स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः । शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥
स॒म्ऽइ॒ध्यमा॑नः । प्र॒थ॒मा । अनु॑ । धर्म॑ । सम् । अ॒क्तुऽभिः॑ । अ॒ज्य॒ते॒ । वि॒श्वऽवा॑रः । शो॒चिःऽके॑शः । घृ॒तऽनि॑र्निक् । पा॒व॒कः । सु॒ऽय॒ज्ञः । अ॒ग्निः । य॒जथा॑य । दे॒वान् ॥
कतः स्तौति । धर्म । धारणात् धर्म । अग्नेः यज्ञनिर्वाहकतया तद्धारकत्वाद्धर्माग्निः । तथा च मन्त्रः----’ धर्माणमग्निं विदथस्य साधनम् ' ( ऋ. सं. १०. ९२. २) इति । तादृशोऽग्निः प्रथमा प्रथमं यज्ञोपक्रमे अनु अग्न्यायतनेष्वनुक्रमेण समिध्यमानः सम्यक् प्रज्वाल्यमानः । यद्वा । अनु धर्म धर्मसाधनभूतेषु यज्ञेषु प्रथमं समिध्यमानः । विश्ववारः विश्वैः सर्वैर्यजमानैर्यष्टव्यतया वरणीयः शोचिष्केशः शोचींषि ज्वालाः केशा यस्य स तथोक्तः । घृतनिर्णिक् घृतस्य तापनद्वारा विलापनेन शोधकः । पावकः अस्मदीयपापशोधकः । सुयज्ञः शोभनयज्ञोपेतः । एवंभूतः अग्निः देवान् अस्माभिर्यजनीयान् देवान् यजथाय यष्टुम् अक्तुभिः अञ्जनसाधनैर्घृतादिभिः सम् अज्यते सम्यक् सिच्यते ॥ प्रथमा । ‘सुपां सुलुक्' इति सुपो डादेशः । धर्म । ‘ धृञ् धारणे' इत्यस्मात् “ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । ह्रस्वत्वं छान्दसम् । नित्स्वरः । अक्तुभिः । 'अञ्जू व्यक्तिगतिम्रक्षणेषु' । अज्यत एभिरिति बाहुलकत्वात् क्तुः करणे । कित्त्वादुपधालोपः । प्रत्ययस्वरः । अज्यते । स एव धातुः । कर्मणि यक् । “ अनिदिताम् ' इत्युपधालोपः। विश्ववारः । विश्वैर्यजमानैर्होतृद्वारा वारो वारणं यस्येत्यत्र ‘वृञ् वरणे ' इत्यस्य ण्यन्तस्य रूपं वारः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । घृतनिर्णिक् । ‘ णिजिर् शौचपोषणयोः । क्विप् । घृतं नेनेक्तीति द्वितीयातत्पुरुषत्वात् पूर्वपदस्वरः । यजथाय । ‘ यज देवपूजासंगतिकरणदानेषु । अरमादौणादिकः अथप्रत्ययः । तादर्थ्ये चतुर्थी । प्रत्ययस्वरः ॥
“The righteous (Agni) when first kindled on the several (altars) the object of adoration by all, whose hair is flame, and who is cleansed with butter, the purifier, the worthy-worshipped, is sprinkled with oblations for the worship of the gods.”
DULY enkindled after ancient customs, bringing all treasures, he is balmed with unguents,-
Flame-haired, oil-clad, the purifying Agni, skilled in fair rites, to bring the Gods for worship.
He who is inflamed after the primitive ordinances, is anointed with ointments 1, the giver of all treasures, he whose hair is flame, whose stately robe is ghee, the purifier, skilled in sacrifice, Agni—that he may sacrifice to the gods.
Being kindled according to his first foundations, he who fulfills all wishes is anointed with unguents—
he, the flame-haired, ghee-cloaked, purifying Agni, who makes the
sacrifice good—in order to sacrifice to the gods.
Entzündet nach althergebrachten Bräuchen wird er der reiche nun gesalbt mit Salben, Er welcher flammt lichthaarig, fettgekleidet, schön opfernd, Agni, für der Götter Opfer.
