कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ । कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥
हे इन्द्र नः अस्माकं चित्रं चायनीयं कं धनविशेषम् इषण्यसि प्रेरयसि । चिकित्वान् सर्वथा प्रेरणीयमिति जानन् । कीदृशं तम् । पृथुग्मानं पृथुभावं प्राप्नुवन्तं वाश्रं शब्दनीयं स्तुत्यम् । किमर्थम्। ववृधध्यै अस्माकं वर्धनाय । किंच तस्य इन्द्रस्य शवसः बलस्य व्युष्टौ व्युच्छने सति कत् दातु किं दानमस्माकं भवतीति शेषः । यं वज्रं वृत्रतुरं वृत्रस्यावरकस्य पापस्य हिंसकं त्वष्टा तक्षत् अतक्षत् साधु संपादितवान् अपिन्वत् असिञ्चच्च । तस्य शवसो व्युष्टाविति संबन्धः । यद्वा । हे इन्द्र कत् किं तस्य वज्रस्य दानं भवति यं वज्रमिन्द्रार्थं तक्षदिति योजना । ‘मह्यं त्वष्टा वज्रमतक्षदायसम्' ( ऋ. सं. १०, ४८. ३ ) इति मन्त्रान्तरम् ॥
“What marvellous (wealth), comprehensive and laudable, do you, Indra, knowing (what is needed),bestow upon us for our advantage? What gift (has been made to us) upon the development of his strength? Hefabricated the Vṛtra- slaying thunderbolt, and let the waters flow.”
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
Which bright bellower of ours do you, taking cognizance, send speeding along the broad earth for strengthening?
What is his share of strength at the break of dawn? He fashioned the mace that overcomes obstacles; he made it swell.
Wer ist der laute Rufer, weithinschreitend, den du, o weiser, zu erhöhn uns antreibst? Was ist sein Antheil am Erstehn der Stärke? er schuf den Blitz, gab Kraft dem Feindbewinger.
Welches wunderbare Preislied verlangst du von uns als Kenner, um dich, den breitspurigen Brüller zu erbauen? Welche Gabe wird im Erwachen seiner Kraft die Keule zimmern, wenn sie den Vritraüberwinder aufgeschwellt hat?
Какое яркое (богатство и стадо) ты, сведущий, пригоняешь к нам,
Широкошагающее, мычащее, с тем, чтобы оно увеличилось?
Каковы его доля при вспышке (его) силы?
(Тваштар) выточил (ему) ваджру, поражающую врагов. Он сделал (воды) набухшими.
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥
सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । स॒सा॒द॒ । सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥
स हिः स खल्विन्द्रः द्युता द्योतमानेन विद्युता एतन्नामकेनायुधेन युक्तः सन् साम स्तोत्रात्मकं यज्ञसंबन्धि वेति गच्छति । तथा असुरत्वा असुरत्वेन बलेन युक्तः सन् पृथुं विस्तीर्णं योनिं फलस्योत्पादकं यज्ञं ससाद संगतो भवति । सः इन्द्रः सनीळेभिः । नीडं विमानम्। सविमानैर्मरुद्भिर्युक्तः सन् प्रसहानः अभिभवन् भवति । तस्य सप्तथस्य आदित्यानां धात्रादीनां मध्ये सप्तमस्येन्द्रस्य भ्रातुः भागैर्भक्तव्यस्य माया आसुरी ऋते यज्ञे न संभवतीति शेषः ॥
“Armed with the bright lightning he goes to the (scene of) adoration; endowed with might he has seatedhimself on the spacious plural ce (of sacrifice); he (is) triumphant with his companions (the Maruts); the wiles of hisseventh brother do not (prevail) at the rite.”
He goes to end his work with lightning flashes: wide is the seat his Asura glory gives him.
With his Companions, not without his Brother, he quells Saptatha's magic devices.
For he pursues the melody with his flashing, with his lightning. He has taken his seat upon the broad womb through his lordliness.
Together with the nest-mates and not without his brother, he is the one who prevails over the magic tricks of the seventh.
Mit hellem Blitze geht er an sein Werk ja, mit Göttermacht nimmt Platz im weiten Sitz er, mit seiner Schar des Feindes List besiegend, wie nach dem Brauch des siebenten der Brüder.
