वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥
वि । पाज॑सा । पृ॒थुना॑ । शोशु॑चानः । बाध॑स्व । द्वि॒षः । र॒क्षसः॑ । अमी॑वाः । सु॒ऽशर्म॑णः । बृ॒ह॒तः । शर्म॑णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒ऽहव॑स्य । प्रऽनी॑तौ ॥
उत्कीलः स्तौति । हे अग्ने पृथुना विस्तीर्णेन पाजसा तेजसा शोशुचानः अत्यर्थं दीप्यमानस्त्वं द्विषः कर्मानुष्ठानविघ्नकारिणः शत्रून् वि बाधस्व विशेषेण नाशय । तथा अमीवाः रोगराहित्येन सामर्थ्योपेतानि रक्षसः । उभयत्र सुब्व्यत्ययः । तानि रक्षांसि बाधस्व । कर्मविघ्नकारीणि तान्यपनुदस्व । यद्वा अमीवाः आभिमुख्येनागमनपरागमनपराः पिशाचिकाश्च बाधस्व। सुशर्मणः स्वर्गादिलक्षणशोभनसुखहेतोः बृहतः महतः शत्रुविजयेन प्राप्तमहिम्नः सुहवस्य सुष्ठ्वाह्वानोपेतस्य अग्नेः शर्मणि अस्माकं सुखहेतौ प्रणीतौ उत्तरवेद्यादिस्थानेषु प्रणयने । प्रकर्षेण नयनं तत्र तत्रानीय प्रक्षेपः । एवंभूते तव प्रणयने अहं स्याम् अग्निप्रणयनपूर्वके क्रत्वनुष्ठाने भवेयम् ॥ पाजसा । ‘ पा रक्षणे ' । 'असुन्' इत्यनुवृत्तौ ‘पातेर्बले जुट् च ' इत्यसुन्। जुडागमः । नित्त्वादाद्युदात्तः । पृथुना । ‘ प्रथ प्रख्याने '। ‘ उत्' इत्यनुवृत्तौ ‘ प्रथिम्रदिभ्रस्जा संप्रसारणम्' इत्युप्रत्ययः । तसंनियोगेन संप्रसारणम् । प्रत्ययस्वरः । शोशुचानः। ‘शुच दीप्तौ' इत्यस्य यङ्लुकि ‘गुणो यङ्लुकोः' इत्यभ्यासस्य गुणः । व्यत्ययेन शानच् । चर्करीतस्य अदादिवद्भावात् शपो लुक् । चित्वादन्तोदात्तत्वे प्राप्ते अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । बाधस्व ।' बाधृ लोडने ' इत्यस्य लोटि रूपम् । पादादित्वात् निघाताभावः । सुशर्मणः । ‘शॄ हिंसायाम् ' । दुःखं शृणातीत्यौणादिको मनिन् ।' सोर्मनसी ' इति उत्तरपदाद्युदात्तत्वम् । स्याम् । अस भुवि ' इत्यस्य लिङि ‘यासुट् परस्मैपदेषु' इत्यादिना यासुट् । ‘ लिङः सलोपः' इति सलोपः । यासुटो ङित्त्वात् श्नसोरल्लोपः । निघातः ॥
“Radiant with great glory, repel the hostile rākṣasas and piśācas; may I be in (the enjoyment) of the favour of the great (Agni), the giver of prosperity, and in the service of (him who is) easily invoked.”
RESPLENDENT with thy wide-extending lustre, dispel the terrors of the fiends who hate us
May lofty Agni be my guide and shelter, the easily-invoked, the good Protector.
Flaming with thy broad stream of light beat away fiends, sorcerers, plagues. May I dwell in the protection of the great, well-protecting (god), under the guidance of Agni who readily listens to our call.
Ever-blazing everywhere with your broad countenance, press against hostilities, demons, and afflictions.
I would be under the shelter of the lofty one who gives good shelter, under the guidance of easily invoked Agni.
Der du mit weitem Schimmer fernhin strahlest, verjage Feinde, Hexen, Plagegeister, Ich sei im Schutz des schirmenden, erhabnen und in des gerngerufnen Agni Leitung.
