य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑: । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
यः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ । सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽच्छत् । अव॑रान् । आ । वि॒वे॒श॒ ॥
अत्र निरुक्तं - ‘ विश्वकर्मा सर्वमेधे सर्वाणि भूतानि जुहवांचकार स आत्मानमप्यन्ततो जुहवांचकार । तदभिवादिन्येषर्ग्भवति य इमा विश्वा भुवनानि जुह्वदिति ' (निरु. १०.२६) इति । यः विश्वकर्मैतन्नामकः ऋषिः भुवनपुत्रः होता होमनिष्पादकः सन् विश्वा सर्वाणि भुवनानि जुह्वत् होमं कुर्वन् । प्रथमं सर्वं जगद्धुत्वेत्यर्थः । पश्चादग्नौ न्यसीदत् पिता जनकः । आत्मकृतेन कर्मणा देहोत्पत्तेः । न चैकस्य जन्यजनकभावो विरुध्यते तपोबलेन शरीरद्वयस्वीकारात् । स एकधा भवति' (छा. उ. ७. २६. २) इत्यादिश्रुतेः । सः ऋषिः आशिषा आशीः प्रतिपादकेन सूक्तवाकादिना द्रविणं धनं स्वर्गाख्यम् इच्छमानः कामयमानः प्रथमच्छत् प्रथममग्नेर्भुवनैराच्छादयिता अवरान् विप्रकृष्टान् भूतान् स्वात्मनाहुतान् आ विवेश आविष्टवानग्निमित्युक्तार्थं एव पुनर्विशेषेणोक्तः । एवमुत्तरत्राधियज्ञपरतया योज्यम् । अथाध्यात्मप्रसिद्ध्योच्यते । यो विश्वकर्मा परमेश्वर इमा विश्वा भुवनानि जुह्वत् प्रलयकाले पृथिव्यादीनिमान् सप्त लोकान् स्वात्मन्याहुतिप्रक्षेपवत्संहरन्नृषिरतीन्द्रियद्रष्टा सर्वज्ञो होता संहाररूपस्य होमस्य कर्ता नोऽस्माकं पिता जनको निषसाद स्वयं स्थितवान् । अयमर्थः । प्रलयकाले प्राप्ते सति सर्वाल्ँलोकान् संहृत्यास्माकमपि संहर्ता पुनः स्रष्टा च सन् सर्वज्ञो यः परमेश्वरः स्वयमेक एवासीत् । तथा हि श्रुतयः-- आत्मा वा इदमेक एवाग्र आसीत् ' (ऐ. आ. २. ४. १ ) • सदेव सोम्येदमग्र आसीत् ' ( छा. उ. ६. २. १) इत्यादिकाः। स तादृशः परमेश्वर आशिषा ' बहुः स्यां प्रजायेय' इत्येवंरूपया पुनः पुनः सिसृक्षया द्रविणमिच्छमानः धनोपलक्षितं जगद्भोगमाकाङ्क्षमाणः प्रथमच्छत् प्रथम मुख्यं निष्प्रपञ्चं पारमार्थिकं रूपमावृण्वन्नवरान स्वसृष्टान् प्राणिहृदयप्रदेशाना विवेश आविष्टवान् जीवरूपेण । तथा च श्रूयते -- ‘ सोऽकामयत बहुः स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वेदं सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८. ६) इति । एवमन्या अप्युपनिषद उदाहार्याः ॥
HE who sate down as Hotar-priest, the Rsi, our Father, offering up all things existing,-
He, seeking through his wish a great possession, came among men on earth as archetypal.
The seer who took his place as Hotar, pouring all these living beings in oblation—our father,
seeking wealth with hope, entered the later (generations while)
concealing the first ones.
Der weise Priester, der in alle Wesen sich niederliess als unser Vater opfernd, Ging ein zuerst in diese untern Räume, nach Schätzen strebend durch Gebet der Menschen.
Der Rishi, der als Hotri seinen Platz einnahm, all diese Welten zum Opfer bringend, unser Vater, er ist, mit seiner Bitte Reichtum wünschend, in die späteren Geschöpfe eingegangen, während er die ersten verhüllt.
