त्वाम॑ग्ने मनी॒षिण॑: स॒म्राजं॑ चर्षणी॒नाम् । दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे ॥
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । दे॒वम् । मर्ता॑सः । इ॒न्ध॒ते॒ । सम् । अ॒ध्व॒रे ॥
हे अग्ने मनीषिणो धीमन्तोऽध्वर्युप्रभृतयो मर्तासो मनुष्याश्चर्षणीनां प्रजानां सम्राजमधिपतिं देवं द्योतमानं तामध्वरे यज्ञे समिन्धते । सोमाज्यपयःप्रभृतिभिराहुतिभिः समग्दीपयन्ति । मनीषिणः । मनीषैषामस्तीति व्रीह्यादिभ्यश्चेति इनिः । यस्येति चेत्यवर्णलोपः । प्रत्ययस्वरः । सम्राजम् । राजृदीप्तौ । सम्पूर्वादस्माद्धातोः सत्सूद्विषेति क्विप् । क्विलोपः । समो मकारस्य मोऽनुस्वार इत्यनुस्वारे प्राप्ते मो राजि समः क्वाविति समो मकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । चर्षणीनाम् । नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । इन्धते । ञ इन्धी दीप्तौ । अस्माद्धातोर्हेतुमति चेति णिच् । लटि झस्यात्मपेपदेष्वनत इत्यदादेशः । छन्दस्युभयथेति झस्यार्धधातुकत्वाण्णेरनिटीति णिलोपः । निघातः । ॥ १ ॥
“You, the king of men; Agni, the divine; prudent mortals kindle you at the sacrifice.”
THEE Agni, God, Imperial Lord of all mankind, do mortal men
With understanding kindle at the sacrifice.
1 Thee, O Agni, the highest king of human tribes, the god, thoughtful mortals kindle at their worship.
You, o Agni, the sovereign king over the peoples,
you a god do mortals of inspired thought kindle in the rite.
Dich zünden die Verständigen, den Oberherrn der Menschen an, Agni, den Gott, die Sterblichen – beim Opferfest.
Dich, Agni, zünden die Andächtigen an, den Allherrscher der Völker, den Gott die Sterblichen bei dem Opfer.
Тебя, о Агни, творящие молитву (жрецы),
Самодержца народов,
Бога зажигают смертные во время обряда.
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते । गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥
त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ । गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥
हे अग्नेऽध्वर्व्यादयो यज्ञेष्टग्निष्टोमादिषु त्वां होतारमृत्विजं होतृनामकमृत्विजमीळते । स्तुवन्ति । तादृशस्त्वमृतस्य सत्यस्य यज्ञस्य गोपा गोपायिता सन् स्वे दमे स्वकीये गृहे यज्ञशालायां दीदिहि । दीप्यस्य । दीदिहि । दिवु क्रीडादौ । यङ् लुक् । लोट् । तुजादित्वादभ्यासदीर्घत्वम् । सञ्ज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावे ल्पोप् व्योर्वलीति वलोपः ॥ २ ॥
“They praise you as the priest, the invoker (of the gods) at sacrifice; shine forth the protector of the pious rite in your own abode.”
They laud thee in their solemn rites, Agni, as Minister and Priest,
Shine forth in thine own home as guardian of the Law.
Thee, O Agni, the Ritvig, the Hotri, they magnify at the sacrifices. Shine as the guardian of Rita in thy own house 1.
You do they summon as priest at the sacrifices and as Hotar, o Agni. Shine as the herdsman of truth in your own house.
Bei Opfern preisen Agni dich, den Priester sie, den opfernden; Als Rechtes Hüter leuchte du – im eignen Haus.
Dich berufen sie als den Priester bei den Opfern, als Hotri, o Agni. Als Hüter der Opferordnung scheine im eigenen Hause!
Тебя на жертвоприношениях как жреца,
О Агни, они призывают как хотара.
Как хранитель закона воссвети в своем доме!
