अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥
अ॒ग्निम् । होता॑रम् । प्र । वृ॒णे॒ । मि॒येधे॑ । गृत्स॑म् । क॒विम् । वि॒श्व॒ऽविद॑म् । अमू॑रम् । सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । रा॒ये । वाजा॑य । व॒न॒ते॒ । म॒घानि॑ ॥
गाथी स्तौति । हे अग्ने गृत्सं गृणन्तं देवानां स्तुतिं कुर्वन्तं कविं मेधाविनं विश्वविदं सर्वविषयज्ञानोपेतम् अमूरम् अमूढम् अग्निम् अङ्गनादिगुणोपेतं त्वां मियेधे अस्माभिः क्रियमाणेऽस्मिन् यज्ञे होतारं होमनिष्पादकं देवानामाह्वातारं वा अहं प्र वृणे प्रकर्षेण संभजे । सः तथाविधोऽग्निः यजीयान् यष्टृतमः सन् नः अस्माकं देवताता यष्टव्यतया संबन्धिनो देवान् यक्षत् यजतु । किंच सोऽग्निः राये धनाय वाजाय अन्नाय च मघानि मंहनीयान्यस्माभिर्दीयमानानि हवींषि वनते संभजताम् । वृणे । वृङ् संभक्तौ' । निघातः । मियेधे । मकारैकारयोर्मध्ये इयागमः छान्दसः । गृत्सम् । ‘गृधु अभिकाङ्क्षायाम्' ।' गृधिपण्योदर्कौ च ' ( उ. सू. २. ३४९ ) इति सप्रत्ययः । अन्त्यस्य दकारः । व्यत्ययेनाद्युदात्तत्वम् । अमूरम् । ‘मुह वैचित्ये' इत्यस्य निष्ठायां रूपम् । रेफश्छान्दसः । नञा समासे नञ्स्वरः। यक्षत् । यजेर्लेटि • सिब्बहुलं लेटि' इति सिप् । ‘ लेटोऽडाटौ ' इत्यडागमः । ‘ इतश्च लोपः० ' इतीकारलोपः । देवताता । देवशब्दात्स्वार्थे ‘ सर्वदेवात्तातिल' इति तातिल् ।' सुपां सुलुक्० ' इति सुपो डादेशः । लित्स्वरः । वनते । वन षण संभक्तौ ' इत्यस्य लटि व्यत्ययेनात्मनेपदम् । निघातः ॥
“I have recourse in this sacrifice to Agni, the invoker and praiser (of the gods), theintelligent, the all-knowing the unbeguiled; may he, the adorable, sacrificer for us to the gods, (and) accept the precious (offerings) we make for food and riches.”
Aow, quick, sage, infallible, all-knowing, I choose to be our Priest at this oblation.
In our Gods' service he, best skilled, shall worship: may he obtain us boons for strength and riches.
I choose Agni as Hotri at this sacrificial meal, the clever sage all-knowing and not foolish. May he, the excellent sacrificer, sacrifice for us amid the host of the gods; may he obtain liberal boons (for us) for the sake of wealth and strength.
I choose Agni as the Hotar at the ritual meal—him, the clever poet, knowing all, never fooled.
As the better sacrificer, he will sacrifice for us at the divine assembly. For wealth and victory’s prize, he will win reward.
Den Agni wähl' zum Priester ich beim Mahle, den raschen, klugen, kundigen, allweisen; Er opfre uns beim Gottesdienst aufs beste, schenkt Gaben uns zum Reichthum, zur Erquickung.
Den Agni erwähle ich zum Hotri bei dem Opferfest, den klugen Seher, den allwissenden, unbetörten. Er soll für uns beim Gottesdienst opfern, da er am besten opfert; er erwirkt Gaben zum Reichtum, zum Gewinn.
Агни я выбираю как хотара на жертвенном пиру,
Одаренного поэта, всезнающего, безошибочного.
Да приносит он жертвы для нас среди богов, (он,) жертвующий лучше других!
Он получает дары, чтобы дать богатство, награду.
