आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑म॒: स वे॒धाः । वि॒द्युद्र॑थ॒: सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥
आ । होता॑ । म॒न्द्रः । व॒दथा॑नि । अ॒स्था॒त् । स॒त्यः । यज्वा॑ । क॒विऽत॑मः । सः । वे॒धाः । वि॒द्युत्ऽर॑थः । सह॑सः । पु॒त्रः । अ॒ग्निः । शो॒चिःऽके॑शः । पृ॒थि॒व्याम् । पाजः॑ । अ॒श्रे॒त् ॥
ऋषभोऽग्निं स्तौति । होता देवानामाह्वाता मन्द्रः स्तोतुः मादयिता सत्यः सत्यकर्मा कवितमः अतिशयेन मेधावी यज्वा देवानां यष्टा वेधाः सर्वस्य जगतो विधाता । एवंविधमहिमोपेतः सः अग्निः विदथानि अस्माभिः क्रियमाणान् यज्ञान् आ अस्थात् आतिष्ठति प्राप्नोति । किंच विद्युद्रथः विद्योतमानयानोपेतः शोचिष्केशः । शोचींषि ज्वालाः केशा यस्य सः । ज्वालामयकेशोपेतः सहसस्पुत्रः बलस्य सूनुः एवंभूतः सः अग्निः पृथिव्यां विस्तीर्णेऽन्तरिक्षे पाजः तेजः स्वकीयां प्रभाम् अश्रेत् श्रयते प्रापयति । यद्वा पृथिव्यां भूमौ वर्तमानः पाजो बलं सेवते ॥ मन्द्रः । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । अस्मात् ‘स्फायितञ्चि°' इत्यादिना रक् । इदित्वात् नुम् । अस्थात् । ष्ठा गतिनिवृत्तौ । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङ्। • गातिस्था' इति सिचो लोपः । निघातः । यज्वा । ‘ यज देवपूजासंगतिकरणदानेषु' । ' सुयजोर्ङ्वनिप्' इति ङ्वनिप् । तस्य पित्त्वादनुदात्तस्वरे धातुस्वरः। कवितमः । ‘कु शब्दे'। कौति कूयते वा । अच इः ' इति कर्तरि भावे वा इप्रत्ययः । तमपः पित्त्वादनुदात्तत्वे प्रत्ययस्वरः । शोचिष्केशः । ‘ शुच दीप्तौ । ‘ अर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिः' इति इसिः । प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । अश्रेत् । श्रिञ् सेवायाम्' इत्यस्य छन्दसि वर्तमाने लङ्। बहुलं छन्दसि ' इति शपो लुक् । सार्वधातुकगुणः । निघातः ॥
“The invoker (of the gods), the exhilarator (of his worshippers), the true, the offerer of sacrifice, the most wise, the creator, is present at our sacred rites. Agni, the son of strength, whose chariot is the lightning, whose hair is flame, manifests his glory on the earth.”
THE pleasant Priest is come into the synod, true, skilled in sacrifice, most wise, Ordainer.
Agni, the Son of Strength, whose car is lightning, whose hair is flame, hath shown on earth his lustre.
The joy-giving Hotri has taken his place at the sacrifices 1, He the true, the sacrificer, the highest sage, the worshipper. Agni whose chariot is lightning, the son of strength, whose hair is flame, has spread forth his light over the earth.
The delighting Hotar has taken his stand upon the ritual divisions: as the real sacrificer and best of sages, he is the master of the rite.
Agni, the son of strength, with chariot of lightning and hair of flame, has rested his countenance upon the earth.
Den Opferraum betrat der holde Priester, der recht verehrt, der weiseste Verwalter; Der Sohn der Kraft mit lichtem Wagen, Agni, mit Flammenhaar liess Glanz zur Erde dringen.
