बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः । यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥
बृह॑स्पते । प्र॒थ॒मम् । वा॒चः । अग्र॑म् । यत् । प्र । ऐर॑त । ना॒म॒ऽधेय॑म् । दधा॑नाः । यत् । ए॒षा॒म् । श्रेष्ठ॑म् । यत् । अ॒रि॒प्रम् । आसी॑त् । प्रे॒णा । तत् । ए॒षा॒म् । निऽहि॑तम् । गुहा॑ । आ॒विः ॥
बृहस्पतिरनेन सूक्तेन विदितवेदार्थान् बालान् दृष्ट्वा स्मयमानः स्वात्मानं संबोध्याह । हे बृहस्पते अन्तरात्मन् प्रथमम् उत्पत्त्यनन्तरमितरवागुच्चारणात्प्रागेव नामधेयं नाम दधानाः पदार्थेषु निदधाना बालाः यत् प्रैरत प्रेरितवन्तः तत् वाचोऽयं भवति । यत्तत तातेत्यादिकं वाक्यं पूर्वमभिधाय पश्चादन्या वाचो वदिष्यन्ति खलु तस्माद्वाचोऽग्रम् । अस्यां दशायामवस्थितान् बालान् पश्य । तथेदानीम् एषां श्रेष्ठं प्रशस्यतमं यत् यच्च अरिप्रं पापरहितं वेदार्थज्ञानम् आसीत् एषां तज्ज्ञानं गुहा गुहायां निहितं गोप्यं तत् प्रेणा । मकालोपश्छान्दसः। प्रेम्णाविर्भवति । वेदाभ्यासकाले सरस्वती स्वार्थमेभ्यः प्रकाशयतीत्यर्थः । एवं विस्मये बृहस्पते प्रथमं वाचो अग्रम् । (ऐ. आ. १. ३. ६ ) इत्यादिकमारण्यकमनुसंधेयम् ॥
“That, Bṛhaspati, is the best (part) of speech which those giving a name (to objects) first utter; thatwhich was the best of those (words) and free from defect, (Sarasvatī) reveals it though secretly imparted, bymeans of affection.”
WHEN-men, Brhaspati, giving names to objects, sent out Vak's first and earliest utterances,
All that was excellent and spotless, treasured within them, was disclosed through their affection.
When seers, Bṛhaspati, in early ages, Assigning names, of speech the first sounds uttered, Then was revealed their best unsoiled possession That hidden in their hearts with love they cherished.
O Br̥haspati, (this was) the first beginning of Speech: when they [=the seers] came forth, giving names.
What was their best, what was flawless—that (name), set down in secret, was revealed to them because of your affection (for them).
Brihaspati! als einst die Namengeber des Wortes ersten Anfang vorwärts brachten, Da that sich kund, was fleckenlos als Kleinod in ihrem Herzen liebend sie geborgen.
Brihaspati! Das war erst der Rede erster Anfang, als sie damit hervortraten, die Namengebung zu vollziehen. Das Beste und Reine, was sie hatten, das kam im Inneren verschlossen durch ihre Freundschaft zum Vorschein.
О Брихаспати, первое начало Речи (возникло),
Когда они пришли в действие, давая имена (вещам).
Что было у них лучшего, незапятнанного,
Это тайно сокрытое в них проявилось с помощью любви.
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त । अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥
सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त । अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निहि॑ता । अधि॑ । वा॒चि ॥
तितउना । परिपूयतेऽनेनेति । यद्वा । तता विस्तृता भृष्टयवा अत्रेति तितउः। ‘ तनोतेर्डउः सन्वच्च ' (उ. सू. ५, २२ ) इति डउप्रत्ययः । सन्वद्भावादित्वम्। उक्त निर्वचनेन सूर्पेण सक्तुमिव यथा कश्चित्सक्तुं दुर्धावं पुनाति तद्वत् प्रकृतितः प्रत्ययतश्च शब्दानुत्पुनन्तः धीराः धीमन्तो विद्वांसः यत्र यस्मिन् काले विद्वत्संघे वा मनसा प्रज्ञायुक्तेन वाचमक्रत अकृषत कुर्वन्ति । करोतेर्लुङि रूपम् । अत्र तत्र काले सखायः समानख्यानाः शास्त्रादिविषयज्ञानास्ते सख्यानि तेषु भवानि ज्ञानानि जानते जानन्ति । यद्वा । सखायो वाचा बद्धसख्यास्ते तस्यास्तस्या वाचः सख्यानि जानन्ति । वाक्ययुक्तानभ्युदयाल्ँलभन्त इत्यर्थः। तस्मात् एषां वाचि भद्रा कल्याणी निहिता लक्ष्मीः भवति । अधिः सप्तम्यर्थद्योतकः । अर्थज्ञानं वाचि पश्याम इत्यर्थः । ‘ तितउ परिपवनं भवति ततवद्वा तुन्नवद्वा तिलमात्रतुन्नमिति वा सक्तुमिव तितउना ' ( निरु. ४. १० ) इत्यादि निरुक्तमनुसंधेयम् ॥
“When the wise create Speech through wisdom winnowing (it) as (men winnow) barley with a sieve,then friends know friendship; good fortune is plural ced upon their word.”
