इन्द्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ॥
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॑तम् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् । अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥
इन्द्रश्चाग्निश्च इन्द्राग्नी हे देवौ सुतम् अभिषवादिसंस्कारैः संस्कृतमत एव वरेण्यं वरणीयं संभजनीयम् इमं सोमं प्रति गीर्भिः अस्मदीयाभिः स्तुतिरूपाभिर्वाग्भिराहूतौ सन्तौ नभः नभसः स्वर्गस्थानात् आ गतम् आगच्छतम् । आगत्य च धिया अस्माभिः क्रियमाणे कर्मणि इषिता प्रेरितौ युवाम् अस्य पातम् इमं सोमं पिबतम् । यद्वा धिया अस्मदीयया बुद्ध्या इषितौ प्राप्तौ अस्मद्भक्त्या प्रेरितौ युवामिमं सोमं पिबतम् ॥ इन्द्राग्नी । इन्द्रश्चाग्निश्च ‘ द्वन्द्वे घि' ( पा. सू. २.२.३२ ) इत्यग्निशब्दस्य पूर्वनिपाते प्राप्ते अजाद्यदन्तम् ( पा, सू. २. २. ३३ ) इतीन्द्रशब्दस्य पूर्वनिपातः । पादादित्वान्निघातप्रतिषेधः । षाष्ठिकस्वरः । गतम् । 'गम्लृ सृप्लृ गतौ'। ‘ बहुलं छन्दसि ' इति शपो लुकि सति ‘ अनुदात्तोपदेश' इत्यादिना मकारलोपः । निघातः । वरेण्यम् । वृङ संभक्तौ । ‘ वृङ एण्यः । वृषादित्वाद्युदात्तः । पातम् ।' पा पाने । ‘ सर्वेविधयश्छन्दसि विकल्प्यन्ते' इति न पिबादेशः । इषिता । इष गतौ ' इत्यस्माद्धातोर्निष्ठायां ‘तीषसह ' इतीडागमः। ‘ आगमा अनुदात्ताः' इतीटोऽनुदात्तत्वात् क्तस्वरः शिष्यते ॥
“Indra and Agni, come to this acceptable libation, (brought) by our praises from heaven, and induced by (our) devotion to drink of it.”
MOVED, Indra-Agni, by our hymn, come to the juice, the precious dew:
Dr.ink ye thereof, impelled by song.
Indra-Agni, in consequence of our prayers come hither to the pressed (Soma), to the precious cloud 1. Drink of it incited by our thoughts (i. e. by our prayers).
O Indra and Agni, come
For our prayers to the pressed drink, the delightful fumes
Drink ye of it, impelled by our prayer.
Indra and Agni! Come to the pressed soma, to the cloud worthy to be chosen, through our songs.
Urged on by our insight, drink of this.
Indrāgni kommt zu diesem Saft, durch Lieder zu dem schönen Duft, O trinkt ihn, durch Gebet gelockt.
Indra und Agni! Kommet auf meine Lobreden zu dem ausgepreßten, zu dem vorzüglichen Gewölk. Trinket davon, durch die Dichtkunst angeregt!
О Индра-Агни, придите к выжатому (соме),
(Привлеченные моими) песнями, к превосходной туче (сомы)!
Пейте его, возбужденные поэтическим искусством!
इन्द्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः । अ॒या पा॑तमि॒मं सु॒तम् ॥
इन्द्रा॑ग्नी॒ इति॑ । ज॒रि॒तुः । सचा॑ । य॒ज्ञः । जि॒गा॒ति॒ । चेत॑नः । अ॒या । पा॒त॒म् । इ॒मम् । सु॒तम् ॥
हे इन्द्राग्नी जरितुः स्तोतुः सचा स्वर्गादिलक्षणफलप्राप्तौ सहायभूतः यज्ञः ज्योतिष्टोमादियज्ञसाधनभूतः चेतनः इन्द्रियाणां चेतयिताप्यायनकारी सन् असौ सोमः जिगाति युवाम् अभिगच्छति । अया अस्मदीयस्तुतिलक्षणयानया वाचाहूतौ सन्तौ सुतम् अभिषवादिसंस्कारोपेतम् इमं सोमं पातं पिबतम् ॥ जिगाति । • गा स्तुतौ ' इत्ययं धातुरत्र गमने वर्तते । छन्दसि जुहोत्यादिः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । निघातः । चेतनः । ‘चिती संज्ञाने' । कर्तरि बहुलवचनाल्ल्युट्। ‘ लिति' इत्याद्युदात्तत्वम् । अया। इदंशब्दस्य तृतीयायाः ‘ सुपां सुलुक्° ' इति याजादेशः । अनादेशप्राप्तौ हलि लोपः । पातम् ।' पा पाने '। निघातः ॥
“Indra and Agni, the conscious sacrifice associated with the worshipper proceeds to you; (summoned) by this (invocation) drink the libation.”
