स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥
स॒हस्र॑ऽशीर्षा । पुरु॑षः । स॒ह॒स्र॒ऽअ॒क्षः । स॒हस्र॑ऽपात् । सः । भूमि॑म् । विश्वतः॑ । वृ॒त्वा । अति॑ । अ॒ति॒ष्ठ॒त् । द॒श॒ऽअ॒ङ्गु॒लम् ॥
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा । सहस्रशब्दस्योपलक्षणत्वादनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च । सः पुरुषः भूमिं ब्रह्माण्डगोलकरूपां विश्वतः सर्वतः वृत्वा परिवेष्ट्य दशाङ्गुलं दशाङ्गुलपरिमितं देशम् अत्यतिष्ठत् अतिक्रम्य व्यवस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः॥
“Puruṣa, who has a thousand heads, a thousand eyes, a thousand feet, investing the earth in alldirections, exceeds (it by a space) measuring ten fingers.”
A THOUSAND heads hath Purusa, a thousand eyes, a thousand feet.
On every side pervading earth he fills a space ten fingers wide.
The Man has a thousand heads, a thousand eyes, and a thousand feet. Having covered the earth on all sides, he extended ten fingers’ breadth beyond.
Tausendköpfig war der Urmensch, tausendäugig, tausendfüssig; nachdem er die Erde von allen Seiten überdeckt hatte, ragte er noch zehn Finger lang darüber hinaus.
Tausendköpfig, tausendäugig, tausendfüßig ist Purusa; er bedeckte vollständig die Erde und erhob sich zehn Finger hoch darüber.
Пуруша – тысячеглавый.
Тысячеглазый, тысяченогий.
Со всех сторон покрыв землю,
Он возвышался (над ней еще) на десять пальцев.
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
पुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् । उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥
यद् इदम् वर्तमानं जगत्सर्वं पुरुष एव।
यच् च भुतम् अतीतम् जगद् यच् च भव्यं भविष्यज्जगत् तदपि पुरुष एव। यथास्मिन् कल्पे वर्तमानाः प्राणि-देहाः सर्वेऽपि विराट्-पुरुशस्यावयवाः - तथैवातीतागमिनोर् अपि कल्पयोर् द्रष्टव्यम् इत्य् अभिप्रायः।
उताऽपि चामृतत्वेस्य देवत्वस्यायम् ईशानः स्वामी।
यद् यस्मात् कारणादन्नेन प्राणिनां भोग्येनाऽन्नेन निमित्त-भूतेनाऽति-रोहति स्वकीयां कारणावस्थाम् अतिक्रम्य परिदृश्यमानाम् जगद्-अवस्थां प्राप्नोति, तस्मात् प्राणिनां कर्म-फल-भोगाय जगद्-अवस्था-स्वीकारान् नेदम् तस्य वस्तुत्वम् इत्य् अर्थः॥२॥
“Puruṣa is verily all this (visible world), all that is, and all that is to be; he is also the lord of immortality;for he mounts beyond (his own condition) for the food (of living beings).”
This Purusa is all that yet hath been and all that is to be;
The Lord of Immortality which waxes greater still by food.
The Man alone is this whole (world): what has come into being and what is to be.
Moreover, he is master of immortality when he climbs beyond (this
world) through food.
Der Urmensch ist alles dies, was gewesen ist, und was sein wird; er gebietet über das Unsterbliche, was durch Speise [Opferspeise] noch höher wächst [herrlicher wird].
Purusa allein ist diese ganze Welt, die vergangene und die zukünftige, und er ist der Herr über die Unsterblichkeit und auch über das, was durch Speise noch weiter wächst.
В самом деле, Пуруша – это вселенная,
Которая была и которая будет.
Он также властвует над бессмертием.
Потому что перерастает (все) благодаря пище.
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
ए॒तावा॑न् । अ॒स्य॒ । म॒हि॒मा । अतः॑ । ज्याया॑न् । च॒ । पुरु॑षः । पादः॑ । अ॒स्य॒ । विश्वा॑ । भू॒तानि॑ । त्रि॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥
अतीतानागत-वर्तमान-रूपं जगद् यावद् अस्ति एतावान् सर्वोऽप्य् अस्य पुरुषस्य महिमा। स्वकीय-सामर्थ्य-विशेषः। न तु तस्य वास्तव-स्वरूपम्।+++(5)+++ वास्तवस्तु पुरुषोऽतो महिम्नोऽपि ज्यायान्। अतिशयेनाधिकः। एतच्चोभयं स्पष्टीक्रियते। अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादः। चतुर्थोऽंशः। अस्य पुरुषस्यावशिष्टं त्रिपात्स्वरूपममृतं विनाशरहितं सद्दिवि द्योतनात्मकेस्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेशः। यद्यपि सत्यं ज्ञानमनन्तं ब्रह्म। तै. आ. ८-१- उ. २-१। इत्याम्नातस्य परब्रह्मन इयत्ताभावात्पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मस्वरूपपेक्षयाल्पमिति विवक्षितत्वात्पादत्वोपन्यासः॥३॥
“Such is his greatness; and Puruṣa is greater even than this; all beings are one-fourth of him; his otherthree-fourths, (being) immortal, (abide) in heaven.”