(Тот) риши, отец наш, что уселся как хотар,
Принося в жертву все эти миры,
Он, ища молитвой богатство,
Проник в последующие (поколения), скрывая первые.
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥
किम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् । यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥
पूर्वमन्त्रे जगत्प्रलयकाले संहृत्य पश्चात्सिसृक्षायां सर्वं सृष्ट्वा तत्र प्रविष्ट इत्युक्तम् । अत्र तस्य द्वितीयस्याधिष्ठानजगदुपादानकारणाद्यसंभवात्सृष्टिरनुपपन्नेस्याक्षिपति । लोके हि घटं चिकीर्षुः कुलालो गृहादिकं किंचित्स्थानमधिष्ठाय मृद्रूपेणारम्भद्रव्येण चक्रादिरूपैरुपकरणैर्घटं निष्पादयति । तद्वदीश्वरस्य जगदाश्रयद्यावापृथिव्योरुत्पादनवेलायाम् अधिष्ठानं किं स्विदासीत् किं नामाभूत् । न किंचिदित्यर्थः । तथा: तयोः आरम्भणं कतमत्स्वित् । आरभ्यतेऽनेनेत्यारम्भणमुपादानकारणम् । तदपि कतमद्भवेत् । तदपि नेत्यर्थः । यद्यपि संभवेदारम्भणं कथासीत् कथमभूत् । किं स्वयं सदसद्वा भवेदित्यर्थः । उभयमपि नोपपद्यते । सच्चेदद्वैतभङ्गप्रसङ्गः । असच्चेत् सदात्मकयोर्द्यावापृथिव्योरुपादानानर्हत्वात नान्यत्किंचन मिषत् ' ( ऐ. आ. २. ४. १ ) इति श्रुतेश्चेत्यभिप्रायः । यतः यस्मादधिष्ठानादारम्भणाच्च विश्वचक्षा: सर्वद्रष्टा विश्वकर्मा परमेश्वरः भूमिं जनयन् वर्तते तथा द्यां दिवं वि और्णोत् व्यवृणोत् सृष्टवान् महिना स्वमहत्वेन । किं स्विदासीदिति ॥
“What was the station? What was the material? How was (it done)? So that the beholder of all,Viśvakarman (was) genitive rating and disclosed heaven by his might.”
What was the place whereon he took his station? What was it that supported him? How was it?
Whence Visvakarman, seeing all, producing the earth, with mighty power disclosed the heavens.
What was the resting place? Which one was providing support? How was it?—
that from which Viśvakarman, producing the earth, (also) uncovered the heaven by his greatness—he who has his eyes on everything.
Was war der Standort, was der feste Haltpunkt, an welchem Orte war's, auf welche Weise, Von wo die Erde schuf der Allvollbringer der alles schaut, mit Macht den Himmel aufthat?
Welches war denn der Standort, welches war wohl der Anfang, und wie war er denn, woraus Visvakarman die Erde erschuf und den Himmel in ganzer Größe enthüllte, er der ganz Auge ist?
Что это было за местоположение?
Какова точка опоры? Как произошло (то),
Благодаря чему Вишвакарман, порождая землю,
Открыл небо (своим) величием, (этот) все охватывающий взглядом?
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥
वि॒श्वतः॑ऽचक्षुः । उ॒त । वि॒श्वतः॑ऽमुखः । वि॒श्वतः॑ऽबाहुः । उ॒त । वि॒श्वतः॑ऽपात् । सम् । बा॒हुऽभ्या॑म् । धम॑ति । सम् । पत॑त्रैः । द्यावा॒भूमी॒ इति॑ । ज॒नय॑न् । दे॒वः । एकः॑ ॥
अनया सर्वात्मकत्वेन कुलालादिविलक्षणत्वादधिष्ठाद्यभावेऽपि स्रष्टुं शक्नोतीत्यह। विश्वतश्चक्षुः सर्वतो व्याप्तचक्षुः । उत अपि च विश्वतोमुखः । तथा विश्वतोबाहुः । उत अपि च विश्वतस्पात् । स एवंविधः परमेश्वरः स्वस्मिंस्त्रैलोक्यमुत्पादयतीत्यर्थः । कथमिति उच्यते । बाहुभ्यां दिवं सं धमति । धमतिर्गतिकर्मा । सम्यक्प्रेरयति । तथा पतत्रैः गमनशीलैः पादैः पृथिवीं सं धमतीति । उभयोरेव श्रवणं प्राधान्याभिप्रायम् । एवं द्यावाभूमी जनयन् दिवं च पृथिवीं चोत्पादयन् देवः द्योतमानः स्वयंप्रकाशः परमेश्वरः एकः असहाय एव वर्तते ॥
“Having eyes everywhere, and having a face everywhere, having arms everywhere, and having feeteverywhere, he traverses (heaven) with his arms, (earth) with his swift-moving (feet), and exists a god withoutcompanion genitive rating heaven and earth.”