O Indra-Agni, with the man who lauds you comes the wakening rite:
So drink ye both this juice assured.
Indra-Agni, the brilliant 1 sacrifice of him who praises you goes forward together (with the Soma libations, the praises, &c.). Thus drink this pressed (Soma)!
Indra and Agni! The sacrifice of the singer goes (to you two) jointly, being worthy of your attention.
By this (insight), drink this pressed soma.
Zu euch Indrāgni geht zugleich des Sängers herrlich Opfer hin, So trinket denn von diesem Saft.
Indra und Agni! Zu euch gemeinsam kommt des Sängers beachtenswertes Opfer. Trinket durch diese Dichtung angeregt diesen Soma!
О Индра-Агни, (к вам обоим) вместе движется
Привлекающая внимание жертва певца.
(Возбужденные) этим (поэтическим искусством), пейте этого выжатого (сому)!
इन्द्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे । ता सोम॑स्ये॒ह तृ॑म्पताम् ॥
इन्द्र॑म् । अ॒ग्निम् । क॒वि॒ऽछदा॑ । य॒ज्ञस्य॑ । जू॒त्या । वृ॒णे॒ । ता । सोम॑स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥
यज्ञस्य यज्ञसाधनभूतस्य सोमस्य जूत्या । जूतिः प्रेरणम् सोमस्तावत् यजमानं प्रेरयति । साधनमुपलभ्य तत्साध्यक्रतौ यजमानः प्रवर्तत इति हि तस्य प्रेरकत्वम् । तया प्रेरणरूपया जूत्या प्रेरितोऽहं कविच्छदा कवीनां स्तोतॄणामुचितफलप्रदानेनोपच्छन्दकौ° इन्द्रमग्निं च युवां वृणे सोमपानार्थमिह कर्मण्यागच्छतमिति संभजे। ता आगतौ च ताविन्द्राग्नी इह कर्मणि सोमस्य सोमपानेन तृम्पतां तृप्यताम् ॥ इन्द्रम् । इदि परमैश्वर्ये 'इत्यस्माद्धातोः ‘ऋजेन्द्राग्र° ' इति रन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तत्वम् । कविच्छदा ।' छदि अपवारणे'। अस्मात् क्विप् । ‘सुपां सुलुक् ' इति सुपो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जूत्या । ‘ जू' इति सौत्रो धातुः । अस्मात् ‘ °उदात्तः ' इत्यनुवृत्तौ ‘ ऊतियूतिजूति' इत्यादिना निपातनादन्तोदात्तत्वम् । “ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । वृणे ।' वृङ् संभक्तौ । श्नाप्रत्ययः । ‘ टित आत्मनेपदानाम्° ' इति ‘टेरेत्वम्॥ निघातः । ता । ‘ सुपां सुलुक् ' इति डादेशः । सोमस्य । षुञ् अभिषवे'। अस्मात् “ अर्तिस्तुसुहुसृधृक्षि° ' इत्यादिना मन्प्रत्ययः । नित्स्वरः । तृम्पताम् । तृप प्रीणने '। लोटि मुचादित्वान्नुमागमः । निघातः ॥
“Urged by the energy of the sacrifice, I have recourse to Indra and Agni, the protectors of the pious; may they be satiated with the Soma here presented.”
Through force of sacrifice I choose Indra-Agni who love the wise:
With Sorna let these sate them here.
By this stirring sacrifice I choose Indra and Agni who show themselves as sages 1; may they here satiate themselves with Soma.
I choose Indra and Agni, the two who appear as sage poets with the spur of our sacrifice.
So let those two satisfy themselves here with the soma.
Die Sängerfreunde wähl' ich mir, Indrāgni, in des Opfers Drang; Dass hier des Soma's sie sich freun.
Indra und Agni, die für Seher gelten, erküre ich mit dem Anreiz des Opfers. Die sollen sich hier an Soma satt trinken!
Индру (и) Агни, слывущих поэтами,
Я выбираю, подзадоривая жертвой.
Да насытятся они здесь сомой!
तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता । इ॒न्द्रा॒ग्नी वा॑ज॒सात॑मा ॥
तो॒शा । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । स॒ऽजित्य्वा॑ना । अप॑राऽजिता । इ॒न्द्रा॒ग्नी इति॑ । वा॒ज॒ऽसात॑मा ॥
तोशा शत्रूणां बाधकौ वृत्रहणा वृत्रस्य पापस्य हन्तारौ सजित्वाना समानजेतारौ अपराजिता अपराजितौ केनाप्यतिरस्कृतौ वाजसातमा अन्नस्यातिशयेन दातारौ इन्द्राग्नी युवां हुवे इह कर्मणि सोमपानार्थमहमाह्वयामि ॥ वृत्रहणा । ‘ हन हिंसागत्योः । ‘ ब्रह्मभ्रूणवृत्रेषु क्विप्' इति क्विप् ।' एकाजुत्तरपदे णः ' ( पा. सू. ८. ४. १२ ) इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हुवे । ह्वयतेः ‘ बहुलं छन्दसि ' इति लुकि सति ‘ह्वः संप्रसारणम्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । उवङादेशः । व्यत्ययेनात्मनेपदम् । निघातः । सजित्वाना । ‘ जि जये '। ‘ शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः० ' ( उ. सू. ४. ५५३ ) इति क्वनिप् । कित्त्वाद्गुणाभावः । पित्त्वात्तुगागमः । ‘ समानस्य छन्दस्यमूर्ध ' इति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपराजिता । नञ्समासे ‘ तत्पुरुष तुल्यार्थ° ' इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । ' देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वे प्राप्ते ‘ नोत्तरपदेऽनुदात्तादौ ' इति प्रतिषेधात्समासस्वरः । वाजसातमा । ' षणु दाने '। अस्मात् ‘जनसनखनक्रमगमः' इति विट् । ‘ विड्वनोरनुनासिकस्यात् ' इत्याकारः । ‘ अतिशायने तमप्' इति तमप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“I invoke Indra and Agni, the discomfiters of foes, the destroyers of Vṛtra, the victorious, the invincible, the bestowers of most abundant food.”
Indra and Agni I invoke, joint-victors, bounteous, unsubdued,
Foe-slayers, best to win the spoil.
I call the bounteous 1, the killers of foes 2, the united conquerors, unconquered, Indra-Agni, the greatest winners of booty.
I invoke the streaming smashers of obstacles, ever-conquering, never conquered
Indra and Agni, best winners of victory’s prize.
Die unbesiegten Sieger ruf' die güt'gen Feindetödter ich, Indrāgni, die erbeutendsten.
Die beiden in die Flucht treibenden Feindetöter rufe ich, die zusammen Siegreichen, Unbesiegten, Indra und Agni, die am ehesten den Siegerpreis gewinnen.
Я призываю двух убийц врагов, прогоняющих (врагов),
Побеждающих, (но) непобедимых,
Индру-Агни, лучше всех добывающих награды.
प्र वा॑मर्चन्त्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तार॑: । इन्द्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥
प्र । वा॒म् । अ॒र्च॒न्ति॒ । उ॒क्थिनः॑ । नी॒थ॒ऽविदः॑ । ज॒रि॒तारः॑ । इन्द्रा॑ग्नी॒ इति॑ । इषः॑ । आ । वृ॒णे॒ ॥
हे इन्द्राग्नी उक्थिनः । उक्थं शस्त्रम् । तद्वन्तः शस्त्रिणो होत्रादयः वां युवां प्र अर्चन्ति इह कर्मणि स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । तथा नीथाविदः स्तोत्राभिज्ञाः सामगानकुशलाः जरितारः स्तोतार उद्गात्रादयोऽभिलषितफलावाप्तये युवामर्चंन्ति । अहमपि इषः अन्नस्य लाभार्थमिन्द्राग्नी युवाम् आ वृणे सर्वतः संभजे । पूजयामीत्यर्थः । वाम् । युष्मच्छब्दस्य द्वितीयायां पदात्परत्वात् ' युष्मदस्मदोः षष्ठीचतुर्थीद्वितीया ' इत्यादिना वामित्यादेशोऽनुदात्तश्च । अर्चन्ति । ‘ अर्च पूजायाम् । निघातः । उक्थिनः । ‘ वच परिभाषणे '। ‘पातॄतुदिवचिरिचि° ' इति कर्मणि थक्।' वचिस्वपि ' इत्यादिना संप्रसारणम् । उक्थं शस्त्रम् । उक्थं येषां ते । ‘ अत इनिठनौ 'इतीनिः । ‘ यस्य ' इति लोपः । प्रत्ययस्वरः । नीथाविदः । ‘ णीञ् प्रापणे । ‘ हनिकुषिनीरमि° ' इत्यादिना क्थन् । कित्त्वाद्गुणाभावः । ‘ विद ज्ञाने '। ' क्विप् च ' इति क्विप् । कुदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रितत्वादाद्युदात्तत्वम्" । वृणे । ‘ वृङ् संभक्तौ ' । निघातः ॥ ॥ ११ ॥
“The reciters of prayers, the repeaters of praise, who are skilled in sacred song, worship you both; I have recourse to Indra and Agni for food.”