Where, like men cleansing corn-flour in a cribble, the wise in spirit have created language,
Friends see and recognize the marks of friendship: their speech retains the blessed sign imprinted.
Where wise men fashion speech with understanding And sift it, as with sieves the corn is winnowed, There friends may learn to know each other's friendship: Upon their speech is set the stamp of beauty.
When the wise have created Speech by their thought, purifying her like coarse grain by a sieve,
in this they recognize their companionship as companions. Their
auspicious mark has been set down upon Speech.
Wo weise Männer sinnvoll Worte tauschen, sie sichtend wie Getreide mit dem Siebe, Da erst erkennt der Freund des Freundes Liebe, des Lichtes Zeichen ruht auf ihrem Worte.
Wo die Weisen mit Nachdenken die Rede gebildet haben, so wie Schrotmehl durch ein Sieb reinigend, da erkennen die Genossen ihre Genossenschaft. Deren gutes Zeichen ist ihrer Rede aufgeprägt.
Когда мудрые мыслью создали Речь,
Очищая (ее), как муку через сито,
Тогда друзья познают содружества:
Их приносящий счастье знак нанесен на Речь.
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् । तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ॥
य॒ज्ञेन॑ । वा॒चः । प॒द॒ऽवीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒वि॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टाम् । ताम् । आ॒ऽभृत्य॑ । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥
विदितार्था धीराः पदवीयम् । वेतेः ‘अचो यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । पदेन यातव्यः पन्थाः पदवीयः । ते वाचः मार्गं यज्ञेन आयन् प्राप्तवन्तः । ऋषिषु अतीन्द्रियार्थदर्शिषु प्रविष्टां तां वाचम् अविन्दन् अलभन्त । अनन्तरं तां वाचम् आभृत्य आहृत्य पुरुत्रा बहुषु देशेषु व्यदधुः व्यकार्षुः । सर्वान् मनुष्यानध्यापयामासुरित्यर्थः । एतादृशीं वाचं रेभाः शब्दायमानाः पक्षिणः पक्षिरूपाणि गायत्र्यादीनि सप्त छन्दांसि अभि सं नवन्ते अभितः संगच्छन्ते ॥
With sacrifice the trace of Vak they foIlowed, and found her harbouring within the Rsis.
They brought her, dealt her forth in many places: seven singers make her tones resound in concert.
The track of speech with sacrifice they followed, And found it in the midst of sages lurking; They took and scattered it in many places: The seven singers chanted it in chorus.
Through the sacrifice they followed the track of Speech. They found her having entered into the seers.
Having brought her here, they dispersed her in many places. The seven husky-voiced singers together cry her out.
Des Wortes Spur verfolgten sie mit Andacht, und fanden es geborgen in den Dichtern; Dort holten sie's, vertheilten hier und dort es; nun singen sieben Sänger es im Chore.
Mit dem Opfer folgten sie der Rede Spur; sie entdeckten die in die Rishi´s Eingegangene. Sie holten sie und verteilten sie unter Viele; ihr schreien im Chore die sieben Sänger zu.
С помощью жертвы пошли они по следу Речи.
Они обнаружили, что она вошла в слагателей гимнов.
Принеся ее, они разделили (ее) между многими.
Семеро певцов вместе приветствуют ее криками.