स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे । सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥
सः । घ॒ । यः । ते॒ । ददा॑शति । स॒मिधा॑ । जा॒तऽवे॑दसे । सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒ऽवीर्य॑म् । सः । पु॒ष्य॒ति॒ ॥
हे अग्ने यो यजमानो जातवेदसे जातप्रज्ञाय ते त्य्भ्यं समिधा समिन्धनकारीण्याज्यपुरोडाशादि हवींषि ददाशति ददाति स घ स खलु सुवीर्यं शोभनसामर्थ्योपेतं पुत्रं धत्ते । धारयति । अपि च सः स एव पुष्यति । पशुपुत्रादिभिः समृद्धो भवति ॥ घ । चादयोऽनुदात्ता इत्यनुदातः । ददाशति । दातृ दान इत्यस्माद्धातोः कर्तरि तप् । तिष् । द्विर्वचनं छान्दसम् । यद्वृत्तयोगादनिघातः । अभ्यस्तानामादिरित्युदात्तः समिधा । ञि इन्धी दीप्तौ । अस्मात् क्विप् चेति क्विप् । उपधालोपः । सुपां सुलिगिति शसो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जातवेदसे । बहुव्रीहौ प्रकृत्या पूर्वपदमिति प्रकृतिस्वरत्वम् । सुवीर्यम् । वीरवीरौ चेत्युत्तरपदाद्युदात्तत्वम् । पुष्यति । पुश पुष्टौ । अस्मात् श्यन् । ङत्त्वाद्गुणाभावः । निघातः ॥ ३ ॥
“He verily who presents oblations to you, the knower of all things, he acquires (Agni) excellent progeny; he prospers.”
He, verily, who honours thee with fuel, Knower of all life,
He, Agni! wins heroic might, he prospers well.
He indeed who may worship thee, the Gâtavedas, with fuel, acquires abundance in valiant men, O Agni; he will prosper.
He who will ritually serve you, o Jātavedas, with the kindling wood, he, o Agni, receives an abundance of heroes, and he prospers.
Jedweder, welcher huldiget mit Brennholz, Wesenkenner, dir, Empfängt, o Agni, Heldenkraft – und der gedeiht.
Wer dir, dem Jatavedas, Brennholz reichlich spendet, der erlangt die Meisterschaft, o Agni, der gedeiht.
Только тот, кто почитает дровами
Тебя, Джатаведаса,
Получает, о Агни, богатство из прекрасных мужей, (только) он процветает.
स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् । अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥
सः । के॒तुः । अ॒ध्व॒राणा॑म् । अ॒ग्निः । दे॒वेभिः॑ । आ । ग॒म॒त् । अ॒ञ्जा॒नः । स॒प्त । होतृ॑ऽभिः । ह॒विष्म॑ते ॥
अध्वराणां यज्ञानां केतुः प्रज्ञापकः सोऽग्निः सप्त सप्तभिर्होतृभिर्वषट्कर्तृभिरञ्जानः सोमाज्याहुतिभिरज्यमानः सन् हविष्मते यजमानार्थं देवेभिर्यष्टव्यदेवैः सुहागमत् । आगच्छतु । गमत् । लोडर्थे छन्दसि लुङ्लङ्लिट इति लुङ् । लृदित्त्वादङ् । बहुलं छन्दस्यमाङ्योग इत्यडभावः । निघातः । अन्जानः । अञ्जू व्यक्तिम्रक्षणगतिषु । व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तत्वम् । हविष्मते । जुहोतेरर्चिशुचीत्यादिना इसिप्रत्ययान्तो हविःशब्दोऽन्तोदात्तः । स्वरविधौ व्यन्जनमविद्यमानवदिति परिभाषानाश्रयणान्मतुप उदात्तत्वाभावः । इसिप्रत्ययस्वरः ॥ ४ ॥
“May (Agni), the banner (flag) of sacrifices, offering oblations on the part of the worshiper through (the ministry of) the seven offering priests, come hither with the gods.”
Ensign of sacrifices, he, Agni, with Gods is come to us,
Decked by the seven priests, to him who bringeth gifts.
May He, the banner of the sacrifices, Agni, come hither with the gods, anointed by the seven Hotris 1 for the sake of the man who offers sacrificial food.
The beacon of the rites, Agni will come with the gods,
being anointed by the seven Hotars for the sake of him who brings the offering.
Es komme mit der Götter Schar der Opfer Leuchte, Agni her, Von sieben Priestern er gesalbt – mit Trank versehn.
Er, das Banner der Opfer, Agni soll mit den Göttern kommen zu dem Opfernden von den sieben Opferpriestern gesalbt.
Это знамя обрядов –
Агни да приидет с богами,
Помазанный семью хотарами, к тому, у кого жертвенное возлияние!