Den ersten Bestimmungen gemäß entzündet, wird er mit Salben gesalbt, allbegehrt, flammenhaarig, in Schmalz festlich gekleidet, der lautere gutopfernde Agni, um den Göttern zu opfern.
Зажигаемый согласно первым установлениям,
Он умащается мазями, желанный для всех,
Пламенновласый, в одеянии из жира, очищающий,
Агни, прекрасно жертвующий, – для жертвы богам.
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् । ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥
यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् । ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥
हे अग्ने त्वं यथा पृथिव्याः यजमानभूतायाः पृथिवीदेवतायाः पूर्वं होता सन् होत्रं होमसाधनं हविः अयजः अयाजीः जातवेदः जातप्रज्ञ हे अग्ने चिकित्वान् कर्म विषयज्ञानवान् त्वं यथा च दिवः यजमानभूताया द्युदेवताया होता भूत्वा हविरयजः । एव एवं त्वमस्मिन् कर्मणि होता सन् अनेन अस्माभिर्दीयमानेन हविषा देवान यक्षि यज । किंच त्वम् अद्य इदानीम् अस्माभिः क्रियमाणम् इमं यज्ञं प्र तिर अनुष्ठानसंपूर्त्या पारं गमय । तत्र दृष्टान्तः मनुष्वत् इति । यथा मनोः यज्ञमनुष्ठानसंपूर्त्या पारमनैषीस्तद्वदिमं यज्ञं पारं नयेत्यर्थः ॥ यथा । ' प्रकारवचने थाल्' इति थाल् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । अयजः । यजेर्लङि रूपम् । यच्छब्दयोगादनिघातः । होत्रम् । हु दानादनयोः'। 'हुयामाश्रुभसिभ्यस्त्रन! इति त्रन्प्रत्ययेनान्तोदात्त: । दिवः । ‘ उडिदम्' इति विभक्तेरुदात्तत्वम् । चिकित्वान् । ‘कित ज्ञाने' इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । अनेन । इदंशब्दस्य तृतीयैकवचने 'अनाप्यकः ' ( पा. सू. ७. २. ११२ ) इत्यनादेशः । यक्षि । यजेर्लेटि रूपम् । मनुष्वत् । तत्र तस्येव ' इति वतिः । ‘ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' इति भसंज्ञात्वात् रुत्वाभावः । प्रत्ययस्वरः । तिर । तरतेर्लोटि व्यत्ययेन शः । ‘ ऋत इद्धातोः' इति इत्वम् । निघातः ॥
“As you did offer the burnt-offering, Agni, (on behalf of) earth; as you, Jātavedas, who are cognizant (of sacred rites, did offer sacrifice on behalf) of heaven; so with this oblation worship the gods, and perfect this rite today (as you did) that of Manu.”
As thou, O Agni, skilful Jatavedas, hast sacrificed as Priest of Earth, of Heaven,
So with this offering bring the Gods, and prosper this sacrifice today as erst for Manu.
As thou hast performed, O Agni, the Hotri's duty for the Earth, as thou hast done it for Heaven, O Gâtavedas, full of intelligence, in the same way sacrifice with this offering to the gods. Prosper this sacrifice to-day as thou hast done for Manus.
Just as you performed the sacrificial role of the Hotar of the Earth, o Agni, and just as you observantly (performed that) of the Heaven,
Jātavedas,
so sacrifice to the gods with this offering. Like Manu, carry out this
sacrifice today.
Wie, Agni, du der Erde Guss geopfert, und wie des Himmels, weiser Wesenkenner, So opfre auch mit diesem Trank den Göttern, wie Manus fördre heute dieses Opfer.
Wie du früher das Hotriopfer der Erde, wie du das des Himmels kundig vollzogen hast, o Agni Jatavedas, so opfere mit diesem Opfer den Göttern! Wie für Manu fördere heute dieses Opfer!
Как жертвовал ты в должности хотара земли,
Как – (хотара) неба, о Джатаведас искушенный,
Так (сейчас) пожертвуй богам это возлияние!
Как для Мануса, сегодня продвинь эту жертву!