प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् । प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥
प्र । ते॒ । अ॒ग्ने॒ । ह॒विष्म॑तीम् । इ॒य॒र्मि॒ । अच्छ॑ । सु॒ऽद्यु॒म्नाम् । रा॒तिनी॑म् । घृ॒ताची॑म् । प्र॒ऽद॒क्षि॒णित् । दे॒वता॑तिम् । उ॒रा॒णः । सम् । रा॒तिऽभिः॑ । वसु॑ऽभिः । य॒ज्ञम् । अ॒श्रे॒त् ॥
हे अग्ने सुद्युम्नां सुतेजसं हविष्मतीं पुरोडाशादिहविर्युक्तां रातिनीं हविर्दात्रीं घृताचीं घृतान्वितां जुहूम् उपभृतं वा ते तव अच्छ त्वदाभिमुख्येन प्र इयर्मि प्रेरयामि । देवतातिं देवान् उराणः उरु बहु कुर्वाणः। ‘ उराण उरु कुर्वाणः ' (निरु.६.१७) इति यास्कः । तादृशो भवान् रातिभिः वसुभिः अस्मभ्यं देयतया प्राप्तैः धनैः प्रदक्षिणित् प्रादक्षिण्येन सम् अश्रेत् तमिमं यज्ञं सम्यक् सेवताम् ॥ हविष्मतीम् । हविरस्यास्तीति मतुप् । 'तसौ मत्वर्थे ' इति भसंज्ञायां सकारस्य रुर्न भवति ।' उगितश्च ' इति ङीप् । ‘ स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषानाश्रयणान्मतुप उदात्तताभावः । इयर्मि । ‘ऋ गतौ । जुहोत्यादिः । ‘ अर्तिपिपर्त्योश्च ' इत्यभ्यासस्येत्वम् । ‘ अभ्यासस्यासवर्णे ' इतीयङादेशः । मिपः पित्त्वाद्गुणः । निघातः । अच्छ । ' निपातस्य ' इति संहितायां दीर्घः। रातिनीम् । “ रा दाने ' इत्यस्य नपुंसके भावे क्तः । रातमस्यास्तीति ‘ अत इनिठनौ ' इतीनिः । प्रत्ययस्वरः । घृताचीम् । घृतपूर्वादञ्चतेः ‘ ऋत्विग्दधृक्' इत्यादिना क्विन् । ‘ अञ्चतेश्चौपसंख्यानम् ' इति ङीप् । भसंज्ञायाम् ‘अचः' इत्यकारलोपः । ‘ चौ' इति दीर्घः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते ‘ चौ' इति पूर्वपदान्तोदात्तः । प्रदक्षिणित् । प्रदक्षिणं करोतीति ‘ तत्करोति । इति णिजुत्पद्यमानो दक्षिणशब्दात् भवति । संग्रामयतेरेव सोपसर्गात् णिजुत्पत्तिर्नान्यस्मात् इति तदन्तात् क्विप् । ‘ ह्रस्वस्य पिति° ' (पा. सू. ६.१.७१) इति तुक् । णिचो लोपाभावश्छान्दसः । णिच्स्वरः । देवतातिम् । देवशब्दात् ‘ सर्वदेवात्तातिल् ' इति तातिल् । ‘लिति' इति प्रत्यात्पूर्वस्योदात्तत्वम् । उराणः । उरु करोतीति ' तत्करोति° ' इति णिच् । तदन्ताच्छन्दसि लिट् । मन्त्रत्वादाम् न भवति । तस्य कानच् । ' णेरनिटि ' इति णिलोपः । वरादेशाभावश्छान्दसः । चित्त्वादन्तोदात्तः । अश्रेत् । श्रिञ् सेवायाम् ' इत्यस्य छान्दसे लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । निघातः ॥
“Reverencing the gods, I plural ce before you Agni, the brilliant oblation-yielding, food-bestowing, butter-charged (offering); may you (propitiated) by the present wealth, sanctify (this) sacrifice by your circumambulation.”
Agni, to thee I lift the oil-fed ladle, bright, with an offering, bearing our oblation.
From the right hand, choosing the Gods' attendance, he with rich presents hath arranged the worship.
