अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः । स वे॑द य॒ज्ञमा॑नु॒षक् ॥
अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः । सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥
विश्वामित्रः स्तौति । होता देवानामाह्वाता पुरोहितः पुरत ऎवाभिमतफल सम्पादनक्त्वेन हितकारी । युअद्वा पुरः पूर्वभाग आवहनीयरूपेण हितो निहिति इति पुरोहिततः । अध्वरस्य यज्ञस्य विचर्षणिर्विशेषेण द्रष्टा विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । स तथाविधोऽग्निरानुषगानुपूर्व्येण सक्तं यज्ञमग्निष्टोमादिकं वेद । जानाति । वेद । विद ज्ञाने । विदो लटो वेति तिपो णलादेशः । लघूपदगुणः । निघातः । आनुषक् । आ समन्तादनुषजतीत्यानुषक् । षन्च सङ्गे । धातुषकारस्य सकारः । क्विप् चेति क्विप् । आनिदितामित्युपधालोपः । उपसर्गात्सुनोतीति षत्वम् ॥ १ ॥
“Agni, the invoker of the gods, the minister (of the gods), the supervisor of the sacrifice, understands the solemn rite in its due course.”
AGNI is Priest, the great High Priest of sacrifice, most swift in act:
He knows the rite in constant course.
Agni is the Hotri, the Purohita of our worship, he who dwells among many tribes, He knows the sacrifice in due order.
Agni is the Hotar of the rite, who is placed to the fore, who is without boundaries:
he knows the sacrifice in its proper order.
Als Priester Agni vorgesetzt dem Opferfest, der emsige, Versteht das Opfer nach dem Brauch.
Agni ist der bevollmächtigte Hotri des Gottesdienstes, der ausgezeichnete. Er kennt das Opfer genau.
Агни – хотар, поставленный впереди
Обряда, (бог,) движущийся в разные стороны.
Он знает жертвоприношения по порядку.
स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ॥
सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः । अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥
स हव्यवाट् हविषो वोढामर्त्यो मरणधर्मरहित उशिक् हविः कामयमानो दूतो देवानां दूतश्चा नसे हविर्लक्षणायान्नाय हितो निहितः । यद्वा चनोहितः । चनोऽऽन्न हविर्लक्षणं हितमस्येति चनोहितः । स तथाविधोऽग्निर्धिया प्रज्ञया समृण्वति । सङ्गच्छते । कर्मविषयप्रज्ञान्वितोऽग्निरस्मानपि तादुक्प्रज्ञान्वितान्करोत्वित्याशास्ते ॥ हव्यवाट् । वह प्रापणे । वहश्चेति ण्विः । धत्व जत्त्व चर्त्वानि । कृदुत्तरपदप्रकृतिस्वरत्वम् । उशिक् । वश कान्तौ । इजिरित्यनुवृत्तौ वशेः । किच्चेतीजिप्रत्ययः । तस्य कित्त्वात् ग्रहिज्येति सम्प्रसारणम् । प्रत्ययस्वरः । चनो हितः । चनः शब्दश्चायतेरन्ने ह्रस्वश्चेत्यनुनन्तु । चकारान्नुडागमः । तस्मिन्यलोपः । नित्त्वादाद्युदात्तः । पुनश्चनसोश्छन्दसि गतिसञ्ज्ञा वक्तव्या । पा. १-४-६०-२ । इति गति सम्ज्ञायां गतिरनन्तर इति प्रकृति स्वरत्वम् । बहुव्रिहौ तु पूर्वपदप्रकृतिस्वरत्वम् । धिया । सावेकाच इति विभक्तेरुदात्तत्वम् । ऋण्वति । ऋणु गतौ । लेट तनादित्वादु प्रत्ययः । लेटोऽडाटावित्यडागमः । ॥ २ ॥
“That Agni, who is the bearer of oblations, the immortal, the desirer (of offerings), the messenger (of the gods), and is the receiver of sacrificial viands, is associated with understanding.”
Oblation-bearer, deathless, well inclined, an eager messenger,
Agni comes nigh us with the thought.
He, the immortal carrier of oblations, the Usig 1, the messenger, with satisfied mind, Agni sets himself in motion 2 (incited) by the thought (of praying men?).
The conveyor of oblations, the immortal fire-priest, and the messenger placed for delight,
Agni through insight assembles (the sacrifice).