Denn er begehrt mit Leuchten, mit Blitzen den Gesang; er hat sich auf den breiten Platz gesetzt in seiner Asurawürde; er der mit den Nestbrüdern nicht ohne den Bruder die Blendwerke dieses Siebenten bewältigt.
Ведь с помощью сверкания молнии достигает он исполнения.
Благодаря (своей) природе асуры он сел на широкое лоно.
Он (тот,) кто вместе с (этими) из одного гнезда побеждает
Не без (поддержки) брата колдовские чары этого седьмого.
स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् । अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥
सः । वाज॑म् । याता॑ । अप॑दुःऽपदा । यन् । स्वः॑ऽसाता । परि॑ । स॒द॒त् । स॒नि॒ष्यन् । अ॒न॒र्वा । यत् । श॒तऽदु॑रस्य । वेदः॑ । घ्नन् । शि॒श्नऽदे॑वान् । अ॒भि । वर्प॑सा । भूत् ॥
वाजं शूरैर्गन्तव्यं संग्रामं याता सः इन्द्रः । ‘न लोकाव्यय” इति षष्ठीप्रतिषेधः । अपदुष्पदा अपगतदुष्टपतनेन यन् गच्छन् सनिष्यन् तत्र शत्रुधनानि संभक्तुमिच्छन् परि षदत् परिषीदति । कुत्रेति उच्यते । स्वर्षाता स्वर्षातौ सर्वलाभोपेते संग्रामे। किंच अनर्वा युद्धे अप्रत्यृत इन्द्रः शतदुरस्य शतद्वारस्य शत्रुपुरस्य अन्तर्निहितं यत् वेदः धनमस्ति तद्धनं वर्पसा आवरकेण बलेन अभि भूत् अभिभवति । किं कुर्वन् । शिश्नदेवान् अब्रह्मचर्यान् शतद्वारेषु शत्रुपुरसंबन्धिषु वर्तमानान् घ्नन् हिंसन् ॥
“Going to the battle, marching with easy gait, desiring the spoil, he set himself to the acquisition of all(wealth). Invincible, destroying the phallus-worshippers, he won by his prowess whatever wealth (was concealedin the city) with the hundred gates.”
On most auspicious path he goes to battle he toiled to win heaven's light, full fain to gain it;
He seized the hundred-gated castle's treasure by craft, unchecked, and slew the lustful demons.
He is the one who drives to the prize, though going with a (horse?) whose “off” foot is lame [?]. At the winning of the sun, intending to win he laid siege to it,
when, unassailable, smashing the phallus-worshipers, with his form he prevailed over the property of (the place?) with a hundred doors.
Mit sicherm Schritte ging er aus auf Beute | und war bemüht, im Kampf sie zu erlangen, | als er den Schatz der hundertthor'gen Feste | mit Kraft errang, unhemmbar, Unhold tödtend.
Er gelangt zum Siegerpreis mit einem Nichtlahmen gehend, im Kampf um die Sonne belagerte er, um sie zu gewinnen, als der Unerreichte in Verwandlung die Habe des Hunderttorigen beschlich und die Phallusanbeter erschlug.
Он направляется за добычей, двигаясь (путем), далеким для хромого.
При завоевании солнца он окружил (его), стремясь завоевать,
Когда, не встречающий сопротивления, в измененном облике он овладел
Имуществом стовратного, убивая членопоклонников.
स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रि॑: । अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥
सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ । अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वाः ॥
सः इन्द्रः अर्वा मेघेष्वभिगन्ता सस्रिः सरणकुशलः प्रधन्यासु प्रकृष्टधननिमित्तासु गोषु भूमिषु यह्व्यः । महन्नामैतत् । महतीः अवनीः। अवन्तीत्यवनय आपः । ताः आ जुहोति आक्षिपति । यत्र यासु भूमिषु अपादः पादरहिताः अरथाः रथवर्जिताः । पादरहिताः केचन रथेन गच्छन्ति । केनापि शून्याः द्रोण्यश्वासः द्रुतव्यापनाः युज्यासः युज्या इन्द्रस्य सख्यो नद्यः वाः वारकं घृतम् उदकम् ईरते प्रेरयन्ति तत्राजुहोति ॥
“The victorious Indra, coming among the clouds, quickly moving, offers the abundant waters on the rich(plural ins) where his associates (the rivers) footless, and without conveyances, having pitchers for horses, pour outwater like ghī.”