Mit breitem Scheine erglühend vertreib die Feinde, die Dunkelmänner, die Plagen! Ich möchte im Schutz des Hohen, Wohlschützenden sein, ich unter der Führung des Agni, der leicht zu rufen ist.
Ярко сверкающий широким блеском,
Прогони врагов, ракшасов, болезни!
Да буду я защитой высокого, надежно защищающего,
Я – под предводительством Агни, легко призываемого!
त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः । जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात ॥
त्वम् । नः॒ । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । त्वम् । सूरे॑ । उत्ऽइ॑ते । बो॒धि॒ । गो॒पाः । जन्म॑ऽइव । नित्य॑म् । तन॑यम् । जु॒ष॒स्व॒ । स्तोम॑म् । मे॒ । अ॒ग्ने॒ । त॒न्वा॑ । सु॒ऽजा॒त॒ ॥
हे अग्ने त्वम् अस्याः अद्य वर्तमानायाः उषसो व्युष्टौ व्युच्छने प्रकाशने सूरे सूर्ये उदिते च सति नः अग्निहोत्रादिकर्मणि प्रवृत्तानामस्माकं गोपाः गोपायिता भवामीति बोधि बुध्यस्व । केचित्सूर्योदयात्प्रागग्निहोत्रं जुह्वति केचित् उदिते तस्मिञ्जुह्वति । तेषामुभयेषां पालयिता भवेत्यर्थः । तन्वा सुजात ज्वालापरिवृतेन शरीरेण सुष्ठु जात देदीप्यमान । अथवा तन्वा सुजातः आत्मनैव सुजातः स्वयंभूरित्यर्थः । तादृशस्त्वं मे मदीयं स्तोमं त्रिवृत्पञ्चदशादिलक्षणं स्तोत्रं नित्यं जुषस्व । तत्र दृष्टान्तः । जन्मेव इति । यथा जन्म जनकः पिता औरसं तनयं पुत्रं परिष्वङ्गादिभिः सेवते तद्वदस्माभिः क्रियमाणमिमं सेवस्व ॥ व्युष्टौ ।' उछी विवासे'। तमो विवास्यते अनया इति करणे क्तिन् । व्रश्चादिना षत्वम् । तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । गोपाः । ‘ गुपू रक्षणे ' । ‘ गुपूधूपविच्छिपणिपनिभ्यः' इत्यायप्रत्ययः । तदन्ताद्धातोः क्विप् । ‘ अतो लोपः' इत्यकारलोपः । लोपो व्योः० ' इति यलोपः । धातुस्वरः । जुषस्व । ‘जुषी प्रीतिसेवनयोः' इत्यस्य लोटि रूपम् । निघातः ॥
“Consider yourself our protector at the breaking of the dawn today and when the sun has risen; Agni, who is engendered with (embodied) form, be plural ased with my constant praise, as a father (is plural ased with) his son.”
Be thou To us, while now the morn is breaking, be thou a guardian when the Sun hath mounted..
Accept, as men accept a true-born infant, my laud, O Agni nobly born in body.
Be thou our protector when this dawn shines forth, he thou (our protector) when the sun has risen. Cherish, O Agni, well-born in body, this praise of mine as (a man rejoices) in the birth (of a son), in his own offspring 1.
You at the breaking of this dawn, you at the rising of the sun—become our herdsman!
Take pleasure in my praise song as (you would) in your own birth, as in your own lineage, o Agni, well born in your own body.
Sei du bei dieser Morgenröthe Leuchten, sei uns Behüter bei der Sonne Aufgang; Begünst'ge unsern Stamm, als wär's dein eigner, mein Lied, o Agni, aus dir selbst erzeugter.
Sei du beim Aufleuchten dieser Morgenröte, du nach Sonnenaufgang unser Hüter! Agni, freue dich am eignen Leibe über mein Loblied wie über die Geburt des leiblichen Sohnes, du Edelgeborener.
(Будь) ты при воспламенении этой утренней зари,
Будь ты при восходе (солнца), о герой, нам защитником!
Как рождению собственного ребенка, радуйся
Всем существом моей хвале, о Агни прекраснорожденный!
