अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य । रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नाम् ॥
अ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य । रा॒यः । ई॒शे॒ । सु॒ऽअ॒अप॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥
उत्कीलः स्तौति । अयं यजनीयत्वेन अङ्गुल्या निर्दिश्यमानः अग्निः सुवीर्यस्य शोभन सामर्थ्योपेतस्य महः महतः सौभगस्य सौभाग्यस्य ईशे ईष्टे । ईश्वरो भवति । सर्वस्य बलारोग्यहेतुतया सौभाग्यकारित्वात् । तथा गोमतः गवादिपशुयुक्तस्य स्वपत्यस्य शोभनापत्यस्य रायः धनस्य ईशे ईष्टे । पुत्रपश्वाद्युद्देशेन क्रियमाणकर्मफलसंपादकत्वेन तत्स्वामित्वात् । तथैवंभूतोऽग्निः वृत्रहथानाम्। हननं हथः । शत्रुभूतपापविनाशनानामपि ईशे ईष्टे । त्वयि समर्पितकर्मणामस्माकं त्वत्र्रसादात् पापक्षयो भवतीति तस्यापि स्वामी ॥ ईशे । ‘ ईश ऐश्वर्ये'। अदादित्वाच्छपो लुक् । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । पादादित्वादनिघातः । सौभगस्य । सुभगस्य भावः सौभगम् । उद्गात्रादित्वादञ् । सर्वविधीनां छन्दसि विकल्पितत्वात् अत्र 'हृद्भग°' इत्यादिना प्राप्ताया उत्तरपदवृद्धेरभावः । रायः । ‘ उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ईशे । निघातः । स्वपत्यस्य । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । वृत्रहथानाम् । ‘वृतु वर्तने ' । अस्मात् ' स्फायितञ्चिवञ्चि°' इत्यादिना रक्प्रत्ययः । कित्त्वादगुणः । ‘हन हिंसागत्योः' इत्यस्मात् ' हनिकुषिनीरमिकाशिभ्यः' इति क्थन् । कित्त्वादनुनासिक़लोपः । कृदुत्तरपदप्रकृतिस्वरः ॥
“This Agni, is the lord of heroism and of great good fortune; he is the lord of wealth comprising progeny and cattle; he is the lord of the slayers of Vṛtra;”
THIS Agni is the Lord of great felicity and hero Strength;
Lord of wealth in herds of kine; Lord of the battles with the foe.
This Agni rules over abundance in valiant men, over great happiness. He rules over wealth consisting in offspring and cows; he rules over the killing of foes.
This Agni is master of heroes in abundance and of great good fortune.
He is master of wealth consisting in good descendants and cattle. He is master of the smashing of obstacles.
Agni gebietet über Kraft, gebietet über grosses Glück, Und Gut das reich an Enkeln und an Rindern ist, und über Kämpfe mit dem Feind.
Dieser Agni verfügt über die Meisterschaft, über großes Glücksgut; er verfügt über einen Schatz an guten Kindern und Kühen, er verfügt über die Niederlage der Feinde.
Этот Агни повелевает обилием прекрасных мужей,
Великой удачей,
Он повелевает богатством из прекрасного потомства, коров,
Он повелевает убийствами врагов.