Der wohlredende Hotri hat die weisen Reden bestiegen; er ist der wahre Opferer, er der weiseste Meister. Der Sohn der Kraft, Agni mit dem blitzenden Wagen, mit Flammenhaaren hat über die Erde seinen Schein verbreitet.
Радостный хотар поднялся на места жертвенных раздач,
Истинный жертвователь, лучший из поэтов, он, устроитель (обрядов).
Сын силы, Агни с колесницей-молнией,
Пламенновласый, распространил (свой) блеск по земле.
अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः । वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥
अया॑मि । ते॒ । नमः॑ऽउक्ति॑म् । जु॒ष॒स्व॒ । ऋत॑ऽवः । तुभ्य॑म् । चेत॑ते । स॒ह॒स्वः॒ । वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः॑ । नि । ष॒त्सि॒ । मध्ये॑ । आ । ब॒र्हिः । ऊ॒तये॑ । य॒ज॒त्र॒ ॥
ऋतावः । ऋतं सत्यभूतो यज्ञः । तद्वन् हे अग्ने ते त्वद्विषयां नमउक्तिं नमस्कारवाक्यम् अहम् अयामि प्रेरयामि उच्चारयामि । हे सहस्वः । सहो बलम् । तद्वन्नग्ने चेतते चेतयित्रे कर्मणः प्रज्ञापकाय तुभ्यं नमउक्तिः क्रियते । तां जुषस्व । अस्माभिः क्रियमाणां नमस्कारोक्तिं सेवस्व । किंच विद्वान् आनुपूर्व्येण देवाह्वानाभिज्ञः विदुषः कर्माभिज्ञान् आ वक्षि आवह। किंच यजत्र यष्टव्य हे अग्ने ऊतये अस्माकं रक्षणाय मध्ये बर्हिः स्तीर्णस्य बर्हिषो मध्ये आ नि षत्सि आ समन्तान्निषीद ॥ अयामि । इण् गतौ ' भौवादिकः । पादादित्वादनिघातः । जुषस्व । जुषी प्रीतिसेवनयोः '। तुदादिः । लोटि रूपम् । निघातः । चेतते । ‘ चिती संज्ञाने' । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे ततः अन्तोदात्तताभावात् ‘शतुरनुमः' इति विभक्तेरुदात्तताभावः । धातुस्वरः । सहस्वः । सहोऽस्त्यस्येति मतुप् । सकारस्य ‘तसौ मत्वर्थे ' इति भसंज्ञकत्वात् रुर्न भवति । मादुपधायाः' इति मतुपो वत्वम् ।' उगिदचाम्' इति नुम् । हल्ङ्यादिलोपे नकारस्य ' मतुवसो रुः इति रुत्वम्। आमन्त्रितनिघातः । विदुषः। विद ज्ञाने' इत्येतस्मात् उत्तरस्य शतुः ‘विदेः शतुर्वसुः' इति वस्वादेशः । भसंज्ञायां वसोः संप्रसारणम् । प्रत्ययस्वरः । सत्सि । षद्लृ विशरणादिषु । लटि ‘ बहुलं छन्दसि ' इति शपो लुक् । शित्प्रत्ययपरत्वाभावात् सीदादेशाभावः । ‘ सदिरप्रतेः ' इति षत्वम्। यजत्र । यज देवपूजादिषु । ' अमिनक्षियजि इत्यादिना अत्रन्प्रत्ययः । आमन्त्रितनिघातः ॥
“I utter to you the words of adoration, be plural ased by them observer of truth; endowed with strength, (they are addressed) to you who are the expounder (of sacred rites); wise (as you are), bring (hither) the wise; object of sacrifice, sit down in the midst upon the sacred grass for our protection.”
To thee I offer reverent speech: accept it: to thee who markest it, victorious, faithful!
Bring, thou who knowest, those who know, and seat thee amid the sacred grass, for help, O Holy.