त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि । वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंह॑: कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥
त्वम् । नृ॒ऽचक्षाः॑ । वृ॒ष॒भ॒ । अनु॑ । पू॒र्वीः । कृ॒ष्णासु॑ । अ॒ग्ने॒ । अ॒रु॒षः । वि । भा॒हि॒ । वसो॒ इति॑ । नेषि॑ । च॒ । पर्षि॑ । च॒ । अति॑ । अंहः॑ । कृ॒धि । नः॒ । रा॒ये । उ॒शिजः॑ । य॒वि॒ष्ठ॒ ॥
वृषभ कामानां वर्षितर्हे अग्ने नृचक्षाः नृणां मनुष्याणां शुभाशुभकर्मणोर्द्रष्टा कृष्णासु रात्रिषु अरुषः अरोचमानः त्वम् अनु अनुक्रमेण पूर्वीः बह्वीर्ज्वालाः वि भाहि विशेषेण प्रकाशय। वसो सर्वस्य प्रकाशप्रदानेन स्वस्वस्थानेषु वासयितरग्ने त्वं न: अस्मान् नेषि कर्मानुरूपफलानि च प्रापय । अंहः अस्माकं दारिद्र्यलक्षणं पापम् अति पर्षि च अतिपारय । निवारय इति यावत् । किंच यविष्ठ युवतम हे अग्ने नः अस्मान् राये धनाय उशिजः कामयमानान् कृधि कुरु । अभिलषितफलप्रदानेन प्राप्तकामान्कुर्वित्यर्थः ॥ नृचक्षाः ।' चक्षिङ् व्यक्तायां वाचि'। अयमत्र दर्शने वर्तते । ‘ असुन्' इत्यनुवृत्तौ ' चक्षेर्बहुलं शिच्च ' इत्यसुन् । शिद्वद्भावात् ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरः । वृषभ । वृषु सेचने '। ‘ अभच्' इत्यनुवृत्तौ ' ‘ ऋषिवृषिभ्यां कित्' इत्यभच् । कित्त्वाद्गुणाभावः । अपादादित्वान्निघातः । पूर्वीः । पुरुशब्दस्य ‘वोतो गुणवचनात् ' इति ङीप् । आद्यस्योकारस्य दीर्घश्छान्दसः । प्रत्ययस्वरेणान्तोदात्तः । भाहि । ‘ भा दीप्तौ ' । अन्तर्भावितण्यर्थः । लोटि रूपम् । वसौ । ‘वस निवासे '। 'उः' इत्यनुवृत्तौ ' शॄस्वृम्निहित्रप्यसिवसि ' इत्यादिना उप्रत्ययः । पादादित्वान्न निघातः । षाष्ठिकमाद्युदात्तत्वम् । नेषि । ‘ णीञ् प्रापणे ' । छन्दसि लोडर्थे लट् । ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘आमन्त्रितं पूर्वमविद्यमानवत् ' इत्यामन्त्रितस्याविद्यमानवत्त्वेन पादादित्वान्न निघातः । पर्षि। ‘पॄ पालनपूरणयोः । ‘ चादिषु च ' इति न निघातः । कृधि । ' डुकृञ् करणे' इत्यस्य लोटि सेर्ह्यपिञ्च' इति हिरादेशः । तस्य • श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति धिरादेशः । ‘ बहुलं छन्दसि ' इति उप्रत्ययस्य लुक् । पादादित्वान्न निघातः। राये । रा दाने '। रातेर्डेः' इति डैप्रत्ययः । ‘ ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । उशिजः । ‘ वश कान्तौ ।' वशेः किच्च' इतीजिप्रत्ययः । कित्त्वात्संप्रसारणम् । प्रत्ययस्वरः । यविष्ठ । युवशब्दादतिशायने इष्ठन्प्रत्ययः । ‘ स्थूलदूरयुव ' इत्यादिना यणादेः परस्य लोपः पूर्वस्य च गुणः । आमन्त्रितत्वान्निघातः ॥
“Showerer (of benefits),beholder of men, radiant amid darkness, shine, Agni, with abundant (rays) in due order; granter of dwellings, conduct us (to good), keep off all ill, and youngest (of all the gods), gratify our desires for wealth.”
