भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः । पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥
भव॑ । नः॒ । अ॒ग्ने॒ । सु॒ऽमनाः॑ । उप॑ऽइतौ । सखा॑ऽइव । सख्ये॑ । पि॒तराऽइव । सा॒धुः । पु॒रु॒ऽद्रुहः॑ । हि । क्षि॒तयः॑ । जना॑नाम् । प्रति॑ । प्र॒ती॒चीः । द॒ह॒ता॒त् । अरा॑तीः ॥
हे अग्ने त्वम् उपेतौ अस्माभिः क्रियमाणस्य प्रवर्ग्याख्यकर्मणः आभिमुख्येनागमने सुमनाः तत्कर्मसिद्ध्यर्थमनुकूलमनस्को भूत्वा नः साधुः भव अस्मत्संबन्धिकर्मसाधको भव । तत्र दृष्टान्तद्वयम् । सखेव सख्ये पितरेव इति । यथा सखा सुहृत् सख्ये मित्राय हितोपदेशेन साधुर्भवति यथा च पितरा मातापितरौ पुत्राय सन्मार्गोपदेशेन साधकौ भवतः तद्वत् । किंच जनानां मनुष्याणां क्षितयः मनुष्याः पुरुद्रुहो हि नानाविधद्रोहयुक्ताः । हिशब्दः कारणपरः । यस्माल्लोके परस्परमात्सर्यादिनान्योन्यमसहमाना जना वर्तन्ते तस्मात्त्वं प्रतीचीः प्रतीचः प्रतिकूलतयास्मदाभिमुख्येन आगच्छतः अरातीः अरातीन् शत्रून् प्रति दहतात् त्वं प्रतिकूलः सन् भस्मसात्कुरु ॥ भवा नः ॥ ‘ द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । उपेतौ । ‘इण् गतौ ' । अयनमिति भावे क्तिन् । प्रादिसमासः । ‘ तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरत्वम् । सख्ये । ‘ समाने ख्यश्चोदात्तः' इति इण् । डित्त्वाट्टिलोपः । तत्संनियोगेन यलोपः । ‘ समानस्य छन्दसि' इत्यादिना सभावः । ‘उदात्तः ' इत्युक्तत्वात् उपपदस्योदात्तता । साधुः । ‘ राध साध संसिद्धौ ' । ‘कृवापाजि ' इत्यादिना उण् प्रत्ययः । प्रत्ययस्वरः । प्रतीचीः । ‘ अञ्चु गतिपूजनयो: '। ‘ ऋत्विग्दधृक् ' इत्यादिना क्विन् । स्त्रियाम् ‘ उगितश्च ' इति ङीपि प्राप्ते पुनः ‘ धातोरुगितः प्रतिषेधः ' ( पा. सू. ४, १. ६. १ ) इति प्रतिषिद्धे ‘ अञ्चतेश्चोपसंख्यानम्' इति प्रतिप्रसवात् ङीप् । तस्मिन् भसंज्ञायाम् ' अच: ' इत्यकारलोपः । ‘ चौ' इति दीर्घः । दहतात् । ‘ दह भरमीकरणे' इत्यस्य लोण्मध्य मैकवचने हे: ‘ तुह्योस्तातङ्ङाशिषि ' इति तातङादेशः । निघातः । अरातीः प्रतीचीः । उभयत्र लिङ्गव्यत्ययः ॥
“Be favourably disposed Agni, on approaching us (at this rite); be the fulfiller (of our objects) like a friend (to a friend) or parents (to a child); since men are the grievous oppressors of men, do you consume the foes who come against us.”
AGNI, be kind to us when we approach thee good as a friend to friend, as sire and mother.
The races of mankind are great oppressors burn up malignity that strives against us.
Be kind, O Agni, when we approach thee, as a friend a friend, as parents 1, a straight leader. For full of deceit are the tribes of men: burn thou against (all) malign powers so that they turn back.
Become benevolent toward us, Agni, at our reverent approach, bringing success (to us), like a companion to his companion, like a father and mother.
Since the dwelling places of the peoples have many deceptions, burn against the hostilities turned against us.
Sei uns, o Agni, hold bei deinem Nahen wie Freund dem Freunde, treugesinnt wie Aeltern; Denn vielverletzend sind der Menschen Stämme; o brenn hinweg die Feinde, die uns nahen.