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्राय॒: शेवृ॑धासः । अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ॥
इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध॑म् । यस्मि॑न् । रायः॑ । शेऽवृ॑धासः । अ॒भि । ये । सन्ति॑ । पृत॑नासु । दुः॒ऽध्यः॑ । वि॒श्वाहा॑ । शत्रु॑म् । आ॒ऽद॒भुः ॥
नरः कर्मणां नेतारो हे मरुतः देवा यूयं वृधं पशुपुत्रादिवर्धकम् इमम् अस्माभिः स्तूयमानम् इमम् अग्निं सश्चत हविरानयनार्थं सेवध्वम् । कीदृशोऽग्निः इत्याकाङ्क्षायामाह। यस्मिन् देवे रायः धनानि शेवृधासः दानभोगाद्युपयोगेन सुखस्य वर्धकानि अभि अभितः सन्ति । ये च देवाः पृतनासु सेनासु तदुपलक्षितेषु संग्रामेषु दूढ्यः दुष्टध्यानोपेतानात्मनो हिंसकाञ्छत्रून् अभि सन्ति अभिभवन्ति । ये च विश्वाहा विश्वान्यहानि यस्मिन्नखण्डे काले तस्मिन् सर्वदा शत्रुम् आत्मनो द्वेष्टारम् आदभुः आदभ्नुवन्ति हिंसन्ति । एवंभूतास्ते सर्वे मरुतो यूयं तमिममग्निं सेवध्वमिति पूर्वेणान्वयः॥ सश्चत । षस्ज संगे ' इत्यस्मात् लोटि रूपम् । जकारस्य व्यत्ययेन चकारः । निघातः । शेवृधासः । वर्णव्यत्ययः । शं सुखं वर्धयतीति। असुन्' इत्यसुन् । गुणाभावश्छान्दसः। ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्यौणादिकसूत्रात् पूर्वपदप्रकृतिस्वरः । सन्ति । ' अस भुवि ' । दूढ्यः । ‘ ध्यै चिन्तायाम् ' । ‘ अन्येभ्योऽपि दृश्यते' इति क्विप् । दृशिग्रहणात्संप्रसारणम् । ‘ दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेः ष्टुत्वं च ' इति उत्वढत्वे । ‘ छन्दस्युभयथा' इति शसीयाङादेशं बाधित्वा यणादेशः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । शसः सुप्तत्वात् अनुदात्तत्वे कृते ‘ उदात्तस्वरितयोर्यणः इति शसः स्वरितत्वम् । आदभुः । ‘ दम्भु दम्भे' । अस्माल्लिट्युसि रूपम् । श्रन्थिग्रन्थिदम्भिस्वञ्जीनामुपसंख्यानम् ' इति किद्वद्भावादनुनासिकलोपः। ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( का. ६. १. ८) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः । ‘ सतिशिष्टस्वरो बलीयान्' इति प्रत्ययस्वरः ॥
“Maruts, leaders (of rites), associate with this augmenter (of our prosperity), in whom (abide) riches contributing to felicity, you who (are victorious) over (your) enemies in battle, who daily humble (your) foes.”
Wait, Maruts, Heroes, upon him the Prosperer in whom is bliss-increasing wealth;
Who in fights ever conquer evil-hearted men, who overcome the enemy.
O Maruts 1, ye men, cling to this furtherer 2 who possesses joy-furthering boons—(the Maruts) who 3 in battles overcome ill-minded (foes), who have deceived the enemy 4 day by day.
Follow this one, you superior men, you Maruts, to strengthen him, in whom are riches that grow strong with kindness,
that overcome those of evil intent in battles, and that every day swindle his rival.
O Marut-Mannen macht euch diesen Segner hold, in welchem werthe Schätze ruhn; Die in den Schlachten über Böse siegreich sind, die Feinde stets bewältigen.
Ihr Herren Marut, haltet euch dazu, diesen Agni zu stärken, bei dem die glückmehren - den Reichtümer sind, welche in den Kämpfen die Übelgesinnten überwinden und allezeit den Feind zu Fall bringen.
Следуйте за ним, о мужи Маруты, для усиления,
(За тем,) у кого богатства, усиливающие счастье,
(Те,) что в сражениях превосходят злоумышленников
(И) всегда уничтожают врага !
स त्वं नो॑ रा॒यः शि॑शीहि॒ मीढ्वो॑ अग्ने सु॒वीर्य॑स्य । तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिण॑: ॥
सः । त्वम् । नः॒ । रा॒यः । शि॒शी॒हि॒ । मीढ्वः॑ । अ॒ग्ने॒ । सु॒ऽवीर्य॑स्य । तुवि॑ऽद्युम्न । वर्षि॑ष्ठस्य । प्र॒जाऽव॑तः । अ॒न॒मी॒वस्य॑ । शु॒ष्मिणः॑ ॥
हे अग्ने सः तथाविधः त्वं नः अस्मान् रायः । तृतीयार्थे षष्ठी । धनेन शिशीहि तीक्ष्णान् कुरु । अस्मान् धनसमृद्धान् कुरु । किंच तुविद्युम्न बहुधनोपेत अत एव मीढ्वः मीढ्वन् कामानां सेक्तः हे अग्ने त्वं वर्षिष्ठस्य वृद्धतमस्य प्रभूतस्य प्रजावतः अपत्ययुक्तस्य अनमीवस्य आरोग्यहेतोः अत एव शुष्मिणः बलहेतोः सुवीर्यस्य शोभनसामर्थ्ययुक्तस्य अन्नस्य संबन्धिनोऽस्मान् कुरु । यद्वा । एतत्सर्वं रैविशेषणतया योजनीयम् । एताः षष्य्िस्तृतीयाथें । एतदुक्तं भवति । धनेन अपत्यारोग्यशरीरबलोपेतेन अन्नेन च अस्मान् समृद्धान् कुर्विति ॥ शिशीहि । ‘शिञ् निशाने ' इत्यस्य लोटि ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः। ‘ वा छन्दसि ' इति विकल्पेन ङित्त्वात् ‘अङितश्च' इति हेर्धिरादेशो न भवति । दीर्घश्छान्दसः । निघातः । मीढ्वः । ‘ मिह सेचने ' इत्यस्य क्वसौ ‘दाश्वान्साह्वान्मीढ्वांश्च' इति निपातनात् ढत्वम् उपधादीर्घश्च । संबुद्धौ नुमि कृते हल्ङयादिलोपे संयोगान्तलोपे च कृते ‘ मतुवसो रु° संबुद्धौ छन्दसि ' इति रुः । पादादित्वादाद्युदात्तः ॥
“Do you, opulent Agni, showerer (of benefits), prosper us with riches comprising vigour, numerous progeny health, and happiness.”
