निर्म॑थित॒: सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता । जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥
निःऽम॑थितः । सुऽधि॑तः । आ । स॒धऽस्थे॑ । युवा॑ । क॒विः । अ॒ध्व॒रस्य॑ । प्र॒ऽने॒ता । जूर्य॑त्ऽसु । अ॒ग्निः । अ॒जरः॑ । वने॑षु । अत्र॑ । द॒धे॒ । अ॒मृत॑म् । जा॒तऽवे॑दाः ॥
भारतावृषी स्तोत्रं कुर्वाते । योऽग्निः निर्मथितः अग्निष्टोमादिकर्मस्वरण्योर्नितरां मथितः सन् सधस्थे यजमानगृहे सुधितः गार्हपत्यादिषु त्रिषु कुण्डेषु सुष्ठु निहितः निधाय च काष्ठप्रक्षेपेण प्रज्वाल्यमानः युवा प्रबुद्धः अत एव अध्वरस्य ज्योतिष्टोमादेः प्रणेता प्रकर्षेण नेता निर्वाहकः नेतृत्वादेव कविः क्रान्तदर्शी । तथाविधः जातवेदाः सर्वविषयाभिज्ञानवान् सः अग्निः वनेषु महारण्येषु जूर्यत्सु दावाग्निसंबन्धात् जूर्यमाणेषु जरां नाशं प्राप्नुवत्स्वपि स्वयम् अजरः जरारहितः प्रत्युत दीप्यमानः सन् अत्र एवं स्तुतिं कुर्वाणेषु यजमानेषु अमृतं क्षयरहितं प्रभूतमन्नम् आ दधे निदधाति ॥ सुधितः । दधातेः कर्मणि निष्ठायां सुधितवसुधितनेमधित°' इत्यादिना निपातनात् धि इत्यादेशः । “ गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । जूर्यत्सु । ‘जूरी घूरी हिंसावयोहान्योः । व्यत्ययेन शतृप्रत्ययः । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तः । अजरः । ‘जॄ वयोहानौ ' इत्यस्मात् भावे • ऋदोरप्' इत्यप्प्रत्ययः । गुणः । ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । दधे। दधातेः वर्तमाने लिटि रूपम् । जातवेदाः । जनी प्रादुर्भावे ' इत्यस्य क्ते ‘ जनसनखनां सन्झलोः' इत्याकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥
“Churned (by the friction of the sticks), duly plural ced in the sacrificial chamber, the young and sage leader of the rite, Jātavedas, the imperishable Agni, (blazing) amidst consuming forests, grants us on this occasion ambrosial (food).”
RUBBED into life, well stablished in the dwelling, Leader of sacrifice, the Sage, the youthful,
Here in the wasting fuel Jatavedas, eternal, hath assumed immortal being.
Produced by attrition, well preserved in his abode, the young sage, the leader of worship, Agni ever young in the forests 1 that grow old—Gâtavedas, has here assumed immortality 2.
Churned out and well placed in his dwelling, the young poet, the leader of the rite,
the unaging Agni amid the aging wood—Jātavedas has received
immortality here.
Erzeugt durch Reiben, schön gestellt zum Platz hin, der junge Seher, er des Opfers Führer, Nicht alternd Agni in den alten Hölzern, nimmt dort unsterblich Sein der Wesenkenner.
Herausgerieben ist der jugendliche Seher an seinem Platze gut aufgehoben, des Opfers Leiter. Unter den gealterten Hölzern nicht alternd hat hier Agni Jatavedas die Götterspeise empfangen.
Добытый трением, хорошо устроенный в (своем) жилище,
Юный поэт, вождь обряда,
Агни нестареющий среди стареющих деревьев –
Вот получил он бессмертие, Джатаведас.