So mighty is his greatness; yea, greater than this is Purusa.
All creatures are one-fourth of him, three-fourths eternal life in heaven.
So much is his greatness, but the Man is more than this:
a quarter of him is all living beings; three quarters are the immortal in heaven.
So bedeutend ist seine Grösse, und noch grösser ist der Urmensch; ein Viertel von ihm sind alle Geschöpfe, und drei Viertel von ihm die Welt der Unsterblichen im Himmel.
Solches ist seine Größe und noch gewaltiger als dies ist Purusa. Ein Viertel von ihm sind alle Geschöpfe, drei Viertel von ihm ist das Unsterbliche im Himmel.
Таково его величие,
И еще мощнее этого (сам) Пуруша.
Четверть его – все существа.
Три четверти его – бессмертие на небе.
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒: पादो॑ऽस्ये॒हाभ॑व॒त्पुन॑: । ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥
त्रि॒ऽपात् । ऊ॒र्ध्व । उत् । ऐ॒त् । पुरु॑षः । पादः॑ । अ॒स्य॒ । इ॒ह । अ॒भ॒व॒त् । पुन॒रिति॑ । ततः॑ । विष्व॑ङ् । वि । अ॒क्रा॒म॒त् । सा॒श॒ना॒न॒श॒ने इति॑ । अ॒भि ॥
योऽयं त्रिपात् पुरुषः संसाररहितो ब्रह्मस्वरूपः सोऽयम् ऊर्ध्व उदैत् अस्मादज्ञानकार्यात्संसाराद्बहिर्भूतोऽत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान्। तस्य अस्य सोऽयं पादः लेशः सोऽयम् इह मायायां पुनः अभवत् सृष्टिसंहाराभ्यां पुनःपुनरागच्छति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तं---- विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' ( भ. गी. १०. ४२) इति । ततः मायायामागत्यानन्तरं विष्वङ् देवमनुष्यतिर्यगादिरूपेण विविधः सन् व्यक्रामत् व्याप्तवान् । किं कृत्वा । साशनानशने अभिलक्ष्य । साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातम् अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥
“Three-fourths of Puruṣa ascended; the other fourth that remained in this world proceeds repeatedly,and, diversified in various forms, went to all animate and inanimate creation.”
With three-fourths Purusa went up: onefourth of him again was here.
Thence he strode out to every side over what cats not and what cats.
With his three quarters the Man went upward, but a quarter of him came to be here again.
From there he strode out in different directions toward what eats and what does not eat.
Mit drei Vierteln ging der Urmensch oben hinauf, ein Viertel von ihm erschien wieder hier, dann verbreitete er sich über alles, was Speise geniesst, und was sie nicht geniesst.
Zu drei Vierteln stieg Purusa empor, ein Viertel von ihm verjüngte sich hienieden. Von dem aus ging er nach allen Seiten auseinander und erstreckte sich über alles was Speise ißt und was nicht ißt.
На три четверти взошел Пуруша вверх.
Четверть его возникла снова здесь.
Оттуда он выступил повсюду,
(Распространяясь) над тем, что ест (пищу) и что не ест.
तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
तस्मा॑त् । वि॒राट् । अ॒जा॒य॒त॒ । वि॒ऽराजः॑ । अधि॑ । पुरु॑षः । सः । जा॒तः । अति॑ । अ॒रि॒च्य॒त॒ । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पु॒रः ॥
विष्वङ् व्यक्रामद् इति यदुक्तं तद् एवात्र प्रपञ्च्यते । तस्मात् आदिपुरुषात् विराट् ब्रह्माण्ड-देहः अजायत उत्पन्नः । विविधानि राजन्ते वस्तून्यत्रेति विराट् । विराजोऽधि विराड्-देहस्योपरि - तम् एव देहम् अधिकरणं कृत्वा पुरुषः तद्देहाभिमानी कश्चित् पुमान् अजायत ।
सोऽयं सर्ववेदान्तवेद्यः परमात्मा स्वयम् एव स्वकीयया मायया विराड्-देहं ब्रह्माण्ड-रूपं सृष्ट्वा तत्र जीव-रूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् ।+++(4)+++ एतच् चाथर्वणिका उत्तर-तापनीये विस्पष्टम् आमनन्ति----
> स वा एष
> भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा
> प्रविश्यामूढो मूढ इव व्यवहरन्न् आस्ते माययैव
> (नृ. ता. २. १, ९)
इति । स जातः विराट् पुरुषः अत्यरिच्यत अतिरिक्तोऽभूत् । विराड्-व्यतिरिक्तो देव-तिर्यङ्-मनुष्यादिरूपोऽभूत् ।
पश्चात् देवादि-जीव-भावाद् ऊर्ध्वं भूमिं ससर्जेति शेषः । अथो भूमिसृष्टेर् अनन्तरं तेषां जीवानां पुरः ससर्ज ।
पूर्यन्ते सप्तभिर् धातुभिर् इति पुरः शरीराणि ॥॥१७॥
“From him was born Virāt. and from Virāt. Puruṣa; he, as soon as born, became manifested, andafterwards (created) the earth (and) then corporeal forms.”