Bull, who beholdest men, through many mornings, among the dark ones shine forth red, O Agni.
Lead us, good Lord, and bear us over trouble: Help us who long, Most Youthful God, to riches.
Beholding men, shine thou after many (dawns) 1, O bull, Agni, red in the dark (nights). O Vasu! Lead us and bring us across anguish. Help us, the Usigs 2, to wealth 3, thou youngest (of the gods)!
You, drawing the gaze of men—(be radiant) through many (dawns), o bull. Flame-red, o Agni—be radiant amid dark (nights).
O good (Agni), lead us and take us across narrow straits. Make us, your fire-priests, to have wealth, youngest one.
Erstrahl', o Stier, du männerschau'nder, rother in schwarzen Nächten wie in vielen frühern; O guter, leit und fahr uns über Drangsal, und lass, o jüngster, Güter uns erstreben.
Du mit dem Herrenauge, du Bulle, erstrahle viele Morgen lang in den dunklen Nächten hellrot, o Agni! Führ uns, du Guter, und bring uns über die Not hinweg; mach uns zu Usij, daß wir Reichtum gewinnen, o Jüngster!
Ты, смотрящий на мужей, о бык, многие (утренние зори)
Ярко свети алым светом, о Агни, в темных (ночах)!
Веди нас, хороший, и переправь через нужду!
Сделай нас ушиджами, чтобы добыть богатство, о самый юный!
अषा॑ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वा॒: सौभ॑गा संजिगी॒वान् । य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ॥
अषा॑ळ्हः । अ॒ग्ने॒ । वृ॒ष॒भः । दि॒दी॒हि॒ । पुरः॑ । विश्वाः॑ । सौभ॑गा । स॒म्ऽजि॒गी॒वान् । य॒ज्ञस्य॑ । ने॒ता । प्र॒थ॒मस्य॑ । पा॒योः । जात॑ऽवेदः । बृ॒ह॒तः । सु॒ऽप्र॒नी॒ते॒ ॥
हे अग्ने अषाळ्हः शत्रुभिरसोढोऽपराजितः । स्वयं शत्रूञ्जयतीत्यर्थः । वृषभः कामानां वर्षयिता एवंभूतस्त्वं विश्वाः सर्वाः पुरः शत्रूणां पुरीः सौभगा तत्रत्यानि शोभनान्युत्तमानि धनानि च संजिगीवान् सम्यक् जयन् दिदीहि सर्वतो ज्वालाभिर्दीप्यस्व । सुप्रणीते शोभनप्रणयने जातवेदः जातप्रज्ञ हे अग्ने बृहतः उपदिष्टातिदिष्टद्विविधेतिकर्तव्यताकलापेन महतः पायोः तत्फलप्रदानेन रक्षकस्य प्रथमस्य मुख्यतया प्रथमं क्रियमाणस्य । ‘ एष वाव प्रथमो यज्ञो यज्ञानां यज्योतिष्टोमः' इति श्रुतेः । तादृशस्य ज्योतिष्टोमाख्यस्य यज्ञस्य नेता हविर्वहनदेवताह्वानादिक्रियाया निर्वाहको भव ॥ अषाळ्हः । ‘ षह मर्षणे' अस्य निष्ठायां ' हो ढः' इति ढकारः । झषस्तथोर्धोऽधः' इति क्तस्य धकारः । ष्टुत्वेन ढः । ढलोपे कृते ‘ढ्रलोपे पूर्वस्य दीर्घः' इति दीर्घः । ओत्वाभावश्छान्दसः । ‘ सहेः साडः सः' इति सकारस्य मूर्धन्यादेशः । अव्ययपूर्वपदप्रकृतिस्वरे नञ्स्वरः । वृषभः । वृष सेचने'।' ऋषिवृषिभ्यां कित्' इत्यभच् । चित्स्वरः । दिदीहि ॥ दिवु क्रीडादौ इत्यस्य यङ्लुकि लोटो मध्यमैकवचने ' संज्ञापूर्वको विधिरनित्यः' इत्यभ्यासस्य गुणाभावः । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति ‘पूर्वत्रासिद्धम्' इत्यस्याप्रवृत्तौ परत्वात् ‘हलि च' इति दीर्घत्वम् । पश्चात् वलोपः । सौभगा । ‘सुभगान्मन्त्रे" ' इत्युद्गात्रादिषु पाठाद्भावार्थेऽञ् । ‘ हृद्भगसिन्ध्वन्ते' इति पूर्वपदस्य वृद्धिः । उत्तरपदस्य वृद्धिर्न भवति सर्वविधीनां छन्दसि विकल्पितत्वात् । ‘सुपां सुलुक् ' इति सुपो डादेशः । तेन च सौभाग्येन धनान्युपलक्ष्यन्ते । ञित्त्वादाद्युदात्तः। संजिगीवान् । जि जये ' । छन्दसि लिट् । तस्य क्वसुः । 'सन्लिटोर्जेः' इति कवर्गादेशः । प्रत्ययस्वरः । दीर्घश्छान्दसः । पायोः । ‘पा रक्षणे '। ‘कृवापाजिमि°' इत्यादिना उण्प्रत्ययः । ‘ आतो युक् चिण्कृतोः' इति युगागमः । प्रत्ययस्वरः ॥
