अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥
अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः । स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒वान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥
गाथी ब्रूते । अयम् उत्तरवेद्यामाहुत्यधिकरणभूताहवनीयरूपतया दृश्यमानः अग्निः सः तथाविधः खलु वावशानः सोमं कामयमानः इन्द्रः यस्मिन् अग्नौ सुतम् अभिषवादिसंस्कारोपेतं सोमं जठरे स्वोदरे दधे दधार । तस्मात् तादृशमहिमोपेतः सोऽग्निरिति पूर्वेणान्वयः । किंच हे जातवेदः सहस्रिणम् । सहस्रं नानारूपतां युद्धे यो भजति स सहस्री। तम् अत्यं वेगवशात अतनशीलं सप्तिं न अश्वमिव वाजम् आज्यौषधिसोमाद्यनेकप्रकारं हविर्लक्षणमन्नं ससवान भेजिवान् सन् त्वं स्तूयसे स्तोतृभिरस्माभिः स्तूयमानो वर्तसे ॥ दधे । दधातेर्लिटि ‘ लिटस्तझयोरेशिरेच् ' इति तप्रत्ययस्य एश् इत्यादेशः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । वावशानः । ‘ वश कान्तौ ' इत्यस्य यङ्लुकि ' दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः । व्यत्ययेन शानच् । चित्स्वरः । ससवान् ।' षण संभक्तौ । क्वसाविडभावः । नलोपः । प्रत्ययस्वरः । स्तूयसे । ‘ ष्टुञ् स्तुतौ ' । कर्मणि यक् ।' अकृत्सार्वधातुकयोः° ' इति दीर्घः । निघातः ॥
“This is that Agni in whom Indra, desirous (of the oblation), plural ced the effused Soma for (his own) belly; you are praised by us, Jātavedas, enjoying the sacrificial food of many sorts like a rapid courser (enjoying many plural asures in battle).”
THIS is that Agni whence the longing Indra took the pressed Soma deep within his body.
Winner of spoils in thousands, like a courser, with praise art thou exalted, Jatavedas.
This is that Agni with whom the desiring Indra took the pressed Soma into his body. Having obtained thousandfold strength like a horse, a racer 1, thou art praised, O Gâtavedas!
Here is Agni, in whom the bellowing Indra has received the pressed soma in his belly.
As (we praise) a steed, a team-horse, (that has won) the prize of a
thousand, you are praised, Jātavedas, since you are victorious.
Dies Feuer ist's aus welchem Indra gierig den ausgepressten Soma in den Leib nimmt, Die tausendfache Speis', o Wesenkenner, gleich schnellem Ross ergreifend wirst gelobt du.
Dies ist der Agni, durch den Indra den ausgepreßten Soma voll Verlangen in seinem Bauch aufgenommen hat. Wie ein Renngespann, das tausendfältigen Preis gewonnen hat, wirst du als der Gewinner gelobt, o Jatavedas.
Вот этот Агни, в котором Индра, страстно желающий,
Принял в живот выжатого сому.
Как (восхваляют) скаковую упряжку, завоевавшую
Тысячную награду, (так) восхваляют тебя, о Джатаведас.
