas and Vṛtras, like a resolute warrior, do you, Agni, the overthrower (of enemies), overcome thosewho are desirous of battle.”
All treasures hast thou won, of plains and mountains, and quelled the Dasas' and Aryas' hatred.
Like the bold hero Cyavana, O Agni, mayst thou subdue the men who long for battle.
The goods of the plains and the mountains, the Dāsa and the Ārya obstacles—you have conquered them entirely.
A rouser of the peoples like a bold champion—you, o Agni, should
dominate those who seek battle.
Du nahmst das Gut der Berge und der Fluren, und schlugst die Feinde, Arjer und Barbaren, Als kühner Held, Erschütterer der Menschen, mögst alle Gegner, Agni, du besiegen.
Du hast die Schätze der Ebene und des Gebirges erbeutet, du hast die dasischen und arischen Feinde besiegt. Kühn wie ein Held, ein Aufrüttler der Völker, mögest du, Agni, die Angreifer überwältigen.
दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ । द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥
दी॒र्घऽत॑न्तुः । बृ॒हत्ऽउ॑क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र॑ऽस्तरीः । श॒तऽनी॑थः । ऋभ्वा॑ । द्यु॒ऽमान् । द्यु॒मत्ऽसु॑ । नृऽभिः॑ । मृ॒ज्यमा॑नः । सु॒ऽमि॒त्रेषु॑ । दी॒द॒यः॒ । दे॒व॒यत्ऽसु॑ ॥
दीर्घतन्तुः । यैर्यज्ञं संतनोति ते तन्तवः स्तोत्रादयः। प्रभूतस्तुतिमान् बृहदुक्षा। उक्षा सेचको रश्मिः । प्रभूतरश्मियुक्तः सहस्रस्तरीः हवीरूपबह्वाच्छादनः शतनीथः आहवनीयादिद्वारेण बहुविधनयनः ऋभ्वा महान् द्युमत्सु दीप्तिमत्सु मध्ये द्युमान् अतिशयेन दीप्तिमान् अयमग्निः नृभिः कर्मनेतृभिर्ऋत्विग्भिः मृज्यमानः अलंक्रियमाणो भवति । ' मृजू शौचालंकारयोः । स त्वं देवयत्सु देवान् कामयमानेषु सुमित्रेषु अस्मासु दीदयः दीप्यस्व । दीदयतिर्दीप्तिकर्मा ॥
“This Agni to whom a long series (of sacrifices has been addressed), who is bright with many rays,covering thousands (in the form of ghī), the leader of hundreds (of burnt offerings), the mighty one, brilliantamong the brilliant, (is) being glorified by the priests; shine (Agni) upon the devout Sumitras.”
Deft Agni hath a lengthened thread, tall oxen, a thousand heifers, numberless devices.
Decked by the men, splendid among the splendid, shine brightly forth amid devout Sumitras.
This fire here has a long thread and lofty oxen; the craftsman has a thousand barren cows and a hundred counsels.
Brilliant among the brilliant (gods), being groomed by men, you will shine among the good allies who seek the gods.1494 X.70
Der langen Faden webt, der hohe Stiere, und tausend Kühe hat und hundert Bahnen, Du starker Agni strahlest hell bei hellen, erzeugt von Männern bei den frommen Freunden.
Dieser Agni spinnt einen langen Faden, fährt mit großen Stieren; er hat tausend Geltkühe, hundert Schliche, der Meister. Unter den Glänzenden glänzend, von den Herren herausgeputzt, sollst du bei den gottergebenen Sumitra´s leuchten.
त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् । त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भि॑: ॥
त्वे इति॑ । धे॒नुः । सु॒ऽदुघा॑ । जा॒त॒वे॒दः॒ । अ॒स॒श्चता॑ऽइव । स॒म॒ना । स॒बः॒ऽधुक् । त्वम् । नृऽभिः॑ । दक्षि॑णावत्ऽभिः । अ॒ग्ने॒ । सु॒ऽमि॒त्रेभिः॑ । इ॒ध्य॒से॒ । दे॒व॒यत्ऽभिः॑ ॥
हे जातवेदः जातप्रज्ञ अग्ने त्वे त्वयि सुदुघा सुष्ठु पयसो दोग्ध्री काचिद्धोमसाधनभूता धेनुः अस्ति । कीदृशी। असश्चतेव संगवर्जितेनेवैकत्र स्थित्यभावात्कुत्रापि न संयुक्तेनादित्येन समना संगता सबर्धुक् अमृतं दुहाना गोरूपा माध्यमिका वाग्वैद्युते त्वय्यस्तीति भावः । तादृशः त्वं नृभिः कर्मनेतृभिः दक्षिणावद्भिः ऋत्विग्भ्यो देयत्वेन तद्वद्भिः देवयद्भिः देवकामैः सुमित्रेभिः अस्माभिः इध्यसे हविर्भिर्दीप्यसे ॥
“In you, Jātavedas, is the cow easy to be milked, yielding ambrosia as it were inexhaustibly in battle,you are kindled, Agni, by the devout Sumitras who are entitled to the sacrificial donation.”