उ॒त त्व॒: पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्व॑: शृ॒ण्वन्न शृ॑णोत्येनाम् । उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑: ॥
उ॒त । त्वः॒ । पश्य॑न् । न । द॒द॒र्श॒ । वाच॑म् । उ॒त । त्वः॒ । शृ॒ण्वन् । न । शृ॒णो॒ति॒ । ए॒ना॒म् । उ॒तो इति॑ । त्व॒स्मै॒ । त॒न्व॑म् । वि । स॒स्रे॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥
त्वशब्द एकवाची । एकः । उतशब्दोऽप्यर्थे । पश्यन् अपि मनसा पथलोचयन्नपि वाचं न ददर्श दर्शनफलाभावान्न पश्यति । त्वः एकः शृण्वन् अपि एनां वाचं न शृणोति श्रवणफलाभावात् । इत्यनेनार्धेन अविद्वानभिहितः । तृतीयपादेन विदितवेदार्थमाह । त्वस्मै एकस्मै अपि तन्वम् आत्मीयं शरीरं वि सस्रे स्वयं वाग्विविधं गमयति । आत्मानं विवृणुते प्रकाशयतीत्यर्थः । तत्र दृष्टान्तः । जायेव यथा उशती संभोगं कामयमाना सुवासाः शोभनवसना जाया पत्ये भर्त्रं ऋतुकाले संभोगार्थं स्वयमात्मानं विवृणुते । तद्वदेनां पश्यति शृणोति चेति विदितवेदार्थस्य प्रशंसा । ‘ अप्येकः पश्यन्न पश्यति वाचम् ' (निरु. १. १९) इत्यादि निरुक्तमत्र द्रष्टव्यम् ॥
“One (man) indeed seeing Speech has not seen her; another (man) hearing her has not heard her; butto another she delivers her person n as a loving wife well-attired presents herself to her husband.”
One man hath ne'er seen Vak, and yet he seeth: one man hath hearing but hath never heard her.
But to another hath she shown her beauty as a fond well-dressed woman to her husband.
And many a one, though seeing, does not grasp it, While others, though they hear, have no cognition. But speech to many a one surrenders freely, As wife, fair-robed and willing, to her husband.
And many a one who sees has not seen Speech, and many a one who hears does not hear her.
And for another she has stretched out her body, like an eager,
well-dressed wife for her husband.
Manch einer sieht es und durchschaut das Wort nicht, manch einer hört es und vernimmt es doch nicht, Dem andern gibt es willig sich zu eigen, wie liebend dem Gemahl die schöne Gattin.
Und mancher, der sieht, hat die Rede nicht erschaut, und mancher, der hört, hört sie doch nicht. Und dem einen hat sie sich aufgetan wie eine verliebte, schöngekleidete Frau dem Gatten.
Кто-то, глядя, не увидел Речь,
Кто-то, слушая, не слышит ее.
А кому-то она отдала (свое) тело,
Как страстная нарядная жена – (своему) мужу.
उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु । अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥
उ॒त । त्व॒म् । स॒ख्ये । स्थि॒रऽपी॑तम् । आहुः॑ । न । ए॒न॒म् । हि॒न्व॒न्ति॒ । अपि॑ । वाजि॑नेषु । अधे॑न्वा । च॒र॒ति॒ । मा॒यया॑ । ए॒षः । वाच॑म् । शु॒श्रु॒ऽवान् । अ॒फ॒लाम् । आ॒पु॒ष्पाम् ॥
त्वम् उत एकमपि सख्ये विदुषां संसदि। या सत्कथा सा सखिकर्मत्वात्सख्यमित्युच्यते । सा च वाचा क्रियते । अतो वाक्संबन्धाद्वाक्सख्ये स्थिरपीतम् । मधु यस्य हृदये स्थिरं भवति । यद्वा स्थिरपीतं स्थिरप्राप्तिम् । आहुः । यद्वा । तस्मिञ्ज्ञातार्थमाहुः । लोके यथा ज्ञातार्थं पुरुषं पीतार्थमिति वदन्ति । किंच एनं विज्ञातार्थं पुरुषं वाजिनेषु । वाक् इना ईश्वर येषां ते वाजिना अर्था वाच आयत्ताः खलु । वाग्ज्ञेयेष्वर्थेषु न अपि हिन्वन्ति । अपिशब्दोऽन्वर्थे । केचिदपि नानुगच्छन्ति । अयमेवातिशयेन विद्वानित्यर्थः । यद्वा । वाजिनेषु सारभूतेषु निरूपणीयेष्वर्थेष्वेनं न हिन्वन्ति न बहिः कुर्वन्ति । एनं पुरस्कृत्यैव सर्वं वेदार्थं विचारयन्तीत्यर्थः । इत्यर्थज्ञः प्रशस्तः । अनन्तरमुत्तरार्धेन केवलपाठको निन्द्यते। एषः अविज्ञातार्थः पुरुषः अधेन्वा धेनुत्वविवर्जितया कामानामदोग्ध्र्या देवमनुष्यस्थानेषु वाक्प्रतिरूपया मायया चरति । किं कुर्वन् । अफलामपुष्पाम् । वाचोऽर्थः पुष्पफलम् । अर्थवर्जिताम् । यद्वा । वाचोऽर्थो याज्ञदैवते । यज्ञे भवं ज्ञानं याज्ञं देवतासु भवं ज्ञानं दैवतम् । तद्वर्जितां कर्मादिविषयज्ञानवर्जितां वाचं शुश्रवान् । केवलं पाठमात्रेणैव श्रुतवान् स चरति । यथा वन्ध्या पीना गौः किं द्रोणमात्रं क्षीरं दोग्धीति मायामुत्पादयन्ती चरति यथा वन्ध्यो वृक्षोऽकाले पल्लवादियुक्तः सन् पुष्प्यति फलतीति भ्रान्तिमुत्पादयंस्तिष्ठति तथा पाठं प्रबुवाणः चरतीत्यर्थः । ‘ अप्येकं वाक्सख्ये स्थिरपीतम्' (निरु. १.२० ) इत्यादि निरुक्तमत्रानुसंधेयम् ॥ ॥२३॥
“They call one man firmly established in the friendship (of Speech), they do not exclude him from (thesociety of) the powerful (in knowledge); another wanders with an illusion that is barren, bearing Speech that iswithout fruit, without flowers.”
