प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै । गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥
प्र । वः॒ । दे॒वाय॑ । अ॒ग्नये॑ । बर्हि॑ष्ठम् । अ॒र्च॒ । अ॒स्मै॒ । गम॑त् । दे॒वेभिः॑ । आ । सः । नः॒ । यजि॑ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥
यजमानो होत्रादीन्प्रति बूते । हे होत्रादयः वः युष्मत्संबन्धिने देवाय द्योतमानाय अस्मै अस्मिन्कर्मणि स्तुत्याय अग्नये बर्हिष्ठं वृद्धतमं प्रभूतमिदं स्तुतिरूपं स्तोत्रशस्त्रादि वोक्थ्यजातं प्र अर्च उच्चारयत । एवं स्तुतः सः अग्निः देवेभिः यष्टव्यदेवैः सहितः सन् नः अस्मान्प्रति आ गमत् आगच्छतु । आगत्य च यजिष्ठः यष्टृतमः सोऽग्निः बर्हिः अस्माभिर्वेद्यां स्तीर्णे बर्हिषि आ सदत् आसीदतु उपविशतु ॥ बर्हिष्ठम् । बर्हितृशब्दात् ‘तुश्छन्दसि' इत्यतिशायने इष्ठन् । अर्च। ‘अर्च पूजायाम्'। भौवादिकः । बहुवचनस्यैकवचनम् । निघातः । गमत् । 'गम्लृ गतौ ' । अस्य छन्दसि लुङ्लङ्लिटः' इति लोडर्थे लुङ । लृदित्वात् च्लेरङ्। ‘ नित्यं ङितः 'इतीकारलोपः। पादादित्वान्न निघातः । यजिष्ठः । यष्टृशब्दात् ‘तुश्छन्दसि' इतीष्ठन् । तुरिष्ठेमेयःसु' इति तृचो लोपः । नित्स्वरः । सदत् । पूर्ववल्लोडर्थे लुङ् । 'षद्लृ विशरणगत्यवसादनेषु' इत्यस्य लृदित्वादङ्। निघातः ॥
“(Priests) utter devout (praises) to this your divine Agni, that so glorified he may come to us with gods, and sit down on the sacrificial grass.”
To Agni, to this God of yours I sing aloud with utmost power.
May he come to us with the Gods, and sit, best Offerer, on the grass.
To this god Agni I sing 1 for you most powerfully. May he come to us with the gods; may he, the best sacrificer, sit down on the sacrificial grass.
Chant forth for you all the loftiest (chant) to him, the god Agni.
He will come to us with the gods, and as the best sacrificer he will sit here upon the ritual grass.
Besingen will ich euren Gott, den Agni, auf das kräftigste; Er komme mit den Göttern her, bestopfernd sitz' er auf der Streu.
Auf euren Gott Agni stimm an, auf ihn das höchste Loblied! Er möge mit den Göttern zu uns kommen und als bester Opferer sich auf das Barhis setzen;
Этому богу Агни для вас
Я запеваю самую высокую (хвалу).
Да приидет он к нам с богами!
Да усядется на солому как лучший жертвователь!
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तय॑: । ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥
ऋ॒तऽवा॑ । यस्य॑ । रोद॑सी॒ इति॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ । ह॒विष्म॑न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः॑ । अव॑से ॥
यस्य पूर्वमन्त्रे प्रतिपादितस्याग्नेः रोदसी इमे द्यावापृथिव्यौ वशे भवतः । अग्नेः प्रकाशकत्वेन तदधीनप्रकाशके भवत इत्यर्थः । किंच ऊतयः यजमानस्य फलप्रदानेन रक्षितारो देवाः दक्षं यस्याग्नेर्बलं सचन्ते सेवन्ते । ‘ सचन्ते सेवन्ते ' ( निरु. ७. २३) इति यास्कः । अग्नेर्यजमानदत्तहविष्प्रदत्वेन तदधीना इत्यर्थः । एवंभूतः सोऽग्निः ऋतावा सत्यकर्मा । सत्यसंकल्प इत्यर्थः । किंच हविष्मन्तः संभृतहविष्का यजमाना हविर्वहनार्थं तम् एवाग्निम् ईळते स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । किंच सनिष्यन्तः धनादिलाभमिच्छन्तः तम् अवसे रक्षणाय तमेवाग्निमाश्रयन्ते ॥ ऋतावा । ऋतशब्दात् “ तदस्यास्ति' इति छन्दसीवनिपौ वक्तव्यौ' इति वनिप् । अन्येषामपि दृश्यते' इति दीर्घः । वनिपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः। सचन्ते। ‘षच समवाये । व्यत्ययेन आत्मनेपदम् । यद्वृत्तयोगादनिघातः। सनिष्यन्तः । सनिर्लाभः । तमिच्छन्तः । ‘ सुप आत्मनः क्यच् । ‘ सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः' इति क्यचि परतः सुगागमः । क्यचः स्वरः ॥
“The observer of truth, of whom (are) heaven and earth, and whose vigour the protecting (deities) assist; him, the offerers of oblations adore, and those desirous of riches (have recourse) to him for protection.”