Thine is the teeming cow, O Jatavedas, who pours at once her ceaseless flow, Sabardhuk,
Thou. art lit up by men enriched with guerdon, O Agni, by the pious-souled Sumitras.
O Jātavedas, in you is the milk-cow, yielding good milk, milking out nectar always in the same way, like the two [=Heaven and Earth] that never dry up.
You, Agni, are kindled by men who receive the priestly gifts, by the good allies who seek the gods.
O Wesenkenner, dir gehört die Milchkuh, die wie in stetem Gusse Nektar ausströmt; Du Agni wirst von gabenreichen Männern entflammt und von den eifrigen Sumitra's.
Dein ist die gutmelke Kuh, o Jatavedas, die wie die unversieglichen Rodasi immer gleichmäßig frische Milch gibt. Du wirst von den Opferlohn spendenden Herren, von den gottergebenen Sumitra´s angezündet, o Agni.
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् । यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥
दे॒वाः । चि॒त् । ते॒ । अ॒मृताः॑ । जा॒त॒ऽवे॒दः॒ । म॒हि॒मान॑म् । वा॒धि॒ऽअ॒श्व॒ । प्र । वो॒च॒न् । यत् । स॒म्ऽपृच्छ॑म् । मानु॑षीः । विशः॑ । आय॑न् । त्वम् । नृऽभिः॑ । अ॒ज॒यः॒ । त्वाऽवृ॑धेभिः ॥
हे जातवेदः हे वाध्र्यश्व अग्ने ते तव महिमानम् अमृताः देवाश्चित् देवा अपि प्र वोचन् प्रब्रुवन्ति । यत् यदा मानुषीः मनुष्यसंबन्धिन्यः विशः प्रजाः संपृच्छं देवैः सह को वा असुरान् हन्तीत्येवमादिकं संप्रश्नम् आयन प्राप्तवन्तः तदा त्वं नृभिः सर्वस्य नेतृभिः त्वावृधेभिः त्वया वर्धितैर्देवैः सह कर्मविघ्नकारिणस्तान अजयः जितवानसि ॥
“The immortal gods have proclaimed your greatness. Jātavedas, Vadhryaśva (Agni); when humanbeings, came to inquire (who would slay the asuras), then you with (the gods), the leaders of all, fostered by youdid overcome (those who impeded the ceremony).”
Even Immortal Gods, O Jatavedas, Vadhryasva's Kinsman, have declared thy grandeur.
When human tribes drew near with supplication thou conqueredst with men whom thou hadst strengthened.
Even the immortal gods proclaimed your greatness, o Jātavedas, son of Vadhryaśva.
When the clans of the sons of Manu came to negotiate, you conquered by means of the men whose strength is you.
Die ew'gen Götter selbst, o Wesenkenner, o Vādhriaçva, rühmten deine Grösse; Als bittend dir der Menschen Stämme nahten, da siegtest du durch Männer, die du stärktest.
Selbst die unsterblichen Götter verkünden deine Größe, o Jatavedas, Kind des Vadhryasva. Als die menschlichen Clane kamen, um bei dir sich Rat zu holen, da siegtest du mit den durch dich stark gewordenen Herren.
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् । जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥
पि॒ताऽइ॑व । पु॒त्रम् । अ॒बि॒भः॒ । उ॒पऽस्थे॑ । त्वाम् । अ॒ग्ने॒ । व॒ध्रि॒ऽअ॒श्वः । स॒प॒र्यन् । जु॒षा॒णः । अ॒स्य॒ । स॒म्ऽइध॑म् । य॒वि॒ष्ठ॒ । उ॒त । पूर्वा॑न् । अ॒व॒नोः॒ । व्राध॑तः । चि॒त् ॥
हे अग्ने त्वाम् उपस्थे पृथिव्या उपस्थान उतरवेद्यां सपर्यन् । परिचर्याकर्मा । परिचरन् वध्र्यश्वः मम पिता अबिभः धृतवान् हविर्भिः पोषितवान्वा । कथमिव । पितेव यथा पिता समीपे पुत्रं स्थापयति पोषयति वा । ‘ डुभृञ् धारणपोषणयोः । लङि तिपि गुणे कृते हल्ङ्यादिना तिपो लोपः । हे यविष्ठ युवतमाग्ने उत अपि च अस्य वध्र्यश्वस्य पितुर्वा मम वा समिधं जुषाणः सेवमानः सन् पूर्वान् प्रत्नान व्राधतश्चित् बाधकानपि शत्रून् अवनोः अवधीः । वनतिर्हिंसयां भौवादिकः । व्यत्ययेनोप्रत्ययः ॥
“Vadhryaśva, honouring you, Agni, plural ced you upon the altar as a father (plural ces) his son (upon hislap); plural ased with his fuel, youngest (of the gods), you did slay the ancient obstructers of the rite.”
Like as a father bears his son, O Agni, Vadhryasva bare thee in his lap and served thee.
Thou, Youngest God, having enjoyed his fuel, didst vanquish those of old though they were mighty.
Like a father his son, Vadhryaśva bore you on his lap as he served you, o Agni.