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥
त्रीणि॑ । आयूं॑षि । तव॑ । जा॒त॒ऽवे॒दः॒ । ति॒स्रः । आ॒ऽजानीः॑ । उ॒षसः॑ । ते॒ । अ॒ग्ने॒ । ताभिः॑ । दे॒वाना॑म् । अवः॑ । य॒क्षि॒ । वि॒द्वान् । अथ॑ । भ॒व॒ । यज॑मानाय । शम् । योः ॥
हे जातवेदः जातप्रज्ञ तव त्रीण्यायूंषि त्रिविधानि आज्यौषधिसोमात्मकान्यन्नान्याहारतया कल्पितानि हे अग्ने तिस्रः उषसः एकाहाहीनसत्रगता उषसः उषोऽभिमानिन्यस्तिस्रो देवताः ते तव आजानीः जनयित्र्यो मातरः । यद्वा उषोऽभिमानिन्यो देवतास्तवाजानीस्त्वामनुजातास्तिस्रः स्वसारः । तथा च स्वसॄः प्रकृत्य मन्त्रः----’ प्रजामेका रक्षत्यूर्जमेका राष्ट्रमेका रक्षति' इति । ताभिः उषोऽभिमानिनीभिर्देवताभिः सहितस्त्वम् अवः अस्माभिर्दीयमानं हविर्लक्षणमन्नं देवानां यक्षि यष्टव्यदेवानां प्रयच्छ । अथ अनन्तरं विद्वान् जानंस्त्वं यजमानाय शं भव सुखहेतुर्भव । योः च सुखस्य मिश्रयिता च भव ॥ तव । युष्मदस्मदोर्ङसि' इत्याद्युदात्तः । तिस्रः । त्रिशब्दस्य स्त्र्यर्थे ' त्रिचतुरोः स्त्रियाम् ' इति तिसृ इत्यादेशः । अचि र ऋतः' इति रेफादेशः । ‘ तिसृभ्यो जसः' इति विभक्तेरुदात्तत्वम् । आजानीः । ‘ जन जनने' । जनिघसिभ्यामिण् ' इति कर्तरि इण् । णित्त्वादुपधावृद्धिः । ‘ वा छन्दसि ' इति सवर्णदीर्घः । कृदुत्तरपदप्रकृतिस्वर:। अवः । ‘ अव रक्षणे ' । ' असुन्' इत्यसुन् । नित्स्वरः । यक्षि । यजेर्दानार्थस्य लेटि रूपम् । यजमानाय । ‘ पूङ्यजोः शानन्' ( पा. सू. ३. २. १२८ ) इति यजेः शानन् । नित्स्वरः । योः । यु मिश्रणे ' इत्यस्मात् “ अन्येभ्योऽपि दृश्यन्ते ' इति विच् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥
“Three are your existences Jātavedas; three, Agni, are your parent dawns; with them offer the oblation of the gods, the knowing (his wishes) be the bestower of happiness on the instrumental tutor of the sacrifice.”
Three are thy times of life, O Jatavedas, and the three mornings are thy births, O Agni.
With these, well-knowing, grant the Gods' kind favour, and help in stir aiid stress the man who worships.
Thou hast three lives, O Gâtavedas, and three births from the Dawn 1, O Agni! Being wise, sacrifice with these to the favour of the gods, and bring luck and welfare to the sacrificer.
Three lifetimes are yours, Jātavedas, and three dawns are your births, o Agni.
By these (births) win the help of the gods by sacrifice as the knowing one, and then become luck and life for the sacrificer.
Drei Lebensalter hast du, Wesenkenner, und drei Geburten aus der Morgenröthe; Mit denen schaff uns kundig Gunst der Götter, und Agni, sei zu Heil und Glück dem Opfrer.
Drei Leben hast du, Jatavedas, drei Usas sind deine Mütter, Agni. Mit diesen erbitte kundig der Götter Gunst und sei dem Opfernden zu Heil und Segen.
Три срока жизни у тебя, о Джатаведас.
Три утренние зари – родительницы твои, о Агни.
Ими пожертвуй как знаток – ради помощи богов,
А также будь жертвователю на счастье и благо!