अम॑न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् । अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥
अम॑न्थिष्टाम् । भार॑ता । रे॒वत् । अ॒ग्निम् । दे॒वऽश्र॑वाः । दे॒वऽवा॑तः । सु॒ऽदक्ष॑म् । अग्ने॑ । वि । प॒श्य॒ । बृ॒ह॒ता । अ॒भि । रा॒या । इ॒षाम् । नः॒ । ने॒ता । भ॒व॒ता॒त् । अनु॑ । द्यून् ॥
हे अग्ने भारता भारतौ भरतस्य पुत्रौ देवश्रवाः देववातः चेत्युभौ सुदक्षं शोभनसामर्थ्योपेतं रेवत् रयिमन्तम् अग्निम् अङ्गनादिगुणोपेतं त्वाम् अमन्थिष्टाम् अग्निष्टोमादिकर्मप्राप्त्यर्थमलूलुडताम् । मथनेन त्वामुत्पादितवन्तावित्यर्थः । तादृशस्त्वं बृहता प्रभूतेन राया धनेन सहितः सन् अभि अभिमुखो भूत्वा वि पश्य अस्मान्विशेषेणानुग्रहदृष्ट्या वीक्षस्व । किंच अनु द्यून् । द्युशब्दः अहर्वाची ‘ वस्तोः द्युः ' ( नि. १.९.२ ) इति तन्नामसु पाठात् । द्यूननु सर्वेषु दिवसेषु नः अस्माकम् इषाम् अन्नानां नेता आनेता भवतात् भव ॥ अमन्थिष्टाम् । “ मन्थ विलोडने ' इत्यस्माल्लुङि सिच् ।' वदव्रजहलन्तस्याचः ' ( पा. सू. ७. २. ३ ) इति वृद्धौ प्राप्तायां: नेटि ' इति प्रतिषेधः । तस्थस्थमिपाम् ' इत्यादिना तसस्तामादेशः । पादादित्वादनिघातः । अट्स्वरः । भारता । भरतस्यापत्यमित्यर्थे उत्सादित्वादञ् । तद्धितेष्वचामादेः ' इत्यादिवृद्धिः । ञित्स्वरः । रेवत् । रयिशब्दान्मतुप् । वत्वोदात्तत्वसंप्रसारणपरपूर्वत्वगुणसुब्लोपाः । देवश्रवाः । श्रु श्रवणे'। असुन्' इति कर्मण्यसुन् । देवैः श्रूयते प्रख्याप्यतेऽसाविति देवश्रवा ऋषिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इस्यौणादिकसूत्रात्पूर्वपदस्वरः । देववातः । ‘ वा गतिगन्धनयोः । अस्मात्कर्मणि क्तः । देवैरिष्यमाणतया प्राप्तो देववातः ऋषिः । ‘ तृतीया कर्मणि ' इति पूर्वपदस्वरः । द्यून् । ‘द्यु अभिगमने' ‘द्युत दीप्तौ ' वा । ‘ ङिच्च ' इत्यनुवृत्तौ ‘ द्युयुभ्यां च ' इति भोजसूत्रेण डुप्रत्ययो ङिच्च । द्युतेः ‘अश्र्वादयश्च' (उ. सू. ५.७०७) इति डुन्प्रत्ययः । अभिगच्छन्त्यस्मिन् स्वं स्वमभिमतं देशं प्राणिनः इति; द्योतते किरणसंबन्धादिति वा द्युर्दिवसः । ‘ प्रथमयोः' इति सवर्णदीर्घः । तस्माच्छसो नः पुंसि ' ( पा. सू. ६. १. १०३ ) इति सकारस्य नकारः । एकादेशस्वरः ॥
“The two sons of Bharata, Devaśravas and Devavāta, have churned the very powerful and wealth-bestowing Agni; look upon us, Agni, with vast riches, and be the bringer of food (to us) every day.”
Both Bharatas, Devasravas, Devavata, have strongly rubbed to life effectual Agni.
O Agni, look thou forth with ample riches: be, every day, bearer of food to feed us.
The two Bharatas 1, Devasravas and Devavâta, in the midst of wealth have produced by attrition Agni the skilful (god). Agni, look forth with mighty wealth, and then be 2 for us a guide of food day by day.
The two Bhāratas, Devaśravas and Devavāta, have richly churned the very skillful Agni.
Agni, look upon (every one) separately with lofty wealth. Then become the leader of our refreshments day after day.
Den starken Agni zeugten Devavāta, Devaçravas, die Bhārater, durch Reiben, O zeige, Agni, dich mit reichem Gute, der Tränke Führer sollst du sein uns täglich.
Den Agni haben reichlich ausgerieben die beiden Bharatiden Devasravas und Devavata, den wohlverständigen. Agni! Blick her mit deinem großen Reichtum, sei uns Bringer von Labsalen Tag für Tag!
Два Бхараты: Девашравас (и) Девавата – добыли трением
Агни, наделенного прекрасной силой действия, чтобы он принес богатство.
О Агни, разгляди (нас) с (твоим) высоким богатством!
Многие дни будь нам вождем жертвенных подкреплений!