Indra and Agni, singers skilled in melody hymn you, bringing lauds:
I choose you for the sacred food.
The praisers rich in hymns, knowing all the ways (of the sacrifice), laud you. Indra-Agni, I choose the food (which you give).
The singers with their recitations, knowing the (poetic) devices, chant forth to you two.
Indra and Agni, I choose your refreshments.
Es preisen die lobsingenden, die liederkund'gen Sänger euch; Indrāgni, Labung wünsch' ich mir.
Euch besingen die liederreichen Sänger, die den rechten Ton kennen. Indra und Agni! Ich erbitte mir Speisegenüsse.
Вас воспевают гимнотворцы,
Певцы, знающие напевы.
О Индра-Агни, я выбираю себе жертвенные подкрепления.
इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा ॥
इन्द्रा॑ग्नी॒ इति॑ । न॒व॒तिम् । पुरः॑ । दा॒सऽप॑त्नीः । अ॒धू॒नु॒त॒म् । सा॒कम् । एके॑न । कर्म॑णा ॥
हे इन्द्राग्नी दासपत्नीः । दासयन्ति उपक्षपयन्ति इति दासा उपक्षपयितारः शत्रवः। ते पतयः पालका यासां ता दासपत्नीः । नवतिं नवतिसंख्याकाः पुरः एवंविधाः शत्रूणां पुरीः एकेन 'कर्मणा एकेनैवोद्योगेन युवां साकं सह युगपत् अधूनुतम् अकम्पयतम् । ताविन्द्राग्नी आह्वयामीति शेषः ॥ नवतिम् । नवानां दशतां नवभावः तिश्च प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । दासपत्नीः । ‘ दसु उपक्षये '। दासयतीति दासः । पचाद्यजन्तः । चित्त्वादन्तोदात्तः । ते पतयो यासां नित्यं सपत्न्यादिषु दासाच्च ( पा. सू. ४. १. ३५. ग. ) इत्युक्तत्वात् ‘ विभाषा सपूर्वस्य ' इति ङीप् । इकारस्य नकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अधूनुतम् । ‘ धूञ् कम्पने '। लङि स्वादिभ्यः श्नुः । निघातः । एकेन । ‘ इण् गतौ ' । ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' इति कन् । नित्त्वादाद्युदात्तः ॥
“Indra and Agni, with one united effort you over-threw ninety cities ruled over by (your) foes.”
Indra and Agni, ye cast down the ninety forts which DAsas held,
Together, with one mighty deed.
Indra-Agni, you have hurled down by one deed the ninety strongholds together of which the Dâsas were the lords.
O Indra and Agni, ninety forts
Of which the Dasas were lords ye overtbrew
Together in one deed.
Indra and Agni! You shook the ninety fortifications, lorded over by Dāsas, at one time with a single act.
Indrāgni, ihr erschüttertet die neunzig Burgen, die vom Feind Beherrschten, alle auf einmal.
Indra und Agni! Ihr schüttelt die neunzig Burgen, die von dem Dasa beherrscht waren, zusammen in einer einzigen Unternehmung.
О Индра-Агни, вы потрясли
Девяносто крепостей, подчиненных Дасе, –
Сразу, одним боевым деянием.
इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तय॑: । ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥
इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥
हे इन्द्राग्नी धीतयः सोमस्य धातारः पातारो होत्रादयः ऋतस्य कर्मफलस्य पथ्याः पथो मार्गान् अनु लक्षीकृत्य अपसः अस्माभिः क्रियमाणस्य कर्मणः परि सर्वतः उप प्र यन्ति समीपे प्रकर्षेण वर्तन्ते । अतः सोमपानार्थं युवामागच्छतमिति भावः । यद्वा । धीतयः स्तुतयः ऋतस्य यज्ञस्य मार्गान् लक्षीकृत्य कर्मणः परितः प्रवर्तन्ते । अतः स्तोतव्यतया युवामागतमिति ॥ यन्ति । ‘ इण् गतौ ' । यणादेशः । निघातः । धीतयः । ‘ धेट् पाने' इत्यस्मात् कर्तरि ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ‘घुमास्था ' इतीत्वम् । चित्त्वादन्तोदात्तः ॥
“Indra and Agni the pious ministers, are present at our holy rite, according to the wave of worship.”