It 1 has been offered to thee—be pleased with the adoring speech 2—to thee who is observant of it, O righteous, strong one. Bring hither thou who art wise, the wise (gods). Sit down on the sacrificial grass in the middle (of it) for bliss, O worshipful one!
It has been offered to you—take pleasure in (this) recitation of homage— to you, who perceive it, o you who possess truth and strength.
As one who knows, convey here the knowing (gods). Sit down in the middle upon the ritual grass to help us, o you who are worthy of the sacrifice.
Verehrung ward geweiht dir, nimm sie an denn, o heil'ger, starker, der du darauf Acht hast; Die weisen fahr als weiser her und setz dich, erhabner, mitten auf die Streu zur Labung.
Sie ist dir dargebracht - freue dich der Ergebenheitsrede - dir dem Verständigen, du Wahrhaftiger, Übermächtiger. Fahre kundig die kundigen Götter her, setze dich mitten auf das Barhis zum Beistand, du Opferwürdiger!
Поднесена тебе речь, полная поклонения, – наслаждайся,
Тебе. понимающему, о (бог,) придерживающийся закона, о наделенный силой!
Как знаток, привези знатоков! Усаживайся
Посреди жертвенной соломы-на помощь (нам), о достойный жертв!
द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ । यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥
द्रव॑ताम् । ते॒ । उ॒षसा॑ । वा॒जय॑न्ती॒ इति॑ । अ॒ग्ने॒ । वात॑स्य । प॒थ्या॑भिः । अच्छ॑ । यत् । सी॒म् । अ॒ञ्जन्ति॑ । पू॒र्व्यम् । ह॒विःऽभिः॑ । आ । व॒न्धुरा॑ऽइव । त॒स्थ॒तुः॒ । दु॒रो॒णे ॥
हे अग्ने वाजयन्ती वाजमन्नं कुर्वाणे उषसा उषासानक्ते अहोरात्रौ ते त्वां द्रवताम् अभिगच्छताम् । त्वमपि वातस्य वायोः पथ्याभिः मार्गैः अच्छ तावहोरात्रौ शीघ्रमभिगच्छ । यत यस्मात्कारणात् अहोरात्राग्न्योः परस्पराभिगमनेनान्योन्यसंबन्धस्तस्मादहोरात्रयोः सायंप्रातःकालयोः पूर्व्यं पुरातनं त्वामृत्विजः हविर्भिः आज्यादिभिः सीं सर्वतः अञ्जन्ति सिञ्चन्ति । किंच वन्धुरेव । यथा कूवरस्थान परस्परसंसक्तेषाद्वयोपेतं तद्वत्संसक्तौ तावहोरात्रौ दुरोणे अस्माकं गृहे अग्निहोत्रादिकर्मसिद्ध्यर्थम् आ आवृत्य पुनः पुनरावर्तमानौ सन्तौ तस्थतुः तिष्ठताम् ॥ द्रवताम् । ‘ द्रु गतौ ' इत्यस्य लोटि रूपम् । पथ्याभिः । पथिषु साधव इत्यर्थे ' तत्र साधुः ' ( पा. सू. ४. ४. ९८ ) इति यत् । नस्तद्धिते ' इति टिलोपः । ‘ तित्स्वरितम्' इति स्वरितः । तस्थतुः । तिष्ठतेर्लिट्यतुसि रूपम् । निघातः ॥
“May the good-bestowing day and night hasten to you while you, Agni meet them on the paths of the wind; since (the priests) ever worship you preceding (them) with oblations, whilst they (united) like the pole (and the yoke of a wagon), abide successively in our dwelling.”
The Two who show their vigour, Night and Morning, by the wind's paths shall haste to thee O Agni.
When men adorn the Ancient with oblations, these seek, as on two chariot-seats, the dwelling.
To thee, Agni, Night and Dawn who further thy strength 1, shall hasten on the paths of the wind. When (the mortals) anoint the ancient one 2 with offerings, they 3 stand in the house as on a chariot-seat 4.