Der Opfer fährt, unsterblich ist, der rasche Bote, holdgesinnt; Gefügt wird Agni durch Gebet.
Er ist der Opferfahrer, der Unsterbliche, er der Fürbitter, als Bote beliebt. Agni bringt es mit Kunst zustande.
Он бессмертный возница жертв,
Жрец, вестник, поставленный на радость (людям).
Агни силой молитвы проводит (обряд).
अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः । अर्थं॒ ह्य॑स्य त॒रणि॑ ॥
अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः । अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥
यज्ञस्याग्निष्टोमादेः केतुः प्रज्ञापकः पूर्व्यः पूर्वे भवशिरन्तनः स तथाविधोऽग्निर्धिया प्रज्ञया चेतति । सर्वं जानीते । अस्यै तादृशस्याग्नेरर्थं गमनस्वभावम् । तेजोऽस्याकाशे दृश्यमानस्य तमसस्तरणि हि । तारकं खलु । निर्वर्तकमिति यावत् ॥ चेतु । चिती सञ्ज्ञाने । निघातः । अर्थम् । ऋ गतौ उषिकुषिगर्तिभ्यस्थन्निति धन् । गुणः । नित्त्वादाद्युदात्तः । तरणि । तॄ प्लवनतरणयोः । अर्तिसृभृधृधमीत्यादिना निप्रत्ययः । गुणः । प्रत्ययस्वरः ॥ ३ ॥
“Agni, the ancient banner (flag) of sacrifice, knows (all things) through understanding; his radiance traverses (the darkness).”
Ensign of sacrifice from of old, Agni well knoweth with his thought
To prosper this man's aim and hope.
Agni takes heed 1 (of us) by the thought (the prayer?), the banner of the sacrifice, the ancient one; for his purpose triumphs 2.
Agni—through insight he becomes visible as the ancient beacon of the sacrifice,
for his is a surpassing goal.
Es zeigt sich Agni durch Gebet als altes Licht des Opferwerks; Denn seine Arbeit dringet durch.
Denn Agni, das erste Banner des Opfers, versteht es mit Kunst, sein Ziel zu erreichen.
Агни появляется силой молитвы (жрецов)
Как древнее знамя жертвоприношения:
Ведь цель его – в преодолении (препятствий).
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् । वह्निं॑ दे॒वा अ॑कृण्वत ॥
अ॒ग्निम् । सू॒नुम् । सन॑ऽश्रुतम् । सह॑सः । जा॒तऽवे॑दसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥
सहसः सूनुं बलस्य् पुत्रं मथनरूपेण बलेन निष्पाद्यमानत्वात् सनशुत्रं सनातनत्वेन प्रसिद्धं जातवेदसं जातप्रज्ञं शमिममग्निं देवा हविर्भुजो देवा वह्निं हविषां वोढारमकृण्वत । अकुर्वत ॥ सनुश्रुतम् । शुश्रवणे । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । वह्निम् । वह प्रापणे । निरित्यनुवृत्तौ वहिश्रीत्यादिना निप्रत्ययः । अकृण्वत । कृवि हिंसाकरणयोः । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्छेत्युप्रत्ययः । अकारश्चान्तादेशः । लङ् व्यत्ययेनात्मनेपदम् । निघातः ॥ ४ ॥
“The gods have made Agni, who is the son of strength, the eternally-renowned, the knower of all that is born, the bearer (of oblations).”
Agni, illustrious from old time, the Son of Strength who knows all life,
The Gods have made to their Priest.
The gods have made Agni, the old-renowned son of strength, the Gâtavedas, their carrier (towards the sacrifice) 1.
Agni, the son of strength famed of old, Jātavedas—
him the gods made their conveyor (of oblations).
Den altberühmten Sohn der Kraft, den Agni, der die Wesen kennt, Ersahn zum Fährmann Götter sich.
Agni, den altberühmten Sohn der Kraft, den Jatavedas, machten die Götter zu ihrem Opferfahrer.
Агни, сына силы,
Знаменитого издревле, Джатаведаса,
Боги сделали возницей жертвы.
अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् । तूर्णी॒ रथ॒: सदा॒ नव॑: ॥
अदा॑भ्यः । पु॒रः॒ऽए॒ता । वि॒शाम् । अ॒ग्निः । मानु॑षीणाम् । तूर्णिः॑ । रथः॑ । सदा॑ । नवः॑ ॥
मानुषीणां मनोर्जातानाम् विशां प्रजानां पुरएता सन्मार्गप्रदर्शनेनाग्रतो गन्तात एव तूर्णिस्ताः प्रजा वैदिककर्मप्रवर्तकत्वेनानुग्रहीतुं त्वरायुक्त आलस्यरहितो रथो हविषां वहनाद्रथसदृशः सदा सर्वदा तत्कर्मणि नवो नूतनः पुनर्मथनादभिनव एवं विधोऽग्निरदाभ्यः । अहिंस्यः । न केनापि तिरस्कार्य इत्यर्थः ॥ अदाभ्यः । दुन्धु दम्भे । दभेश्चेति वक्तव्यमिति कर्मणिण्यत् । उपधावृद्धिः । न दाभ्योऽदाभ्यः । न ञ्समासे तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वम् । पुरएता । इण् गतौ । ण्वुल्तृचाविति तृच् । गुणः । चित्त्वादन्तोदात्तः । मानुषीणाम् । मनोर्जातावञ्यतौ षुक् चेत्यञ् । टद्ढ्णञिति ङीप् । ञित्त्वादाद्युय्दात्तः । तूर्णीः । ञित्वरा सम्भ्रम इति धातोर्निरित्यनुवृत्तौ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो निदिति निप्रत्ययः । ज्वरत्वरेत्यादिना ऊठ् । तस्य नित्वादाद्युदात्तः । संहितायां ढ्रलोपे पूर्वस्येति दीर्घः । रथः । हनिकुषिनीरमिकाशिभ्य इति क्थन्प्रत्ययः । क्त्त्वादनुदात्तोपदेशेत्यादिनानुनासिकलोपः नित्त्वादाद्युदात्तः । सदा स्वरादिष्वाद्युदात्तत्वेन हठितत्वादाद्युदात्तः ॥ ५ ॥
“Agni, the preceder of human beings, (ever) alert, the vehicle of their offerings, is ever new, is unsusceptible of harm.”
Infallible is Agni, he who goes before the tribes of men,
A chariot swift and ever new.
Agni the undeceivable one who goes before the human tribes, he is the quick chariot 1, ever new.
The undeceivable leader of the clans of the sons of Manu is Agni, who is the swift chariot, ever new.
Er führt die Menschenstämme an, Agni, der nicht zu täuschende, Rasch fährt sein Wagen, stets erneut.
Agni ist der nicht zu betörende Führer der menschlichen Stämme, ein das Ziel erreichender, stets neuer Wagen.
Агни – не терпящий обмана
Предводитель племен человеческих,
Колесница, преодолевающая (препятствия), всегда новая.
सा॒ह्वान्विश्वा॑ अभि॒युज॒: क्रतु॑र्दे॒वाना॒ममृ॑क्तः । अ॒ग्निस्तु॒विश्र॑वस्तमः ॥
सा॒ह्वान् । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । क्रतुः॑ । दे॒वाना॑म् । अमृ॑क्तः । अ॒ग्निः । तु॒विश्र॑वःऽतमः ॥
अभियुजोऽभियोक्त्रीर्विश्वाः सर्वाः सेनाः सह्वान्सहमानः स्वबलेन तिरस्त्कुर्वाणोऽत एवामृक्तः शत्रुभिरहिंसितो देवानां क्रतुः कर्ता हविष्प्रदानेन पोषक एवं भूतोऽग्निस्तुविश्रवस्तमः । तुविशब्दो बहुवाची । तुवि पुरु इति तन्नामसु पाठात् । श्रवः शब्दोऽन्नवाची । श्रव इत्यन्ननाम श्रूयते । नि. १८-३ । इति निरुक्तेऽभिधानात् । अतिशयेन बहुविधान्नोपेतो वर्तते । यस्मादेवं तस्मादस्मानपि बहुविधान्नोपेतान्कुअरोत्विति भावः ॥ साह्वान् । षह मर्षण इत्यस्य क्वसौ दाश्वान्साह्वान्मीढ्वांश्चेति निपातनाद्द्विर्वचनमिडागमश्च न भवति परस्मै पदं च भवति । क्वसुस्वरः । क्रतुः । कृञः कतुः । कित्त्वाद्गुणाभावः । प्रत्यय स्वरः । तुविश्रवस्तमः । तु वृत्तिहिंसापूर्तिषु । अस्मादौणादिकः किप्रत्ययः । कित्त्वाद्गुणाभावः । उपजादेशः । अन्तोदात्तः । श्रवः । श्रु श्रवणे । श्रूयतेऽन्नमिति कर्मण्यसुन्प्रत्ययः । अतिशयेन तुविश्रवा इत्यतिशायने तमबिति तमप् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥
“Agni, the most liberal contributor of food, is able to resist all assailants unharmed, the nourisher of the gods.”