Sei uns, Agni, wohlgesinnt, wenn wir an dich herantreten, gut wie ein Freund dem Freunde, wie die Eltern dem Sohne; denn trugvoll sind die Menschenvölker. Flamme wieder die Unholde, wenn sie sich stellen!
Будь расположен к нам, о Агни, когда мы приближаемся,
Добрым, как друг – к другу, как родители (- к сыну):
Ведь поселения людей полны обмана!
(Двинувшись) навстречу, сожги недоброжелателей, (чтоб они) показали спину!
तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुष॒: पर॑स्य । तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यास॑: ॥
तपो॒ इति॑ । सु । अ॒ग्ने॒ । अन्त॑रान् । अ॒मित्रा॑न् । तप॑ । शंस॑म् । अर॑रुषः । पर॑स्य । तपो॒ इति॑ । व॒सो॒ इति॑ । चि॒कि॒ता॒नः । अ॒चित्ता॑न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः॑ । अ॒यासः॑ ॥
हे अग्ने अन्तरान् अभिभावकान्" अमित्रान् शत्रून् सु सुष्ठु यथा भवति तथा तपो तपैव बाधस्व । किंच । अररुषः तुभ्यं हविरप्रयच्छतः अत एव परस्य शत्रुभूतस्य स्वं शंसम् अभिलाषं तप क्षपय । वसो सर्वस्य वासयितर्हे अग्ने चिकितानः कर्माभिज्ञस्त्वम् अचित्तान् सत्कर्मण्यनासक्तमनस्कान् पुरुषान् तपो संतप । यस्मादेवं तस्मात् ते तव रश्मयः अजराः जरारहिता: प्रतिबन्धरहिता अत एव अयासः सर्वत्रगमनस्वभावाः सन्तः वि तिष्ठन्तां विशेषेण तिष्ठन्तु ॥ तपो । तप उ । गुणः । उञमवलम्ब्य ‘ उञः' इति प्रगृह्यसंज्ञा । पादादित्वादनिघातः । तपा। ‘ तप संतापे ' इत्यस्य लोटि रूपम् । ‘ द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । अररुषः । ‘ रा दाने ' इत्यस्य क्वसौ ' वस्वेकाच्° ' इति प्राप्तस्य इटः संप्रसारणं संप्रसारणाश्रयं च बलीयः ' इति संप्रसारणबलीयस्त्वान्निवृत्तिः । वसोः संप्रसारणम्' इति संप्रसारणम् । समासे नञ्स्वरः । चिकितानः । ‘ कित ज्ञाने' इत्यस्य छन्दसि लिट् । तस्य • लिटः कानज्वा' इति कानजादेशः । द्विर्वचनम् । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः । तिष्ठन्ताम् । ' ष्ठा गतिनिवृत्तौ । विपूर्वात्तिष्ठतेः ‘ समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । निघातः । अयासः । अय गतौ' । पचाद्यच् । चित्स्वरः ॥
“Vex thoroughly, Agni, our assailing enemies, disappoint the purpose of the adversary who offers not worship; giver of dwellings, who are cognizant (of sacred rites), vex those who have no thought (of pious acts) so that your undecaying, all-pervading (rays), may ever abide.”
Agni, burn up the unfriendly who are near us, burn thou the foeman's curse who pays no worship.
Burn, Vasu, thou who markest well, the foolish: let thine eternal nimble beams surround thee.
Burn, O Agni, the nearer enemies, burn the curse of the distant evil-doer. Burn, O Vasu, seeing the unseen ones. May thy never-ageing, never-tiring flames 1 spread out.
Scorch our near enemies, Agni. Scorch the recitation of the distant, ungenerous one.
And scorch the invisible ones as you become more visible, good (Agni). Let your unaging, irrepressible (flames) spread out.
Verbrenn, o Agni, schnell die nahen Feinde, zerbrenn den Fluch des fernen Bösewichtes, Die Unverständ'gen brenn, o Guter, strahlend, lass stehn um dich die raschen, jungen Flammen.
Verbrenn fein, o Agni, die näherstehenden Feinde, verbrenn das böse Wort des geizigen Fremden! Brenn sie, du Guter, der du die Unerkannten erkennst! Es sollen sich deine alterlosen Flammen unverzagt ausbreiten.
Спали дотла, о Агни, ближних недругов!
Спали (злое) слово не приносящего (жертв) чужого!
Спали, о Васу разумный, неразумных!
Пусть распространятся твои нестареющие, неутомимые (языки) пламени!
इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य । याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥
इ॒ध्मेन॑ । अ॒ग्ने॒ । इ॒च्छमा॑नः । घृ॒तेन॑ । जु॒होमि॑ । ह॒व्यम् । तर॑से । बला॑य । याव॑त् । ईशे॑ । ब्रह्म॑णा । वन्द॑मानः । इ॒माम् । धिय॑म् । श॒त॒ऽसेया॑य । दे॒वीम् ॥
हे अग्ने इच्छमानः धनं कामयमानोऽहं यजमानः इध्मेन समिन्धनकारिसमित्समूहेन घृतेन आज्येन सह हव्यं हवनयोग्यं हविः पुरोडाशादिकं जुहोमि । किमर्थम् । तरसे वेगाय तव सततगमनसिद्ध्यर्थं बलाय सामर्थ्याय । पुरोडाशादिहविर्भारवहनसिद्ध्यर्थं त्वयि हविः प्रक्षिपामि । किंच ब्रह्मणा स्तोत्रेण वन्दमान: त्वां स्तुवन् अहं यावदीशे यावद्धनं वोढुं शक्नोमि तावद्देहि । त्वं च इमाम् अस्माभिः क्रियमाणां धियं त्वद्विषयां स्तुतिं शतसेयाय अपरिमितधनपर्यवसानाय देवीं दीप्ताम् अतिप्रभूतां कुरु ॥ इध्मेन । ‘ ञिइन्धी दीप्तौ '। इध्यतेऽनेनाग्निरितीध्मः काष्ठविशेषः । ‘ इषियुधीन्धिदसिश्याधूसूभ्यो मक्' इति करणे मक् । कित्त्वादनुनासिकलोपः । प्रत्ययस्वरः । इच्छमानः । ‘ इषु इच्छायाम् । व्यत्ययेन शानच् । इषुगमियमां छः' इति छकारः । जुहोमि । हु दानादनयोः इत्यस्य लटि रूपम् । पादादित्वादनिघातः । हव्यम् । हवनम् अर्हतीति ‘छन्दसि च ' इति यप्रत्ययः । भसंज्ञायां यस्य' इति लोपः । प्रत्ययस्वरः । यावत् । यच्छब्दात् यत्तदेतेभ्यः परिमाणे वतुप् । इति वतुप् । ' आ सर्वनाम्नः' इत्याकारः। आद्युदात्तः । ईशे । ‘ ईश ऐश्वर्ये' इत्यस्य लडुत्तमैकवचने इटष्टेरेत्वम् । अदादित्वाच्छपो लुक् । शतसेयाय । षो अन्तकर्मणि '। ‘ आदेच उपदेशेऽशिति इत्यात्वम् । अचो यत्' इति भावे यत् । ‘ ईद्यति' इतीत्वम् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥
“Desirous (of wealth) I offer to you Agni, an oblation with butter and with fuel for your speed and invigoration, praising you with a holy prayer as much as I am able; I propitiate you that you may render this praise resplendent with infinite treasure.”
With fuel, Agni, and with oil, desirous, mine offering I present for strength and conquest,
With prayer, so far as I have power, adoring-this hymn divine to gain a hundred treasures.
Wishing for (thy blessings), O Agni, by fuel and ghee I offer this sacrificial food for (the attainment of) advancing power and of strength; worshipping thee with my spell as far as I have power (I offer) this divine prayer for the attainment of hundred(fold blessings).
With kindling wood and ghee, o Agni, seeking, I pour an oblation for endurance and strength.
Insofar as I am master by my ritual formulation, offering praise (by it), (I pour) this divine insight in order to win hundreds.
Mit Brennholz nahend, Agni, und mit Butter, ergiess ich Trank zur Rüstigkeit und Kraft mir, So lang ich kann, aus Herzensdrange weihend die Götterbitt' um hundertfachen Reichthum.
Einen Wunsch hegend, o Agni, bring ich mit Brennholz, mit Schmalz eine Opferspende dar dir zur Ausdauer und Kraft. So weit ich es vermag, mit beschwörendem Worte benedeiend, bringe ich dieses göttliche Gebet dar, um Hundert zu gewinnen.
О Агни, лелея желание, вместе с дровами (и) жиром
Я возливаю жертву – для бодрости (и) силы.
Насколько я способен, прославляя (тебя) молитвой,
(Я приношу тебе) эту божественную поэтическую мысль, чтобы добыть сотни.