Let dawn and night, racing to the prize, run to you, o Agni, here along the paths of the wind.
When (the priests) anoint him as the first with their (butter-)offerings, those two stand in the house as if upon a chariot-box.
Auf Windes Pfaden mögen zu dir eilen, dich, Agni, labend, Nacht und Morgenröthe; Wenn dann den alten man mit Güssen salbet, so treten sie ins Haus wie auf den Wagen.
Morgen und Nacht sollen wetteifernd zu dir hereilen, o Agni, heran auf den Pfaden des Windes. Wenn sie ihn als ersten mit Schmalzopfern salben, sind die beiden ins Haus getreten wie der Wagenlenker auf den Wagenstand.
Пусть побегут к тебе наперегонки Утренняя Заря (и Ночь),
О Агни, по путям ветра!
Когда же его первым мажут жертвенными возлияниями,
Обе они поднимаются в (свои) два дома, словно (двое колесничих) на площадки (колесниц).
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुत॑: सु॒म्नम॑र्चन् । यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थय॒न्त्सूर्यो॒ नॄन् ॥
मि॒त्रः । च॒ । तुभ्य॑म् । वरु॑णः । स॒ह॒स्वः॒ । अग्ने॑ । विश्वे॑ । म॒रुतः॑ । सु॒म्नम् । अ॒र्च॒न् । यत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः॑ । अ॒भि । क्षि॒तीः । प्र॒थय॑न् । सूर्यः॑ । नॄन् ॥
सहस्वः बलवन् हे अग्ने मित्रश्च वरुणः च मित्रावरुणौ विश्वे मरुतः सर्वे देवाश्च तुभ्यं त्वदर्थं सुम्नं स्तोत्रम् अर्चन् वहन्ति । यद्वा सर्वे देवास्तुभ्यं त्वां सुम्नं सुखेनार्चन् पूजयन्ति । यत् यस्मात् कारणात् सहसस्पुत्र हे अग्ने सूर्यः । सुष्ठु अर्यः स्वामी । यद्वा सर्वान्तर्यामितया सुष्ठु प्रेरकः । यद्वा सूर्यः शोभनवीर्यः । अभि क्षितीः । क्षितिशब्दो मनुष्यवाची ‘विशः क्षितयः' (नि. २.३.६) इति तन्नामसु पाठात् । मनुष्यानभिलक्ष्य नॄन् मार्गप्रदर्शकत्वेन नेतॄन् आत्मनो रश्मीन् प्रथयन् सर्वतो विस्तारयंस्त्वं शोचिषा दीप्त्या समानः सन् तिष्ठाः तिष्ठसि । तस्मादेते देवाः पूजयन्तीति ॥ अर्चन् ।' अर्च पूजयाम्' इत्यस्य लङि रूपम् । अडभावश्छान्दसः । तिष्ठाः । ‘ ष्ठा गतिनिवृत्तौ' इत्यस्य लेटि रूपम् । यद्योगात् अनिघातः । ‘ पाघ्रा ' इत्यादिना तिष्ठादेशस्याद्युदात्तत्वेन निपातनादाद्युदात्तः । सूर्यः । ‘राजसूयसूर्य° ' इति क्यबन्तत्वेन निपातनात् सर्वार्थाः सिद्धा भवन्ति ॥
“Vigorous Agni, you Mitra and Varuṇa, and all the Maruts, offer praise; since, son of strength, you stand a sun, shedding your rays with lustre on manking.”
To thee, strong Agni! Varuna and Mitra and all the Maruts sang a song of triumph,
What time unto the people's lands thou camest, spreading them as the Sun of men, with lustre.
Mitra and Varuna, O strong Agni, and all the Maruts shall sing to thee a pleasant song, when thou, O son of strength, standest with thy flames, a sun spreading out men 1 over the (terrestrial) dwellings.