“Agni, who is irresistible and the showerer (of benefits), consume victorious all the cities (of the foe) and (all their) precious things; do you, the duly worshipped, the knower of all that is born, (be for us) the conductor of the first great preserving sacrifice.”
Shine forth, a Bull invincible, O Agni, winning by conquest all the forts and treasures,
Thou Jatavedas who art skilled in guiding, the chief high saving sacrifice's Leader.
Shine, O Agni, thou the invincible bull, who hast conquered all strongholds and all delights, the leader of the first, the protecting 1, mighty sacrifice, O Gâtavedas, best guide.
Shine, Agni, as the invincible bull having conquered all the fortresses and their good possessions,
and as the leader of the sacrifice and of its foremost, lofty protector, o Jātavedas of good guidance.
Als unbesiegter Held erstrahl, o Agni, erobernd alle Burgen sammt den Schätzen, Schönleitend du, o Wesenkenner, Führer des ersten, grossen, schutzverleih'nden Opfers.
Leuchte, o Agni, als der unbezwungene Bulle, der du alle Burgen und Glücksgüter erobert hast, als Leiter des Opfers, des ersten Schutzgeistes, o Jatavedas, des hohen, du guter Führer.
О Агни, (ты-) неодолимый бык, воссияй,
Завоевав все крепости (и) блага!
(Ты -) вождь жертвы, первой высокой охраняющей силы,
О Джатаведас, о добрый предводитель!
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः । रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥
अच्छि॑द्रा । शर्म॑ । ज॒रि॒त॒रिति॑ । पु॒रूणि॑ । दे॒वान् । अच्छ॑ । दीद्या॑नः । सु॒ऽमे॒धाः । रथः॑ । न । सस्निः॑ । अ॒भि । व॒क्षि॒ । वाज॑म् । अ॒ग्ने॒ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ॥
जरितः सर्वस्य जगतोऽन्तकाले जरयितर्हे अग्ने सुमेधाः शोभनप्रज्ञोपेतः दीद्यानः स्वतेजसा प्रकाशमानस्त्वं देवान् यष्टव्यान् देवान् अच्छ अभिलक्ष्य तदुद्देशेन क्रियमाणानि पुरूणि शर्म स्वर्गादिसुखसाधनभूतानि अग्निहोत्रादीनि कर्माणि अच्छिद्रा अच्छिद्राणि कुरु । कर्तृकर्मसाधनवैकल्यराहित्येन संपूर्णानि कुरु । किंच हे अग्ने त्वं सस्निः संनिरुद्धः स्वकीयं सततगमनं संनिरुध्य हविःप्रक्षेपपर्यन्तमत्र वर्तमानस्त्वं वाजं नः अस्माभिर्दीयमानं हविर्लक्षणमन्नम् अभि देवानभिलक्ष्य वक्षि वह प्रापय । तत्र दृष्टान्तः । रथो न रथ इव । यथा रथो धान्यादिकमूढ्वा तत्स्वामिनं प्रापयति तद्वत् । किंच त्वम् अग्ने रोदसी द्यावापृथिव्यौ सुमेके शोभनरूपोपेते स्वकीयप्रभाभिः प्रकाशयुक्ते कुरु ॥ दीद्यानः । दीदेतिर्दीप्तिकर्मा । तस्मात् शानच् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सुमेधाः । ‘ नित्यमसिच् प्रजामेधयोः' इत्यसिच्प्रत्ययः । बहुव्रीहौ ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सस्निः। ‘ षस स्वप्ने'। अस्मादौणादिको निन् । नित्त्वादाद्युदात्तत्वम्। वक्षि । ‘ वह प्रापणे' अस्य लोटः सिपि ‘ बहुलं छन्दसि ' इति शपो लुक् । ढत्वकत्वे । हिरादेशश्छान्दसत्वान्न भवति । निघातः॥
“Destroyer (of the world), do you who is endowed with intelligence and radiance celebrate many faultless sacred rites in honour of the gods, and restraining (your impatience), convey to them like a wagon our (sacrificial) food; illume (with your rays) the beautiful heaven and earth.”