अग्ने॒ यत्ते॑ दि॒वि वर्च॑: पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑: ॥
अग्ने॑ । यत् । ते॒ । दि॒वि । वर्चः॑ । पृ॒थि॒व्याम् । यत् । ओष॑धीषु । अ॒प्ऽसु । आ । य॒ज॒त्र॒ । येन॑ । अ॒न्तरि॑क्षम् । उ॒रु । आ॒ऽत॒तन्थ॑ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒ऽचक्षाः॑ ॥
यजत्र यजनीय हे अग्ने दिवि द्युलोके यत् वर्चः आदित्याख्यं यज्ज्योतिस्तत् ते तवैव ज्योतिः । पृथिव्याम् आहवनीयादिरूपतया वर्तमानं यत्तेजस्तत्त्वदीयमेव । प्रसिद्धं तेजोऽभिधाय गूढं ज्योतिरभिधत्ते । यदोषधीष्वप्सु” इति । ओषधीषु अरणिप्रभृतिषु काष्ठेषु यत् तेजः । यद्वा ओषधीषु वनस्पत्यादिषु सोमाख्यं यत्तेजः अप्सु जलेषु यदौर्वाख्यं तेजस्तत्सर्वम् आ सर्वत्र वर्तमानं तेजः तावकमेव । किंच येन वायुरूपेण तेजसा अन्तरिक्षम् आकाशम् उरु आततन्थ आतेनिथ विस्तीर्णं कृतवानसि । त्वेषः दीप्तिमान् अत एव भानुः भासमानः नृचक्षाः नॄणां साक्षितया द्रष्टा अर्णवः समुद्रवन्महान् । सः तादृशस्त्वमन्तरिक्षमातेनिथेति पूर्वेणान्वयः। उक्तार्थे वाजसनेयकम् --
‘ अग्ने यत्ते दिवि वर्च इत्यादित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वप्स्वा यजत्रेति य एवौषधिषु चाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः स त्वेषः स भानुरर्णवो नृचक्षा इति महान्त्स भानुरर्णवो नृचक्षा इत्येतत् ' ( श. ब्रा. ७. १. २३) इति ॥ पृथिव्याम् ।' उदात्तयणो हल्पूर्वात् ' इति विभक्तेः उदात्तत्वम् । ओषधीषु ।' ओषधेश्च विभक्तावप्रथमायाम् ' इति दीर्घत्वम् । अप्सु । ' सावेकाचः' इति विभक्तेरुदात्तत्वम् । आततन्थ । ‘ तनु विस्तारे' इत्यस्य लिटि थलि • बभूथाततन्थ जगृभ्म ववर्थ ' इति निपातनात् इडेत्वाभ्यासलोपाः न भवन्ति । ‘ लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । अर्णवः । अर्णांस्यस्मिन् सन्तीति मतुबर्थे ‘ वप्रकरणे अन्येभ्योऽपि दृश्यते ' (का. ५. २. १०९. १ ) इति वप्रत्ययः । अर्णसः सलोपश्च' इति सलोपः । प्रत्ययस्वरः । नृचक्षाः ।' चक्षिङ् व्यक्तायां वाचि ' । अभिव्यक्तवाग्वाच्ययं धातुरत्र अभिव्यक्तिमात्रे वर्तते ।' चक्षेर्बहुलं शिच्च ' इत्यसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥
“Adorable Agni, your radiance that is in the heaven, on the earth, in the plural nts, in the waters and wherewith you overspread the firmament, that is shining and resplendent, overlooking man (vast as) the ocean.”
That light of thine in heaven and earth, O Agni, in plants, O Holy One, and in the waters,
Wherewith thou hast spread wide the air's mid-region-bright is that splendour, wavy, man-beholding.
1 Thy splendour, O Agni, which dwells in heaven and on earth, in the plants, O worshipful one, and in the waters, wherewith thou hast spread through the wide air—that light of thine is fierce, waving 2, man-beholding.
O Agni, worthy to receive the sacrifice, your luster, which is in heaven and on earth, which is here among the plants and the waters,
and by which you have stretched throughout the wide midspace—that is glittering, undulating radiance watching men.
Welch Glanz, o Agni, auf der Erd', im Himmel, in Kräutern, Wassern, dir, o hehrer, einwohnt, Womit die weiten Lüfte du durchdrungen, der Glanz ist leuchtend, wallend, männerschauend.
Agni, deine Kraft im Himmel und auf Erden, in den Pflanzen und in den Gewässern, du Opferwürdiger, mit der du die weite Luft durchzogen hast, die ist der funkelnde, wogende Lichtglanz, der Herrscheraugen hat.