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥
प्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् । वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥
यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयो विपा विप्राणां मेधाविनामध्वर्व्यादीनां ज्योतींषि सत्कर्मानुष्ठानसम्पाद्यानि तेजांसि बिभ्रते निमित्ततया कुर्माणाय वेधसे जगतो विधात्रे होत्रे देवानामाह्वात्रेऽग्नेये बृहन्महत्पूर्व्यं पूर्व्यैः कृतं पुरातनं वचः स्तोत्रशस्त्रादिकं वाक्यं प्रभरत । सम्पादयत । नेत्ययं पादपूरणोऽन्वयाभात् । यद्वा वेधसे न । यथा वेधा जगद्विधाता परमेश्वर आदित्यादीनि ज्योतींषि करोति तद्वदिति । प्रशब्दस्य छन्दसि व्यवहितश्चेति भरतेत्यनेन सम्बन्धः । पूर्व्यं पूर्व्यैः कृतमित्यर्थः । पूर्व्यैः कृतमिनियौ चेति य प्रत्ययः । भसञ्ज्ञकत्वादवर्णलोपः । प्रत्ययस्वरः । भरत । भृञ् भरणे भौवादिकः । निघातः । बृहत् । वर्तमाने पृषद्बृहदिति निपातनादन्तोदात्तः । बिभ्रते । भृञ् भरणे । जुहोत्यादिभ्यः श्लुः । भृञामिदितीत्वम् । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ५ ॥
“Offer to the ministering Agni as if to the Creator (of the world), the great praise recited of old, for the sake of animating the energies of the pious (worshipper). ”
ToAgni, the Invoking Priest, offer your best, your lofty speech,
To him Ordainer-like who brings the light of songs.
Bring ye forward an ancient, mighty speech to Agni, the Hotri, who is like a worshipper bearing the lights of prayers 1.
Bring forward the first lofty speech for the Hotar, for Agni,
as if for a ritual master who brings the lights of inspirations.
Wohlan, dem Priester Agni bringt den ersten hohen Lobspruch dar, Ihm, der der Lieder Strahlen trägt – dem Ordnenden.
Traget dem Hotri, dem Agni, das allererste hohe Wort vor, der wie ein Meister die Glanzlichter der Reden bringt!
Хотару древнюю речь
Поднесите, Агни – высокую (речь)
Как несущему факелы вдохновенных слов, устроителю (обряда)!
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्य॑: । म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥
अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ । म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥
योयमग्निर्यतोयाभिः स्तुतिरूपाभिर्गीर्भिरुक्थ्यो जायते । उक्थ्ये शब्दः प्रतस्यवाची । अनभितस्त्य उक्थ्य इति तन्नामसु पाठात् । अतिशयेन स्तुत्यो भवतीत्यर्थः । यश्चायमग्निर्महे महते वाजायान्नाय द्रविनाय धनाय च दर्शतो दर्शनीयो भवति शमिममग्निं नो गिरोऽस्माकं स्तुतिरूपास्ता चाचो वर्धन्तु । वर्धयन्तु । पूजयन्त्वित्यर्थः । वर्धन्तु । वृधु वर्धने । अस्माण्णिच् । सघूपधगुणः । छन्दस्युभथेत्यार्धधातुकत्वाण्णिलोपः । झेरन्तादेशः । एरुः । पा. २-४-८६ । इत्युकारः । निघातः । उक्थ्यः । वच परिभाषणे । अस्मात्पातॄतुदिवचिरचीत्यादिना थक् । कित्त्वाद्वचिस्वपीत्यादिना सम्प्रसारणम् । उक्थं शस्त्रम् । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । भवे छन्दसीति यत् । यस्येति लोपः । तित्स्वरितमिति स्वरितः । दर्शतः । भृमृदृशियजीत्यतङ् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ६ ॥
“May ourhymns exalt Agni, so that he may be born more worthy of praise, and may become manifest for the purpose of (bestowing) abundant food and riches.”
Let these our hymns make Agni grow, whence, meet for laud, he springs to life,
To mighty strength and great possession, fair to see.
May our prayers increase Agni, since he is born deserving of praises, the conspicuous one, for the sake of great strength and wealth.
Let our songs strengthen Agni—those from which he is born, worthy to be hymned,
as the one lovely to see, for the great prize and for great wealth.
Den Agni stärke unser Lied, seit der zu preisende erstand Zu grossem Reichthum und Besitz – des Sehens werth.
Den Agni sollen unsere Lobreden erbauen, sobald der Preiswürdige geboren wird, der Gerngesehene zu dem großen Gewinn und Reichtum.