Lighting Gods hither, Agni, wisest Singer, bring thou to us many and flawless shelters.
Bring vigour, like a car that gathers booty: bring us, O Agni, beauteous.Rarth and Heaven.
O singer, thou who art wise, brightly shining towards the gods 1, bring to us thy many perfect shelters, and gain like a victorious car 2; Agni, (carry) thou (hither) towards us the two well-established 3 worlds (Heaven and Earth).
Your shelters are many and unbreakable, o singer [=Agni?]. As one very wise, shining up to the gods,
like a winning chariot convey (us) to victory’s prize. Agni, (convey) us to the well-supported world-halves.
O Sänger Agni, bringe viele sichre Beschirmung, weiser, auf die Götter achtend, Und reiches Gut wie ein beladner Wagen herbei uns und die segensreichen Welten.
Viele lückenlose Schilde hat, o Sänger, der Weise, der bis zu den Göttern leuchtet. Wie ein gewinnender Wagen fahr uns zum Kampfpreis; o Agni, bring du uns die beiden festbegründeten Rodasi!
Надежны (твои) защиты, о певец, многочисленны.
Сверкающий, очень мудрый к богам (движется Агни).
Как колесница, захватывающая добычу, вези (нас) к награде!
О Агни, (привези) нам обе прочно установленные половины вселенной!
प्र पी॑पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे॑ । दे॒वेभि॑र्देव सु॒रुचा॑ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ॥
प्र । पी॒प॒य॒ । वृ॒ष॒भ॒ । जिन्व॑ । वाजा॑न् । अग्ने॑ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒दोघे॒ इति॑ सु॒ऽदोघे॑ । दे॒वेभिः॑ । दे॒व॒ । सु॒ऽरुचा॑ । रु॒चा॒नः । मा । नः॒ । मर्त॑स्य । दुः॒ऽम॒तिः । परि॑ । स्था॒त् ॥
वृषभ कामानां वर्षितर्हे अग्ने त्वं 'नः अस्माकं प्र पीपय अभिलषितफलानि वर्धय। वाजान् अन्नानि च जिन्व प्रयच्छ । किंच देव दीप्यमान हे अग्ने सुरुचा शोभनदीप्त्या रुचानः शोभमानस्त्वं देवेभिः यजनीयदेवैः सहितोऽस्माकं रोदसी इमे द्यावापृथिव्यौ सुदोघे वृष्टिद्वाराभिमतफलप्रदानेन सुष्ठु दोग्ध्र्यौ कुरु। तथा मर्तस्य शत्रोः दुर्मतिः दुष्टबुद्धिप्रयुक्तोऽभिभवः नः अस्मान् मा परि ष्ठात् परितो मा गच्छतु ॥ पीपय । ‘ पा पाने' इत्येतस्य ण्यन्तस्य लुङि चङि द्विर्वचनाभ्यासदीर्घौ । सिपो लोपश्छान्दसः । जिन्व। 'इवि जिवि धिवि प्रीणनार्थाः । एतस्य लोटि इदित्त्वान्नुम् । शप् । अतो हे: इति हेर्लुक् । आमन्त्रितस्याविद्यमानवत्त्वेन अतिङ उत्तरत्वाभावात् न निघातः । सुदोघे। दोहनं दोघः। भावे घञ् । कुत्वं छान्दसम् । ' आद्युदात्तं द्व्यच् छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । दुर्मतिः । ‘मनु अवबोधने' । मन्यते इति मतिर्बुद्धिः । कर्तरि क्तिच् । दुष्टा बुद्धिः । अव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Be propitious, showerer (of benefits); grant (abundant) food, Agni; (make) heaven and earth yield us milk; divine (Agni), associated with the gods, shining with bright radiance, let not the ill-will of any mortal prevail against us.”