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः । त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥
अ॒ग्निम् । सु॒ऽदी॒तिम् । सु॒ऽदृश॑म् । गृ॒णन्तः॑ । न॒म॒स्यामः॑ । त्वा॒ । ईड्य॑म् । जा॒त॒ऽवे॒दः॒ । त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒ऽवाह॑म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥
जातवेदः जातस्य सर्वस्य वेदितर्हे अग्ने गृणन्तः त्वद्विषयां स्तुतिं कुर्वाणा वयम् अग्निम् अङ्गनादिगुणोपेतं सुदीतिं शोभनदीप्तिम् अत एव सुदृशं सर्वैः सुदर्शनम् ईड्यं स्तुत्यम् एवंविधं त्वा त्वां नमस्यामः हविर्भिः पूजयामः । किंच देवाः अस्माभिर्यजनीया इन्द्रायो देवाः अरतिम् । न विद्यते विषयेषु रतिः प्रीतिर्यस्यासावरतिः । विषयेष्वसक्तम् अत एव अमृतस्य देवान्नभूतायाः सुधायाः नाभिं नाभिस्थानं त्वां तादृशं हव्यवाहं दूतम् अकृण्वन् । हविषां वोढारं दूतमकुर्वन् । दूतो हि द्विविधो वार्ताहारी कार्यकारी चेति । तत्र त्वां कार्यकारिणं दूतमकार्षुरिति भावः ॥ सुदीतिम् । ' दीङ् क्षये ' । दीयते विनाश्यते आभिस्तम इति करणे क्तिन् । दीतयो दीप्तयः ॥ बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । सुदृशम् । “ दृशिर् प्रेक्षणे' । तस्माच्छक्यार्थे खल् । ' संज्ञापूर्वको विधिरनित्यः' इति गुणाभावः । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । गृणन्तः । गृणातिरर्चतिकर्मा । नमस्यामः । नमसः पूजायां: नमो वरिवश्चित्रङः क्यच् ' इति क्यच् । तदन्ताल्लटि रूपम् । पादादित्वान्न निघातः । दूतम् । ‘टुदु उपतापे । दुतनिभ्यां दीर्घश्च' ( उ. सू. ३. ३७० ) इति क्तः । तत्संनियोगेन धातोर्दीर्घः । दूतः इतस्ततः संचारीत्यर्थः । प्रत्ययस्वरः । अरतिम् । “ रमु क्रीडायाम् ' । भावे क्तिन् । अकृण्वन् । ‘ कृवि हिंसाकरणयोः' इत्यस्य लङि ‘ धिन्विकृण्व्योर च' इत्युप्रत्ययोऽकारश्चान्तादेशः । निघातः ॥
“Jātavedas, we venerate you, glorifying the brilliant, beautiful, adorable Agni; the gods have made you their messenger, the disinterested bearer of oblations, the centre of ambrosia.”
Agni most bright and fair with song we honour, yea, the adorable, O Jatavedas.
Thee, envoy, messenger, oblation-bearer, the Gods have made centre of life eternal.
Praising Agni full of splendour, full of beauty, we adore thee, O Gâtavedas, deserving to be magnified. Thee the gods have made their messenger, their steward 1, and carrier of offerings, the navel of immortality.
Singing to Agni, the one beautifully shining, beautifully appearing, we revere you who are to be invoked, Jātavedas.
You have the gods made the messenger, the spoked wheel (of flames), the conveyor of oblations, and the navel of immortality.
Dich Agni preisend, der du strahlst und schön bist, dich werthen ehren wir, o Wesenkenner; Als Boten, der die Opfer rastlos fähret, ersahn die Götter zu der Gottheit Kern dich.
Den Agni von schönem Glanze, von schönem Aussehen lobend, verneigen wir uns vor dir, dem zu Berufenden, o Jatavedas. Dich machten die Götter zum Boten, zum Rosselenker, zum Opferfahrer, zum Nabel der Unsterblichkeit.
Воспевая Агни с прекрасным блеском, прекрасного на вид,
Мы поклоняемся тебе, достойному призывов, о Джатаведас.
Это тебя боги сделали вестником, посланником (?),
Увозящим жертву, пупом бессмертия.