दश॒ क्षिप॑: पू॒र्व्यं सी॑मजीजन॒न्त्सुजा॑तं मा॒तृषु॑ प्रि॒यम् । अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥
दश॑ । क्षिपः॑ । पू॒र्व्यम् । सी॒म् । अ॒जी॒ज॒न॒न् । सुऽजा॑तम् । मा॒तृषु॑ । प्रि॒यम् । अ॒ग्निम् । स्तु॒हि॒ । दै॒व॒ऽवा॒तम् । दे॒व॒ऽश्र॒वः॒ । यः । जना॑नाम् । अस॑त् । व॒शी ॥
हे अग्ने देववातस्य क्षिपः । क्षिप्यन्ते कर्मकरणार्थमिति क्षिपोऽङ्गुलयः ताश्च दश । बाहुद्वयस्य मथनसाधनत्वेन तत्रत्या अङ्गुलयो दशसंख्याकाः । तादृश्योऽङ्गुलयः पूर्व्यं पुरातनं सीम् एनं त्वाम् अजीजनन् उदपीपदन् । हे देवश्रवः मातृषु मातृभूतारण्योः सुजातं सुष्टुत्पन्नम् अत एव प्रियं कमनीयं दैववातं देववातेन मथितमेनम् अग्निं स्तुहि । यः अग्निः जनानां स्तोतॄणां यजमानानां वशी वशवर्ती कर्मणां स्वातन्त्र्येण प्रवर्तकः असत् भवति तं स्तुहीति पूर्वेणान्वयः ॥ दश । ‘दंश दशने' । कनिन् ' इत्यनुवृत्तौ ‘नुदशोर्गुणश्च' इति कनिन् । नित्स्वरः । क्षिपः । ‘क्षिप प्रेरणे' । औणादिकः कर्मणि क्विप् । क्षिप्यन्ते प्रेर्यन्ते कर्मस्विति क्षिपोऽङ्गुलयः । धातुस्वरः । अजीजनन् । जनी प्रादुर्भावे ' । हेतुमण्ण्यन्तस्य लुङि चङ्द्विर्वचनसन्वद्भावाभ्यासेत्वदीर्धाः । निघातः । स्तुहि । ' ष्टुञ् स्तुतौ ' इत्यस्य लोटि रूपम् । अदादित्वात शपो लुक् । निघातः । दैववातम् । देववातेन निर्वृत्तमित्यर्थे ' तेन निवृत्तम्' (पा. सू. ४. २.६८) इत्यण् । प्रत्ययस्वरः । असत् । अस भुवि ' । अस्य लेट्यडागमः । यद्वृत्तयोगादनिघातः ॥
“The ten fingers have genitive rated this ancient (Agni); praise, Devaśravas, this well-born, beloved (son) of his parents, genitive rated by Devavāta, Agni, who is the servant of men.”
Him nobly born of old the fingers ten produced, him whom his Mothers counted dear.
Praise Devavata's Agni, thou Devasravas, him who shall be the people's Lord.
1 The ten fingers have brought him to the birth, the ancient, beloved (Agni), well born in his mothers 2. Praise, O Devasravas, the Agni of Devavâta who 3 should be the lord of people.
Ten fingers have given birth to him, the ancient one, the dear one born well among his mothers.
Praise the Agni of Devavāta, o Devaśravas, (the fire) who will exert his will over the peoples.
Zehn Finger zeugten ihn den uralten, den lieben in dem Müttern schöngebornen; preise, o Devaçravas, den von Devavāta verehrten Agni, der über die Menschen Herr sei.
Die zehn Finger haben als allerersten erzeugt den von den Müttern schöngeborenen Liebling. Preise den Agni des Devavata, o Devasravas, der der Menschen Gebieter sein soll!
Десять пальцев породили его, древнего,
Прекраснорожденного в матерях, приятного.
Прославляй Агни, принадлежащего Девавате, о Девашравас,
(Того,) кто должен стать повелителем людей!