The Holy, whose are earth and heaven, and succour waits upon his strength;
Him men who bring oblations laud, and they who wish to gain, for grace.
The righteous one to whose skill the two worlds (Heaven and Earth) and (all) blessings cling—Him the men rich in offerings magnify, Him those who long for gain, that they may obtain his blessing.
He possessing the truth, whose skill the two world-halves and (the gods’) help follow—
him do those bringing offerings summon, him do those striving to win (summon) for help.
Den Heil'gen, dessen Kräfte stärkt das Weltenpaar, das Opferwerk, Ihn flehn die opferreichen an, um Hülfe die verlangenden.
Der Wahrhaftige, dessen Willen beide Welten und die Hilfstruppen folgen, ihn rufen sie mit Opfergaben an, ihn die Gewinn Erstrebenden zum Beistand.
(Бог,) придерживающийся закона, (тот,) чьей воле
Следуют оба мира (и) подкрепления (богов),-
(Люди) с жертвенными возлияниями призывают его,
(Они,) стремящиеся добыть (награду,) его – для поддержки.
स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः । अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥
सः । य॒न्ता । विप्रः॑ । ए॒षा॒म् । सः । य॒ज्ञाना॑म् । अथ॑ । हि । सः । अ॒ग्निम् । तम् । वः॒ । दु॒व॒स्य॒त॒ । दाता॑ । यः । वनि॑ता । म॒घम् ॥
विप्रः मेधावी कर्माभिज्ञः सः अग्निः एषां कालापराधेन हविर्निर्वापं कृतवतां यजमानानां यथोक्तकर्मप्रदर्शनेन तत्र प्रवर्तकः । अथ किंच यज्ञानां ज्योतिष्टोमादीनां सः अग्निः नियन्ता फलप्रदानेन नियामकः । हि प्रसिद्धौ । अत एव सर्वस्य नियन्ता खलु । किंच सः अग्निः दाता ज्योतिष्टोमादिकर्मफलदाता मघं मंहनीयं धनम् । ‘ मघं रेक्णः ' (नि. २. १०. १ ) इति तन्नामसु पाठात् । तद्धनं वनिता प्रयच्छंश्च भवति । वः युष्मत्संबन्धिनं तं तादृशम् अग्निं हे ऋत्विजः यूयं दुवस्यत आहुतिप्रदानेन परिचरत । दुवस्यतिः परिचरणकर्मा ‘नमस्यति दुवस्यति' (नि. ३. ५. ५) इति तन्नामसु पाठात् ॥ यन्ता । ‘यम उपरमे ' इत्यस्य तृचि रूपम् । ‘ ऋदुशनस्' इत्यादिना अनङादेशः । चित्स्वरः । अथा हि। • निपातस्य ' इति दीर्घः । दुवस्यत । दुवः परिचरणम् । तदिच्छन्तः । सुपः क्यच् । तदन्तस्य धातोर्लोटि रूपम् । दाता । ' डुदाञ् दाने' । ताच्छीलिकस्तृन् । नित्त्वादाद्युदात्तः ॥
“He, the sage, is the director of those (who sacrifice), he is (the regulator) of sacrifices; worship him you (benefactor), the donor, who is the bestower of wealth.”
He is the Sage who guides these men, Leader of sacred rites is he.
Him your own Agni, serve ye well, who winneth and bestoweth wealth.
He, the priest, is the guide of these (men) 1, and he indeed (is the guide) of sacrifices. Praise ye this Agni who is the giver, the winner of wealth.
As inspired poet, he is the controller of these (bringing offerings); he is (the controller) of sacrifices. Because he is so,
befriend for yourselves Agni, who gives and gains bounty.
Er ist ihr weiser Lenker ja, er ist's, der auch die Opfer lenkt; Ihn, euren Agni, ehret recht, der Schätze gibt und gern ertheilt.