О Агни, твой блеск, что на небе, на земле,
Что в растениях, в водах, о достойный жертв,
С помощью которого ты растянул широкое воздушное пространство, -
Это пронзительный луч, колышащийся, смотрящий на людей.
अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये । या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आप॑: ॥
अग्ने॑ । दि॒वः । अर्ण॑म् । अच्छ॑ । जि॒गा॒सि॒ । अच्छ॑ । दे॒वान् । ऊ॒चि॒षे॒ । धिष्ण्या॑ । ये । या । रो॒च॒ने । प॒रस्ता॑त् । सूर्य॑स्य । याः । च॒ । अ॒वस्ता॑त् । उ॒प॒ऽतिष्ठ॑न्ते । आपः॑ ॥
हे अग्ने त्वं दिवो अर्णं द्युलोके वर्तमानमर्णोऽम्भः अच्छ अभिलक्ष्य जिगासि धूमद्वारा प्राप्नोषि। किंच धिष्ण्याः । धियं बुद्ध्युपहितं देहमुष्णन्त्युष्णीकुर्वन्ति इति धिष्ण्याः प्राणाभिमानिनो देवाः । तान्प्राणाख्यान देवान् अच्छ अनुक्रमेण ऊचिषे समवेतान्करोषि । समवेता भवतेत्युक्तवान् असीत्यर्थः । सूर्यस्य सूर्यलोकस्य परस्तात् उपरि रोचने । रोचनो नामायं लोको यत्राग्नेयं ज्योतिः तपति । तस्मिन्भासमाने रोचनाख्ये लोके याः आपो विद्यन्ते अवस्तात् सूर्यलोकात् अधस्तात् अन्तरिक्षलोके याश्च आपः उपतिष्ठन्ते वर्तन्ते ता उभयीरपस्त्वं प्रेरयसि । उक्तार्थो वाजसनेयिभिः स्पष्टमभिहितः- ‘ आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छैत्यच्छा देवाँ उचिषे धिष्ण्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इति रोचनो ह नामैष लोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एताह ' (श. ब्रा. ७. १. २४ ) इति । ता उभयीरपस्त्वं प्रेरयसीति ॥ अर्णम् । ‘ ऋ गतौ ' इत्यस्मात् ‘ उदके नुट् च ' इत्यसुन्नुडागमश्च । अर्यते प्रार्थ्यते तत्पिपासुभिरित्यर्णः । सकारलोपश्छान्दसः । नित्त्वादाद्युदात्तः । जिगासि। ‘गा स्तुतौ च छन्दसि ' इत्ययं धातुश्चकाराद्गमने वर्तमानः जुहोत्यादिः। ‘ बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । निघातः । ऊचिषे । 'ब्रूञ् व्यक्तायां वाचि' इत्येतस्य लिट आर्धधातुकत्वात् ' ब्रुवो वचिः' (पा. सू. २. ४. ५३ ) इति वच्यादेशः । ‘असंयोगाल्लिट् कित् ' इति किद्वद्भावात् ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । अभ्यासस्य ‘ लिट्यभ्यासस्योभयेषाम् ' इति संप्रसारणम् । अर्धधातुक इट् । निघातः । धिष्ण्याः । ‘ उष प्लुष दाहे'। धिय उष्णन्तीति ‘ सानसिधर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ' इति निपातनात् यन्नुडागमधात्वादिलोपोपपदह्रस्वत्वादयः सर्वे सिद्धा भवन्ति । नित्त्वादाद्युदात्तः । अवस्तात् । अवरशब्दात् ‘ दिक्छब्देभ्यः सप्तमीपञ्चमी° ' इत्यादिना अस्तातिः । तस्मिन् “ विभाषावरस्य ' (पा.सू.५.३.४१) इत्यवादेशः । प्रत्ययस्वरः । उपतिष्ठन्ते । ष्ठा गतिनिवृत्तौ ' । उपपूर्वात्तिष्ठतेः ‘ अकर्मकाञ्च' (पा. सू. १. ३. २६ ) इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥
“You move, Agni, to the vapour in heaven; you congregate the divinities who are the vital airs (of the body); you animate the waters in the bright region above the sun, as well as those that are in the firmament beneath.”