One man they call a laggard, dull in friendship: they never urge him on to deeds of valour.
He wanders on in profitless illusion: the Voice he heard yields neither fruit,nor blossom.
They say that many a man has grown in friendship Both stiff and stout: they send him not to contests, He with illusion unprolific wanders: The speech he's learnt yields neither fruit nor blossom.
And they say that another is stiff and swollen in his companionship: him they do not spur on at all in the competitions.
He moves with an artifice that is no milk-cow, having heard Speech
without fruit or flower.
Der, sagt man, steh in seiner Gunst gepanzert, man spornt ihn nicht zum Kampf in Wettgesängen; Der wieder geht in unfruchtbarem Grübeln und was er hört, bleibt ohne Frucht und Blüte.
Von manchem sagt man, daß er in der Genossenschaft steif und feist geworden sei; ihn schicken sie auch in den Wettkämpfen nicht vor. Er gibt sich mit einem Trugbild ab, das keine Milchkuh ist, denn er hat eine Rede gehört, die weder Frucht noch Blüte trägt.
О ком-то говорят, что он стал неповоротливым и ожиревшим в содружестве.
Его больше не посылают на состязания.
Этот живет пустым обманом:
Он слышал речь, не приносящую ни плодов, ни цветов.
यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ॥
यः । ति॒त्याज॑ । स॒चि॒ऽविद॑म् । सखा॑यम् । न । तस्य॑ । वा॒चि । अपि॑ । भा॒गः । अ॒स्ति॒ । यत् । ई॒म् । शृ॒णोति॑ । अल॑कम् । शृ॒णो॒ति॒ । न॒हि । प्र॒ऽवेद॑ । सु॒ऽकृ॒तस्य॑ । पन्था॑म् ॥
सचिविदम् । सचिशब्दः सखिवाची। सखिविदम्। योऽध्येता स वेदस्य सखा संप्रदायोच्छेदनिवारकत्वेन वेदं प्रत्युपकारित्वात् । तादृशमुपकारिणमध्येतारं वेत्तीति सचिवित् । तमभिज्ञं सखायम् अध्येतॄणां पुरुषाणां स्वार्थबोधनेनोपकारित्वात्सखिभूतं वेदं यः पुमान् तित्याज तत्याज परार्थविनियोगेन परित्यजति । त्यजतेर्लिटि ‘अपस्पृधेथामानृचुः । इत्यादिना निपातितः । तस्य पुरुषस्य वाचि सर्वस्यां लौकिक्यां शास्त्रीयायां वाच्यपि भागः भजनीयः कश्चिदर्थः न अस्ति । ईम् अयं पुरुषः यत् वेदव्यतिरिक्तं शृणोति तत् अलकम् अलीकं व्यर्थमेव शृणोति । हि यस्मात्कारणात् सुकृतस्य पन्थां पन्थानं न प्रवेद श्रद्धाराहित्यानुष्ठानमार्गं न जानाति । तस्मात्तदीयश्रवणमपि निष्फलमित्यर्थः। द्वितीयचतुर्थपादयोरभिप्राय आरण्यके दर्शितः ‘न तस्यानूक्ते भागोऽस्ति' (ऐ. आ. ३. २. ४ ) इत्यादिना । तथा ‘ तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषाभ्युक्ता ' (तै. आ. २. १५. ५) इत्यध्वर्युभिश्च ॥
“He who has abandoned the friend who knows the duty of a friend, in his speech there is not a particle(of sense); what he hears, he hears amiss; for he knows not the path of righteousness.”
