अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः । सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥
अ॒ग्निम् । उ॒षस॑म् । अ॒श्विना॑ । द॒धि॒ऽक्राम् । विऽउ॑ष्टिषु । ह॒व॒ते॒ । वह्निः॑ । उ॒क्थैः । सु॒ऽज्योति॑षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒ऽजोष॑सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥
गाथी ब्रूते । वह्निः हविषां प्रापयिताग्निः व्युष्टिषु उषसां व्युच्छनेषु अग्निं यजनीयं देवम् उषसम् उषोऽभिमानिनीं देवताम् अश्विना अश्विनौ देवौ दधिक्राम् । दधिक्रावा नाम कश्चिद्देवः तं दधिक्रावाणम् । एतान् देवान् उक्थैः शस्त्रैः शंसनसाधनैरप्रगीतमन्त्रात्मकैः सूक्तैः हवते आह्वयति । सुज्योतिषः सुष्ठु द्योतमानाः नः अध्वरम् अस्मत्संबन्धिनमिमं यज्ञं वावशानाः कामयमानाः सजोषसः परस्परं संगताः भूत्वा सर्वे देवाः तदाह्वानं शृण्वन्तु ॥ दधिक्राम् । ‘ क्रमु पादविक्षेपे ' । दधीत्युपपदे ‘ जनसनखनक्रमगमः' इति विट् । ‘ विड्वनोरनुनासिकस्यात् ' इत्याकार । कृदुत्तरपदप्रकृतिस्वरः । व्युष्टिषु । ' उछी विवासे' । भावे क्तिन् । व्रश्चादिना षत्वम् । तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । हवते । ह्वयतेः ‘बहुलं छन्दसि' इति संप्रसारणम् । सुज्योतिषः । सुष्ठु द्योतमाना इति विग्रहे ‘द्युत दीप्तौ ' इत्यस्य ‘द्युतेरिसिन्नादेश्च जः ' ( उ. सू. २. २६७ ) इतीसिन्प्रत्ययो दकारस्य जकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । बहुव्रीहिपक्षे तु ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तता स्यात् । यथा ‘सुज्योतिषो अक्तवस्ताँ अभि ष्युः ' (ऋ. सं. १०. ८९. १५) इत्यत्रान्तोदात्तता । तस्मादत्र नायं समासः किंतु तत्पुरुष एव । शृण्वन्तु । श्रु श्रवणे ' इत्यस्मात् ' श्रुवः शृ च ' इति श्नुः तत्संनियोगेन धातोः शृ इत्यादेशः । निघातः । वावशानाः । ‘ वश कान्तौ' इत्यस्य यङ्लुकि रूपम् । अभ्यासस्य • दीर्घोऽकितः ' इति दीर्घः । व्यत्ययेन शानच् । चित्स्वरः ॥
“The bearer (of the oblation) invokes with praises at the break of day, Agni, the dawn, the Aśvins, and Dadhikra); may the resplendent divinities, desirous of our sacrifice, hear in unison (the invocation).”
WITH lauds at break of morn the priest invoketh Agni, Dawn, Dadhikras, and both the Asvins.
With one consent the Gods whose light is splendid, longing to taste our sacrifice, shall hear us.
The carrier (of the gods) 1 calls by his hymns Agni, Ushas (dawn), the two Asvins, Dadhikrâ 2 at daybreak. May the gods rich in light, unanimously longing for our sacrifice, hear us.
Agni, Dawn, the two Aśvins, Dadhikrā—with his recitations the chariot-driver calls upon them at daybreak.
Let the gods of good light, bellowing all together toward the rite,
hear us.
Den Agni ruft mit Spruch der Priester morgens, das Morgenroth, die Ritter, den Dadhikra; Die lichten Götter mögen uns erhören, sie, die vereint die Opferfeier wünschen.
Der mit den Lobliedern Fahrende ruft am Morgen des Agni, die Usas, die Asvin, den Dadhikra an. Die schönleuchtenden Götter sollen uns hören, die einmütig nach dem Opfer verlangen.
Агни, Ушас, Ашвинов, Дадхикру
Призывает возница, на заре (ездящий) на песнях.
Пусть услышат нас боги, прекрасно светящиеся,
Единодушно стремящиеся на обряд!