O Agni, possessor of strength, to you Mitra and Varuṇa and all the Maruts chant of your favor,
so that you will stand upright with your flame, o son of strength,
spreading out the settlements, a sun (spreading out) men.
Varuna, Mitra und die Marutscharen, o starker Agni, sangen dir ein Preislied, Als du mit Glanz erstandest, Sohn der Stärke, der Sonne gleich durchs Land die Männer breitend.
Mitra und Varuna, alle Marut singen die Wohlwollen ein, übermächtiger Agni, daß du, o Sohn der Kraft, mit deiner Flamme aufstehen mögest, über die Länder, sie ausbreitend, die Sonne der Männer.
Митра тебе и Варуна, о наделенный силой
Агни, все Маруты поют благоволение,
Чтобы ты, о сын силы, поднялся со (своим) пламенем,
Распространяясь над поселениями (людскими), (как) солнце- над мужами.
व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ । यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥
व॒यम् । ते॒ । अ॒द्य । र॒रि॒म॒ । हि । काम॑म् । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । उ॒प॒ऽसद्य॑ । यजि॑ष्ठेन । मन॑सा । य॒क्षि॒ । दे॒वान् । अस्रे॑धता । मन्म॑ना । विप्रः॑ । अ॒ग्ने॒ ॥
हे अग्ने उत्तानहस्ताः हविःस्वीकरणादुत्तानपाणयः वयं कामं कमनीयं पुरोडाशादिहविः ते तुभ्यम् अद्य इदानीमस्मिन् कर्मणि ररिम दद्मः । नमसा नमस्कारेण उपसद्य प्रसन्नो भूत्वा यजिष्ठेन यष्टृतमेन यागेच्छावता मनसा अन्तःकरणेन देवान् यक्षि यजनीयान् देवान् यज पूजय। किंच विप्रः मेधावी कर्माभिज्ञः त्वम् अस्रेधता अक्षीणेन प्रभूतेन मन्मना मन्तव्येन स्तोत्रेण देवान् पूजय' ॥ अद्य । ‘ सद्यः परुत्परार्यैषमः' इत्यादिना निपातितः । अन्तोदात्तश्च । ररिम । ‘रा दाने ' इत्यस्य वर्तमाने लिटि ‘ परस्मैपदानां णलतुः ' ( पा. सू. ३. ४. ८२ ) इत्यादिना मसो मादेशः ॥ क्रादिनियमादिडागमः । अतो लोप इटि च ' इत्याकारलोपः । हियोगादनिघातः । ‘ आगमा अनुदात्ताः' इतीटोऽनुदात्तत्वात् प्रत्ययस्वरः । उपसद्य। ' षद्लृ विशरणगत्यवसादनेषु'। अस्य क्त्वा । ‘ समासेऽनञ्पूर्वे क्त्वो ल्यप् ' इति ल्यप् । लित्स्वरः। यक्षि । ‘ यज देवपूजासंगतिकरणदानेषु'। लोटि ‘ बहुलं छन्दसि ' इति शपो लुक् । पत्वकत्वे । सिपो ह्यादेशाभावश्छान्दसः ॥ अस्रेधंता । स्रिधिः क्षयार्थः । तत्पुरुषे ' इति नञ्स्वरः ॥
“With uplifted hands, approaching you with reverence we present you today our oblation do you who are wise, worship the gods with most devout mind and with unwearied praise.”
Approaching with raised hands and adoration, we have this day fulfilled for thee thy longing.
Worship the Gods with most devoted spirit, a Priest with no unfriendly thought, O Agni.
We have given thee thy desire to-day, sitting down near thee adoringly with outstretched hands 1: sacrifice thou to the gods as a priest with thy mind most skilled in sacrifice, with unerring thoughts, O Agni!
Since today we have given you your desire, having reverently approached with hands outstretched,
sacrifice to the gods by means of your most sacrificially skillful mind, being our inspired priest with faultless thought, o Agni.