No part in Vak hath he who hath abandoned his own dear friend who knows the truth of friendship.
Even if he hears her still in vain he listens: naught knows he of the path of righteous action.
Whoever his devoted friend abandons, In speech for him there's no participation, And what he hears, he hears without perception; For such a man knows not the path of virtue.
Who has abandoned the companion joined (to him) in knowledge, for him there is no share in Speech at all.
When he hears her, he hears in vain, for he does not know the path of the rightly performed (ritual).
Wer seinen Freund verlässt, den treugesinnten, bei dessen Wort ist nimmermehr ein Segen; Und was er hört, das hört er nur vergeblich; denn unbekannt ist ihm der Pfad der Tugend.
Wer einen mitwissenden Freund im Stiche gelassen hat, der hat keinen Anteil an der Rede mehr. Was er auch hört, er hört es vergeblich; er kennt nicht den Weg der Tugend.
Кто бросил в беде друга-единомышленника,
Нет тому больше права на Речь!
Что он и слышит, втуне слышит:
Он не узнал пути благого деяния.
अ॒क्ष॒ण्वन्त॒: कर्ण॑वन्त॒: सखा॑यो मनोज॒वेष्वस॑मा बभूवुः । आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥
अ॒क्ष॒ण्ऽवन्तः॑ । कर्ण॑ऽवन्तः । सखा॑यः । म॒नः॒ऽज॒वेषु॑ । अस॑माः । ब॒भू॒वुः॒ । आ॒द॒घ्नासः॑ । उ॒प॒ऽक॒क्षासः॑ । ऊँ॒ इति॑ । त्वे॒ । ह्र॒दाःऽइ॑व । स्नात्वाः॑ । ऊँ॒ इति॑ । त्वे॒ । द॒दृ॒श्रे॒ ॥
अक्षण्वन्तः अक्षिमन्तः । छन्दस्यपि दृश्यते ' इत्यक्षिशब्दादनङ्। ‘ अनो नुट्' इति नुट् । अनेन दृश्यते सर्वमित्यक्षि । यद्वा । तैजसत्वात् अन्येभ्योऽङ्गेभ्यो व्यक्ततरम् । तथा च श्रूयते - ‘ तस्मादेते व्यक्ततरे इव ' इति । तादृशाक्षियुक्ताः कर्णवन्तः । कर्णो निकृत्तद्वारः। गर्भावस्थायामेव केनापि निर्मितबिल इत्यर्थः । यद्वा शरीरस्य शिरसो वोर्ध्वं गते उच्चैः स्थिते । कर्णविलक्षणाकाशवन्तः । तथा चाम्नायते - ऋच्छन्ती इव खे उदगन्ताम् ' इति । तादृशाः सखायः । समानं ख्यानं ज्ञानं येषामिति सखायः । तेषु वाक्येषु बाह्येष्विन्द्रियेषु समानज्ञाना इत्यर्थः। ते मनोजवेषु । मनसा गम्यन्ते ज्ञायन्त इति मनोजवाः प्रज्ञाद्याः । तेषु असमाः अतुल्याः बभूवुः भवन्ति । तेषु मध्ये केचित् आदघ्नासः । आस्यशब्दस्य पृषोदरादित्वादाकारादेशः । आस्यदघ्ना आस्यप्रमाणोदका हृदा इवेति मध्यमप्रज्ञानाह। अथ त्वे एके। सर्वनामत्वाज्जसः शीभावः। उपकक्षासः । कक्षसमीपप्रमाणोदका हृदा इव । अल्पोदका इत्यर्थः । अनेनाल्पप्रज्ञानाह। तथा त्वे एके स्नात्वाः । स्नातेः कृत्यार्थे त्वन्प्रत्ययः (पा. सू. ३.४.१४ )। स च ‘ अर्हे कृत्यतृचश्च' ( पा. सू. ३.३.१६९ ) इत्यर्हार्थे च भवति । स्नानार्हा अक्षोभ्योदकाः हृदाइव ददृशे दृश्यन्ते । अनेन महाप्रज्ञानाह। उः पूरणः । ‘ अक्षिमन्तः कर्णवन्तः सखायोऽक्षि चष्टेः ' (निरु. १. ९) इत्यादिकं निरुक्तमत्र द्रष्टव्यम् ॥
“Friends possessing eyes, possessing ears, were (yet) unequal in mental apprehension; some seemedlike pools reaching to the mouth, others reaching to the loins, others like pools in which one can bathe.”
Unequal in the quickness of their spirit are friends endowed alike with eyes and hearing.