O Agni, to the sea of heaven thou goest: thou hast called hither Gods beheld in spirit.
The waters, too, come hither, those up yonder in the Sun's realm of light, and those beneath it.
Agni, thou goest to the floods of heaven. Thou hast spoken to the gods who are liberal (?) 1. (Thou goest) to the waters which (dwell) on high in the ether of the sun, and to those which approach below.
O Agni, you go there to the undulating sea of heaven—there you have spoken to the gods, who are the holy ones—
to the waters, which, in the realm of light, are beyond the sun, and which draw nearby beneath.
Du gehst, o Agni, zu der Flut des Himmels, du rufst herbei die hülfsbereiten Götter, Die Wasser auch, die im Bereich der Sonne dort oben weilen, oder die hier unten.
Agni, du gehst zur Flut des Himmels, du hast die Götter geladen, die die Weisen sind, du gehst zu den Wassern, die im Lichtraum jenseits der Sonne und die sich unterhalb dieser einstellen.
О Агни, ты движешься к потоку неба,
Ты обращаешься к богам, которые возбуждают вдохновение,
(Ты движешься) к водам, которые находятся
В светлом пространстве по ту сторону солнца и которые внизу.
पु॒री॒ष्या॑सो अ॒ग्नय॑: प्राव॒णेभि॑: स॒जोष॑सः । जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥
पु॒री॒ष्या॑सः । अ॒ग्नयः॑ । प्र॒व॒णेभिः॑ । स॒ऽजोष॑सः । जु॒षन्ता॑म् । य॒ज्ञम् । अ॒द्रुहः॑ । अ॒न॒मी॒वाः । इषः॑ । म॒हीः ॥
पुरीष्यासः सिकतासंमिश्राः अग्नयः चित्या अग्नयः प्रवणेभिः मृत्खननसाधनभूतैरभ्र्यादिभिः सहिताः सजोषसः परस्परसंगताः सन्तः यज्ञम् अस्माभिः क्रियमाणमग्निचयनपूर्वकमिमं सोमयागं जुषन्तां सेवन्ताम् । किंच अद्रुहः अद्रोग्धारो यूयम् अनमीवाः रोगादिवर्जिताः महीः महत्यः इषः ऊर्जाः रोगादिरहितान्यन्नान्यस्मभ्यं प्रयच्छताम् ॥ पुरीष्यासः । ‘ पॄ पालनपूरणयोः । ‘ ईषन् ' इत्यनुवृत्तौ ‘शॄपॄभ्यां कित् ' ( उ. सू. ४. ४६७ ) इति ईषन्प्रत्ययः किञ्च । कित्त्वाद्गुणे प्रतिषिद्धे ‘ उदोष्ठ्यपूर्वस्य ' इत्युत्वम् । रपरः । पृणाति पूर्यते वेति पुरीषम् ।' पुरीषं पृणातेः पूरयतेर्वा ' (निरु. २.२२) इति यास्कः । तदर्हन्तीति पुरीष्याः । 'छन्दसि च ' इति यप्रत्ययः । ‘ यचि भम् ' इति भसंज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभिः । वन षण संभक्तौ ' इत्यस्मात् ' पुंसि संज्ञायां घः प्रायेण ' इति करणे घप्रत्ययः । प्रकर्षेण वन्यते संभज्यते संश्लिष्यते मृदेभिरिति प्रावणानि खनित्राणि । ‘प्रनिरन्तः० ' ( पा. सू. ८. ४. ५) इत्यादिना णत्वम् । वनं समासे' (पा. सू. ६. २. १७८) इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा ।' प्रुङ् गतौ'। प्रवन्ते गच्छन्ति मृत्खननं प्रति इति ‘चलनशब्दार्थादकर्मकाद्युच् ' (पा. सू. ३. २. १४८ ) इति युच् । चित्स्वरः । पूर्वस्मिन्पक्षेऽवग्रहाभावश्छान्दसः इति वक्तव्यम् । जुषन्ताम् । ‘जुषी प्रीतिसेवनयोः' इत्यस्य लोटि रूपम् । पादादित्वादनिघातः। महीः । महच्छब्दात् ‘उगितश्च ' इति ङीप् । तकारलोपः छान्दसः । प्रत्ययस्वरेणान्तोदात्तः ॥
“May the benignant fires termed puriṣyās, together with the instrumental uments (that have dug the pits in which they are plural ced) combined, accept the sacrifice (and grant us) salutary and abundant food.”