Fighting for kine, the prize of war, and I roaming among the berd be brings the young streams hither,
Where, footless, joined, without a car to bear them, with jars for steeds, they pour their flood like butter.
He pours out the youthful streams, while as charger running for the cows that are at stake,
when those in harness, though lacking feet and chariots, having wooden cups as horses, move toward the ghee, the water.
Er giesst die raschen Ströme hin zu den Kühen, die den Kampfpreis bilden, dahin wo die fusslosen, wagenlosen [Wasserströme], die die Wolkeneimer zu Rossen haben, miteinander verbunden das fette Nass hervortreiben.
Er ergießt als Opfer die jüngsten Ströme, als Renner um die als Preis ausgesetzten Kühe laufend, während seine Verbündeten ohne Füße, ohne Wagen mit den Kufen als Rossen ihr Schmalz-Wasser strömen lassen.
Он возливает (жертву) юные потоки, скакун,
Бегущий среди коров, являющихся наградой (в состязании),
Когда союзники его без ног, без колесницы,
С чанами-конями льют жир и воду.
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् । व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥
सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् । व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥
सः इन्द्रः रुद्रेभिः रुद्रपुत्रैर्मरुद्भिः सहितः आगात् आगच्छतु । कीदृशः । अशस्तवारः स्तोतृभिरप्रार्थितधनः । स्वयमेव प्रदातेत्यर्थः । तथा ऋभ्वा महान् गयं हित्वी हित्वा स्वस्थानं परित्यज्यागात् आगच्छतु । तत्र संबन्धः। आरेअवद्यः दूरगतगर्ह्यः । किंच वम्रस्य एतन्नामकस्य ऋषेर्मम मिथुना मिथुनौ मातापितरौ विवव्री विगतज्वरौ मन्ये अवगच्छामि । अयं वम्रः अन्नं शत्रुसंबन्धि अभीत्य अभिप्राप्य मुषायन् मुष्णन् अरोदयत् रोदयति । 'छन्दसि शायजपि ' इत्यहावपि मुषेः श्नः शायजादेशः ॥
“May he, our unsolicited benefactor, the mighty one, from whom blame is far removed, come with theRudras, having quit his dwelling. I think of the two (parents) of Vamra, who are free from fever. Having obtained(the enemy's) food, he called aloud while stealing it.”
Bold, unsolicited for wealth, with Rudras he came, the Blameless, having left his dwelling,
Came, seized the food of Vamra and his consort, and left the couple weeping and unsheltered.
Together with the Rudras, the Craftsman, whose wish is unpraiseworthy but who keeps disrepute at a distance, has come here, abandoning
his house.
This reminds me of the ant couple who were away from their lair,
and (someone), approaching and stealing their food, made
(them) weep.
Er, der unaussprechliche Schätze besitzt, der tüchtige, der fern ist von jedem Tadel, kam, nachdem er seinen Wohnsitz verlassen, mit den Rudra's herbei, und nachdem er, wie ich meine, der Ameise [hier Bezeichnung des Dämons, der in seiner Höhle die Nahrung versteckt hält] gepaarte Höhlenzugänge angegriffen hatte, versetzte er den Dämon in Trauer, seine Nahrung raubend.
Mit den Rudrasöhnen ist der Meister gekommen, sein Haus verlassend, mit unerlaubten Wünschen und doch frei von Makel. Ich habe das entblößte Paar des Vamra im Sinn. Auf Speise ausgehend, hat er raubend zum Weinen gebracht.
Он, чьи богатства несказанны, умелый,
Безупречный, пришел с Рудрами, оставив (свой) дом.
Я думаю, что, напав на пару Вамры, лишенную укрытия,
Грабя (их) еду, он вызвал (у них) слезы.
