अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥
अग्ने॑ । सह॑स्व । पृत॑नाः । अ॒भिऽमा॑तीः । अप॑ । अ॒स्य॒ । दु॒स्तरः॑ । तर॑न् । अरा॑तीः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥
विश्वामित्रः स्तौति । हे अग्ने पृतनाः अभियोक्त्रीः सेनाः सहस्व अभिभव । अभिमातीः अभिमानिनः कर्मविघ्नकारिणः शत्रून् अपास्य अपनुद । किंच दुष्टरः दुस्तरः न केनापि तरितुं शक्यः अत एव अरातीः अरातीन् शत्रून् तरन् स्वतेजसा तिरस्कुर्वंस्त्वं यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चो धाः अन्नं धेहि । कुरु ॥ सहस्व । ‘षह मर्षणे ' इत्यस्य लोटि रूपम् । आमन्त्रितस्य अविद्यमानत्वेन पादादित्वादनिघातः । अभिमातीः । ‘ माङ् माने ' । मानं मातिः । भावे क्तिन् । अस्य लुग्विकरणत्वात् ईत्वेत्वे न भवतः। अभितो मानं येषां ते इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अस्य । असु क्षेपणे ' । दिवादे: लोटि रूपम् । दुष्टरः । ‘ तॄ प्लवनतरणयोः । अस्मात् कृच्छ्रार्थे खल् । सुषामादित्वात् विसर्जनीयस्य सकारस्य षत्वम् । लित्स्वरः । तरन् । तरतेः शतरि रूपम् । अदुपदेशाल्लसार्वधातुकस्वरेण शतुरनुदात्तत्वे कृते धातुस्वरः । धाः । दधातेश्छन्दसि लुङि रूपम् । निघातः ॥
“Repel, Agni, (hostile) hosts; drive away (all) assailants; insuperable, foe-surpassing, give food to the instrumental tutor of this sacrifice.”
AGNI, subdue opposing bands, and drive our enemies away.
Invincible, slay godless foes: give splendour to the worshipper.
Agni, be victorious in battles; thrust away the plotters. Difficult to overcome, overcoming malign powers, bestow splendour on (the worshipper) who fits out the sacrifice as a vehicle 1.
O Agni, overwhelm in battles and cast away evil intents!
Hard to overcome but overcoming hostilities, establish luster for the one whose vehicle is the sacrifice.
Bezwing' die Heere Agni du, und alle Gegner schleudre fort; Besieg' die Bösen unbesiegt, gieb Glanz dem Opferbringenden.
Agni, überwältige die feindlichen Heere, treibe die Nachsteller fort! Unüberwindlich, die Unholde überwindend mögest du dem, der mit dem Opfer fährt, Ansehen verleihen.
О Агни, выигрывай битвы, гони прочь враждебные мысли!
Непобедимый, побеждающий недругов.
Дай блеск везущему жертву!
अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो॑त्रो॒ अम॑र्त्यः । जु॒षस्व॒ सू नो॑ अध्व॒रम् ॥
अग्ने॑ । इ॒ळा । सम् । इ॒ध्य॒से॒ । वी॒तिऽहो॑त्रः । अम॑र्त्यः । जु॒षस्व॑ । सु । नः॒ । अ॒ध्व॒रम् ॥
हे अग्ने वीतिहोत्रः । वीतिः प्रीतिविषयं होत्रम् अग्निहोत्रादिकं यस्यासौ वीतिहोत्रः । यज्ञेषु प्रीतिमानित्यर्थः । अमर्त्यः मरणधर्मरहितस्त्वम् इळा इळायामीड्यायाम् उत्तरवेद्यां समिध्यसे आज्याहुतिप्रक्षेपेण सम्यक् प्रज्वाल्यसे । तादृशस्त्वं नः अस्माकम् अध्वरम् इमं यज्ञं सु सुष्ठु जुषस्व आहुतिस्वीकरणेन सेवस्व ॥ वीतिहोत्रः । वी कान्त्यादिषु । अस्मात्कर्मणि ‘मन्त्रे वृषेषपच° ' इत्यादिना क्तिन्नुदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । जुषस्व । जुषतेर्लोटि रूपम् । शस्वरः । सु ।' निपातस्य च ' इति संहितायां दीर्घः ॥
“Agni (who is) immortal and who is gratified by oblations, you are kindled upon the altar; be plural ased by this our sacrifice.”