Denn wir erfüllten heute dein Begehren, die Händ' ausstreckend, demuthsvoll verehrend. Mit bestem Sinn verehre du die Götter, mit holdem Geiste, Agni, du ein Priester.
Wir haben dir ja heute deinen Wunsch gewährt, indem wir mit ausgestreckten Händen unter Verneigung uns zu dir setzen. Mit opfertätigstem Sinn opfere den Göttern, mit nie fehlendem Nachdenken als der Beredte, o Agni.
Ведь сегодня мы исполнили твое желание,
Приблизившись с поклонением, с протянутыми руками.
Пожертвуй богам самой жертвенной мыслью,
Безошибочным размышлением, как вдохновенный, о Агни!
त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजा॑: । त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥
त्वत् । हि । पु॒त्र॒ । स॒ह॒सः॒ । वि । पू॒र्वीः । दे॒वस्य॑ । यन्ति॑ । ऊ॒तयः॑ । वि । वाजाः॑ । त्वम् । दे॒हि॒ । स॒ह॒स्रिण॑म् । र॒यिम् । नः॒ । अ॒द्रो॒घेण॑ । वच॑सा । स॒त्यम् । अ॒ग्ने॒ ॥
सहसः पुत्र बलस्य पुत्र हे अग्ने देवस्य देवनशीलस्य कर्मकरणप्रवृत्तस्य यजमानस्य त्वत् त्वत्तः सकाशात् पूर्वीः प्रभूताः ऊतयः विघ्नपरिहारेण कर्मपरिपालनादिरूपाः रक्षाः वि यन्ति हि विविधं गच्छन्ति खलु। तमिमं यजमानं प्राप्नुवन्ति । तथा वाजाः अन्नानि वि यन्ति । एनं यजमानं प्राप्नुवन्ति । किंच हे अग्ने त्वं सहस्रिणं सहस्रसंख्याकं रयिं धनं नः अस्मभ्यं देहि । तथा अद्रोघेण द्रोहरहितेन पापशून्येन वचसा वाक्येन युक्तं सत्यं सत्यशीलं सन्मार्गे प्रवर्तमानं पुत्रं च देहि प्रयच्छ” ॥ त्वत् । युमच्छब्दस्य पञ्चम्येकवचने त्वादेशः । ङसेः ‘एकवचनस्य च (पा, सू. ७. १. ३२) इत्यदादेशः । एकादेशस्वरः । पुत्र सहसः । ‘ परमपि छन्दसि ' इति पराङ्गवद्भावात् द्वयोः सर्वानुदात्तत्वम् । देहि । डुदाञ् दाने ' इत्यस्य लोटि ध्वसोरेद्धौ°' इति धातोरेत्वम् अभ्यासलोपश्च । निघातः । अद्रोघेण । 'द्रुह जिघांसायाम् । घञ् । द्रोघः । घकारश्छान्दसः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
“From you, verily, son of strength, many and various benefactions and various kinds of food devolve upon the devout (worshipper) do you grant us, Agni, infinite wealth, and (a son) observant of truth, with speech devoid of guile.”
For, Son of Strength, from thee come many succours, and powers abundant that a God possesses.
Agni, to us with speech that hath no falsehood grant riches, real, to be told in thousands.
From thee indeed, O son of strength, proceed manifold divine blessings and gains 1. Give us thousandfold true wealth according to thy guileless word, O Agni!
Since from you, son of strength, a god’s many forms of help go outward, and outward (also go) the prizes of victory,
give us real wealth consisting of thousands through your undeceiving speech, Agni.
Denn von dir gehn, o Sohn der Stärke, viele Genüsse aus und viele Gotteshülfen; Verleihe du uns tausendfachen Reichthum, und Wahrheit, Agni, nebst wahrhafter Rede.
Denn von dir, du Sohn der Kraft, gehen die vielen Gnaden des Gottes aus, die Belohnungen. Gib uns tausendfältigen Reichtum, wirklichen mit aufrichtigem Worte, o Agni!