Some look like tanks that reach the mouth or shoulder, others like pools of water fit to bathe in.
Though having eyes and ears alike, companions Appear unequal in their mental quickness. Some are like lakes that reach to mouth or armpits, While others seem like shallow ponds for bathing.
Though all have eyes and ears, the companions are unequal in
quickness of mind.
Some seem like ponds reaching up to the mouth or up to the armpits, and others seem like ponds good to bathe in.
Genossen auch mit gleichem Aug' und Ohre sind ungleich doch in ihres Geistes Regung; Die sind wie Seen an Mund und Schulter reichend, und die wie seichte Wasser, gut zum baden.
Freunde, die Augen und Ohren haben, sind sich an Einfällen des Geistes ungleich. Die einen erscheinen wie Teiche, die bis an den Mund, bis an die Achsel reichen, die anderen wie Teiche, die zum Baden geeignet sind.
Друзья, имеющие глаза (и) имеющие уши,
Бывают (все же) неодинаковыми по порывам духа.
Одни выглядят, как пруды, (где вода) до рта (или) до плеч,
Другие же, как пруды для купания.
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः । अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥
हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः । अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊँ॒ इति॑ । त्वे॒ ॥
सखायः समानख्यानाः ब्राह्मणाः हृदा बुद्धिमतां हृदयेन तष्टेषु निश्चितेषु परिकल्पितेषु मनसो जवेषु गन्तव्येषु वेदार्थेषु गुणदोषनिरूपणाः यत् यदा संयजन्ते संगछन्ते । यजिरत्र संगतिकरणवाची । अत्र अस्मिन् ब्राह्मणसंघे त्वम् अविज्ञातार्थमेकं पुरुषं वेद्याभिः वेदितव्याभिः विद्याभिः प्रवृत्तिभिर्वा वि जहुः विशेषेण परित्यजन्ति । अह इति विनिश्चये । ओहब्रह्माणः । ऊह्यमानं ब्रह्म विद्याश्रुतिमतिबुद्धिलक्षणं येषां ते तथोक्ताः । तादृशास्त एके विद्वांसः वि चरन्ति यथाकामं वेदार्थेषु विनिश्चयार्थं प्रवर्तन्ते । उः प्रसिद्धौ। ‘ हृदा तष्टेषु मनसां प्रजवेषु' (निरु. १३. १३ ) इत्यादिकं निरुक्तं द्रष्टव्यम् ॥
“Although Brāhmaṇas who are friends concur in the mental apprehensions which are conceived bythe heart (of the wise), yet in this (assembly) they abandon one man (to ignorance of the sciences) that are to beknown, others again who are reckoned as Brāhmaṇas (wander at will in the meanings of the Veda).”
When friendly Brahmans sacrifice together with mental impulse which the heart hath fashioned,
They leave one far behind through their attainments, and some who count as Brahmans wander elsewhere.
When, having in their hearts gained mental quickness, The Brahmins sacrifice as friends together. Then many a one is left behind in knowledge. While others stride in front with prayers effective.
When, in the mind’s quickness that is fashioned in the heart, brahmins perform the sacrifice together as companions,
then they leave behind some by their knowing ways and others range widely with their lauds and formulations.
Wenn Priester als Genossen Andacht üben in Sprüchen, die aus Geistes Kraft erzeugt sind, So bleibt an Weisheit einer weit dahinten, und andre schreiten vor als echte Priester.
Wann die Brahmanen als Genossen zusammen opfern, während die Einfälle des Geistes im Herzen geformt werden, da lassen sie den einen mit Bedacht abfallen; die anderen treten ab, indem ihre feierlichen Reden Beifall finden.
Когда брахманы (как) друзья вместе приносят жертву,
А в сердце отточены порывы духа,
То кого-то умышленно оставляют позади,
Другие же, чьи молитвы ценятся, выступают вперед.
इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः । त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥
इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः । ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥
अनया वेदार्थानभिज्ञा निन्द्यन्ते । इमे ये अविद्वांसः अर्वाक् अर्वाचीनमधोभाविन्यस्मिल्ँलोके ब्राह्मणैः सह न चरन्ति ये परः परस्तात् देवैः सह न चरन्ति ते ब्राह्मणासः ब्राह्मणाः वेदार्थतत्पराः न भवन्ति । तथा सुतेकरासः । सोमं सुतमभिषुतं कुर्वन्तीति सुतेकरा ऋत्विज्ञः । तेऽपि न भवन्ति । अप्रजज्ञयः । जानते: ‘ आदृगमहनः' इति किप्रत्ययः । अविद्वांसः त एते मनुष्या: वाचं लौकिकीम् अभिपद्य प्राप्य तथा पापया पापकारिण्या वाचा युक्तास्ते सिरीः । ‘ छन्दसीवानिपौ ' इतीप्रत्ययः । ‘ सुपां सुलुक्° ' इति जसः सुः । सीरिणो भूत्वा तन्त्रं कृषिलक्षणं तन्वते विस्तारयन्ति । कुर्वन्तीत्यर्थः । सर्वथा वेदार्थो ज्ञेय इत्यभिप्रायः ॥
“Those who do not walk (with the Brāhmaṇas) in this lower world not (with the gods) in the upperworld-- they are neither Brāhmaṇas nor offerers of libations; they, devoid of wisdom, attaining Speech, havingsin producing (Speech), becoming plural ughmen pursue agriculture.”
Those men who step not back and move not forward, nor Brahmans nor preparers of libations,
Having attained to Vak in sinful fashion spin out their thread in ignorance like spinsters.
Those men who do not hurry here and there with zeal, Who are not Brahmins nor press out the Soma juice, They having gained, to no good end, the power of speech, As unproductive workers weave their web in vain.
Who move neither close nor far away, who are not brahmins, and who do not perform in the soma-pressing,
they, having fallen upon speech in a bad way, stretch streams of water as their warp-thread, producing nothing.
Die, welche nicht vorwärts, nicht rückwärts schreiten [beim Opfer nicht thätig sind], nicht Brahmanen sind, noch bei der Somabereitung thätig sind, diese, wenn sie sich an das Wort heranmachen, weben verkehrt ihr Gewebe wie unverständige Weberinnen.
Die nicht näher und nicht weiter kommen, nicht wirkliche Brahmanen sind, noch bei dem Soma mitwirken, die gebrauchen die Rede in übler Weise und spannen unkundig die fließenden Wasser als Gewebe auf.
Кто не движется ни вперед, ни назад,
(Кто) не (настоящие) брахманы (и) не участвующие в приготовление сомы,
Те, плохо владея Речью,
Ткут по утку (негодную) тряпку, не сознавая (этого).
सर्वे॑ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः । कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥
सर्वे॑ । न॒न्द॒न्ति॒ । य॒शसा॑ । आऽग॑तेन । स॒भा॒ऽसा॒हेन॑ । सख्या॑ । सखा॑यः । कि॒ल्बि॒ष॒ऽस्पृत् । पि॒तु॒ऽसणिः॑ । हि । ए॒षा॒म् । अर॑म् । हि॒तः । भव॑ति । वाजि॑नाय ॥
सखायः समानख्यानाः समानज्ञानाः सर्वे सभ्या मनुष्याः सभासहेन सभां सोढुं शक्नुवता सख्या ऋत्विजां सखिभूतेन यज्ञं प्रति आगतेन यशसा यशस्विना सोमेन हेतुना नन्दन्ति हृष्टा भवन्ति । स हि स एव सोमः एषां जनानां किल्बिषस्पृत् । यः स्वस्मादन्यः पुरुषः श्रेष्ठतामश्नुते स किल्बिषं भवति बाध्यत्वेन । यथा पापं सदाचारैः बाधितव्यं भवति तद्वत् । पापरूपस्य शत्रोर्बाधकः । यद्वा । यज्ञे साध्वनुप्रवचनाकरणेन यत्किल्बिषमेषां जायते तद्यो बाधते स किल्बिषस्पृत् । तथा त्वं पितुषणिः । पितुरित्यन्ननाम दक्षिणा वा । तमनेन सोमेन सनोति यजमानः संभजत इति तादृशः । तेषामन्नदक्षिणादातेत्यर्थः । किंच हितः पात्रेषु निहितः सोमः वाजिनाय । इन्द्रियं वीर्यं वाजिनम् । तेषां वीर्याय तत्कर्तुम् अरम् अलं पर्याप्तः समर्थो भवति । ‘ सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजा ' इत्यादिकम् इन्द्रियं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापच्छिद्यते ' इत्यन्तं ब्राह्मणमत्रानुसंधेयम् (ऐ.ब्रा. १. १३) ॥
“All frinends rejoice when the friendly (libation), the support of the assembly (of the priests), has arrived(at the sacrifice); for (Soma), the remover of iniquity, the giver of sustenance, being plural ced (in the vessels), issufficient for their invigoration.”
All friends are joyful in the friend who cometh in triumph, having conquered in assembly.
He is their blame-averter, food-provider prepared is he and fit for deed of vigour.
