इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होत॒: प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥
इ॒मम् । नः॒ । य॒ज्ञम् । अ॒मृते॑षु । धे॒हि॒ । ई॒मा । ह॒व्या । जा॒त॒ऽवे॒दः॒ । जु॒ष॒स्व॒ । स्तो॒काना॑म् । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ । होत॒रिति॑ । प्र । अ॒शा॒न॒ । प्र॒थ॒मः । नि॒ऽसद्य॑ ॥
गाथी प्रार्थयते । हे जातवेदः जातप्रज्ञ अग्ने नः अस्माकं संबन्धिनम् इमं यज्ञं पशुयागम् अमृतेषु मरणधर्मरहितेषु यष्टव्यदेवेषु धेहि तदधीनतया समर्पय । त्वं च इमा इमान्यस्माभिर्दीयमानानि हव्या हव्यानि हवींषि जुषस्व सेवस्व । किंच होतः देवानामाह्वातः । ‘ अग्निर्वै देवानां होता ' ( ऐ. ब्रा. ३. १४ ) इत्याम्नानात् । तादृश हे अग्ने निषद्य वेद्यामुपविश्य प्रथमः सर्वेषामृत्विजामादिमः सन् मेदसः वपाख्यस्य हविषः घृतस्य आज्यस्यं च स्तोकानाम् । द्वितीयार्थे षष्ठी । मेदोघृतयोर्ये स्तोका बिन्दवो विद्यन्ते तान्प्रकर्षेण अशान भक्षय। पिबेत्यर्थः ॥ धेहि । दधातेर्लोटि रूपम् । जुषस्व । जुषी प्रीतिसेवनयोः' इत्यस्य लोटि आत्मनेपदिनो रूपम् । अशान । ‘ अश भोजने ' इत्यस्य लोटि ‘हलः श्नः शानज्झौ ' ( पा. सू. ३. १.८३) इति शानजादेशः । पश्चात् ‘ अतो हेः' इति हेर्लुक्। निघातः। प्रथमः। प्रथ प्रख्याने' । प्रथमः प्रथन्तेऽस्मात् द्वितीयादयः इति । ‘प्रथेरमच्' ( उ. सू. ५. ७४६ ) इत्यमच् । चित्त्वादन्तोदात्तः । निषद्य । ‘षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य ल्यपि रूपम् । सदिरप्रतेः' इति षत्वम् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
“Convey our sacrifice, Jātavedas, to the immortals and do you accept these oblations; Agni, invoker (of the gods) seated (on the altar) first partake of the drops of the marrow and of the butter.”
SET this our sacrifice among the Immortals: be pleased with these our presents, Jatavedas.
O Priest, O Agni, sit thee down before us, and first enjoy the drops of oil and fatness.
Take this our sacrifice to the immortals; accept graciously these offerings, O Gâtavedas. O Agni, partake of the drops of fat and ghee, O Hotri, having sat down as the first.
Place this our sacrifice among the immortals. Take pleasure in these oblations, Jātavedas.
Eat of the drops of fat and of ghee, o Agni, our Hotar, taking your seat as the first.
Dies unser Opfer bringe zu den Göttern, nimm an, o Wesenkenner, diese Güsse, geniesse von der fetten Butter Tropfen, o Priester Agni, dich als erster setzend.
Dieses Opfer von uns bring zu den Unsterblichen, diese Opferspenden laß dir schmecken, o Jatavedas! Agni, nimm Platz und genieße als erster von den Tropfen des Fettes, des Schmalzes, o Hotri!
Эту нашу жертву помести среди бессмертных!
Наслаждайся этими возлияниями, о Джатаведас!
О Агни, воссевши как хотар, вкушай
Первым капли жира, расплавленного масла!
घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः । स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥
घृ॒तऽव॑न्तः । पा॒व॒क॒ । ते॒ । स्तो॒काः । श्चो॒त॒न्ति॒ । मेद॑सः । स्वऽध॑र्मन् । दे॒वऽवी॑तये । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् ॥
पावक पापशोधक हे अग्ने स्वधर्मन् स्वायत्तधर्मके साङ्गेऽस्मिन् यज्ञे ते तव भक्षणार्थं देववीतये यजनीयदेवानां भक्षणार्थं च घृतवन्तः घृतोपेताः मेदसः मेदोरूपस्य हविषः स्तोकाः बिन्दवः श्चोतन्ति क्षरन्ति । अथवा देववीतये देवस्य तव वीतये इति योजनीयम् । तस्मात् वार्यं वरणीयं संभजनीयं श्रेष्ठम् उत्तमं धनं नः अस्मभ्यं धेहि प्रयच्छ ॥ श्चोतन्ति । ‘ श्चुतिर् क्षरणे' इत्यस्य लटि रूपम् । स्वधर्मन् । स्वेऽङ्गभूताः धर्माणो यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । देववीतये । देवानां वीतिः प्रीतिर्यस्यां भक्षणक्रियायां सा देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । श्रेष्ठम् । प्रशस्यशब्दादतिशायने इष्टन् । प्रशस्यस्य श्रः' इति श्रादेशः। गुणः । एकादेशस्वरः । धेहि । दधातेर्लोट् । वार्यम् । ‘ वृङ् संभक्तौ '। ऋहलोर्ण्यत्' इति ण्यत् । ‘ ईडवन्द ' इत्यादिनाद्युदात्तत्वम् । एतिस्तुशास्' इत्यादिना क्यप् वृणोतेरेव न वृङः ॥
“The drops of the marrow charged with butter fall, purifier, to you, at your own rite, for the food of the gods; therefore grant us excellent affluence.”
For thee, O Purifier, flow the drops of fatness rich in oil.
After thy wont vouchsafe to us the choicest boon that Gods may feast.
To thee, O purifier, the drops of fat mixed with ghee drip down. O (god) who followest thy own ordinances, give us the best boon for this feast to which the gods come eagerly.
Filled with ghee, drops of fat drip for you, o pure one.
O you on your own foundation, set in place for us the best thing, the thing to be chosen, in order for us to pursue the gods.
Die butterreichen Tropfen Fett, sie rinnen dir, o Flammender; lass unsre Gabe, treuer du, die beste sein zum Opfermahl.
Die schmalzigen Tropfen des Fettes träufeln für dich ab, du Lauterer. Eigener Bestimmung folgend tu für uns das Beste, das Erwünschte zur Götterladung!
Маслянистые капли жира,
О очищающий (бог), стекают для тебя.
О следующий своему закону, для приглашения богов
Надели нас самым лучшим – избранным даром!
तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य सन्त्य । ऋषि॒: श्रेष्ठ॒: समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥
तुभ्य॑म् । स्तो॒काः । घृ॒त॒ऽश्चुतः॑ । अग्ने॑ । विप्रा॑य । स॒न्त्य॒ । ऋषिः॑ । श्रेष्ठः॑ । सम् । इ॒ध्य॒से॒ । य॒ज्ञस्य॑ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥
सन्त्य यष्टृभिः संभजनीय यद्वा यष्टृभ्यः फलप्रद हे अग्ने विप्राय मेधाविने तुभ्यं त्वदर्थं घृतश्रुतः घृतक्षरणयुक्ताः स्तोकाः सन्ति । ऋषिः अतीन्द्रियार्थदर्शी अत एव श्रेष्ठः सर्वातिशायी त्वं समिध्यसे घृतयुक्तमेदोबिन्दुभिः सम्यक् प्रज्वल्यसे । स त्वं यज्ञस्य अस्माभिः क्रियमाणस्य पशुयागस्य प्राविता प्रकर्षेण पालकः भव ॥ तुभ्यम् । युष्मच्छब्दस्य ङयि ' तुभ्यमह्यौ ङयि ' (पा. सू. ७. २. ९५ ) इति तुभ्यादेशः । ‘ ङेप्रथमयोरम्' इति ङेरमादेशः । ‘ ङयि च ' इति आद्युदात्तत्वम् । सन्त्य । ‘षण संभक्तौ'; ‘षणु दाने' वा । क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । न क्तिचि दीर्घश्च' इति दीर्घनलोपाभावः । सन्तौ भवः भवे छन्दसि' इति तत्र साधुः' इति वा यत्प्रत्ययः । यस्येति लोपः। आमन्त्रितत्वान्निघातः। इध्यसे । 'ञिइन्धी दीप्तौ' । कर्मणि यक् । कित्त्वादनुनासिकलोपः । निघातः। प्राविता । अव रक्षणादिषु । तृचि रूपम् । समासस्वरः । भव । निघातः॥
“The drops (of the marrow) dripping with butter are offered, Agni, to you who are wise; you the most excellent ṛṣi are kindled; be the protector of the sacrifice.”