To thee, O Agni, I stretch forth the (ladle) rich in sacrificial food, splendid, full of gifts, full of ghee. From left to right, choosing the host of the gods 1, he has established the sacrifice with gifts and goods 2.
I send forth to you here, o Agni, (the ladle) filled with offerings,
beautifully bright, full of gifts, and covered with ghee.
Making respectful circumambulation before the divine assembly, being chosen (as Hotar), he has provided the sacrifice with gifts and with
good (gods).
Dir streck ich, Agni, hin den trankgefüllten den gabenreichen, schmucken Butterlöffel; Nach rechts herum, die Götterschar sich wählend, versah das Opfer er mit guten Gaben.
Ich setze für dich, Agni, den Schmalzlöffel mit der Opferspende, zu dir den blinkenden mit der Gabe in Bewegung. Nach rechts gewandt und die Götterschaft herbittend hat er jetzt das Opfer mit den schenkenden Göttern zusammengebracht.
Я двигаю вперед для тебя (жертвенную ложку)
Полную жертвенной пищи, ярко сверкающую, богатую дарами.
Обращенный направо, выбравший службу богам,
Он устроил жертвоприношение с дарами, с благами.
स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्व॑: ॥
सः । तेजी॑यसा । मन॑सा । त्वाऽऊ॑तः । उ॒त । शि॒क्ष॒ । सु॒ऽअ॒प॒त्यस्य॑ । शि॒क्षोः । अग्ने॑ । रा॒यः । नृऽत॑मस्य । प्रऽभू॑तौ । भू॒याम॑ । ते॒ । सु॒ऽस्तु॒तयः॑ । च॒ । वस्वः॑ ॥
हे अग्ने त्वोतः यः त्वया रक्ष्यमाणः स तेजीयसा अतिशयेन तीक्ष्णेन सत्कर्मविषयतीक्ष्णबुद्धियुक्तेन मनसा अन्तःकरणेन युक्तो भवति । उत अपि च तस्मै स्वपत्यस्य । द्वितीयार्थे षष्ठी । शोभनापत्योपेतं धनं शिक्ष प्रयच्छ । शिक्षतिर्दानकर्मा दात्यादिषु दानकर्मसु पठितत्वात् । हे अग्ने शिक्षोः अभिमतफलप्रदाने शकितुमिच्छोः रायो नृतमस्य धनस्यातिशयेन नेतुर्दातुः ते तव प्रभूतौ प्रभावे महिम्नि वयं स्याम । किंच सुष्टुतयः त्वद्विषयशोभनस्तुतिमन्तो वयं वस्वः वसुनो भाजनं भूयाम भूयास्म ॥
तेजीयसा । तेजितृशब्दादतिशायने ईयसुन् । ' तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्स्वरः ।
त्वोतः । अव रक्षणादिषु । निष्ठायां ‘ ज्वरत्वरस्रिव्यविमवामुपधायाः । इत्यूठ्' । पूर्वलोपः । त्वया ऊतः । ‘ तृतीया' इति योगविभागात्समासः । टेर्लोपश्छान्दसः । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरः ।
शिक्ष । ‘ शिक्ष विद्योपादाने ' इत्ययमत्र दानार्थः । अस्माल्लोटि व्यत्ययेन परस्मैपदम् ।
शिक्षोः । ‘ शक्लृ शक्तौ ' इत्यस्य सनि “ एकाच उपदेशे ' इति इट्प्रतिषेधः । ‘ सनि मीमाघुरभलभशकपतपदामच इस्' इति धातोरच इसादेशः । ‘ अत्र लोपोऽभ्यासस्य ' इत्यभ्यासलोपः । ‘ सनाशंसभिक्ष उः' इत्युप्रत्ययः । प्रत्ययस्वरः ।
प्रभूतौ । ‘ भू सत्तायाम्' इत्यस्य भावे क्तिन् । ‘तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरत्वम् । भूयाम । ‘भू सत्तायाम्' इत्यस्याशीर्लिङि किदाशिषि ' इति यासुट् । छन्दस्युभयथा ' इति तस्य सार्वधातुकत्वात्सलोपः। आगमस्वरः । यद्वा तस्मात्प्रार्थनायां लिङि यासुट् । ‘बहुलं छन्दसि ' इति शपो लुक् । अनदन्तत्वादियादेशो न भवति ।
सुष्टुतयः । नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । वस्वः । आगमानुशासनस्यानित्यत्वात् नुमभावः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । यणादेशः ॥
“He who isprotected, Agni, by you, becomes endowed with a most luminous mind; bestow upon him excellent progeny; may we ever be under the power of you who is the willing dispenser of riches; glorifying you (may we be) the receptacles of wealth.”