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥
अग्ने॑ । त्री । ते॒ । वा॒जि॑ना॑ । त्री । ष॒धऽस्था॑ । ति॒स्रः । ते॒ । जि॒ह्वाः । ऋ॒त॒ऽजा॒त॒ । पू॒र्वीः । ति॒स्रः । ऊँ॒ इति॑ । ते॒ । त॒न्वः॑ । दे॒वऽवा॑ताः । ताभिः॑ । नः॒ । पा॒हि॒ । गिरः॑ । अप्र॑ऽयुच्छन् ॥
हे अग्ने ते तव त्री वाजिना आज्यौषधिसोमात्मकानि त्रीण्यन्नानि त्री षधस्था त्रीणि आग्नीध्रीयादीनि धिष्ण्यानि स्थानानि । यद्वा एकाहाहीनसत्राख्यानि त्रीणि स्थानानि । यद्वा त्रयो लोकाः । ऋतजात ऋतेषु सत्यभूतेषु यज्ञेषु समुत्पन्न हे अग्ने ते तव पूर्वीः [देवानां जिह्वाः सात्विकादिभेदेन त्रिप्रकाराः । यद्वा त्रयो वा अग्नेयोहन ( अग्नयो हव्यवाहनो ) वै देवानां कव्यवाहनः पितृणां सह रक्षा असुराणामिति श्रुतेरग्नित्रैविध्यात् जिह्वात्रैविध्ये] देवानामुदरपूरयित्र्यः तिस्रः गार्हपत्याद्याः जिह्वा: । हे अग्ने ते तव देववाताः देवैरभिलषिताः तिस्रः तन्वः पवमानपावकशुच्यात्मकानि त्रीणि शरीराणि । एवंभूतस्त्वम् अप्रयुच्छन् अप्रमाद्यन् सावधानो भूत्वा ताभिः तनूभिः नः अस्माकं स्तोतॄणां गिरः स्तोत्रशस्त्रादीनि वाक्यानि पाहि पालय॥ तिस्रः । ‘ तिसृभ्यो जसः' इति जस उदात्तत्वम् । जिह्वाः । ‘ लिह आस्वादने '। लिहन्त्याभी रसानिति ‘ शेवायह्वाजिह्वाग्रीवाप्वामीवाः' इति निपातनात् वन् । लकारस्य जकारः । गुणाभावः । व्यत्ययेन अन्तोदात्तत्वम् । देववाताः । ‘ वा गतिगन्धनयोः । अस्मात्कर्मणि क्तः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । पाहि ।' पा रक्षणे ' इत्यस्य लोटि रूपम् । निघातः । अप्रयुच्छन् । ' युच्छ प्रमादे'। नञ्स्वरः ॥
“Agni, born of sacrifice, three are your viands; three your abiding plural ces, three the tongue satisfying (thegods); three verily are your forms acceptable to the deities, and with them never heedless (of our wishes), bepropitious to our praises.”
Three are thy powers, O Agni, three thy stations, three are thy tongues, yea, many, Child of Order!
Three bodies hast thou which the Gods delight in: with these protect our hymns with care unceasing.
Agni, threefold is thy strength; three are thy abodes; three are thy many tongues, O thou who art born in Rita! And three, O Agni, are thy bodies beloved by the gods. With these protect our prayers unremittingly.
Agni, three are your victorious charges, three your abodes. Three are your tongues [=flames], o you who are born of truth, (and these three are) many,
and three are your bodies [=the three sacrificial fires], won by the gods. Never lapsing, protect our songs with these.
Drei Kräfte hast du, Agni, drei der Sitze, drei reichgefüllte Zungen, Rechtentsprossner, Drei Leiber auch, den Göttern angenehme, durch die behüt nah weilend unsre Lieder.
Agni, du hast drei Samen, drei Stätten; drei sind deine Zungen, viele, du rechtzeitig Geborener. Drei gottgenehme Leiber hast du; mit diesen wache unablässig über unsere Reden!
О Агни, три силы у тебя, три жилища,
Три у тебя языка, о рожденный законом, много (их).
Три тела также у тебя, нравящихся богам, –
Ими неотступно охраняй наши песни!