Swell, O thou Bull and give those powers an impulse, e'en Earth and Heaven who yield their milk in plenty,
Shining, O God, with Gods in clear effulgence. Let not a mortal's evil will obstruct us.
O bull, increase and rouse our gains. Agni! (Increase) for us the two worlds (Heaven and Earth) rich in milk, O god together with the gods, shining with beautiful shine! May a mortal's hatred never enclose us.
O bull, swell and quicken for us victory’s prizes and the milk-yielding world-halves, o Agni,
since you are aflame with good flame, o god with the gods. Let not a mortal’s evil intent hem us in.
Lass schwellen, Held, und fördern uns die Schätze, und Agni du die gabenreichen Welten; Mit hellem Glanze glänze mit den Göttern, nicht soll der Menschen Arglist uns umstricken.
Laß uns Anschwellen, stärke, du Bulle, die Belohnungen; o Agni, laß du für uns die beiden Rodasi wie gute Milchkühe anschwellen. Komm, o Gott, mit den Göttern in schönem Glanze strahlend! Nicht soll uns die böse Absicht eines sterblichen im Wege stehen.
О бык, сделай набухшими награды, вызови (их) к жизни!
О Агни, (сделай) ты для нас обе половины вселенной хорошо доящимися!
(Приди) с богами, о бог, блестя чудным блеском!
Да не окружит нас злая мысль смертного!
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ । स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥
हे अग्ने पुरुदंसम् । आपोऽप्नो वेष इति कर्मनाममसु पठितत्वाद्दंसः शब्दः कर्मवाची । पुरूणि बहूनि दंसांसि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमन्निरन्तरं हवमानाय यजमानाय मह्यं साधः साधय । किञ्चनोस्ऽमाकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवत्विति ते तव या सुमतिः शोधना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटव्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनी प्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यन्त इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतम् । भू सत्तायाम् । बहुलं छन्दसीति शपो लुक् । भूसुवोस्तीङीति गुणप्रतिषेधः ॥ ७ ॥
“Grant, Agni, to the offerer of the oblation, earth the giver of cattle the means of many sacred rites, such that it may long endure; may there be to us sons and grandsons, and may your favour, Agni, be productive of good to us.”
Agni, as holy food to thine invoker, give wealth in cattle, lasting, rich in marvels.
To us be born a son and spreading ofrspring. Agni, be this thy gracious will to us-ward.
7 = III, 1, 23.
– Make the milk-libation, the very wondrous winning of the cow, succeed, o Agni, for him who invokes you most constantly.
There should be for us a son and a lineage that proliferates. Agni, let this your favor be for us.
Dem Beter schaff als Labung wunderreichen Besitz an Rindern fort und fort, o Agni, Ein eigner Sohn sei uns und Stammvermehrung, das sei uns, Agni, deine Gunsterweisung.
Erziel, o Agni, Segen, den vielwirkenden Lohn einer Kuh für den am häufigsten rufenden Sänger! Ein leiblicher Sohn, der das Geschlecht fortpflanzt, soll uns werden. Agni, diese Gnade von dir soll uns zuteil werden!
Привези прямо к цели, о Агни, жертвенный напиток (и) многообещающую награду
В виде коровы для того, кто постоянно призывает (богов)!
Да будет нам сын, продолжающий род, плоть от плоти!
О Агни, да будет нам твое благоволение!