As such, O Agni, deal us wealth and hero might, O Bounteous One!
Most lofty, very glorious, rich in progeny, free from disease and full of power.
As such, O bounteous Agni, prepare 1 us riches 2 and wealth in valiant men, which, O highly glorious one, may be most exalted, rich in offspring, free from plagues, and powerful.
Sharpen us for a share of wealth with an abundance of heroes,
o generous Agni,
o you of mighty brilliance—(wealth) reaching the highest, bringing offspring, free from affliction, and bursting forth.
So schenke Agni Reichthum uns, o holder, der an Männern reich Und Kindern sei, vorzüglichen, o kräftiger, und starken, welcher frei von Leid.
Mach du uns scharf auf Reichtum, auf die Meisterschaft, du belohnender Agni, du Glanzreicher, auf die höchste, die in Kindern besteht, gesund und mutig ist.
Направь ты нас на богатство,
О щедрый Агни, на обилие прекрасных мужей,
О мощно сверкающий, на высшее богатство, награждающее потомством,
Дающее безболезненность, неистовое!
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुव॑: । आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ॥
चक्रिः॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । स॒स॒हिः । चक्रिः॑ । दे॒वेषु॑ । आ । दुवः॑ । आ । दे॒वेषु॑ । यत॑ते । आ । सु॒ऽवीर्ये॑ । आ । शंसे॑ । उ॒त । नृ॒णाम् ॥
यः अयमग्निः चक्रिः सर्वस्य जगतः कर्ता स च विश्वा भुवना विश्वानि भुवनानि अभि अभिविशति । ‘ तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. उ. २. ६ ) इति श्रुतेः । चक्रिः कर्ता सोऽग्निः सासहिः पुरोडाशादिहविर्भारसहनशीलः सन् दुवः अस्माभिर्दत्तं हविः देवेषु यजनीयदेवेषु आ आनयति । स चाग्निः देवेषु देवनशीलेषु स्तोतृषु आ यतते आभिमुख्येन गच्छति । यद्वा विश्वानि भुवनानि चक्रिः अभिसासहिरभिभवनशीलः । आकारश्चार्थे । देवेषु च दुवः परिचरणं चक्रिः कर्ता । यः एवंभूतः स आयतते इत्यादि पूर्ववत् । उत अपि च नृणां यज्ञस्य नेतॄणां शस्त्रिणां शंसे । शंसनं शंसः शस्त्रम् । तस्मिन् सोऽग्निः आ आगच्छति । तथा नृणां मनुष्याणां सुवीर्ये शोभनवीर्योपेतयुद्धे तद्रक्षणार्थम् आ आगच्छति । अनेनाग्नेः सर्वव्यापकता प्रतिपादिता भवति ॥ चक्रिः । ‘ डुकृञ् करणे' ।' आदृगमहनजनः किकिनौ लिट् च ' इति किन्प्रत्ययः । लिङ्वद्भावात् द्विर्वचनम् । कित्त्त्वात् गुणाभावः । नित्स्वरः । सासहिः । ‘ षह मर्षणे ' इत्यस्मात् यङन्तात् ‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ ' ( पा. म. ३.२.१७१.४ ) इति किः । प्रत्ययस्वरः । यतते । ‘ यती प्रयत्ने । यद्वृत्तयोगादनिघातः । शंसे। भावे घञ् । ञित्स्वरः । नृणाम् । नृ च' इति विकल्पेन दीर्घाभावः । ‘ नामन्यतरस्याम् ' इति विभक्तेरुदात्तत्वम् । विश्वेत्यादिषु ‘ न लोकाव्यय ' इति षष्ठीप्रतिषेधः ॥
“He who is the maker pevades all worlds; he the enduring maker (of all) bears our offerings to the gods; he is present with the devout (worshippers) and amidst th eheroism and the devotions of men.”