From him Viraj was born;
again Purusa from Viraj was born.
As soon as he was born he spread eastward and westward o'er the earth.
From him the Virāj was born; from the Virāj the Man.
Upon his birth, he reached beyond the earth from behind and also from in front.
Von ihm ward der Allherrscher [virâj] geboren und vom Allherrscher der Urmensch. Als er geboren war überragte er die Erde von hinten und von vorn.
Aus ihm ward die Viraj geboren, aus der Viraj der Purusa. Geboren ragte er hinten und vorn über die Erde hinaus.
От него Вирадж родилась,
От Вираджи – Пуруша.
Родившись, он стал выступать
Над землей сзади и спереди.
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत । व॒स॒न्तः । अ॒स्य॒ । आ॒सी॒त् । आज्य॑म् । ग्री॒ष्मः । इ॒द्मः । श॒रत् । ह॒विः ॥
यत् यदा पूर्वोक्तक्रमेणैव शरीरेषुत्पन्नेषु सत्सु देवाः उत्तरसृष्टिसिद्धयर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन हविरन्तरसंभवात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य पुरुषेण पुरुषाख्येन हविषा मानसं यज्ञम् अतन्वत अन्वतिष्ठन् तदानीम् अस्य यज्ञस्य वसन्तः वसन्तर्तुरेव आज्यम् आसीत् अभूत् । तमेवाज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीष्म इध्मः आसीत्। तमेवेध्मत्वेन संकल्पितवन्त इत्यर्थः। तथा शरद्धविः आसीत् । तामेव पुरोडाशादिहविष्ट्वेन संकल्पितवन्त इत्यर्थः । पूर्वं पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः । अनन्तरं वसन्तादीनामाज्यादिविशेषरूपत्वेन संकल्प इति द्रष्टव्यम् ॥
“When the gods performed the sacrifice with Puruṣa as the offering, then Spring was its ghī, Summerthe fuel, and Autumn the oblation.”
When Gods prepared the sacrifice with Purusa as their offering,
Its oil was spring, the holy gift was autumn; summer was the wood.
When, with the Man as the offering, the gods extended the sacrifice, spring was its melted butter, summer its firewood, autumn its offering.
Als die Götter ihr Opfer mit dem Urmenschen als dem Opfertrank kunstvoll bereiteten, da war der Frühling sein Opferschmalz, der Sommer sein Brennholz, der Herbst sein Opfertrank.
Als die Götter mit Purusa das Opfer vollzogen, da war der Frühling dessen Schmelzbutter, der Sommer das Brennholz, der Herbst die Opfergabe.
Когда боги предприняли жертвоприношение
С Пурушей как с жертвенным даром,
Весна была его жертвенным маслом,
Лето – дровами, осень – жертвенным даром.