All friends rejoice when their companion famous Returns from the assembly hall a victor. He drives away reproach and wins them nurture: He is sent out as fitted for the contest.
All his companions rejoice with a companion who has come in glory, who is overpowering in the assembly,
for, rescuing them from their errors and winning sustenance for them, he is fittingly spurred onward to the competition.
Die Freunde freun sich alle ihres Freundes, wenn herrlicher als Haupt der Dichter ankommt; Er bessert ihre Fehler, hilft zum Wohlstand und stellt sich selbst bereit zum Sänger-Wettkampf.
Alle Genossen freuen sich über den geehrten Genossen, der als der Sieger in der Versammlung ankommt, denn er bewahret sie vor Fehle, verdient für sie Brot. Zum Wettkampf vorgeschickt stellt er seinen Mann.
Все товарищи радуются за (своего) товарища,
Пришедшего со славой, победителя в состязании.
Он спасает их от греха, добывает им питание.
Он достаточно подготовлен, посланный на состязание.
ऋ॒चां त्व॒: पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु । ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥
ऋ॒चाम् । त्वः॒ । पोष॑म् । आ॒स्ते॒ । पु॒पु॒ष्वान् । गा॒य॒त्रम् । त्वः॒ । गा॒य॒ति॒ । शक्व॑रीषु । ब्र॒ह्मा । त्वः॒ । वद॑ति । जा॒त॒ऽवि॒द्याम् । य॒ज्ञस्य॑ । मात्रा॑म् । वि । मि॒मी॒ते॒ । ऊँ॒ इति॑ । त्वः॒ ॥
अनया होत्राद्यृत्विक्कर्मणां विनियोगमाचष्टे । त्वः एको होता ऋचा पोषं यथाविधि कर्मणि प्रयोगं पुपुष्वान् । एको धातुरनुवादार्थः । बह्वीर्ऋचः पुष्यन् शंसन् आस्ते । त्वः एक उद्गाता शक्वरीषु । शक्वर्य ऋचः । अभिर्ऋग्भिर्वृत्रं हन्तुमिन्द्रः समर्थोऽभूदिति शक्वर्यः । तासु गायत्रं साम गायति । त्वः एकः ब्रह्मा च जातविद्यां जाते जाते कर्तव्ये प्रायश्चित्तादौ वेदयित्रीं वाचं वदति । ब्रह्मा हि सर्वं वेदितुं योग्यो भवति खलु ।' चादिलोपे विभाषा' इति न निघातः । त्वः एकोऽध्वर्युश्च यज्ञस्य मात्रां यज्ञो यथा मीयतेऽभिषवग्रहणादिकया क्रियया तां मात्रां यज्ञशरीरं वि मिमीते अत्यर्थं निर्मिमीते । ऋचामेकः पोषमास्ते पुपुष्वान् होतर्गंर्चनी ' ( निरु. १. ८) इत्यादिनिरुक्तानुसारेणार्थोऽभ्यधाथि । एवं बृहस्पतिर्विदितवेदार्थं तुष्टाव ॥ ॥ २४ ॥
“One (the Hotā) is diligent in the repitition of the verses (of the Ṛk); another (the Udgātā) chantsthe Gāyatra (the Sāman) in the Śakvarī metre; another the Brahma declares the knowledge of what is to bedone; another (the Adhvaryu) measures the materials of the sacrifice.”
One plies his constant task reciting verses. one sings the holy psalm in Sakvari measures.
One more, the Brahman, tells the lore of being, and one lays down the rules of sacrificing.
The one sits putting forth rich bloom of stanzas; Another sings a song in skilful metres; A third as Brahmin states the laws of being; A fourth metes out the sacrifice's measure.
The one [=Hotar] sits, blooming a blooming of verses; the other [=Udgātar] sings a song in śakvarī verses.
The one, the formulator [=Brahman], speaks the knowledge born (in him), and the other [=Adhvaryu] measures out the measure of the
sacrifice.
Der eine sitzt, der Lieder Blüten treibend, der andre singt Gesang in vollen Weisen, Der eine spricht gelehrt vom Sein der Dinge, der andre misst des Opfers rechte Maasse.
Der eine sitzt da, die Fülle der Verse mehrend, der andere singt eine Gesangesweise auf Sakvariversen. Der eine trägt als Brahman das vorhandene Wissen vor, der andere bestimmt das Maß des Opfers.
Кто-то сидит, приводя к процветанию гимны,
Кто-то поет мелодию к (стихам) шаквари.
Кто-то – брахман – провозглашает знание происхождения (начал),
А кто-то измеряет меру жертвоприношения.