स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् । अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥
सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् ष॒ट्ऽऽअ॒क्षम् । त्रि॒ऽशी॒र्षाणम् । द॒म॒न्य॒त् । अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥
स इत् स एवेन्द्रः पतिः सर्वस्य स्वामी दासम् उपक्षपयितारं तुवीरवं बहुशब्दं संग्रामे भयंकरं शब्दं कुर्वाणं वृत्रं दन् दमयन् षळक्षम् अक्षिषट्कोपेतं त्रिशीर्षाणं त्रिशिरस्कं त्वष्टुः पुत्रं विश्वरूपं दमन्यत् दमितुं प्रहर्तुमैच्छत् । अवधीदित्यर्थः । यद्वा । दमयतीति दमनः । नन्द्यादित्वात् ल्युः । स इवाचरति । उपमानादाचारे ' (पा. सू. ३. १. १०) इति क्यच्यन्त्यलोपश्छन्दसः । ततो लङि • बहुलं छन्दसि ' इत्यडभावः । किंच त्रितः एतन्नामा महर्षिः अस्य इन्द्रस्य ओजसा बलेन वृधानः वर्धमानः विपा अङ्गुल्या । कीदृश्या । अयोअग्रया अयोवत्कठिननखया वराहं वराहारम् उदकवन्तं मेघं व्यहन् विहतवान् ॥ ॥ १४ ॥
“The sovereign Indra attacking him overcame the loud-shouting, six- eyed, three-headed Dāsa, andTrita, invigorated by his strength, smote the water-laden (cloud) with his iron-tipped finger.”
Lord of the dwelling, he subdued the demon who roared aloud, six-eyed and triple-headed.
Trta, made stronger by the might he lent him, struck down the boar with shaft whose point was iron.
Just he, the household lord, subdued the mightily roaring Dāsa, with his six eyes and three heads.
Grown strong through his might, Trita smashed the boar with his
metal-tipped poetic inspiration.
Er, der Hausherr, bezwang den mächtig tobenden Dämon, den sechsäugigen, dreiköpfigen; durch seine Kraft gestärkt tödtete Trita mit dem eisenspitzigen Pfeile den Eber.
Dieser Hausgebieter bezwang den laut brüllenden Dasa mit sechs Augen und drei Köpfen. Durch seine Kraft gestärkt erschlug Trita den Eber mit eisenspitziger Rede.
Этот самый хозяин дома укротил дасу,
Громко ревущего, семиглазого, трехглавого.
Подкрепленный его силой, Трита
Убил кабана стрелой с железным наконечником.
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् । स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑त॒: पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥
सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् । सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥
सः इन्द्रः द्रुह्वणे द्रुह्वणाय दृढं शत्रुभिर्वामितव्याय मनुषे मनुष्याय योद्ध्रे स्वभक्ताय ऊर्ध्वसानः । ऊर्ध्वं उच्छ्रितः शोर्यादिभिर्गुणैरधिकः सन् स्यति शत्रूणामन्तं करोतीत्यूर्ध्वसः । स इवाचरन् । ऊर्ध्वसशब्दादाचारार्थे क्विबन्ताच्छानच्” । अर्शसानाय शत्रूणां हिंसित्रे शरुं हिंसकमायुधम् आ साविषत् अभिमुख्येन प्रसोति यच्छति । यद्वा । द्रुह्वणे मनुषे द्रोग्धव्याय मनुष्यायार्शसानाय स्वभक्तहिंसित्रे तस्य वधार्थमूर्ध्वसानः सन् शरुम् आ साविषत् वज्रं प्रेरयति । सः एवेन्द्रः नहुषः मनुष्यात् नृतमः मनुष्याणां नेतृतमः संग्रामे शूराणां गमयितृतमः । यद्वा । नृतमो नहुषो बन्धकश्च । अस्मत् अस्मदर्थं सुजातः सुष्ठु प्रादुर्भूतः अर्हन् पूज्यः सन् दस्युहत्ये । दस्यवः उपक्षपयितारः शत्रवः । तेषां हत्यं हननं यस्मिन् तादृशे संग्रामे पुरः शत्रूणां शरीराणि अभिनत् भिन्नवान् ॥
He raised himself on high and shot his arrow against the guileful and oppressive foeman.
Strong, glorious, manliest, for us he shattered the forts of Nabus when he slew the Dasyus.
Rising up for Manu, he will propel his arrow at the deceitful Arśasāna. He, most manly, well-born from Nahus and from us, split the fortresses at the smashing of the Dasyus, as was his due.
Er schoss auf den arglistigen, verletzenden Menschen hoch aufgerichtet seinen Pfeil; er, der mannhafteste der Männer, der edle, der es vermochte, zerbrach in dem Kampfe wider die Dämonen uns zu Nutz deren Burgen.