Let fires that dwell in mist, combined with those that have their home in floods,
Guileless accept our sacrifice, great viands free from all disease.
May the fires of the soil united with those on the hill-sides 1, without guile graciously accept our sacrifice and plentiful food free from all plague.
Let the fires from their overflowing source, along with the falling torrents—
(all of them) great refreshments free of deception and free of disease— take pleasure in the sacrifice.
Die Feuer, die im Dunste sind, nebst denen die im Strome sind, mögen wohlwollend das Opfer annehmen, die heilvollen, reichen Labetränke.
Die Agni´s der Quellen zusammen mit denen der Ströme sollen ohne Falsch an diesem Opfer gefallen finden und große Genüsse gewähren, die keine Krankheiten bringen.
Агни твердой земли
Вместе с (Агни рек,) направленных под уклон,
Пусть насладятся жертвой, (они,) не терпящие обмана,
Великие жертвенные услады, прогоняющие болезни!
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ । स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥
हे अग्ने पुरुदम्सम् । अपोऽप्नोदम्सो वेष इति कर्मनामसु पठितत्वाद्दंसः शब्दः कर्मवाची । पूरूणि बहूनि दम्साम्सि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमं निरन्तरं हवमानाय यजमानाय मह्यं साध । साधय । किञ्च नोऽस्माकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवतीति ते तव या सुमतिशोभना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु । भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध सम्सिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटि व्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनीप्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यन्त इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतु । भु सत्तायाम् । बहुलं छन्दसीति तपो लुक् । भुसुवोस्तिङीति गुणप्रतिषेधः ॥ ५ ॥
“Grant, Agni, to the offerer of the oblation earth the giver of cattle, the means of many sacred ries, such that it may long endure; may there be to us sons and grandsons, and may your favour, Agni, be productive of good to us.”
Agni, as holy food to thine invoker give wealth in cattle, lasting, rich in marvels.
To us be born a son and spreading offspring. Agni, be this thy gracious will to us-ward.
5 = III, 1, 23.
– Make the milk-libation, the very wondrous winning of the cow, succeed, o Agni, for him who invokes you most constantly.
There should be for us a son and a lineage that proliferates. Agni, let this your favor be for us.
Dem Beter schaff als Labung wunderreichen Besitz an Rindern fort und fort, o Agni, Ein eigner Sohn sei uns und Stammvermehrung, das sei uns, Agni, deine Gunsterweisung.
Erziel, o Agni, Segen, den vielwirkenden Lohn einer Kuh für den am häufigsten rufenden Sänger! Ein leiblicher Sohn, der das Geschlecht fortpflanzt, soll uns werden. Agni, diese Gnade von dir soll uns zuteil werden!
Приведи прямо к цели, о Агни, жертвенный напиток (и) многообещающую награду
В виде коровы для того, кто постоянно призывает (богов)!
Да будет нам сын, продолжающий род, плоть от плоти!
О Агни, да будет нам твое благоволение!