He who made all that lives, who passes all in might, who orders service to the Gods,
He works among the Gods, he works in hero strength, yea, also in the praise of men.
The maker who victoriously (stands) over all beings, the maker who makes the praise arrive among the gods 1: he stands firm among the gods, among the host of heroes, firm also in the praise of men.
Who creates and overwhelms all living beings, who creates friendship here among the gods,
he takes his place here among the gods, here amid an abundance of heroes, and here in the praise of men.
Er, welcher wirkend alle Wesen überwiegt, die Gaben zu den Göttern schafft, Der nach den Göttern strebet und nach Heldenkraft, und nach dem Lob der Männer auch.
Der alle Wesen wirkt und ihnen überlegen ist als der Bezwinger, er erwirkt Vorliebe bei den Göttern. Er steht bei den Göttern fest, fest in der Meisterschaft, fest auch in dem Lob der Herren.
Агни, создавший все существа (и) покоривший их,
Создал почитание среди богов.
Он занимает подобающее место среди богов ради обилия прекрасных мужей,
И ради хвалы мужей.
मा नो॑ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः । मागोता॑यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ॥
मा । नः॒ । अ॒ग्ने॒ । अम॑तये । मा । अ॒वीर॑तायै । री॒र॒धः॒ । मा । अ॒गोता॑यै । स॒ह॒सः॒ । पु॒त्र॒ । मा । नि॒दे । अप॑ । द्वेषां॑सि । आ । कृ॒धि॒ ॥
सहसस्पुत्र बलस्य पुत्र हे अग्ने त्वं नः अस्मान् अमतये शत्रुभूताय दारिद्र्याय मा रीरधः संसिद्धान् विषयभूतान् मा कुरु। तथा अवीरतायै अपुत्रतायै । ‘वीरशब्देन तद्वान् लक्ष्यते । वीरस्य भावो वीरता । न वीरता अवीरता । तस्यै । अस्मान् अपुत्रताया विषयभूतान् मा कुरु । तथा त्वमस्मान् अगोतायै गवादिपशुसंपत्यभावस्य विषयभूतान मा कुरु । किंच अस्मान् निदे निन्दाया विषयभूतान् मा कुरु मा विधेहि । तथा त्वं द्वेषांसि कर्मापराधनिमित्तान् द्वेषांश्च अप आ कृधि अपाकुरु निवारय ॥ अवीरतायै । वीर अस्य सन्तीति वीरः । अर्शआदित्वादच् । तस्य भावो वीरता । ‘ तस्य भावस्त्वतलौ ' इति तल् । न वीरता अवीरता । नञः स्वरे प्राप्ते ‘ परादिश्छन्दसि बहुलम् ' इति नञुत्तरस्य आदेरुदात्तता । रीरधः । ‘राध साध संसिद्धौ' । अस्माण्ण्यन्ताच्छान्दसे लुङि ‘णिश्रिद्रुस्रुभ्यः ' इति च्लेश्चङादेशः । ‘ णेरनिटि ' इति णिलोपः । ‘ णौ चङ्युपधायाः इत्युपधाह्वस्वः । ‘ चङि' इति द्विर्वचनम् ।' सन्वल्लघुनि चङ्परे ' इति सन्वद्भावः । ‘ सन्यतः । इत्यभ्यासस्येत्वम् । तस्य दीर्घो लघोः' इति दीर्घः । ‘ न माङ्योगे ' इत्यडभावः । निघातः ॥ अगोतायै । गोशब्देन गोमान् लक्ष्यते । न गौरगौः । अगोर्भावोऽगोता। ‘ तस्य भावः' इति तल् । लित्स्वरः । सहसस्पुत्र। ‘ सुबामन्त्रिते पराङ्गवत्स्वरे' ' इति पराङ्गवद्भावात् सहसस्पुत्र इत्येतयोः सर्वानुदात्तत्वम् । निदे । ‘ णिदि कुत्सायाम् । अस्मात्संपदादित्वाद्भावे क्विप् । “ अनित्यमागमशासनम् ' इति नुमभावः । ‘सावेकाचः' इति विभक्तेरुदात्तता ॥
“Consign us not, Agni to malignity; (doom) us not to the absence of posterity; nor, son of strength, to the want of cattle, nor to reproach; drive away (all) animosities.”