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥
तम् । य॒ज्ञम् । ब॒र्हिषि॑ । प्र । औ॒क्ष॒न् । पुरु॑षम् । जा॒तम् । अ॒ग्र॒तः । तेन॑ । दे॒वाः । अ॒य॒ज॒न्त॒ । सा॒ध्याः । ऋष॑यः । च॒ । ये ॥
No commentary available
No translations available
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒: सम्भृ॑तं पृषदा॒ज्यम् । प॒शून्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । सम्ऽभृ॑तम् । पृ॒ष॒त्ऽआ॒ज्यम् । प॒शून् । तान् । च॒क्रे॒ । वा॒य॒व्या॑न् । आ॒र॒ण्यान् । ग्रा॒म्याः । च॒ । ये ॥
No commentary available
No translations available
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒: सामा॑नि जज्ञिरे । छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥
तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । ऋचः॑ । सामा॑नि । ज॒ज्ञि॒रे॒ । छन्दां॑सि । ज॒ज्ञि॒रे॒ । तस्मा॑त् । यजुः॑ । तस्मा॑त् । अ॒जा॒य॒त॒ ॥
No commentary available
No translations available
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वय॑: ॥
तस्मा॑त् । अश्वाः॑ । अ॒जा॒य॒न्त॒ । ये । के । च॒ । उ॒भ॒याद॑तः । गावः॑ । ह॒ । ज॒ज्ञि॒रे॒ । तस्मा॑त् । तस्मा॑त् । जा॒ताः । अ॒जा॒वयः॑ ॥
No commentary available
No translations available
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥
यत् । पुरु॑षम् । वि । अद॑धुः । क॒ति॒धा । वि । अ॒क॒ल्प॒य॒न् । मुख॑म् । किम् । अ॒स्य॒ । कौ । बा॒हू इति॑ । कौ । ऊ॒रू इति॑ । पादौ॑ । उ॒च्ये॒ते॒ इति॑ ॥
No commentary available
No translations available
ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्य॑: कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्य॑: प॒द्भ्यां शू॒द्रो अ॑जायत ॥
ब्रा॒ह्म॒णः॑ । अ॒स्य॒ । मुख॑म् । आ॒सी॒त् बा॒हू इति॑ । रा॒ज॒न्यः॑ । कृ॒तः । ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ । प॒त्ऽभ्याम् । शू॒द्रः । अ॒जा॒य॒त॒ ॥
No commentary available
No translations available
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒: सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
च॒न्द्रमा॑ । मन॑सः । जा॒तः । चक्षोः॑ । सूर्यः॑ । अ॒जा॒य॒त॒ । मुखा॑त् । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । प्रा॒णात् । वा॒युः । अ॒जा॒य॒त॒ ॥
No commentary available
No translations available
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥
नाभ्याः॑ । आ॒सी॒त् । अ॒न्तरि॑क्षम् । शी॒र्ष्णः । द्यौः । सम् । अ॒व॒र्त॒त॒ । प॒त्ऽभ्याम् । भूमिः॑ । दिशः॑ । श्रोत्रा॑त् । तथा॑ । लो॒कान् । अ॒क॒ल्प॒य॒न् ॥
No commentary available
No translations available
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिध॑: कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
स॒प्त । अ॒स्य॒ । आ॒स॒न् । प॒रि॒ऽधयः॑ । त्रिः । स॒प्त । स॒म्ऽइधः॑ । कृ॒ताः । दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑ध्नन् । पुरु॑षम् । प॒शुम् ॥
No commentary available
No translations available
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् । ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥
पूर्व प्रपञ्चेनोक्तमर्थं संक्षिप्यात्र दर्शयति । देवाः प्रजापतिप्राणरूपाः यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिम् अयजन्त पूजितवन्तः । तस्मात्पूजनात् तानि प्रसिद्धानि धर्माणि जगद्-रूप-विकाराणां धारकाणि प्रथमानि मुख्यानि आसन् । एतावता सृष्टि-प्रतिपादक-सूक्त-भागार्थः संगृहीतः ।
अथोपासन-तत्-फलानुवादक-भागार्थः संगृह्यते ।
यत्र यस्मिन् विराट्प्राप्ति-रूपे नाके पूर्वे साध्याः पुरातना विराड्-उपास्ति-साधकाः देवाः सन्ति तिष्ठन्ति तत् नाकं विराट्-प्राप्ति-रूपं स्वर्गं ते महिमानः तद्-उपासका महात्मानः सचन्त समवयन्ति प्राप्नुवन्ति ॥ ॥ १९ ॥ ॥ ७ ॥
“By sacrifice the gods worshipped (him who is also) the sacrifice; those were the first duties. Thosegreat ones became partakers of the heaven where the ancient deities the Sādhyas abide. 10.091.01 Damūnas, being glorified by his diligent (worshippers), desiring food upon the footmark of Iḷā, iskindled in the chamber (of sacrifice), the offerer of every oblation, the object of veneration, the lord, theresplendent, to him who desires his friendship.”
Gods, sacrificing, sacrificed the victim these were the earliest holy ordinances.
The Mighty Ones attained the height of heaven, there where the Sidhyas, Gods of old, are dwelling.
With the sacrifice the gods performed the sacrifice for themselves: these were the first foundations.
These, its greatness, accompanied (it) to heaven’s vault,
where the ancient Sādhyas and the gods are.
Durch Opfer opferten die Götter das Opfer; das waren die ersten Bräuche; sie, die erhabenen, gelangten zum Gipfel des Himmels, wo die alten zu gewinnenden [sādhyās] Götter sind.
Mit dem Opfer opferten die Götter dem Opfer. Dies waren die ersten Normen des Opfers. Diese Mächte schlossen sich dem Himmel an, in dem die früheren Götter, die Sadhya´s, sich befinden.
Жертвою боги пожертвовали жертве.
Таковы были первые формы (жертвоприношения).
Эти же могущества последовали на небо,
Где находятся прежние боги – садхья.