He who hath eyes on all sides round about him, a mouth on all sides, arms and feet on all sides,
He, the Sole God, producing earth and heaven, weldeth them, with his arms as wings, together.
Whose eyes and face are turned in every direction, whose arms and feet move in every direction,
producing heaven and earth, he forges them together with his arms, with his fan(-bellows)—he, the god alone.
Er der sein Auge hat an allen Orten, und überall den Mund, die Arm' und Füsse, Der eine Gott mit Armen und mit Schwingen schweisst Erd' und Himmel er zusammen schaffend.
Allenthalben Auge, Gesicht, Arm und Fuß, schweißt er sie mit den Armen und den Schwingen zusammen, als er Himmel und Erde erschuf, der einzige Gott.
Имея повсюду глаза и повсюду лицо,
Повсюду – руки и повсюду – ноги.
Он сплавляет (все) вместе (своими) руками, (своими) крыльями,
Порождая небо и землю, единый бог.
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥
किम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊँ॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥
पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति । तदेवानया प्रश्नकथनव्याजेनोच्यते । लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कंचित् महान्तं वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं संपादयति । इह तु परमेश्वरप्रेरिता जगत्स्रष्टारः यतः यस्माद्विनाद्यं वृक्षमादाय द्यावापृथिवी निष्टतक्षुः तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः तत् वनं किं स्वित् किं नाम स्यात् । तथा क उ स वृक्ष आस कस्तादृशो महान् वृक्षोऽभूत् । हे मनीषिणः मनस ईश्वराः तदुभयं मनसा जिज्ञासायुक्तेन पृच्छतेदु पृच्छतैव। किंच ईश्वरः भुवनानि धारयन् यत् स्थानम् अध्यतिष्ठत् तत् अपि पृच्छत । एतस्य सर्वस्याप्युत्तरं ‘ ब्रह्म स वृक्ष आसीत् ' इत्यादिकमुत्तरम् ॥
15अथाष्टमीमाह । लोके हि गृहं चिकीर्षुः पुमान् वनं गत्वा तत्र कंचिद्वृक्षं छित्वा तदीयैः काष्ठैर्गृहं निर्मिमीते । तद्दृष्टान्तेनात्रापि यतः यस्माद्वनजन्याद्वृक्षात् द्यावापृथिवी द्युलोकभूलोकौ निष्टतक्षुः तक्षणेन निर्मितारो निर्मितवन्तः । तादृशं वनं किंस्विद्भवेत् । कश्च तादृशः स वृक्ष आसीत् । हे मनीषिणो बुद्धिमन्तः मनसा स्वकीयेन विचार्य तदिदमर्थद्वयमाचार्यसमीपे पृच्छत । किंच यत्कारणभूतं वस्तु भुवनानि सर्वाल्ँ लोकान् स्वात्मनि धारयन्नध्यतिष्ठत् नियमनमकरोत् तदिदु तदपि वस्तु पृच्छत ॥
“Which was the forest, which the tree, from which they fabricated heaven and earth? Inquire, sages, inyour minds what (plural ce) he was stationed in when holding the worlds.”
What was the tree, what wood in sooth produced it, from which they fashioned out the earth and heaven?
Ye thoughtful men inquire within your spirit whereon he stood when he established all things.
What was the wood? What was the tree?—out of which they fashioned heaven and earth.