To Indra-Agni eeverent thoughts go forward from the holy task
Along the path of sacred Law.
Indra-Agni, the thoughts (of the worshippers) go forward towards (you) from the work (of sacrifice) along the paths of Rita.
Indra and Agni! From our (ritual) work our insights go forth toward (you) along the paths of truth.
Indrāgni, vor dem Werke her ergehen die Gebete sich; Des Gottesdienstes Pfad' entlang.
Indra und Agni! Von dem heiligen Werke ziehen die Gedanken die Pfade der Wahrheit entlang.
О Индра-Агни, от дела (жертвоприношения)
Мысли удаляются
По пути закона.
इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च । यु॒वोर॒प्तूर्यं॑ हि॒तम् ॥
इन्द्रा॑ग्नी॒ इति॑ । त॒वि॒षाणि॑ । वा॒म् । स॒धऽस्था॑नि । प्रयां॑सि । च॒ । यु॒वोः । अ॒प्ऽतूर्य॑म् । हि॒तम् ॥
हे इन्द्राग्नी वां युवयोः तविषाणि बलानि प्रयांसि अन्नानि च सधस्थानि परस्परमवियुज्य वर्तन्ते । तथा अप्तूर्यं वृष्टिद्वारा प्रेरकत्वं युवोः युवयोरेव हितं निहितं वर्तते । तस्मात्सोमपानप्रभृतिषु सर्वकर्मसु इन्द्राग्न्योः सहैव वर्तमानत्वमिति भावः ॥ वाम् । षष्ठीद्विवचने वामित्यादेशः । सधस्थानि । ष्ठा गतिनिवृत्तौ । आतोऽनुपसर्गे कः । ‘ सध मादस्थयोश्छन्दसि ' इति सहस्य सधादेशः ॥
“Indra and Agni, in you, vigour and food are abiding together, and therefore in you is deposited the dispensing of water.”
O Indra-Agni, powers are yours, and dwellings and delightful food
Good is your readiness to act.
Indra and Agni, yours are powerful abodes and delights. You cross the waters: this is the deed which belongs to you 1.
Indra and Agni! Mighty are your abodes and your pleasing offerings. The crossing of the waters has been ordained for you two.
Indrāgni, ihr besitzet Kraft, ihr feste Sitze, Freuden ihr, In euch ist rasches Werk gelegt.
Indra und Agni! Euch sind die Kräfte und das Beisammensein und die Genüsse, euch beiden das Vordringen über die Gewässer bestimmt.
О Индра-Агни, могучи ваши
Обители и жертвенные услады.
Вам положена переправа через воды.
इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां॑ चेति॒ प्र वी॒र्य॑म् ॥
इन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ । तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥
हे इन्द्राग्नी दिवः रोचना स्वर्गस्य रोचकौ प्रकाशकौ युवां वाजेषु संग्रामेषु परि भूषथः परितः सर्वतोऽलंकृतौ भवथः । शत्रून्पराजित्य सर्वतो विजयमानौ वर्तेथे । वां युवयोः वीर्यं सामर्थ्यमेव तत् तादृशं संग्रामविजयं प्र चेति प्रकर्षेण ज्ञापयति । यद्वा युवां वाजेषु संग्रामेषु परिभूषथः शत्रून्परिभवथः । शेषं पूर्ववत् ॥ रोचना । ' रुच दीप्तौ' इत्यस्य ‘अनुदात्तेतश्च हलादेः' इति युच् । चित्त्वादन्तोदात्तः । भूषथः । ‘ भूष भूषणे' । निघातः । चेति । ‘ चिती संज्ञाने' । अयमन्तर्भावितण्यर्थः । 'बहुलं छन्दसि' इति शपो लुक् । तकारलोपः छान्दसः ॥ ॥ १२ ॥ ॥ १ ॥
“Indra and Agni, illuminators of heaven, be ever graced (with victory) in battles, for such your prowess proclaims.”
Indra and Agni, in your deeds of might ye deck heaven's lucid realms:
Famed is that hero strength of yours.
Indra and Agni, you display the lights of heaven in your deeds of strength; that mighty deed of yours has been known far and wide.
Indra and Agni! You encompass the lights of heaven among your prizes of victory.
This heroic deed of yours has become revealed.
Indrāgni bei den Opfern schmückt des Himmels Räume rings ihr aus; Dies euer Wirken strahlte hell.
Indra und Agni! Ihr schließet des Himmels Lichter in euren Siegesgewinn ein. Diese eure Heldentat ist bekannt.
О Индра-Агни, источники света на небе
Вы окружаете, когда (речь идет) о наградах.
Этот подвиг ваш примечателен.