Пусть усилят Агни наши песни,
От чего рождается (он,) достойный гимнов,
Для великой награды, для богатства, (он,) приятный на вид.
अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज । होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिध॑: ॥
अग्ने॑ । यजि॑ष्ठः । अ॒ध्व॒रे । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ । होता॑ । म॒न्द्रः । वि । रा॒ज॒सि॒ । अति॑ । स्रिधः॑ ॥
हे अग्ने यजिष्ठो यष्टृतमस्त्वमध्वरे यज्ञे देवयते देवानात्मन इच्छते यजमानाय देवान्यज । तदर्थं यष्ठव्याग्न्यादीन्देवान्पूजय । किञ्च । होता देवानामाह्वाता मन्द्रो यजमानस्य मदयिता सत्वं स्रिधः । क्षपयितॄञ्छत्रूनति अतिक्रम्य वि राजसि । विशेषेण शोभसे । यजिष्ठः । तुश्चन्दसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृचो लोपः । नित्त्वादाद्युदात्तः । देवयते । क्यचश्चित्त्वादन्तोदात्तत्वम् । शपः प्त्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यजा सहैकादेश एकादेश उदात्तेनोदात्त इत्यन्तोदात्तो देवयच्छब्धः । ततः शतुरनुम इति विभक्तेरुदात्तत्वम् । यज । यजदेवपूजासङ्गतिकरणदानेषु । अस्माल्लोट् । सिप् । सिपो हिरादेशः । अतो हेरिति हेर्लुक् । निघातः । राजसि राजृदेप्तौ । निघातः ॥ ७ ॥
“Agni, you are to be especially worshipped at the sacrifice; worship the gods (on behalf of) the devout (worshiper); you shine the invoker (of the gods) the exhilarator (of the pious) overcoming your foes.”
Best Sacrificer, bring the Gods, O Agni, to the pious man:
A joyful Priest, thy splendour drive our foes afar
1 May Agni, as the best sacrificer at the worship (of men), perform the sacrifice to the gods for the man devoted to the gods. As a joyous Hotri thou reignest (passing) beyond (all) failures.
O Agni, as the best sacrificer in the rite, sacrifice to the gods for him seeking the gods.
As the delighting Hotar, you rule in every direction beyond failures.
Bestopfernd für den frommen Mann verehr' die Götter bei dem Fest, Als holder Priester strahlst du weg – der Feinde Schar.
Agni! Opfere als bester Opferer den Göttern bei der Opferhandlung für den Gottergebenen! Als der wohlredende Hotri wirst du Herr über alle Unfälle.
О Агни, как лучший жертвователь во время обряда
Принеси жертву богам для стремящегося к богам!
Как веселый хотар ты правишь, пре (одолевая) все неудачи.
स न॑: पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् । भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥
सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । भव॑ । स्तो॒तृऽभ्यः॑ । अन्त॑मः । स्व॒स्तये॑ ॥
नः पावकास्मत्सम्बन्धिनः पापस्य शोधक हे अग्ने स पूर्वमन्त्रे प्रतिपादितस्त्वं द्युमत्कान्तियुक्तं सुवीर्यं शोभनसामर्थ्योपेतं दानभोगार्हं धनमस्मे अस्मभ्यं दीदिहि । यद्वा द्युमत्तेजोयुक्तं सुवीर्यं शोभनवीर्योपेतं च यथा भवति तथास्मे अस्मदर्थं त्व दीदिहि । दीप्यस्व । किञ्च स्तोतृभ्यः । षष्ठ्यर्थे चतुर्थी । त्वद्विषयस्तुतिकारिणां होत्रादीनां स्वस्तयेऽविनाशनाय क्षेमायान्तमोऽन्तिकतमस्तेषामतिशयेन समीपवर्ती भव । पावक पूञ् पवने । अस्माद्धातोर्ण्वुच् । णित्त्वाद्वृद्धिः । वोरकादेशः । आमन्त्रितत्वादाष्टमिकमनुदात्तत्वम् । दीदिहि । दिवु क्रीडादौ । अस्माद्यङ् । तुजादीनामित्यभ्यासस्य दीर्घत्वम् । सञ्ज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । बहुलं छन्दसीति यजो लुक् । लोटि सिप् । चर्करीतं परस्मै पदमदादिवच्चेति वचनाच्छवो लुक् । सिपो हिरादेशः । लोपो व्योर्वलीति वलोपः । हेरपित्त्वादगुणः । निघातः । द्युमत् । दिव उदित्युकारः । ह्रस्वनुड्भ्यामिति मतुप उदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । अन्तमः । अन्तोऽस्यास्तीत्यन्तिकः । अत इनिठनाविति ठन् । अतिशयेनान्तिक इत्यतिशायने तमबिति तमप् । तमे तादेश्चेति तादिलोपः । नित्त्वादाद्युदात्तः । स्वस्तये । प्रातिपदिकस्वरः ॥ ८ ॥
“Do you, our purifier, light up for us a brilliant progeny; be ever nigh to those who praise you for their well-being.”