Of keenest spirit is the man thou aidest give us good offspring, thou who givest freely.
In power of wealth most rich in men. O Agni, of thee, the Good, may we sing forth fair praises.
Whoever is favoured by thee, is blessed with the sharpest spirit. Favour him with good offspring, O god rich in favours 1! Agni, may we, (dwelling) in the copiousness of manliest wealth, be rich in perfect praise of thee, the Vasu.
He (flourishes) with keener mind, aided by thee.
O giver! give (us wealth) in good offspring;
O Agni, may we enjoy wealth richest in heroes;
(Wealth) that is excellent, uttering praises to thee.
He (provides it) with very sharp thought when helped by you, and so strive for good descendants for him who strives.
Agni, may we and our good praises be in an excess of wealth filled with the best of men, (an excess) of the good.
Wen du begünstigst, der wird schärfern Geistes, und du, o Spender, spend' ihm Kinderreichthum; Wir seien im Besitz des reichsten Schatzes, von dir, o Agni, anerkannt, dem guten.
Der tut es mit schärferem Geist, der von dir unterstützt wird. Bemühe auch du dich für den, der sich bemüht um Reichtum an guten Kindern! Agni! Wir möchten in der Fülle des männertüchtigsten Schatzes und als deine Lobsänger in der Fülle des Guts sein.
Острее мыслью тот, кто поддержан тобой.
Порадей также (о богатстве) из прекрасного потомства для радеющего (о тебе).
О Агни, да будем мы среди изобилия самого мужественного богатства
Прекрасными восхвалителями твоего добра!
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः । स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥
भूती॑नि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः । सः । आ । व॒ह॒ । दे॒वता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥
हे अग्ने देवस्य द्योतमानस्य तव संबन्धिनः यज्यवः यष्टारोऽध्वर्युप्रभृतयः जनासः जनाः भूरीणि बहूनि अनीका अनीकानि सेनारूपतया सर्वत्र प्रसृतानि ज्वालारूपाणि तेजांस्याहुतिप्रक्षेपेण त्वे त्वयि दधिरे हि विदधिरे खलु । चक्रुरिति यावत्। सः तादृशस्त्वं देवतातिं यष्टव्यदेवान् इह कर्मणि आ वह आह्वय। हे यविष्ठ युवतम यत् यस्मात्कारणात् अद्य अस्मिन्कर्मणि दिव्यं दिवि भवं देवसंबन्धि शर्धः तेजः त्वं यजासि यजसि तस्माद्देवानाह्वयेति शेषः ॥ दधिरे । दुधातेर्लिटि रूपम् । हियोगादनिघातः । चित्त्वादन्तोदात्तः । यज्यवः। यज देवपूजादिषु । ‘ यजिमनिशुन्धिदसिजनिभ्यो युच् ' इति युच् । व्यत्ययेनाद्युदात्तत्वम् । देवतातिम् । देवशब्दात् स्वार्थे ‘ सर्वदेवात्तातिल्' इति तातिल् । 'लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यजासि । यजेर्लेट्याडागमः । यद्योगादनिघातः ॥
“The ministering priests have concentrated in you Agni, who are divine, many hosts (of flames); do you bring hither the gods, youngest (of the deities), that you may worship today the divine effulgence.”
Men as they worship thee the God, O Agni, have set on thee full many a brilliant, aspect.
So bring Most Youthful One, the Gods' asserrigly, the Heavenly Host which thou to-day shalt honour.