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ । याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥
अग्ने॑ । भूरी॑णि । तव॑ । जा॒त॒ऽवे॒दः॒ । देव॑ । स्व॒धा॒ऽवः॒ । अ॒मृत॑स्य । नाम॑ । याः । च॒ । मा॒या । मा॒यिना॑म् । वि॒श्व॒म्ऽइ॒न्व॒ । त्वे इति॑ । पू॒र्वीः । स॒म्ऽद॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्टऽबन्धो ॥
देव द्योतमान जातवेदः जातप्रज्ञ स्वधावः अन्नवन् हे अग्ने अमृतस्य मरणधर्मरहितस्य तव संबन्धिनो देवाः भूरीणि बहूनि नाम नामानि तेजांसि त्वे त्वयि संदधुः संदधिरे । किंच । विश्वमिन्व विश्वस्य संतर्पक पृष्टबन्धो अपेक्षितफलप्रश्नविषयाणां स्तोतॄणां बन्धो हे अग्ने मायिनाम् असुराणां पूर्वीः भूयसीः याः मायाः देवास्त्वयि संदधुः संप्रयुयुजिरे तास्त्वयि सन्ति । तस्माद्यज्ञविघ्नकारिणां मायिनां मायाः परिहृत्य अस्मदीयं यज्ञं पालयेति भावः । च पूरणः ॥ स्वधावः । स्वधास्यास्तीति मतुप् ।' मतुवसो रुः' इति नकारस्य रुः । अमृतस्य । ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । नाम । णम प्रह्वत्वे ' । 'नामन्सीमन्व्योमन्°' इत्यादिना मनिन्प्रत्ययान्तत्वेन निपातनात् मकारलोपो दीर्घश्च । नमयन्ति सर्वानपि स्वाश्रयभूतान्पुरुषानिति नामानि तेजांसि ।' सुपां सुलुक्' इति सुपो लुक् । नित्त्वादाद्युदात्तः । मायिनाम् । माया एषां सन्तीति व्रीह्यादित्वादिनिः । ‘ यस्य' इति लोपः । प्रत्ययस्वरः। विश्वमिन्व । इवि व्याप्तिप्रीणनयोः' इत्यस्मात् विश्वशब्दे उपपदे ‘ कर्मण्यण्' इत्यण्प्रत्ययः । धातूपदेशावस्थायाम् ‘इदितो नुम्' इति नुमि प्राप्ते लघूपधगुणो न भवति । विश्वमिन्वति प्रीणयतीति विश्वमिन्वः । तत्पुरुषे कृति बहुलम् ' इति द्वितीयाया अलुक् । आमन्त्रितत्वान्निघातः । संदधुः । ‘डुधाञ् धारणपोषणयोः' इत्यस्य लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पृष्टबन्धो । प्रच्छ ज्ञीप्सायाम्' इत्यस्य कर्मणि निष्ठायां • ग्रहिज्यावयि' इत्यादिना संप्रसारणम् । व्रश्चादिना षत्वम् । बन्ध बन्धने' इत्यस्मात् ‘शृस्वृस्निहि' इत्यादिना उप्रत्ययः । षष्ठीसमासः । आमन्त्रितत्वान्निघातः ॥
“Divine Agni, knowing all that exists and distributor of food, many are the names of you who are immortal satisffier of all men, friend of the suppliant, the gods have deposited in you whatever are the delusions of the deluding (rākṣasas).”
O Agni, many are the names thou bearest, immortal, God, Divine, and Jatavedas.
And many charms of charmers, All-Inspirer! have they laid in thee, Lord of true attendants!
1 Agni! Many are the names, O Gâtavedas, of thee the immortal one, O self-dependent god! And whatever the secret powers of the powerful 2 are, thou all-enlivener, in thee they have placed together (those) many (powers), O (god) after whose relations men ask 3.
Agni, numerous are the names of you, the immortal one, o Jātavedas, o god of independent will,
and, o you who propel everything, (yours are) the many wiles of the wily (gods), which they have assembled in you, o you about whose kinship people ask.
O Agni, viele Namen, Wesenkenner, sind dir, o Gott, unsterblicher Beherrscher; In dich gelegt ist viele Kunst der Weisen, o Allbeleber, Herr begehrter Sippe.
Agni Jatavedas, eigenmächtiger Gott! Viele sind deine Namen, des Unsterblichen, und viele sind die Zauberkräfte der zauberkräftigen, du alles Zuwegebringender, die sie in dir vereinigt haben, der du nach deinen Verwandten fragst.
О Агни, много (есть) твоих имен,
О Джатаведас, бог самосущий, -у (тебя,) бессмертного.
А те чудесные силы у обладателей чудесных сил, о всепобуждающий (бог), –
(Их,) многочисленных они собрали в тебе, о тот, о чьем родстве вопрошают!