Lit with libation, Agni, thou, deathless, who callest Gods to feast,
Accept our sacrifice with joy.
Agni, thou art kindled with nourishment 1, the immortal offerer of a feast (to the gods). Accept graciously our worship.
O Agni, you are kindled by the ghee-libation—you, the immortal one, pursuing the gods as Hotar.
Take pleasure in our rite!
Durch Trank wirst, Agni, du entflammt, verzehrst den Guss, Unsterblicher, Nimm gnädig unser Opfer an.
Agni! Du wirst mit der Idaspende entflammt, du der opfereifrige Unsterbliche. Freu dich fein an unserem Opferwerk!
О Агни, ты зажигаешься жертвенным возлиянием,
Приглашающий на возлияние, бессмертный.
Наслаждайся всласть нашим обрядом!
अग्ने॑ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत । एदं ब॒र्हिः स॑दो॒ मम॑ ॥
अग्ने॑ । द्यु॒म्नेन॑ । जा॒गृ॒वे॒ । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ । आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥
द्युम्नेन स्वतेजसा सह जागृवे । जागर्तीति जागृविः । तस्य संबुद्धिः । लोकरक्षार्थं स्वतेजसा सह सर्वदा जागरणोपेत आहुत देवताह्वानार्थम् अस्माभिः आहुत सहसः सूनो बलस्य पुत्र हे अग्ने मम मत्संबन्धिन्यस्मिन् यज्ञे यद्वेद्यामास्तीर्णम् इदं बर्हिः तत्र आ सदः आसीद ॥जागृवे। ‘ जागृ निद्राक्षये '। जॄशॄस्तॄजागृभ्यः क्विन्' इति क्विन् । कित्त्वादगुणः । जागर्तीति जागृविः । 'जागृविर्जागरणात् ' ( निरु. ९. ८ ) इति यास्कः । ‘ संबुद्धौ च ' इति गुणः । एङ्ह्रस्वात्° । (पा. सू. ६. १. ६९ ) इति सोर्लोपः । निघातः । सहसः सूनो । सुप आमन्त्रिते पराङ्गवद्भावादनुदात्तत्वे पादादित्वादनिघातः । सदः । षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य छान्दसे लुङि लृदित्त्वादङ् । निघातः । मम । अस्मच्छब्दस्य षष्ठ्येकवचने ममादेशः । युष्मदस्मदोर्ङसि' इत्याद्युदात्तत्वम् ॥
“Agni, son of strength, vigilant (in the exercise of) your energy, take your seat when invoked on the sacred grass (strewn at) my (sacrifice).”
With splendour, Agni, Son of Strength, thou who art worshipped, wakeful One.
Seat thee on this my sacred grass.
Agni, wakeful one, son of strength, into whom offerings are poured, sit down with thy splendour on this sacrificial grass of mine.
O Agni, who are awake with brilliance! O son of strength, to whom offering is made!
Sit here on this ritual grass of mine!
Mit Glanz, o wacher Agni du, o Sohn der Kraft, beopferter, Setz' dich auf diese meine Streu.
Agni, du Sohn der Kraft, mit deinem Glanze wachsam, mit Schmalz begossen, setze dich nieder auf mein Barhis hier!
О Агни бодрствующий со (своим) блеском,
О сын силы, политый (маслом),
Сядь сюда ко мне на жертвенную солому!
अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिर॑: । य॒ज्ञेषु॒ य उ॑ चा॒यव॑: ॥
अग्ने॑ । विश्वे॑भिः । अ॒ग्निऽभिः॑ । दे॒वेभिः॑ । म॒ह॒य॒ । गिरः॑ । य॒ज्ञेषु॑ । ये । ऊँ॒ इति॑ । चा॒यवः॑ ॥
हे अग्ने देवेभिः द्योतमानैः विश्वेभिः सर्वैः अग्निभिः यष्टव्यतया स्थितैरग्निभिः सहितस्त्वं चायवः त्वद्विषयस्तुतिरूपाभि: वाग्भिरनन्यमनस्कतया पूजकाः ये विद्यन्ते तेषां यज्ञेषु ज्योतिष्टोमादिषु गिरः स्तोत्रशस्त्रादिलक्षणानि वाक्यानि महय पूजय ॥ महय । ‘ मह पूजायाम् । चुरादिः । अदन्तत्वादुपधावृद्ध्यभावः । निघातः । चायवः । ‘ चायृ पूजानिशामनयोः । • मृगय्वादयश्च ' इति कुप्रत्ययः । प्रत्ययस्वरः ॥
“Agni, with all the divine fires, respect the praises of those who in (their) sacrifices are (your especial) worshippers.”
With all thy fires, with all the Gods, Agni, exalt the songs we sing.
And living men in holy rites.
Agni, together with all Agnis, with the gods exalt our prayers and those who are respectful at the sacrifices.
O Agni, exalt our songs together with all the fires, with (all) the gods, and those who are the respected (priests) in the sacrifices.
Mit aller Feuergötter Schar erfreu die Sänger, Agni du, Und die bei Opfern thätig sind.
Agni! Halte unsere Lobreden in Ehren mit allen Agni´s, mit den Göttern, und die sich sonst bei dem Opfer geehrt fühlen.
О Агни, вместе со всеми Агни,
С богами, осчастливь (мои) песни
И с (теми,) кто вызывает уважение на жертвоприношениях!
अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् । शि॒शी॒हि न॑: सूनु॒मत॑: ॥
अग्ने॑ । दाः । दा॒शुषे॑ । र॒यिम् । वी॒रऽव॑न्तम् । परी॑णसम् । शि॒शी॒हि । नः॒ । सू॒नु॒ऽमतः॑ ॥
हे अग्ने दाशुषे तुभ्यं हविर्दत्तवते यजमानाय वीरवन्तं पुत्रयुक्तं परीणसं प्रभूतं रयिं धनं दाः देहि । सूनुमतः पुत्रपौत्रादिसहितान् नः अस्मान् शिशीहि धनप्रदानेन तीक्ष्णीकुरु ॥ दाः । ‘ डुदाञ् दाने ' इत्यस्य छान्दसे लुङि रूपम् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वात् अनिघातः । दाशुषे ।' दाशृ दाने' इत्यस्य क्वसौ ‘दाश्वान्साह्वान्मीढ्वांश्च' इति निपातनात् द्विर्वचनाभावः इडभावश्च । भसंज्ञायां संप्रसारणम् । प्रत्ययस्वरः । परीणसम् । परिपूर्वात् नसतेर्व्याप्त्यर्थात् क्विप् । अन्येषामपि दृश्यते ' इति दीर्घः । शिशीहि । ‘ शिञ् निशाने '। व्यत्ययेन श्लुः । दीर्घः छान्दसः । हेरपित्त्वादन्तोदात्तत्वम् ॥ ॥ २४ ॥
“Grant, Agni, ample wealth and progeny to the donor (of the oblation); make us prosperous, possessed of offspring.”
Grant, Agni, to the worshipper wealth rich in heroes, plenteous store,
Make thou us rich with many sons.
Agni, give wealth to the worshipper, abundance in valiant men; further us 1 that we may be rich in sons.
O Agni, to the pious man give wealth full of heroes, a profusion (of heroes)! Sharpen us to be endowed with sons!
Gib, Agni, dem Verehrer Gut, und männerreiche Fülle ihm, Und mache uns an Söhnen reich.
Agni! Gib dem Spender Reichtum an Männern, vollzähligen! Eifere uns an, daß wir reich an Söhnen werden.
О Агни, дай почитающему тебя богатство,
Состоящее из героев, полноту (благ)!
Заостри нас на то, чтоб были сыновья!