Agni, Most Excellent! for thee the Sage are drops that drip with oil.
Thou art enkindled as the best of Seers. Help thou the sacrifice.
To thee, the priest, O Agni, (belong) the drops dripping with ghee, O good one! Thou art kindled as the best Rishi. Be a furtherer of our sacrifice!
For you, the inspired poet, o Agni, are the drops dripping with ghee, o companion.
As the best seer you are kindled. Become the helper of our sacrifice.
Dein, Agni, guter Sänger, sind die butterreichen Tropfen hier, als bester Dichter du entflammt, sei unsres Opfers Förderer.
Für dich sind die schmalztriefenden Tropfen, wahrhafter Agni, für den Redegewandten. Als bester Rishi wirst du entzündet; sei Förderer des Opfers.
Это для тебя – сочащиеся маслом капли,
О Агни, для вдохновенного, о истинный!
Ты зажигаешься, как лучшие риши.
Будь покровителем жертвы!
तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥
तुभ्य॑म् । श्चो॒त॒न्ति॒ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो । श॒ची॒ऽवः॒ । स्तो॒कासः॑ । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ । क॒वि॒ऽश॒स्तः । बृ॒ह॒ता । भा॒नुना॑ । आ । अ॒गाः॒ । ह॒व्या । जु॒ष॒स्व॒ । मे॒धि॒र॒ ॥
अध्रिगो अधृतगमन सततगमनस्वभाव । अत एव शचीवः शक्तिमन् हे अग्ने तुभ्यं त्वदर्थं मेदसः मेदोरूपस्य हविषः घृतस्य स्तोकासः बिन्दवः श्चोतन्ति स्रवन्ति । तस्मात् कविशस्तः कविभिः कर्माभिज्ञैर्होत्रादिभिः स्तुतस्त्वं हता प्रभूतेन भानुना तेजसा सहितः सन् आगाः अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च मेधिर प्रज्ञावन्नग्ने हव्या अस्माभिर्दीयमानानि वपादीनि हवींषि जुषस्व सेवस्व ॥ अध्रिगो । गमनं गौरिति गम्लृ सृप्लृ गतौ ' इत्यस्य भावे ‘ गमेर्डोः' इति डोः । अधृता गौर्येन इत्यत्र ‘ गोस्त्रियोरुपसर्जनस्य ' इति गोशब्दस्य ह्रस्वत्वम् । धृतशब्दस्य" पृषोदरादित्वात् ध्रिभावः। संबोधने ‘संबुद्धौ च ' (पा. सू. ७. ३. १०६ ) इति गुणः। अपादादित्वान्निघातः । शचीवः । मतुपः मतुवसो र ० ' इति रत्वम् । कविशस्तः । ‘ शंसु स्तुतौ इत्यस्य निष्ठायामनुनासिकलोपः । ‘ यस्य विभाषा 'इतीट्प्रतिषेधः । ‘थाथघञ्क्ताजबित्रकाणाम् ' इत्यन्तोदात्तत्वम् । भानुना ।' भा दीप्तौ । “ दाभाभ्यां नुः' इति कर्तरि नुः । प्रत्ययस्वरः। अगाः। ‘ इण् गतौ ' इत्यस्य छान्दसे लुङि इणो गा' इति गादेशः । ‘ गातिस्था' इति सिचो लोपः । निघातः । मेधिर । ‘ मेधारथाभ्यामिरनिरचौ वक्तव्यौ ' इतीरन् । आमन्त्रितत्वान्निघातः ॥
“Irrepressible and powerful, Agni, the drops of marrow and of butter distil for you; therefore you, who are praised by sages, come with great splendour, and be plural ased ever intelligent Agni, with our oblations.”
To thee, O Agni, mighty and resistless, to thee stream forth the drops of oil and fatness.
With great light art thou come, O praised by poets! Accept our offering, O thou Sage.
For thee, O liberal one 1, full of power, the drops of fat and ghee drip down, O Agni! Praised by the sages thou hast come hither with mighty light. Accept graciously the offerings, O wise one!
For you drip the drops of fat and of ghee, o independent and
capable Agni.
Proclaimed by poets, you have come with your lofty radiance. Take
pleasure in the oblations, wise one.