Strength of the Gods which none may harm, subduing all his enemies,
Agni is mightiest in fame.
Overcoming all attacks, He, the uninjured mind (power) of the gods, Agni, is most mightily renowned.
Who overpowers all attacks as the indestructible resolve of the gods, Agni is the best of those of mighty fame.
Der Götter unversehrte Kraft, besieget alle Gegner er, Agni, der weitberühmteste.
Überwältiger aller Angriffe, der ungebrochene Geist der Götter ist Agni der Hochberühmteste.
(Бог,) отражающий все нападения,
Нерушимая сила духа богов,
Агни – обладатель самой мощной славы.
अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्य॑: । क्षयं॑ पाव॒कशो॑चिषः ॥
अ॒भि । प्रयां॑सि । वाह॑सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः॑ । क्षय॑म् । पा॒व॒कऽशो॑चिषः ॥
दाश्वान् हविषां दाता मर्त्यो मनुष्यो यजमानो वाहसा हविषां वाहकेनाग्निना प्रयांस्यन्नान्यभ्यश्नोति । अभितः सर्वतः प्राप्नोति । किञ्च पावकशोचिषः शोधकदीप्तेरग्नेः सकाशात् क्षयं गृहं जाभ्यश्नोति ॥ प्रयांसि प्रीञ तर्पणे । अस्माद्धातोरन्तर्भावितण्यर्थादसुन्प्रत्ययः । प्रीणयन्ति भक्षमिति ष्रयांस्यन्नानि । नित्त्वादाद्युदात्तः । वाहसा । णिदित्यनुवृत्तौ वहिहाधाञ्छ्यश्छन्दसीत्यसुन् । दत्त्वादुपधावृद्धिः । नित्स्वरः । दाश्वान् । दातृ दान इत्यस्य क्वसौ दाश्वान्साह्वानिति व्याप्तौ । व्यत्ययेन परस्मैपदम् । निघातः ॥ ७ ॥
“From Agni of purifying radiance the mortal presenter (of offerings) obtains by his conveyance (of them to the gods) abundant viands and a dwelling.”
By offering sacred food to him the mortal worshipper obtains.
A home from him whose light makes pure.
Through the vehicle 1 (which carries the gods) towards the delights (of sacrifice), "the worshipping mortal attains the dwelling-place 2 of (Agni) whose flames are purifying.
A ritually dedicated mortal attains through his vehicle the pleasing offerings
and the dwelling place (of Agni), whose flames are pure.
Durch seine Huldigung erlangt Genuss der fromme Sterbliche Und Wohnsitz vom hellflammenden.
Der opferspendende Sterbliche gelangt zu Genüssen, zu einer Wohnung mit dem Fahrzeug des hellflammenden Agni.
Благодаря перевозке (жертв) смертный почитатель
Достигает жертвенных услад
(И) жилища (бога) с очищающим пламенем.
परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः । विप्रा॑सो जा॒तवे॑दसः ॥
परि॑ । विश्वा॑नि । सुऽधि॑ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म॑ऽभिः । विप्रा॑सः । जा॒तऽवे॑दसः ॥
जातवेदसो जातप्रज्ञा विप्रासो मेधाविनो होत्रादयो वयमग्नेस्तव सम्बन्धिभिर्मन्मभिर्मननीयैः स्तोमर्विश्वानि सर्वाणि सुधिता सुहितानि सुष्ठुहितान्यभिलषितानि वसूनि प्रयश्याम । सर्वतः प्राप्नुयाम । जातवेदस इत्यग्नेर्वाविशेषणम् । जातानि सर्वाणिवेत्तीति जातवेदाः सर्वज्ञ इत्यर्थः । एतादृशं जातवेदस्त्व्मग्नेरेवोचितमिति तद्विशेषणत्वं युक्तं ॥ सुधिता । डुधाञ् धारणपोषणयोरित्यसाद्भातोर्निष्ठायां छन्दसीत्यनुवृत्तौ सुधितवसुधितेत्यादिना निपातितः । शेश्छन्दसि बहुलमिति शेर्लुक् । गतिरनन्तर इति गतेः । प्रकृतिस्वरत्वम् । अश्याम अशूव्याप्तौ । बहुलं छन्दसीति श्नुप्रत्ययस्य लुक् । व्यत्ययेन परस्मैपदम् । यासुट् परस्मैपदेषूदात्त इति यासुत् । लिङ्ः सलोप इति सलोपः । अदन्तत्वाभावादियादेशो न भवति । मसः सकारस्य नित्यं ङित इति लोपः । निघातः । मन्मभिः । मनु अवबोधने । अन्येभ्योऽपि दृश्यन्त इति मनिन् । नित्स्वरः ॥ ८ ॥
“May we, endowed with intelligence, obtain all good things by our praises of Agni, to whom all is known.”
From Agni, by our hymns, may we gain all things that bring happiness,
Singers of him who knows all life.
May we, the priests, by our prayers obtain all the blissful gifts of Agni Gâtavedas.
Through our thoughts we would fully attain all the well-placed things of Agni;
we inspired poets (would attain those) of Jātavedas.
Von Agni mögen durch Gebet wir seine Sänger, stets empfahn, Vom Wesenkenner, was uns lieb.
Alle wohlgeratenen Gedichte möchten wir als die Wortführer durch des Agni Jatavedas Gedanken erlangen.
Всех прекрасно изготовленных (жертвенных наград)
Мы хотели бы достигнуть с помощью поэтических мыслей Агни
Джатаведаса, (мы,) вдохновенные!
अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे । त्वे दे॒वास॒ एरि॑रे ॥
अग्ने॑ । विश्वा॑नि । वार्या॑ । वाजे॑षु । स॒नि॒षा॒म॒हे॒ । त्वे इति॑ । दे॒वासः । आ । ई॒रि॒रे॒ ॥
हे अग्ने वार्या वरणीयानि सम्भजनीयानि विश्वानि सर्वाणि धनानि वाजेषुयुद्धेषु सनिषामहे । वयं सम्भजामहे । यतः कारणाद्देवासः पूर्वमस्माभिरिष्टा देवा अस्मदभिमतफलप्रदानाय त्वे त्वय्येरिरे । आ समन्तादगमन् । त्वयि पविष्टा इत्यर्थः । सर्वथापि त्वत्सकाशात् फलं लभेमहीति भावः । वार्या । वृङ् सम्भक्तौ । ऋहलोर्ण्यदिति ण्यत् । शेश्छन्दसि बहुलमिति शेर्लुक् । ईडवन्देत्यादिनाद्युदात्तः वाजेषु । वृषादित्वादाद्युदात्तः । सनिषामहे । वनषण सम्भक्तौ । धात्वादेः षः सः । लेटि सिब्बहुलमिति सिप् । सिप आर्धधातुकत्वादिडागमः । लेटोऽडाटावित्यडागमः । व्यत्ययेनात्मनेपदम् । निघातः । त्वे । युश्मच्छब्दस्य सप्तम्यान्तादेशः । सुपां सुलिगिति शे आदेशः । शे । पा. १-१-१३ । इति प्रगृह्यसञ्ञा । ईरिरे । ईर गतवित्यस्मात्परस्य लिटो झस्य इरेजादेशः । इजादेश्च गुरुतम इत्याम्न भवति मन्त्रत्वात् । निघातः ॥ ९ ॥
“May we obtain, Agni, all precious things (as booty) in battles, since the gods are concentrated in you.”
O Agni, in our deeds of might may we obtain all precious things:
Tle Gods are centred all in thee.
Agni! May we win all the best things in (the trials of) strength. In thee the gods have established them 1.
O Agni, we shall gain all desirable things among the prizes of victory. In you the gods have placed them.
Lass, Agni, alles Herrliche erbeuten uns in jeder Schlacht; Dir strebten auch die Götter zu.
O Agni, alle begehrenswerten Dinge möchten wir in den Preiskämpfen gewinnen. Zu dir haben die Götter sie gebracht.
О Агни, все избранные дары
Мы хотим завоевать в состязаниях!
В небе их вызвали к жизни боги.