And taking pleasure in his kindling, o youngest one, you vanquished the former (fires), even though they were greatly arrogant.
Du trugst im Schooss ihn, wie den Sohn der Vater, als, Agni, dich verehrte Vadhriaçva; Du nahmst, o jüngster, gnädig an sein Brennholz und schlugst die mächt'gen, wenn sie dir auch trotzten.
Wie der Vater seinen Sohn, trug Vadhryasva dich, Agni, ehrend auf seinem Schoße. An dessen Brennhölzern Gefallen findend, o Jüngster, hast du auch die früheren Feinde überwunden, wenn sie sich stark fühlten.
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः । सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ॥
शश्व॑त् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । शत्रू॑न् । नृऽभिः॑ । जि॒गा॒य॒ । सु॒तसो॑मवत्ऽभिः । सम॑नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । अव॑ । व्राध॑न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥
सः अग्निः वध्र्यश्वस्य सुतसोमवद्भिः अभिषुतसोमैः । अनुवादको मत्वर्थीयः । तैः नृभिः ऋत्विग्भिः शश्वत् सर्वदा शत्रून् जिगाय जितवान् । अथ प्रत्यक्षः । हे चित्रभानो नानातेजस्क चायनीयदीप्तिमन् वाग्ने त्वं समनं चित् । समनमिति संग्रामनाम । तमपि अदहः स्वतेजोभिः । अथ तव स्तोता वाध्र्यश्वः वृधश्चित् स्वयं वृद्धो भवन व्राधन्तं वर्धमानं हिंसकं वा अव अभिनत् अवाङ्मुखं कृत्वा अच्छिनत् । यद्वा त्वमेव तमवाभिनत् । अवाङ्मुखं कृत्वाभिनः अच्छिनः। प्रथममध्यमयोः समानमेतद्रूपम् ॥
“Agni by means of the priests of Vadhryaśva pouring out libations always conquers his foes; you(Agni) shining with varied splendour, have consumed the battle; (your praiser) self-fostered has destroyed hispowerful (assailant).”
Vadhryasva's Agni evermore hath vanquished his foes with heroes who had pressed the Soma.
Lord of bright rays, thou burntest up the battle, subduing, as our help, e'en mighty foemen.
Over and over the fire of Vadhryaśva has conquered rivals by means of the men that provide the pressed soma.
You burned even the (whole) crowd, o bright-beamed one; as
strengthener you cut down even the greatly arrogant one.
Besiegt hat Agni stets des Vadhriaçva Bekämpfer durch der Somapresser Freunde, Den Tross auch hast verbrannt du strahlenreicher, zerschmettert auch den Trotzenden als Helfer.
Immer wieder hat des Vadhryasva Agni die Feinde besiegt im Bunde mit den somapressenden Herren. Du branntest die Schlachtreihe nieder, du Prachtglanz; du hast den, der sich stärker fühlte als selbst der Starke, herabgehauen.
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्य॑: । स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥
अ॒यम् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वृ॒त्र॒ऽहा । स॒न॒कात् । प्रऽइ॑द्धः । नम॑सा । उ॒प॒ऽवा॒क्यः॑ । सः । नः॒ । अजा॑मीन् । उ॒त । वा॒ । विऽजा॑मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध॑तः । वा॒ध्रि॒ऽअ॒श्व॒ ॥
वृत्रहा शत्रूणां हन्ता अयमग्निः सनकात् चिरादारभ्य वध्र्यश्वस्य हविषा प्रेद्धः प्रकर्षेण दीपितो भवति । तथा तस्य नमसा नमस्कारेण सह उपवाक्यः उपस्तोतव्यो भवति । हे वाध्र्यश्व वध्र्यश्वकुले मथनेन समुत्पन्नाग्ने सः त्वं नः अस्माकम् अजामीन् अज्ञातीन शत्रून् उत वा अपि वा शर्धतः हिंसतः विजामीन विविधान् ज्ञातीनपि अभि तिष्ठ अभिभव ॥ ॥ २०॥
“From a long period has this Agni the slayer of foes been kindled (by the oblation) of Vadhryaśva; (heis) to be addressed with reverence; do you, (Agni, kindled in the) family of Vadhryaśva, overcome our enemies,both those who have no kinsmen and those who have many kinsmen.”
This Agni of Vadhryasva, Vrtra-slayer, lit from of old, must be invoked with homage.
As such assail our enemies, Vadhryasva, whether the foes be strangers or be kinsmen.
Here is the fire of Vadhryaśva, the smasher of Vr̥tra, kindled from of old, to be addressed with reverence.
Subjugate those, whether non-kin or estranged kin, who defy us, o son of Vadhryaśva.
Des Vadhriaçva Feindbezwinger war er von je entflammt voll Demuth angerufen, So tritt zu Boden, Agni Vādhriaçva, die Feinde uns, verwandte, unverwandte.
Dies ist des Vadhryasva Agni, der Feindetöter, der vor alters entzündete, dem unter Verbeugung freundlich zugesprochen wird. Tritt du für uns den Fremden oder den falschen Verwandten, den Überheblichen entgegen, o Kind des Vadhryasva!