O Agni, dir, der mächtig und unhemmbar, dir rinnen zu der fetten Butter Tropfen; der Dichter Preis, mit hellem Glanze kamst du; geniess die Opfer, weiser du.
Für dich träufeln, du reicher, machtvoller Agni, die Tropfen des Fettes, des Schmalzes. Von den Dichtern gepriesen bist du mit hohem Glanze gekommen. Laß dir die Opfergaben schmecken, du Weiser!
Это для тебя стекают капли,
О безудержный (?), мощный Агни, жира, расплавленного масла.
Прославленный поэтами, ты пришел с (твоим) высоким лучом.
Наслаждайся возлияниями, о мудрый!
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे । श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥
ओजि॑ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः॑ । उत्ऽभृ॑तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ । श्चोत॑न्ति । ते॒ । व्स् इति॑ । स्तो॒काः । अधि॑ । त्व॒चि । प्रति॑ । तान् । दे॒व॒ऽशः । वि॒हि॒ ॥
हे अग्ने ओजिष्ठम् अतिशयेन सारयुक्तं मेदः वपाख्यं हविः मध्यतः पशोर्मध्यभागात् ते त्वदर्थम् उद्भृतम् उद्धृतम् अध्वर्य्वादयः वयम् अस्मिन् पशौ ते तुभ्यं प्र ददामहे उद्धृतं तद्वपाख्यं हविः प्रयच्छामः । वसो सर्वस्य जगतो वासयितर्हे अग्ने त्वचि अधि वपायामुपरि ये स्तोकाः घृतमिश्रा बिन्दवस्ते ते त्वदर्थं श्चोतन्ति स्रवन्ति । यद्वा ते तव त्वच्यधि ज्वालाख्यशरीरस्योपरि श्चोतन्ति। तान् स्तोकान् देवशः देवेषु प्रति विहि प्रत्येकं विभजस्व ॥ मध्यतः । मध्यशब्दात् ‘पञ्चम्यास्तसिः ' ( पा. सू. ५.४.४४ ) इति तसिः । प्रत्ययस्वरः । उद्भृतम् । “ हृञ् हरणे'। कर्मणि क्तः । ‘हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ददामहे ।' दद दाने ' इत्यस्य लटि ङित्त्वादात्मनेपदम् । अतो दीर्घो यञि ' इति दीर्घः । निघातः । श्चोतन्ति । ‘श्चुतिर् क्षरणे' । पादादित्वादनिघातः । अन्तेर्लसार्वधातुकस्वरेण अनुदात्तत्वे कृते धातुस्वरः । त्वचि । तनु विस्तारे । तनोतेरनश्च वः' (उ. सू. २.२२१ ) इति कर्तरि कर्मणि वा चिक् । अकारनकारयोर्वकारादेशः । तनोति तायते वा त्वक् । ‘ सावेकाचः० इति विभक्तेरुदात्तत्वम् । विहि । वी कान्तिगत्यादिष्वित्यस्य लोटि अदादित्वाच्छपो लुक् । ह्रस्वश्छान्दसः । निघातः। खिलम् ॥ ॥ २१ ॥
“We present to you the densest marrow that has been extracted for you from the interior (of the victim); grant of dwellings, the drops fall for you upon the skin; distribute them amongst the gods.”
Fatness exceeding rich, extracted from the midst,-this as our gift we offer thee.
Excellent God, the drops run down upon thy skin. Deal them to each among the Gods.
For thee the richest fat 1 has been taken out from the midst. We give it to thee. On thy skin, O Vasu, the drops drip down. Accept them eagerly for each of the gods.
We present to you the most powerful fat [=the vapā], extracted from the middle (of the animal’s body).
The drops drip for you upon your skin, o good one. Capture them (for) each god in turn.
Das stärkste Fett ist aus der Mitte dir geholt; dir haben wir es dargebracht; die Tropfen rinnen dir, o Guter, auf die Haut, vertheile du den Göttern sie.
Das kräftigste Fett, aus der Mitte herausgenommen, bringen wir dir dar. Es träufeln für dich, du Guter, die Tropfen auf die Haut. Nimm sie für die einzelnen Götter entgegen!
Самый сильный жир, извлеченный для тебя из середины, -
Мы подносим (его) тебе.
Стекают для тебя капли, о Васу, на шкуру.
Прими их, (чтобы распределить) по богам!