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ । स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दा॒: पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ॥
अ॒ग्निः । ने॒ता । भगः॑ऽइव । क्षि॒ती॒नाम् । दैवी॑नाम् । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तऽवा॑ । सः । वृ॒त्र॒ऽहा । स॒नयः॑ । वि॒श्वऽवे॑दाः । पर्ष॑त् । विश्वा॑ । अति॑ । दुः॒ऽइ॒ता । गृ॒णन्त॑म् ॥
योऽयम् अग्निः क्षितीनां मनुष्याणां दैवीनां देवसंबन्धिनीनां विशां नेता अन्तर्यामितया नियामकः । तत्र दृष्टान्तः । ऋतुपाः भगइव । यथा वसन्ताद्यृतूनां पालकः सूर्यः सर्वस्य स्वप्रकाशप्रदानेन प्रवर्तकः तद्वत् । यश्चाग्निः ऋतावा सत्यकर्मा वृत्रहा वृत्रस्य हन्ता सनयः सनातनः पुराणः विश्ववेदाः सर्वविषयज्ञानवान् सर्वज्ञः देवः द्योतमानः सः तथाविधोऽग्निः गृणन्तं तद्विषयां स्तुतिं कुर्वन्तं स्तोतारं विश्वा दुरिता सर्वाणि दुरितानि अति अतिक्रम्य पर्षत् पारं नयतु। नेता । ‘णीञ् प्रापणे ' इत्यस्य तृचि रूपम् । चित्स्वरः । क्षितीनाम् । ‘ क्षि निवासगत्योः । ‘ क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ' नामन्यतरस्याम्' इत्यन्तोदात्तत्वम् । देवीनाम् । देवशब्दात् संबन्धार्थे ' देवाद्यञञौ ' इत्यञ् । अञि ‘ टिड्ढाणञ्' इति ङीप् । ञित्त्वादाद्युदात्तः । ऋतुपाः । ‘ पा रक्षणे ' इत्यस्मात् अन्येभ्योऽपि दृश्यन्ते ' इति विच् । ऋतून् पातीति ‘ उपपदमतिङ्' ( पा. सू. २. २. १९ ) इति समासः । कृदुत्तरपदप्रकृतिस्वरः । वृत्रहा । ‘हन हिंसागत्योः' । ब्रह्मभ्रूणवृत्रेषु क्विप्' इति क्विप् । विश्ववेदाः। ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । पर्षत् । पॄ पालनपूरणयोः' इत्यस्य लेटि ‘ सिब्बहुलम् ' इति सिप् । अडागमः । ‘ इतश्च लोपः' इतीकारलोपः । पादादित्वादनिघातः । गृणन्तम् । ‘गॄ शब्दे'। लटः शतृ । क्र्यादित्वात् श्ना । शत्रन्तत्वात् ‘श्नाभ्यस्तयोरातः' इत्याकारलोपः । शतृप्रत्ययस्वरः ॥
“The divine Agni is the guide of devout men, as the sun is the regulator of the seasons; may he, the observer of truth, the slayer of Vṛtra, the ancient, the omniscient convey his adorer (safe) over all difficulties.”
Agni, like Bhaga, leads the godly people, he who is true to Law and guards the seasons.
Ancient, all-knowing, he the Vrtra-slayer shall bear the singer safe through every trouble.
Agni is the divine leader of the divine tribes like Bhaga, the guardian of the seasons 1, the righteous. May He, the killer of Vritra 2, the ancient one, the possessor of all wealth, bring the singer across all troubles.
Agni is the leader of the heavenly settlements like Bhaga—he, the god who drinks according to [/protects] the ritual sequence, who possesses the truth.
The smasher of Vr̥tra from of old, having every possession, will take the singer across all difficulties.
Wie Bhaga ist der Götterstämme Führer, Gesetzbeschirmer der gerechte Agni, Der Feinde Tödter, ein allreicher Spender, den Sänger fahr er über alles Unheil.
Agni ist wie Bhaga der Führer der himmlischen Völker, der Gott, der mit den Ritu´s trinkt, der sich an den rechten Brauch hält. Er, der seit alters der Vritratöter, der Allwissende, möge dem Sänger über alle Gefahren hinweghelfen.
Агни, как Бхага, вождь божественных
Народов, бог, пьющий вовремя, поддерживающий закон.
Он убийца врагов, древний всезнающий, –
Пусть переправит он воспевающего (его) через все трудности!