Dem hinterlistigen Arsasana möge er, für Manu sich erhebend, sein Geschoß bestimmen. Mannhafter als Nahus hat unseretwegen der Edelgeborene im Dasyukampf die Burgen gebrochen, da dies sein gutes Recht war.
Распрямляясь для Мануса, он выпустил
Стрелу во вредоносного Аршансану.
Гораздо более мужественный, чем Нахус, этот прекраснорожденный ради нас
Проломил крепости при убийстве дасью (он,) достойный (этого).
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे । उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥
सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ । उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥
सः इन्द्रः अभ्रियो न । न भ्राजन्तेऽपो बिभ्रतीति वाभ्राणि मेघाः । तेषां संघोऽभ्रियः । स इव यवसे गवादिभक्षणसाधनाय तृणाय उदन्यन् उदकं दातुमिच्छन् । तथा क्षयाय गमनाय निवासाय वा अस्मे अस्माकं गातुं मार्गं विदत् लम्भयन् । नः इति पूरणः । तादृशः सन् यत् यदा इन्दुं सोमं शरीरैः स्वशरीरावयवैरङ्गैः उप सीदत् उपगच्छति । यच्छब्दयोगादनिघातः । तदानीं श्येनः । सादृश्यप्रधानोऽयं निर्देशः । श्येनसदृशः श्येनवच्छंसनीयगमनः अयोपाष्टिः । अपयष्टिर्व्याप्तिर्यस्य स प्रदेशोऽपाष्टिः पार्ष्णिः । अयोमयोऽपाष्टिः पार्ष्णिर्यस्य सः । दस्यून् शत्रून् हन्ति हिनस्ति ॥
“Like the aggregated cloud desiring to pour water on the pasturage, he found the way to our dwellingwhen he approached the Soma with his limbs, like a hawk with heel of metal he smites the Dasyus.”
He, like a cloud that rains upon the pasture, hath found for us the way to dwell in safety.
When the Hawk comes in body to the Soma, armed with his iron claws he slays the Dasyus.
He, like a storm-cloud streaming water upon the pasture-land, finds a way to a peaceful dwelling for us.
When he reverently approaches the (soma-)drop with his limbs, the
falcon with claws of metal smashes the Dasyus.
Wie ein aus der Wetterwolke strömender Regen, der auf das Gras sich ergiesst, so schenke er uns gedeihlichen Zugang zu[490] sicherm Wohnsitze; wenn er sich mit seinen Gliedern zum Indutranke gesetzt hat, so tödtet der mit ehernen Krallen versehene Adler die Dämonen.
Wasser spendend wie eine Gewitterwolke der Weide, fand er für uns den Weg zu unserem Wohnsitz. Als der Adler mit seinem Leibe an den Soma herankam, da tötet der Eisenkrallige die Dasyu´s.
Словно грозовая туча, орошающая пастбище,
Он нашел для нас выход к поселению.
Когда (всеми своими) членами он подсел к капле (сомы),
(То) орел с железными когтями убивает дасью.
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् । अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥
सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् । अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥
सः इन्द्रः व्राधतः । महन्नामैतत् । महतोऽपि शत्रून् शवसानेभिः बलमाचरद्भिरायुधैः अस्य अस्यतु । ‘ असु क्षेपणे '। व्यत्ययेन मध्यमः। कुत्साय एतन्नामकाय कृपणे स्तोत्रे । कृपतिः स्तुतिकर्मा । शुष्णं शोषकमेतन्नामकमसुरं परादात् पराभूय खण्डितवान्। ‘कुत्साय शुष्णमशुषं नि बर्हीः ' (ऋ. सं. ४. १६. १२) इति मन्त्रान्तरम् । किंच अयम् इन्द्रः कविम् उशनसम् । कविरिति पितृनाम्ना पुत्रस्यापि व्यवहार उपचारात् । शस्यमानं स्तुवन्तम् अनयत् वशं प्रापयत्तस्य विरोधिनम् । यद्वा । कविं भार्गवमेव स्तोतृभिः शस्यमानं स्ववशमनयत् । यः कविः अस्य इन्द्रस्य अत्कं रूपं सनिता संभक्ता भवति । ‘न लोकाव्यय° ' इति षष्ठीप्रतिषेधः । उत अपि च नृणां वृष्ट्यादिनेतॄणामिन्द्रानुचराणां मरुतां यः कविः सनिता तमनयदिति ॥
“Let him overthrow the mighty with powerful (weapons); he destroyed Śuṣṇa for the sake of the liberalKutsa; he humiliated Kavi, who praised him, who was the giver of form to Indra and his men.”