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् । दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥
नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒ऽदि॒न॒ऽत्वे । अह्ना॑म् । दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥
हे अग्ने इळायाः गोरूपधारिण्याः पृथिव्याः भूमेः वरे वरिष्ठे पदे उत्तरवेद्याम् अह्नां सुदिनत्वे यजनीयदिवसानां शोभनदिनत्वार्थम् । येषु दिनेषु इन्द्रादयो वरीयांसो देवा इज्यन्ते तानि सुदिनानि । तदर्थं त्वा त्वाम् आ नि दधे आ समन्तान्निदधामि । उत्तमानि स्थानानि दर्शयति । दृषद्वत्याम् । दृपद्धती नाम काचिन्नदी तस्याम् । मानुषे मनुष्यसंचरणविषये तीरे । आपयायाम् । आपया नाम काचिन्नदी तस्याम् । सरस्वत्यां नद्याम् । एतेषु उत्तमेषु स्थानेषु त्वं रेवत् धनयुक्तं यथा भवति तथा दिदीहि दीप्यस्व । महर्षयः सरस्वतीतीरे खलु यज्ञादिकर्माण्यकार्षुः । तथा च ब्राह्मणम् - ‘ ऋषयो वै सरस्वत्यां सत्रमासत ' (ऐ. ब्रा, २. १९) इति ॥ दधे । दधातेः लिट्युत्तमैकवचने रूपम् । वरे। ' वृञ् वरणे । ग्रहवृदृनिश्चिगमश्च' इत्यप्। पित्त्वादनुदात्तत्वे धातुस्वरः । दृषद्वत्याम् । ‘दृ विदारणे'। 'दृणातेः पुग्घ्रस्वश्च ' ( उ. सू.१.१२८) इत्यादिना षुगागमो धातोर्ह्रस्वश्च । दृषदः उपलाः यस्यां सन्तीति मतुप् । ‘झयः' इति तस्य वत्वम् ।' स्वरविधौ व्यञ्जनमविद्यमानवत् ' इत्यस्याः परिभाषाया अत्राश्रयणाभावात् मतुप उदात्तताभावः । अदिप्रत्ययस्वरः । सरस्वत्याम् । सरःशब्दोऽसुनन्तत्वादाद्युदात्तः । तदस्यास्तीति मतुप् । अदुपधत्वान्मस्य वत्वम् । उगित्त्वात् ङीप् । दिदीहि । दिवु क्रीडादौ इत्यस्य यङ्लुकि रूपम् ॥
“I plural ce you in an excellent spot of earth on an auspicious day of days; do you, Agni, shine on the frequent (banks) of the Dṛṣadvati, Āpayā and Sarasvatī rivers.”
He set thee in the earth's most lovely station, in Ila's place, in days of fair bright weather.
On man, on Apaya, Agni! on the rivers Drsadvati, Sarasvati, shine richly.
I have laid 1 thee 2 down in the best (place) of the earth 3, in the place of Ilâ 3, in the auspiciousness of days. O Agni, as the god who has belonged to Manus 4, shine with wealth on the Drishadvatî, on the Âpayâ, on the Sarasvatî.
He has installed you, Agni, here on earth’s most desirable place, in the track of the milk-libation, on the brightest day of days.
As (the Agni) of Manu, shine richly upon the Dr̥ṣadvatī, on the Āpayā, and on the Sarasvatī.
Dich setzte ein der Mensch im Kreis der Erde, im Sitz der Andacht, in der Tage Glückszeit; Erstrahle schön, o Agni, an den Flüssen: Drischadvati, Sarasvati, Apaja.
Ich setze dich ein an den besten Platz der Erde, in die Stätte der Ila an dem Glückstag der Tage. An der Drisadvati, an der Apaya unter dem Menschengeschlecht, an der Sarasvati leuchte prangend, o Agni!
Я устроил тебя в средоточии земли,
На месте Иды, в счастливейший из дней.
На Дришадвати, у (озера) Мануша, на Апае,
На Сарасвати воссияй богатство, о Агни!
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ । स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥
हे अग्ने पुरुदम्सम् । अपोऽप्नोदम्सो वेष इति कर्मनामसु पठितत्वाद्दंसः शब्दः कर्मवाची । पूरूणि बहूनि दम्साम्सि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमं निरन्तरं हवमानाय यजमानाय मह्यं साध । साधय । किञ्च नोऽस्माकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवतीति ते तव या सुमतिशोभना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु । भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध सम्सिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटि व्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनीप्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यन्त इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतु । भु सत्तायाम् । बहुलं छन्दसीति तपो लुक् । भुसुवोस्तिङीति गुणप्रतिषेधः ॥ ५ ॥
“Grant, Agni, to the offerer of the oblation earth the giver of cattle, the means of many sacred rites, such that it may long endure; may there be to us sons and grandsons, and may your favour, Agni, be productive of good to us.”
Agni, as holy food to thine invoker give wealth in cattle, lasting, rich in marvels.
To us be born a son and spreading offspring Agni, be this thy gracious will to us-ward
5 = III, 1, 23
– Make the milk-libation, the very wondrous winning of the cow, succeed, o Agni, for him who invokes you most constantly.
There should be for us a son and a lineage that proliferates. Agni, let this your favor be for us.
Dem Beter schaff als Labung wunderreichen Besitz an Rindern fort und fort, o Agni, Ein eigner Sohn sei uns und Stammvermehrung, das sei uns, Agni, deine Gunsterweisung.
Erziel, o Agni, Segen, den vielwirkenden Lohn einer Kuh für den am häufigsten rufenden Sänger! Ein leiblicher Sohn, der das Geschlecht fortpflanzt, soll uns werden. Agni, diese Gnade von dir soll uns zuteil werden!
Приведи прямо к цели, о Агни, жертвенный напиток (и) многообещающую награду
В виде коровы для того, кто постоянно призывает (богов)!
Да будет нам сын, продолжающий род, плоть от плоти!
О Агни, да будет нам твое благоволение!