On thee indeed, O Agni, sacrificing men have put many faces of (thee) the god 1. Bring hither then the host of the gods, O youngest one, when thou wilt sacrifice to-day to the divine host 2.
Since the peoples eager to sacrifice have established in you [=the fire] the many faces of (you) the god, Agni,
convey here the assembly of the gods, o youngest one, when you will sacrifice to the multitude of gods today.
An dich ja fügten viele Glanzgestalten die Menschen, Agni, die dich Gott verehrten; Drum fahre, jüngster, her die Götterallheit, dass heute du die Himmelsschar verehrest.
Denn die opferliebenden Menschen haben deine, des Gottes, Antlitze, o Agni, vervielfältigt. Fahre du Jüngster die Götterschaft her, auf daß du heute der himmlischen Schar opfern kannst!
Ведь множество ликов вложили в тебя,
Бога, о Агни, люди, любящие жертвовать.
Привези сонм богов, о самый юный,
Чтобы смог ты жертвовать сегодня небесной толпе.
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः । स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥
यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽषा॒दय॑न्तः । य॒जथा॑य । दे॒वाः । सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥
हे अग्ने यजथाय यजनार्थं निषादयन्तः निवसन्तः देवाः दीप्यमाना ऋत्विजः मियेधे मेधे यज्ञे होतारं देवानामाह्वातारं त्वा त्वां यत् यस्मात् अनजन् घृताहुतिभिरौक्षन् । यद्वा निषादयन्तो होतारं होमनिष्पादकं त्वां बर्हिष्युपवेशयन्त ऋत्विजो घृतैरसिञ्चन् तस्मात् सः तथाविधः त्वम् इह अस्मिन् कर्मणि नः अस्माकम् अविता पालयिता भवामीति बोधि बुध्यस्व । किंच नस्तनूषु अस्माकं तनुजेष्वपत्येषु श्रवांसि अन्नानि अधि धेहि अधिकं निधेहि ॥ अनजन् । ‘ अञ्जू व्यक्तिगतिम्रक्षणेषु'। अस्माल्लङि रुधादित्वात् श्नम् । छान्दसत्वादल्लोपाभावः । अनिदिताम् । इत्युपधालोपः । निषादयन्तः ॥ ‘षद्लृ विशरणगत्यवसादनेषु' । चुरादिः । ‘ सदिरप्रतेः ' इति षत्वम् । यद्वा । हेतुमति णिच् । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते णिच्स्वरः । बोधि । ‘बुध अवगमने' । लोटि ‘बहुलं छन्दसि ' इति शपो लुक् । ‘सेर्ह्यपिच्च' इति सिपो हिरादेशः । ‘वा छन्दसि ' इति विकल्पेन पित्त्वाद्गुणः । ‘हुझल्भ्यो हेर्धिः' इति हेर्धिरादेशः । धकारलोपश्छान्दसः । निघातः । धेहि । दधातेर्लोटि रूपम् ॥ ॥ १९ ॥
“Inasmuch as the attendant divine (priests) anoint you as the invoker of the gods to offer worship in the sacrifice, therefore do you assent to be our protector on this occasion, and grant abundant food to our descendants.”
When Gods anoint thee Priest at their oblation, and seat thee for thy task as Sacrificer,
O Agni, be thou here our kind defender, and to ourselves vouchsafe the gift of glory.
When the gods will anoint thee as the Hotri at the sacrificial meal making thee sit down for the sacrifice, be thou here, O Agni, our furtherer, and bestow glory on our bodies.
When the gods will anoint you as the Hotar at the ritual meal, seating you for the sacrifice,
become our helper here, Agni. Set fame upon our persons.
Weil dich zum Priester bei dem Mahle salbten, zu Opfern dich die Götter niedersetzten, So sei, o Agni, du uns hier ein Helfer, und füge schönes Glück an unsre Leiber.
Wenn die Götter dich zum Hotri bei dem Opfermahl salben wollen, indem sie dich zum Opfern einsetzen, so sei du, Agni, hier unser Beistand und verleih unseren Personen Ruhm!