As such, O Purifier, shine on us heroic glorious might:
Be nearest Friend to those who laud thee, for their weal.
Thus, O purifier, shine on us glorious abundance in heroes. Be the nearest (friend) to those who praise thee, for their welfare.
O pure one, shine upon us a brilliant abundance of heroes.
Be very near to the praise singers for their well-being.
Uns strahle zu, o Flammender, die glanzbegabte Heldenkraft; Den Sängern sei recht nah' vertraut – zum Wohlergehn.
Leuchte, du Klarer, uns glänzende Meisterschaft zu! Sei der Vertraute der Sänger zum Glück!
О очищающий, воссвети нам
Богатство из прекрасных мужей, блистательное для нас!
Будь самым близким певцам – на счастье!
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांस॒: समि॑न्धते । ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥
तम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥
हे अग्ने विप्राः स्तुइतीनां प्रेरका जागृवांसोऽग्निहोत्रादिकर्मण्यप्रमत्ततया प्र्बुद्धा विपन्यवः । विपन्युतब्धो मेधाविनमाचष्टे । विपश्चिद्विपन्युरिति तन्नामसु पाठात् । विपन्यवो मेधाविनः स्तोतारो हव्यवाहं हव्यानां वोढारममर्त्यं मरणधर्मरहितं सहोवृधं सहसा मथनरूपेण बलेन वर्धमानम् तादृशं त्वा त्वा समिन्धते । सोमाद्याहुतिभिः सम्यग्दीपयन्ति । विप्राः । टुवप बीजसन्ताने । अस्माद्धातोरृज्रेन्द्राग्रवज्रविप्रेति रन्प्रत्ययेत्वयोर्निपातनादाद्युदात्तत्वम् । विपन्यवः । विविधं पनं पननं स्तुतिं यातीति विपन्युः । मृगय्वादयश्चेति कुः । अकारलोपश्छान्दसः । प्रत्ययस्वरः । जागृवांसः । जागृ निद्राक्षये । अस्माल्लिट् । तस्य क्वसुः । उगिदजामिति नुम् । द्विर्वचनाभावश्छान्दसः । वस्वेकाअजाद्घसामिति नियमादिडभावः । जाग्रोऽविचिण्णल् ङित्सु । पा. २-३-८५ । इति गुणो न भवति तत्र विरित्यत्र क्वसोरपि गृहीतत्वात् । प्रत्ययस्वरः । इन्धते । ङि इन्धी दीप्तौ । अन्तर्भावितण्यर्थोऽयम् । निघातम् । हव्यवाहम् । वह प्रापणे । वहश्चेति ण्विः । उपधावृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सहोवृधम् । वृधु वर्धने । क्विप् चेति क्विप् ॥ ९ ॥
“The wise, intelligent, and vigilant (worshipers) kindle you, such as you (have been described), the bearer of oblations, the immortal, genitive rated by strength.”
So, wakeful, versed in sacred hymns, the holy singers kindly thee.
Oblation-bearer, deathless, cherisher of strength.
Thus the priests full of admiring praise, having awoke, kindle thee, the immortal carrier of sacrificial food, the increaser of strength.
Admiring, inspired poets, being awake, kindle you,
the conveyor of oblations, immortal and strength-increasing.
Drum zünden dich die Priester an, die wachsam sind, bewunderungsvoll, Dich, der unsterblich, Opfer fährt, – die Kraft vermehrt.
Dich zünden früh erwacht, laut lobend die Redekundigen an, den unsterblichen Opferfahrer, den Mehrer der Stärke.
Вдохновенные, любуясь тобой,
Бодрствующие, зажигают тебя,
Возницу жертв, бессмертного, растущего от силы.