Der Beredte ist der Lenker dieser Beredten, denn er ist auch der Lenker der Opfer. Bevorzuget diesen euren Agni, der Gabe gibt und gewinnt!
Этот вдохновенный – правитель их.
Вот почему он и (правитель) жертв.
Уважайте этого Агни,
Который добывает вознаграждение!
स न॒: शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा । यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥
सः । नः॒ । शर्मा॑णि । वी॒तये॑ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्ऽत॑मा । यतः॑ । नः॒ । प्रु॒ष्णव॑त् । वसु॑ । दि॒वि । क्षि॒तिऽभ्यः॑ । अ॒प्ऽसु । आ ॥
सः अग्निः हविष्प्रदातृभ्यः नः अस्मभ्यं शंतमा पशुपुत्रादिसमृद्धया अतिशयेन सुखकराणि । शर्मशब्दो गृहवाची ‘ छाया शर्म वर्म' (नि. ३.४.२१) इति तन्नामसु पाठात् । तथाविधानि गृहाणि वीतये संभजनाय अग्निहोत्रादिकर्मप्राप्त्यर्थं यच्छतु ददातु । यतः यस्मादग्नेः सकाशात् प्रुष्णवत् समृद्धिमत् दानभोगादिना व्यये सत्यपि अतिशयेन वर्धमानं दिवि द्युलोके क्षितिभ्यः भूलोकात् अप्सु अन्तरिक्षे च समुत्पन्नं वसु तत्तल्लोके असाधारण्येन वर्तमानं धनम् आ समन्तात् उपनमति । यतोऽग्नेः प्रसादात् त्रिषु लोकेषु विद्यमानं धनमस्मानागच्छति सोऽग्निरिति पूर्वेणान्वयः॥ वीतये । वी गतिकान्त्यादिषु ।' मन्त्रे वृषेषपच° ' इत्यादिना क्तिन् । उदात्तत्वेन निपातनादुदात्तः । यच्छतु । ‘यम उपरमे'। इषुगमियमां छः' इति मकारस्य छः । प्रुष्णवत् । 'पुष स्नेहनसेचनपूरणेषु ' । अस्मादौणादिको नक्प्रत्ययः । तदस्यास्ति' इति मतुप् । तस्योदात्तताभावश्छान्दसः ॥
“May that Agni bestow upon us prosperous dwellings for our maintenance, so that from him infinite wealth, whether it may be in heaven or from earth, or in the waters (may come to us).”
So may the gracious Agni grant most goodly shelter for our use;
Whence in the heavens or in the floods he shall pour wealth upon our lands.
May this Agni give us most blissful shelter for our (sacrificial) feast, whence he may shower wealth on us in heaven, the (human) dwellings 1, and in the waters.
Let Agni extend to us shelters that best bring luck in order (for us) to pursue (the gods)—
(shelters) from where he will shower here the goods in heaven and in the waters for the sake of our settlements.
Es reiche Agni zum Empfang uns dar den segensreichsten Schutz, Durch den im Himmel in der Flut er Gut uns Leuten ströme zu.
Dieser Agni soll unserer Götterladung seinen heilsamsten Schutz gewähren, daraus er das Gut im Himmel und im Wasser über unsere Lande ausschütten möge.
Пусть окажет этот Агни
Самую благотворную защиту нашему приглашению (богов)
Таким образом, что он изольет фонтаном добро,
(Которое) на небе (и) в водах, на наши поселения!
दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभि॑: । ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥
दी॒दि॒ऽवांस॑म् । अपू॑र्व्यम् । वस्वी॑भिः । अ॒स्य॒ । धी॒तिऽभिः॑ । ऋक्वा॑णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता॑रम् । वि॒श्पति॑म् । वि॒शाम् ॥
ऋक्वाणः स्तुतिं कुर्वाणाः शस्त्रिणो होत्रादयः दीदिवांसं दीप्यमानम् अपूर्व्यं तेजस्वितया प्रतिक्षणमभिनवं होतारं देवानामाह्वातारं विशां विश्पतिं प्रजानामतिशयेन पालयितारं तम् अग्नि वस्वीभिः प्रशस्ताभिः अस्य धीतिभिः अग्निविषयस्तुतिलक्षणाभिर्वाग्भिः । यद्वा वस्वीभिर्वसुमद्भिरस्य धीतिभिरेतदुद्देशेन क्रियमाणैः कर्मभिः । इन्धते दीपयन्ति । स्तोत्रकरणहविष्प्रदानादिव्यापारेण समृद्धिं कुर्वन्ति ॥ दीदिवांसम् । दिवु क्रीडादावित्यस्य क्वसौ रूपम् । तुजादीनाम्' इत्यभ्यासस्य दीर्घः । लोपो व्योर्वलि ' इति वलोपः। वस्वीभिः । वसुशब्दात् व्यत्ययेन ङीन् । नित्स्वरः। धीतिभिः । ‘ धेट् पाने'। ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । कित्त्वात् ' घुमास्था° ' इतीत्वम् । चित्स्वरः । ऋक्वाणः । ऋच्शब्दान्मतुबर्थे वनिप् । अयस्मयादित्वाद्भसंज्ञात्वात् कुत्वम् । पदसंज्ञाभावाज्जश्त्वाभावः । इन्धते । ‘ ञिइन्धी दीप्तौ । विश्पतिम् ।‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम्। विशाम् । ‘सावेकाचः०' इति विभक्तेरुदात्तत्वम् ॥
“The devout kindle (the fire) with his wealth-obtaining rites, (to worship) the radiant, unpreceded Agni, the invoker (of the gods), the protector of men.”