O you of inspired thought [=priests], in your thinking ask about that upon which he rested, giving support to living beings.
Was war der Wald, und was war jener Baum doch, aus dem sie Erd' und Himmel schön gezimmert? Mit eurem Geiste forscht danach, ihr weisen, worauf er stand, als er die Welten stützte.
Welches war denn das Holz, welches der Baum, aus dem sie Himmel und Erde zimmerten? Ihr Nachdenkende, forschet in eurem Geiste darnach, worauf er stand, als er die Welten befestigte?
Что это была за древесина и что за дерево,
Из чего вытесали небо и землю?
О вы, способные думать, спросите же мыслью (своей) о том,
На чем стоял он, укрепляя миры?
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥
या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा । शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥
अनया भौवनो विश्वकर्मा जगत्कारणं विश्वकर्मदेवं स्तौति । हे विश्वकर्मन् या यानि ते तव परमाणि धामानि शरीराणि सन्ति या यानि च मध्यमा मध्यमानि शरीराणि सन्ति उत अपि च या यानि अवमा अवमानि शरीराणि सन्ति उतापि च तानीमानि सर्वाणि शरीराणि सखिभ्यः अस्मभ्यं यष्टुं हविषि मयि हविर्भूते सति शिक्ष देहि । हे स्वधावः हविर्लक्षणान्नवन् स्वयम् एव त्वं तन्वं स्वकीयं पूर्वोक्तं त्रिविधं शरीरं वृधानः हविषा वर्धमानः सन् । अनेन धामत्रैविध्योपन्यासेनो त्तमभूतानि देवादिशरीराणि मध्यमभूतानि मनुष्यादिशरीराणि निकृष्टभूतानि कृमिकीटादिशरीराणि च परिगृहीतानि । किं बहुना सर्वं जगदुपात्तं भवति । उक्तव्यतिरेकेण निरवयवस्य परमेश्वरस्य विग्रहाभावात् तदैक्षत बहुः स्यां प्रजायेय ' (छा. उ. ६. २. ३) इत्यादिश्रुतिभ्यः परमेश्वरस्यैव देवादिभेदेन बहुभावावगमात् ॥
“Grant to your friends, Viśvakarman, at the oblation, your best, your worst and your intermediate forms,and to these do you yourself, possessor of the oblation, becoming augmented in person n (by oblations), offerworship.”
Nine highest, lowest, sacrificial natures, and these thy mid-most here, O Visvakarman,
Teach thou thy friends at sacrifice, O Blessed, and come thyself, exalted, to our worship.
What are your highest domains, what your lowest, and these that are your midmost, Viśvakarman—
do your best for them for the sake of your companions at the oblation, o you of independent will. Increasing your own person, by yourself
sacrifice for yourself.
Wo deine höchsten, wo die tiefsten Stätten, wo deine mittelsten, o Allvollbringer, Das zeig beim Opfer, göttlicher, den Freunden, du starker, bring' den eignen Leib zum Opfer.
Was deine höchsten Formen, deine niedrigsten und diese mittleren, o Visvakarman, sind, die versuche den Genossen bei dem Opfer begreiflich zu machen, du Eigenartiger; bring dir selbst das Opfer, deinen Leib stärkend!
(Те) твои состояния, которые высшие, которые низшие,
А также те, которые средние, о Вишвакарман,
Помоги (понять их) друзьям при жертвоприношении, о самосущий!
Сам принеси в жертву (свое) тело, (тем самым) укрепляя (его)!