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वय॑: शशमा॒नेषु॑ धेहि । रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्व॑: ॥
उत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ । रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥
सहसस्पुत्र हे अग्ने शोचिषा स्वकीयया दीप्त्या उत् उद्दीप्यस्व । स्तुतः स्तोत्रशस्त्रसाधनभूतैर्मन्त्रैः स्तुतस्त्वं शशमानेषु । ' शशमानः शंसमानः ' ( निरु. ६. ८) इति यास्कः । त्वद्विषयशंसनं कुर्वाणेषु विश्वामित्रेषु विश्वामित्रगोत्रोत्पन्नेषु । विश्वं मित्रमस्येति विश्वामित्र एकः । एकस्मिन्बहुवचनं पूजार्थम् । तथाविधेष्वस्मासु रेवत् धनयुक्तं बृहत् प्रभूतं वयः । वयःशब्दः अन्नवाची । ‘ अर्कः वयः क्षद्म ' इत्यन्ननामसु पठितत्वात् । तादृशं प्रभूतमन्नं धेहि विधेहि । किंच शं रोगाणां उपशमनं चास्मासु धेहि । योः भयानां यावनम् अमिश्रणं च धेहि । ‘ शमनं च रोगाणां यावनं च भयानाम् ( निरु. ४, २१ ) इति यास्कः । कृत्वः अस्माभिः क्रियमाणस्य कर्मणः प्रयोजकत्वेन कर्तर्हे अग्ने ते तव तन्वं तनुं भूरि बहुवारं मर्मृज्म पुनः पुनः सोमाज्यपयःप्रभृतिभिः वयं सिञ्चामः ॥ शशमानेषु । शश प्लुतगतौ ' इत्ययं धातुरत्र स्तुत्यर्थः । ‘ ताच्छील्यवयोवचनशक्तिषु° ' इति चानश् । ‘ चितः' इत्यन्तोदात्तत्वम् । धेहि ।' डुधाञ् धारणपोषणयो: ' इत्यस्य लोटि रूपम् । रेवत् । रयिरस्यास्तीति मतुप् । ' ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । ‘ छन्दसीरः' इति तस्य वत्वम् । ‘रयेर्मतौ बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वम् । गुणः । विश्वामित्रेषु । ‘ मित्रे चपौं ' ( पा. सू. ६.३.१३० ) इति पूर्वपदस्य दीर्घत्वम् ॥ ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । मर्मृज्म । ‘ मृजूष् शुद्धौ ' इत्यस्य वर्तमाने लिटि उत्तमबहुवचने मसो मादेशः । ‘ अनित्यमागमशासनम् ' इतीडभावः । रेफश्छान्दसः । पादादित्वादनिघातः । प्रत्ययस्वरः । भूरि । ‘ भू सत्तायाम्'। अदिशदिभूशुभिभ्यः क्रिन्' इति क्रिन् । कित्वाद्गुणाभावः । नित्स्वरः । कृत्वः । ‘ डुकृञ् करणे '। संपदादित्वाद्भावे क्विप् । तदस्यास्ति° ' इति मतुप् । झयः' इति तस्य वत्वम् । ‘ तसौ मत्वर्थे ' इति भसंज्ञायां तकारस्य जश्त्वाभावः । मतुवसो रु ० ' इति तकारस्य रुत्वम् ॥
“Rise up, son of strength, with your splendour when hymned, and bestow abundant food and wealth, Agni, upon the descendants of Viśvāmitra celebrating your praise; and grant them exemption from sickness and danger; encourager of pious works (Agni), we repeatedly sprinkle your substance (with milk and butter).”
Give with thy glow, thou Son of Strength, when lauded, great vital power to those who toil to serve thee.
Give richly, Agni, to the Visvamitras in rest and stir. Oft have we decked thy body.
(Shining) forth with thy flame, O son of strength, praised (by us), bestow mighty vigour on those who toil for thee, bright luck and welfare, O Agni, on the Visvâmitras! We have cleaned thy body many times.
(Flame) up with your flame, son of strength, when you are praised. Set rising vigor upon those toiling;
(set) rich (vigor) upon the Viśvāmitras, o Agni, for their luck and life. We have groomed your body many times.
Gib grosse Kraft, o Agni, Sohn der Stärke, gepriesener, den Opfernden durch Lichtglanz, Und reiches Heil den Viçvamitrasöhnen, wir schmückten dir den Leib zu vielen malen.