He with his potent Friends gave up the mighty, gave gusnia up to Kutsa for affliction.
He led the lauded Kavi, he delivered Atka as prey to him and to his heroes.
Along with his (men) swelling with strength, (he smashed) the arrogant ones. He handed Śuṣṇa over to Kutsa for the Karpan [?].
This one here led the poet who was being praised, who won his cloak and was the winner among superior men.
Er hat mit seinen starken Helden [den Maruts] die gewaltigen, hat den Çuschna dem Kutsa zu Liebe ins Elend dahingegeben; er leitete den gepriesenen weisen Atka, welcher ihm und den Männern Gaben spendete.
Er bezwang mit seinen Gewaltigen die Übermächtigen; zu Gunsten des Kutsa gab er den Susna dem Elend preis. Er führte den gelobten Kavi, der dessen Gewandung trug und der Gewinner unter den Herren ward.
Со своими могущественными он (покорил) кичащихся.
Шушну он предоставил горькой доле для Кутсы.
Этого прославленного поэта он повез (вместе с собой),
(Того,) кто (носил) его одежду и (был) завоевателем среди мужей.
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी । अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥
अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी । अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥
अयम् इन्द्रः दशस्यन् स्तोतृभ्यो धनं प्रयच्छन् । दशस्यतिर्दानकर्मा । नर्येभिः नर्यैर्नृहितैः मरुद्भिः अस्य अस्यति । छान्दसस्तिपो लोपः। यद्वा। व्यत्ययेन लोण्मध्यमः । तथा देवेभिः द्योतमानैः स्वतेजोभिः दस्मः दर्शनीयः वरुणो न वरुण इव । वरुणस्तमोवारक आदित्यो वरुण एव वा । स इव मायी मायावान्। तथा अयं कनीनः कमनीयः ऋतुपाः ऋतौ पाता अवेदि अज्ञायि । तथा अररुम् असुरमेतन्नामानम् अमिमीत अमिनात् । यः अररुः चतुष्पात् पादचतुष्टयोपेतः । “ मीङ् हिंसायाम्' । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥
“Bountiful (to his worshippers) with his (Maruts) friendly to men, wonderful with brilliancies, havingmagical power like Varuṇa, he was known as desirable, protecting the seasons, he destroyed, Araru, who wasfour-footed.”
He, with his Gods who love mankind, the Wondrous, giving like Varuna who works with magic,
Was known, yet young as guardian of the seasons; and he quelled Araru, four-footed dernon.
This one here, showing his favor along with his manly (men), wondrous together with the gods, is a master of magic power like Varuṇa.
This one here, the lad who drinks according to the ritual sequence,
has been found. He gave his (full) measure against Araru, who was
four-footed.
Er hat sich hülfreich gezeigt mit seinen Manneskräften, wunderthätig mit den Göttern, weise wie Varuna, als der jugendliche Beschützer der Zeiten, er vernichtete den bösen Dämon, den vierfüssigen.
Diese ist als der Meister huldvoll mit seinen mannhaften Freunden, den Göttern, listenreich gleich Varuna, dieser ist als Jüngling als der zu seinen Zeiten Trinkende bekannt geworden; er verwandelte sich in den Araru, der vierfüßige.
Этот милостивый со своими мужественными (друзьями),
Чудесный с богами, обладающий силой превращение, как Варуна,
Он известен как юноша, пьющий в определенное время.
Он прикинулся (?) Арару, который четвероногий.
अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रो॑: । सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥
अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ । सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥
अस्य इन्द्रस्य स्तोमेभिः स्तोत्रैः औशिजः उशिजः पुत्रः ऋजिश्वा एतन्नामा वृषभेण वज्रेण वृषभेण वा युक्तं व्रजं गोष्ठं पिप्रोः एतन्नामकस्यासुरस्य संबन्धिनं तेनापहृत्य पालितं दरयत् अदारयत् । यत् यदा सुत्वा सोमस्य सोता । ‘सुयजोर्ङ्वनिप्' इति वनिप् । “ ह्रस्वस्य पिति° ' इति तुक् । यजतः यष्टौशिजः गीः स्तुतिवाचः दीदयत् दीपितवान् । तथा यद्यदा इयानः गच्छन् पुरः शत्रुपुराणि । यद्वा । पुरः पुर इव संघीभूतानि पापानि । अभि भूत् अभिभवति । केन साधनेन । वर्पसा । रूपनामैतत् । रूपेणेन्द्रानुगृहीतेन । यदैवमकरोत् तदा व्रजं दरयदिति संबन्धः ॥
“Ṛjiśvā, the son of Uśija with Indra's praises shattered the cow pen of Pipru with the thunderbolt;when having expressed (the Soma), the venerable sage recited his praises, (Indra) proceeding against the cities(of the enemy) triumphed with his body.”
Through lauds of him hath Ausija Rjisvan burst, with the Mighty's aid, the stall of Pipru.
When the saint pressed the juice and shone as singer, he seized the forts and with his craft subdued them.
Auśija R̥jiśvan, through his praises to him, burst the cowpen of Pipru together with the bull.
When the one worthy of the sacrifice possesses the pressed soma and the song will shine, (then), being implored, with his form he (will)
prevail over the fortresses.
Durch die Lieder, die ihn preisen, erbrach Ridschiçvan, der Nachkomme des Uçidsch durch Hülfe des starken Helden den Kuhstall des Pipru; als nach der Somabereitung der ehrwürdige als Sänger erglänzte, überwältigte er hineilend die Burgen durch seine Zaubermacht.
Durch Loblieder auf ihn sprengte Ausija Rijisvan mit dem Stiere den Wall des Pipru. Als der Somapressende und die Lobrede des Opfernden strahlten, da beschlich er, darum angegangen, in Verwandlung die Burgen.
С помощью его восхвалений Аушиджа Риджишван
Вместе с быком взорвал загон Пипру.
Когда выжиматель сомы, достойный жертв певец ярко засверкал,
Попрошенный (об этом), он овладел крепостями в измененном облике.
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् । स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑: ॥
ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् । सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥
अनया स्तुतिमुपसंहृत्याभिमतं वम्रकः प्रार्थयते । हे असुर बलवन्निन्द्र त्वाम् एव एवमुक्तप्रकारेण महः महतो हविषः स्तोत्रस्य वा वक्षथाय वहनाय महतः स्वर्गादेः प्रापणाय वा षड्भिः पादैः उप सर्पत् उपागमत् । सः इयानः उपागम्यमानः सन् करति करोतु स्वस्तिम् अविनाशम् अस्मै वम्रकाय । तथा इषम् अन्नम् ऊर्जं रसं सुक्षितिं सुनिवासं सम्यक् विश्वं सर्वम् आभाः आहरतु ॥ ॥ १५ ॥ ॥ ८ ॥
“In this manner, O mighty (Indra), Vamraka approached Indra on foot, to bring an ample oblation. Mayhe, being approached, grant us prosperity, may he bring us food, drink, a secure dwelling and all (good things).”
So, swiftly Asura, for exaltation, hath the great Vamraka come nigh to Indra.
He will, when supplicated, bring him blessing: he hath brought all, food, strength, a happy dwelling.
In just this way, o lord, for the increase of the great one, Little Ant [/Vamraka, the poet] on his many feet crept up to Indra.
He, being implored, will create well-being for him. Refreshment,
nourishment, a good dwelling—all that has he brought.
So nahte sich, o Gott, zu des grossen Kräftigung Vamraka dem Indra demüthig mit seinen Füssen; er schafft ihm herbeieilend Segen; Speise, Trank, sichere Wohnung, alles hat er ihm gebracht.
Also kroch, o Asura, Vamraka auf seinen Füßen zu Indra, um den Großen zu stärken. Er möge darum angegangen ihm Glück bescheren. Labung, Nahrung, guten Wohnsitz, alles hat er gebracht.
Так, о Асура, чтобы сильно укрепить (его),
Вамрака на ногах подполз к Индре.
Попрошенный (об этом), пусть он даст ему счастье!
Подкрепление, питательную силу, хорошее место для жилья – все он принес.