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥
विश्व॑ऽकर्मन् । ह॒विषा॑ । व॒वृ॒धा॒नः । स्व॒यम् । य॒ज॒स्व॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । मुह्य॑न्तु । अ॒न्ये । अ॒भितः॑ । जना॑सः । इ॒ह । अ॒स्माक॑म् । म॒घऽवा॑ । सू॒रिः । अ॒स्तु॒ ॥
हे विश्वकर्मन् विश्वविषयकर्मन्नेतन्नामक परमेश्वर हविषा हविर्भूतेन मया विश्वकर्मणा मया दत्तेन वा हविषा ववृधानः वर्धमानः । ‘ विश्वकर्मा सर्वाणि भूतानि जुहवांचकार स आत्मानमप्यन्ततो जुहवांचकार ' इति हि निरुक्तं पूर्वमुदाहृतम् । स्वयम् एव पृथिवीम् उत अपि च द्यां दिवं च स्वसृष्टे द्यावापृथिव्यौ स्वयं प्रवृद्धः सन् यजस्व पूजय । अन्ये मत्तोऽन्ये जनासः जना अयष्टारोऽस्मद्यागविरोधिनी वा मुह्यन्तु मुग्धा भवन्तु अभितः सर्वतः । अथ परोक्षकृतः । इह अस्मिन्यागे अस्माकं मघवा अस्मत्प्रत्तेन हविर्लक्षणेन धनेन धनवान् सः सूरिः स्वर्गादिफलस्य प्रेरकः अस्तु भवतु । अत्र विश्वकर्मन् हविषा वर्धमानः ' (निरु. १०. २७) इत्यादि निरुक्तमनुसंधेयम् ॥
“VIśvakarman, magnified by the oblation, do you of yourself worship earth and heaven; let other men(who offer no oblations) be everywhere confounded; may he, rich in oblations, be the granter of heaven at thisour (sacrifice).”
Bring thou thyself, exalted with oblation, O Visvakarman, Earth and Heaven to worship.
Let other men around us live in folly here let us have a rich and liberal patron.
O Viśvakarman, since you are increased through the oblation, by yourself win earth and heaven by sacrifice.
Let the other peoples all around be left in confusion; for us here let there be a generous patron!
O Allvollbringer, durch das Opfer wachsend, bring' Opfer selbst dem Himmel und der Erde, Lass andere Menschen rings in Thorheit irren, bei uns hier sei er unser mächt'ger Herrscher.
O Visvakarman, durch Opferspende gestärkt opfere dir selbst die Erde und den Himmel! Die anderen Leute allenthalben mögen in der Irre gehen; uns soll hier ein freigebiger Auftraggeber werden.
О Вишвакарман, укрепив себя возлиянием,
Сам принеси себе в жертву землю и небо!
Да собьются с пути другие люди вокруг!
Да будет для нас здесь щедрый покровитель!
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥
वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ । सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥
वाचस्पतिं मन्त्रात्मकस्य वचसः स्वामिनं विश्वकर्माणं विश्वकर्तारं मनोजुवं मनोवेगगमनं देवं वाजे यज्ञे अद्य अस्मिन्दिने ऊतये तर्पणाय हुवेम आह्वयाम । सः देवः नः अस्माकं विश्वानि सर्वाणि हवनानि जोषत् सेवताम् । किमर्थम् । अवसे अस्माकं रक्षणाय । स विशेष्यते । विश्वशंभूः विश्वस्य सुखस्योत्पादकः साधुकर्मा च ॥ ॥ १६ ॥
“Let us this day invoke for our protection the lord of speech, the creator of all, who is swift as thought;may he, the bestower of all happiness, the doer of good works, be propitiated by all our oblations, (so as) togrant us his protection.”
Let us invoke to-day, to aid our labour, the Lord of Speech, the thought-swift Visvakarman.
May he hear kindly all our invocations who gives all bliss for aid, whose works are righteous.
We would today summon the Lord of Speech, Viśvakarman, swift as thought, for help in the contest.
He will take pleasure in every oblation of ours—he who is luck for
everyone, whose work succeeds—to give us help.
Lasst uns den Herrn des Lieds, den Allvollbringer, den Mutherreger heut beim Kampfe rufen, Er höre freundlich alle unsre Lieder, allsegnend, uns zum Heile herrlich wirkend.
Den Meister der Rede, den gedankenerweckenden Visvakarman, wollen wir heute bei dem Wettstreit zum Beistand rufen. Er möge an allen unseren Anrufungen Gefallen haben, der Allwohltätige, Guteswirkende zur Gnade.
Повелителя речи, Вишвакармана, быстрого, как мысль,
Мы хотим призывать сегодня на помощь при состязании.
Пусть радуется он всем нашим призывам,
(Этот) приносящий всем благо, совершающий добрые дела (нам) в поддержку!