Ведь это от тебя, о сын силы, исходят
Многочисленные поддержки бога, ис (ходят) награды.
Дай ты нам тысячное богатство,
Истинное, (ты,) о Агни, со словом, лишенным обмана!
तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म । त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥
तुभ्य॑म् । द॒क्ष॒ । क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो । यानि॑ । इ॒मा । देव॑ । मर्ता॑सः । अ॒ध्व॒रे । अक॑र्म । त्वम् । विश्व॑स्य । सु॒ऽरथ॑स्य । बो॒धि॒ । सर्व॑म् । तत् । अ॒ग्ने॒ । अ॒मृ॒त॒ । स्व॒द॒ । इ॒ह ॥
दक्ष समृद्धतया सामर्थ्योपेत कविक्रतो अतीन्द्रियविषयप्रज्ञोपेत सर्वज्ञ देव दीप्यमान हे अग्ने मर्तासः यजमाना वयं तुभ्यं त्वदर्थं यानीमा यानि इमा इमानि हवींषि अध्वरे यज्ञे अकर्म हविस्त्यागमकार्ष्म । त्वं च सुरथस्य शोभनयानोपेतस्य विश्वस्य सर्वस्य यजमानस्य बोधि गोपायिता भवामीति बुध्यस्व । हे अमृत मरणधर्मरहित अग्ने इह अस्मिन्कर्मणि अस्माभिः दत्तं तत् सर्वं हविः स्वद आस्वादय ॥ अकर्म। डुकृञ् करणे' इत्यस्य लङि ‘छन्दस्युभयथा' इति मस आर्धधातुकत्वेन ङित्त्वाभावाद्गुणः । यद्वृत्तयोगादनिघातः । बोधि । ‘बुध अवगमने'। ‘छन्दसि लुङ' इति लोडर्थे लुङ् । ‘ तिङा तिङो भवन्ति इति सिपस्तादेशः । ‘ दीपजनबुध° । इत्यादिना कर्तरि चिण् । ' चिणो लुक् ' इति तप्रत्ययस्य लोपः । अडभावश्छान्दसः । स्वद । स्वद आस्वादने । अन्तर्भावितण्यर्थः । लोटि रूपम् । निघातः ॥ ॥ १४ ॥
“Divine (Agni), mighty and omniscient, these (are the offerings) which we mortals present to you in the sacrifice; do you be cognizant of every respectable worshipper, and partake, immortal of all (his offerings) on this occasion.”
Whatever, God, in sacrifice we mortals have wrought is all for thee, strong, wise of purpose!
Be thou the Friend of each good chariot's master. All this enjoy thou here, immortal Agni.
What we have done here for thee at this sacrifice, we mortals, O skilful and thoughtful god, take thou notice of all that, O (god) with the good chariot 1; make all this (sacrificial food) here savoury, immortal Agni!
For you, o Skill with a poet’s purpose, are these things that we mortals, o god, have done in the rite.
Be aware of everyone whose chariot [=sacrifice] is good. Sweeten
everything here, immortal Agni.
Dein ist, o starker, weis' gesinnter, alles, was Menschen wir, o Gott, beim Opfer wirkten; Beachte jeden Lenker guten Wagens, geniess dies alles hier, o ew'ger Agni.
Für dich ist, du Verständiger, der du Sehergabe besitzest, all das, was wir Sterblichen bei dem Opfer getan haben, o Gott. Achte auf jeden Opfernden, der einen guten Wagen hat. All das mache hier mundgerecht, o unsterblicher Agni!
Для тебя, о сила действия, о обладатель силы духа поэта, – все, то,
Что мы, смертные, о бог, сделали во время обряда.
Заметь каждого (жертвователя) с хорошей колесницей!
Угощайся здесь всем этим, о Агни бессмертный!