The singers kindle him, the Priest, Agni the Lord of tribes of men,
Resplendent and without a peer through his own excellent designs.
The singers kindle Agni, the Hotri, the lord of the tribes, the brilliant, the wonderful, with his excellent thoughts 1.
The shining one who has none before him, Agni, together with his good insights,
do the verse-reciters kindle as their Hotar and as the clanlord of the clans.
Ihn, welcher strahlt wie nie zuvor durch dieses Mannes frommes Werk, Ihn, Agni, zünden Sänger an, den Priester, ihn der Häuser Herrn.
Der aufgeleuchtet ist wie nie zuvor mit seinen guten Absichten, den Agni zünden die Sänger an, den Hotri, den Fürsten der Stämme.
Ярко засверкавшего, небывалого
Агни с его добрыми намерениями
Зажигают исполнители гимнов,
Хотара, господина племен.
उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः । शं न॑: शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥
उ॒त । नः॒ । ब्रह्म॑न् । अ॒वि॒षः॒ । उ॒क्थेषु॑ । दे॒व॒ऽहूत॑मः । शम् । नः॒ । शो॒च॒ । म॒रुत्ऽवृ॑धः । अग्ने॑ । स॒ह॒स्र॒ऽसात॑मः ॥
उत अपि च हे अग्ने नः यज्ञकारिणोऽस्मान् ब्रह्मन् ब्रह्मणि अस्माभिः क्रियमाणे स्तोत्रे अविषः स्तोत्रविषयन्यूनातिरेकदोषो यथा न भवति तथा पालय । किंच देवहूतमः देवानामाह्वातृतमस्त्वम् उक्थेषु अस्माभिः क्रियमाणेष्वाज्यप्रउगादिशस्त्रेषु अविषः गोपाय । किंच मरुद्वृधः मरुद्भिर्वर्धमानः सहस्रसातमः सहस्रसंख्याकस्य धनस्यातिशयेन दाता त्वं नः अस्माकं शम् ऐहिकमामुष्मिकं च सुखं शोच दीपय । वर्धयेत्यर्थः ॥ अविषः । अव रक्षणादिषु इत्यस्माल्लेटि ‘सिब्बहुलम्° ' इति सिप् । अस्य आर्धधातुकत्वादिट्। ‘ इतश्च लोपः' इति सिप इकारलोपः । ‘ लेटोऽडाटौ' इत्यडागमः । निघातः । उक्थेषु । ‘वच परिभाषणे ' । अस्मात् कर्मणि ‘पातॄतुदिवचिरिचि°' इत्यादिना थक् । कित्त्वात्संप्रसारणम् । प्रत्ययस्वरः । देवहूतमः । ह्वयतेः क्विप् । ‘बहुलं छन्दसि ' इति संप्रसारणपररूपत्वे । ‘ हलः' इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शोच । शुच दीप्तौ । अयमन्तर्भावितण्यर्थः । निघातः । मरुद्वृधः । ‘ वृधु वर्धने ' । इगुपधलक्षणः कः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सहस्रसातमः । ‘ षणु दाने ' । अस्य ‘ जनसनखनक्रमगमो विट्' इति विट् ।' विङ्वनोरनुनासिकस्य ' इत्याकारः । कृदुत्तरपदप्रकृतिस्वरः ॥
“Perfect our prayer, invoker of the gods, as well as our hymns; Agni, who increases with the winds and the giver of thousands, augment our felicity.”
Help us, thou Brahman, best of all invokers of the Gods in song.