Give us not up to indigence, Agni, nor want of hero sons,
Nor, Son of Strength, to lack of cattle, nor to blame. Drive. thou our enemies away.
Give us not up, Agni, to want of thought 1 nor to want of heroes nor to want of cows, O son of strength, nor to the scoffer. Drive away hostile powers 2.
Agni, do not subject us to lack of thought nor to lack of heroes,
nor to lack of cattle, o son of strength, nor to scorn. Put hostilities away from here.
Gib, Agni, nicht dem Mangel uns, nicht hin der Kinderlosigkeit, Dem Rindermangel noch dem Feind, o Sohn der Kraft, die Feinde schaffe weit hinweg.
Überantworte uns nicht der Gedankenarmut, o Agni, nicht dem Mangel an Söhnen und nicht dem an Kühen, du Sohn der Kraft, nicht dem Tadel! Halte die Anfeindungen ab!
Не выдай нас, о Агни,
Ни безвдохновенности, ни безмужности,
Ни бескоровности, о сын силы, ни глумлению!
Устрани проявления ненависти!
श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने॑ बृह॒तो अ॑ध्व॒रे । सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ॥
श॒ग्धि । वाज॑स्य । सु॒ऽभ॒ग॒ । प्र॒जाऽव॑तः । अग्ने॑ । बृ॒ह॒तः । अ॒ध्व॒रे । सम् । रा॒या । भूय॑सा । सृ॒ज॒ । म॒यः॒ऽभुना॑ । तुवि॑ऽद्युम्न । यश॑स्वता ॥
सुभग शोभनधनोपेत हे अग्ने त्वम् अध्वरे अस्माभिः क्रियमाणेऽस्मिन् अग्निष्टोमादिकर्मणि बृहतः महतः प्रभूतस्य प्रजावतः अपत्योपेतस्य वाजस्य अन्नस्य शग्धि ईशिषे । तादृशमन्नमस्मिन् अध्वरेऽस्मभ्यं देहि । किंच तुविद्युम्न बहुधनयुक्त हे अग्ने मयोभुना। मय इति सुखनाम ‘शेवृधं मयः' (नि. ३. ६. ७) इति तन्नामसु पाठात् । तद्दानाद्युपयोगहेतुतया सुखस्य भावकेन अत एव यशस्वता कीर्तिमता भूयसा अतिप्रभूतेन राया एवंविधेन धनेनास्मान् सं सृज संयोजय ॥ शग्धि। शक्लृ शक्तौ ' इत्यस्य लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ हुझल्भ्यो हेर्धिः' इति धिरादेशः । हेरपित्त्वादुदात्तता । राया । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । भूयसा । बहुशब्दात् द्विवचनविभज्योपपदे' इतीयसुन् । “ बहोर्लोपो भू च बहोः' इतीयसुनः सर्वस्य लोपे प्राप्ते आदेः परस्य' ( पा. सू. १.१.५४ ) इति प्रत्ययस्यादेर्लोपो बहोः भूरादेशश्च। नित्स्वरः । सृज ।' सृज विसर्गे '। तुदादिः । लोटि रूपम् । निघातः । मयोभुना । ‘भू सत्तायाम्' इत्यस्मात् औणादिको डुप्रत्ययः । तुविद्युम्न । पादादित्वादनिघातः ॥ ॥ १६ ॥
“Auspicious Agni, bestow (upon us) at the rite, food (the source of) happiness and renown.”
Help us to strength, blest Agni! rich in progeny, abundant, in our sacrifice.
Flood us with riches yet more plenteous, bringing weal, with high renown, most Glorious One!
Help us at this sacrifice, O blessed one, with mighty gain which is accompanied by offspring, O Agni! Let us be united with greater, gladdening, glorious wealth, O thou of mighty splendour!
Show a mastery over victory’s prize that brings offspring, o bearer of good fortune, and that is lofty in the rite, o Agni.
Join us with greater wealth that is delight and brings glory, o you of powerful brilliance.
O reicher, schenke kinderreiche Labung uns, o Agni, starke bei dem Fest; Ergiesse dich mit grösserm freudenreichen Gut, mit herrlichem, o mächtiger.
Erwirk uns kinderreiche hohe Belohnung bei dem Opfer, du holder Agni! Mach uns größeren Reichtums teilhaft, der zur Freude gereicht, Ansehen gibt, du Glanzreicher!
Постарайся (дать) награду, о счастливый, заключающуюся в потомстве,
О Агни, высокую (награду) во время обряда!
Соедини нас с еще большим богатством, приносящим радость,
О мощно сверкающий, (с богатством) дающим Славу!