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः । तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥
यः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः । तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥
हे अग्ने त्वत् त्वत्तोऽपि पूर्वः प्रथमभावी यजीयान् अतिशयेन यष्टा यः यः कश्चित् होता होमनिष्पादकः द्विता द्वैधं मध्यमे चोत्तमे च स्थाने स्वधया सोमाख्येनान्नेन सह सत्ता निषण्णः सन् शंभुः यष्टॄणां सुखभूः अभूत् । द्वितीयपादमेवं यास्को व्याचख्यौ-’ द्विता च सत्ता स्वधया च शंभुः । द्वैधं सत्ता मध्यमे च स्थान उत्तमे च । शंभुः सुखभूः ' ( निरु. ५. ३ ) इति । चिकित्वः धर्मविषयचेतनावन् हे अग्ने तस्य यस्त्वत्तोऽपि पूर्वभावी होता निरूपितस्तस्य होतुः अनु धर्म धर्माननु तेनानुष्ठितधर्मानुपलक्ष्य प्र यज प्रकर्षेण देवान् पूजय । अथ अनन्तरं हे अग्ने त्वं नः अस्माकं संबन्धिनम् अध्वरम् इमं यज्ञं देववीतौ देवानां प्रीत्यर्थं धाः विधेहि ॥ यजीयान् । यष्टृशब्दस्य ' तुश्छन्दसि ' इतीयसुन् । तस्मिन् “ तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्त्वादाद्युदात्तः । द्विता । द्विशब्दात् ' संख्याया विधार्थे धा' इति धाप्रत्ययः । धकारस्य तकाश्छान्दसः । प्रत्ययस्वरः । सत्ता । षद्लृ विशरणगत्यवसादनेषु । अस्य ताच्छीलिकस्तृन् । नित्स्वरः । स्वधया । स्वर्ग लोकं दधाति यजमानस्येति स्वधा । ‘ आतोऽनुपसर्गे कः' इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शंभुः । शं सुखमस्माद्भवतीति । ‘ भू सत्तायाम् । विप्रसंभ्यो ड्वसंज्ञायाम् ' इत्यत्र मितद्र्वादेरुपसंख्यानात् डुप्रत्ययः । डित्त्वाट्टिलोपः । यज । यजेर्लोटि रूपम् । चिकित्वः । ‘ कित ज्ञाने' इत्यस्य क्वसौ रूपम् । ‘ मतुवसो रु संबुद्धौ छन्दसि ' इति नकारस्य रुः । अथा नः । ‘ निपातस्य° ' इति दीर्घः । धाः । ‘ डुधाञ् धारणपोषणयोः' इत्यस्य छान्दसे लुङि रूपम् । अडभावश्छान्दसः । देववीतौ । देवानां वीतिः अशनं यत्र प्रीतौ सा प्रीतिः देववीतिः । वी कान्त्यादिषु इत्यस्मात् भावे क्तिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वर: ॥ ॥ १७ ॥
“He is the most diligent offerer of worship who is the presenter of oblations before you are and who in two plural ces (the middling and the best) seated with the sacrificial food is (the source of) happiness (to the worshippers); do you cognizant (of the objects of devotion), officiate in accordance with his piety, and thus render our rite acceptable to the gods.”
That Priest before thee, yet more skilled in worship, stablished of old, healthgiver by his nature,-
After his custom offer, thou who knowest, and lay our sacrifice where Gods may taste it.
O Agni, the Hotri who before thee was an excellent sacrificer, who verily 1 sat down and brought luck by himself 2 sacrifice according to his rules, O intelligent one, and set down our sacrifice at the feast of the gods.
The Hotar, the better sacrificer before you, o Agni, who once again will take his seat and (be) the one who is good luck by his own will,
according to his foundations, carry forth the sacrifice, o you who are observant, and set the rite in place for us in pursuit of the gods.
Welch ältrer Priester dich im Opfern, Agni, noch übertrifft, von selbst sich setzt und Heil bringt, Nach dessen Weise opfre nun, o kund'ger, und unser Opfer bring zum Göttermahle.
Welcher Hotri vor dir am besten geopfert hat, o Agni, abermals seinen Platz einnehmend und aus eigenem Antrieb wohlwollend, nach dessen Muster opfere, du Kundiger, und verrichte für uns die Opferhandlung bei der Götterladung!
(Тот) хотар, о Агни, который до тебя лучше (других) жертвовал,
Воссевши с самого начала и по своей природе благодатный, -
Принеси жертву умело, по его законам,
А также устрой нам обряд во время приглашения богов!