Beam, Friend of Maruts, bliss on us, O Agni, a most liberal God.
And mayst thou, the best invoker of the gods, help us in our spell, in our hymns. Shine bliss on us, Agni whom the Maruts strengthen 1, the greatest winner of thousandfold (wealth).
And you will help us in our sacred formulation and in our recitations as the best of those that invoke the gods.
Growing strong through the Maruts, flame up as our good luck, Agni, since you best win thousands (of cattle).
Nimm unsre Bitte gnädig an, die Götter ruf zu Sprüchen her; Erstrahl, der Maruts froh, zum Heil, gieb Agni tausendfaches Gut.
Und du sollst uns bei dem Segenswort, bei den Lobliedern beistehen, der du die Götter am besten rufst. Flamme uns zum Heile, durch die Marut gestärkt, o Agni, als der größte Tausendgewinner.
А также помоги нам с молитвой,
С гимнами, о (ты,) лучше всех призывающий богов!
Пламеней нам на благо, усиленный Марутами,
О Агни, добывающий тысячи!
नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ । द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥
नु । नः॒ । रा॒स्व॒ । स॒हस्र॑ऽवत् । तो॒कऽव॑त् । पु॒ष्टि॒ऽमत् । वसु॑ । द्यु॒मत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । वर्षि॑ष्ठम् । अनु॑पऽक्षितम् ॥
अस्मिन् सूक्ते स्तूयमान हे अग्ने सहस्रवत् सहस्रसंख्योपेतं तोकवत् पुत्रपौत्रादिसहितं पुष्टिमत् पोषकृत् । अनेन शरीरस्य क्षीरादिद्वारा बलारोग्यप्रदं गवादिकम् उपलक्ष्यते । द्युमत् दीप्तिमत् । अनेन रत्नकनकादिकं परिगृह्यते । सुवीर्यं शोभनसामर्थ्योपेतं तत्तत्कार्येषु व्यवहारयोग्यं वर्षिष्ठम् अतिशयेन वृद्धं प्रभूतमत एव अनुपक्षितं व्यये क्रियमाणेऽप्यनुपक्षीणम् । एवंभूतं वसु रत्नकनकपश्वादिलक्षणं धनं नः अस्मभ्यं नु क्षिप्रमविलम्बेन रास्व दत्स्व ॥ नू नः । ‘ ऋचि तुनुघमक्षु' ' इति दीर्घः । रास्व ।' रा दाने ' अस्य लोटि रूपम् । व्यत्ययेनात्मनेपदम् । अदादित्वाच्छपो लुक् । निघातः । सहस्रवत् । “ मादुपधायाः° ' इति मतुपो वत्वङ् । कर्दमादित्वान्मध्योदात्तः सहस्रशब्दः । पुष्टिमत् । ‘ पुष पुष्टौ ' । अस्मात् क्तिच् । प्रत्ययस्वरेणान्तोदात्तः । ‘ ह्रस्वनुड्भ्याम् ' इति मतुप उदात्तत्वम् । वर्षिष्ठम् । ‘ प्रियस्थिर' इत्यादिना वृद्धस्य' वर्षि इत्यादेशः । नित्स्वरः । अनुपक्षितम् । ‘ क्षि क्षये ' इत्यस्य दीर्घाभावान्निष्ठानत्वं न भवति । तत्पुरुषवादव्ययपूर्वपदप्रकृतिस्वरः ॥ ॥ १३ ॥
“Grant us indeed, Agni, wealth (that may be counted) by thousands, and comprising offspring, nourishment, brilliant treasure, and vigour, and be infinite and inexhaustible.”
Yea, grant us treasure thousandfold with children and with nourishment,
And, Agni, splendid hero strength, exalted, wasting not away.
Now bestow on us thousandfold wealth with offspring and prosperity, splendid, most powerful, and undecaying abundance in heroes, O Agni!
And now give us the good that brings thousands, that brings offspring, that brings prosperity,
and that brings a brilliant abundance of heroes, o Agni, that is highest and never diminished.
Nun gib uns tausendfaches Gut, an Kindern und an Nahrung reich, Das, Agni, glänzend, männerreich, langdauernd, unvergänglich sei.
Schenk uns nun den tausendfachen, kinderreichen, gedeihlichen Schatz, glänzende Meisterschaft, o Agni, höchste, ungeminderte!
Даруй же нам тысячное добро,
Проявляющееся в потомстве (и) в процветании,
Сверкающее богатство, о Агни, состоящее из прекрасных мужей,
Высшее, непреходящее!