द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् । अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥
द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । बृह॒स्पति॑म् । स॒वि॒तार॑म् । च॒ । दे॒वम् । अ॒श्विना॑ । मि॒त्रावरु॑णा । भग॑म् । च॒ । वसू॑न् । रु॒द्रा॑न् । आ॒दि॒त्या॑न् । इ॒ह । हु॒वे॒ ॥
हे दधिक्रावादयः सर्वे देवा होताहं दधिक्रां दधिक्रावाणम् अग्निमुषसं च देवीम् उषोऽभिमानिनीं देवतां च बृहस्पतिं देवं द्योतमानं सवितारं सर्वस्य जगतः प्रेरकं देवं च अश्विना अश्विनौ देवौ मित्रावरुणौ भगं सूर्यं च वसून् अष्टौ वसून् रुद्रान् एकादश रुद्रान् आदित्यान् द्वादशादित्यान् एतान्सर्वान् हविर्भुजो युष्मान् इह अस्मदीये कर्मणि हुवे हविःस्वीकरणार्थमाह्वयामि ॥ दधिक्राम् । दधातीति दधिः । ‘ आदृगमहन' इत्यादिना किप्रत्ययः । दधीत्युपपदे क्रमेः 'जनसन' इत्यादिना विट् । विड्वनोः' इत्यात्वम् । देवीम् । देवस्य पत्नी देवी। पुंयोगादाख्यायाम् ' इति ङीष् । यस्य' इति लोपः । प्रत्ययस्वरेणान्तोदात्तः । बृहस्पतिम् । तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च' इति पतिशब्दे परतो बृहच्छब्दस्य तलोपः सुडागमश्च । ' उभे वनस्पत्यादिषु युगपत्' इत्युभयपदाद्युदात्तत्वम् । सवितारम् । षू प्रेरणे' इत्यस्य तृचि ‘ आर्धधातुकस्येड्वलादेः' इतीडागमः । चित्त्वादन्तोदात्तत्वम् । रुद्राँ आदित्याँ इत्यत्र संहितायां शसो नकारस्य ‘ दीर्घादटि समानपादे' इति रुत्वम् । ततः पूर्वस्यावर्णस्य • आतोऽटि नित्यम्' इत्यनुनासिकत्वम् । 'भो भगो अघो अपूर्वस्य योऽशि' इति रोः यादेश:।' लोपः शाकल्यस्य' इति तस्य लोपः । यलोपस्यासिद्धत्वात् स्वरसन्धिर्न भवति । अतः रुद्राँ आदित्याँ इति भवति । एवमेकस्मिन्पादे आकारादटि परतो नकारस्य रुत्वयत्वपूर्वसवर्णानुनासिकादेशाः उन्नेयाः । हुवे । ह्वयतेर्लटि ‘बहुलं छन्दसि' इति संप्रसारणम्'°। इटः ‘टित आत्मनेपदानाम्' इत्येत्वम् । उवङादेशः । निघातः ॥ ॥ २० ॥
“I invoke to this rite, Dadhikrā, Agni, the divine Uṣas, Bṛhaspati, the divine Savitā, the Aśvins, Mitra and Varuṇa, Bhaga, the Vasus, the Rudras, and Ādityas.”
I call on Savitar the God, on Morning, Brhaspati, and Dadhikras, and Agni,
On Varuna and Mitra, on the Asvins, Bhaga, the Vasus, Rudras and Adityas.
I invite hither 1 Dadhikrâ 2, Agni, and the goddess Ushas, Brihaspati and the god Savitri, the Asvins, Mitra and Varuna and Bhaga, the Vasus, Rudras, and Âdityas.
Dadhikrā, Agni, and the goddess Dawn; Br̥haspati and the god Savitar; the Aśvins, Mitra and Varuṇa, and Bhaga; the Vasus, Rudras, and
Ādityas—I call upon them here.
Dadhikra, Agni und die Göttin Uschas, Brihaspati und Savitar, den Gott, auch, Die Ritter, Mitra-Varuna und Bhaga, die Vasu's, Rudra's, die Aditja's ruf' ich.
Den Dadhikra, Agni und die Göttin Usas, den Brihaspati und den Gott Savitri, die Asvin, Mitra, Varuna und Bhaga, die Vasu´s, Rudra´s, Aditya´s rufe ich hierher.
Дадхикру, Агни и богиню Ушас,
Брихаспати, и бога Савитара,
Ашвинов, Митру-Варуну и Бхагу,
Васу, Рудр, Адитьев – я призываю сюда!