Flamm auf mit deiner Glut, du Sohn der Kraft, besungen; verleih denen, die den Opferdienst versehen, hohe Kraft, reichlich Glück und Heil den Visamitra´s, o Agni! Wir putzen vielmals deinen Leib.
Высоко (взметнувшись) пламенем, о сын силы,
Прославленный, надели жизненной силой тех, кто трудится на жертвоприношениях!
Потомков Вишвамитры, о Агни, – богатством на счастье и благо?
Много раз мы начищали твое тело.
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः । स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥
कृ॒धि । रत्न॑म् । सु॒ऽस॒नि॒तः॒ । धना॑नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । समि॑द्धः । स्तो॒तुः । दु॒रो॒णे । सु॒ऽभग॑स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना॑ । द॒धि॒षे॒ । वपूं॑षि ॥
सुसनितः अभिलषितधनानां सुष्ठु दातर्हे अग्ने धनानां कनकपश्वादीनां मध्ये रत्नम् उत्तमं धनं कृधि विधेहि । मह्यं दत्स्व । यत् यदा त्वं समिद्धः सोमाज्यादिभिः सम्यगिद्धो दीप्तो वर्तसे तदा स घेत् स तादृशः एव त्वं धनस्य दाता खलु भवसि । किंच सुभगस्य त्वद्विषयस्तुत्या शोभनधनयुक्तस्य स्तोतुः यजमानस्य दुरोणे गृहे सृप्रा सर्पणशीलौ कर्मकरणार्थं प्रसृतौ करस्ना कर्मणां प्रस्नातारौ बाहू । करस्नौ बाहू कर्मणां प्रस्नातारौ ' ( निरु. ६. १७ ) इति यास्कः । वपूंषि रूपाणि । वर्पः वपुः' ( नि. ३. ७. ४ ) इति रूपनामसु पठितत्वात् । तादृशौ बाहू भास्वराणि ज्योतींषि च रेवत् धनयुक्तं यथा भवति तथा दधिषे धारयसि ॥ सुसनितः । ‘ षणु दाने ' इत्यस्य तृचि रूपम् । आमन्त्रितनिघातः । सृप्रा । सृप्लृ गतौ ' । अस्मात् “ स्फायितञ्चिवञ्चि' ' इत्यादिना रक् । कित्त्वादगुणः । प्रत्ययस्वरः । करस्ना । करोति फलमिति करः कर्म । पचाद्यजन्तः । कर्मणि स्ना शोधनं ययोस्तौ । यद्वा कर्मणां शोधनं याभ्यामिति । बहुव्रीहौ पूर्वपदस्वरः । दधिषे । ‘दुधाञ् धारणपोषणयोः' इत्यस्य लटि छन्दस्युभयथा' इति थास आर्धधातुकत्वादिट् । आतो लोपः । निघातः ॥ ॥ १८ ॥
“Liberal donor (of riches) bestow upon us the most precious of treasures, for therefore is it, Agni, that you are kindled; you have aims promptly stretched forth, whose (radiant) forms (bestow) wealth on the dwelling of your fortunate adorer.”
Give us, O liberal Lord, great gtore of riches, for, Agni, such art thou when duly kindled.
Thou in the happy singer's home bestowest, amply with arms extended, things of beauty.
Give us treasures, O best gainer of riches: such indeed art thou, Agni, when thou hast been kindled. In the blessed praiser's house thou hast placed, together with wealth, thy mighty(?) arms 1, thy marvellous shapes.
Create wealth, o you who are good at winning the stakes—when kindled, you become just that, o Agni;
(create) rich (vigor) in the house of the praise singer of good fortune. You have acquired glossy forearms and wondrous forms.
Verschaff der Schätze Fülle, Reichthumspender, das bist du Agni ja, wenn du entflammt bist; Du bringst ins Haus des hochbeglückten Sängers mit ausgestreckten Armen reichlich Schönes.
Bring das Kleinod, du guter Gewinner der Schätze - der bist du, Agni, wenn angezündet - das reichliche ins Haus des beglückten Sängers! Du besitzest breite Arme, schöne Formen.
Создай (нам) сокровище, о прекрасный завоеватель наград, –
Ведь ты, действительно, таков, о Агни, когда тебя зажгли, –
Богатство в доме осчастливленного восхвалителя:
Ты обладаешь ползучими руками, красивыми обличьями!