वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् । सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥
वै॒श्वा॒न॒रम् । मन॑सा । अ॒ग्निम् । नि॒ऽचाय्य॑ । ह॒विष्म॑न्तः । अ॒नु॒ऽस॒त्यम् । स्वः॒ऽविद॑म् । सु॒ऽदानु॑म् । दे॒वम् । र॒थि॒रम् । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । कु॒शि॒कासः॑ । ह॒वा॒म॒हे॒ ॥
विश्वामित्रः स्तौति । हे अग्ने हविष्मन्तः संभृतहविष्काः वसूयवः धनमात्मन इच्छन्तः कुशिकासः कुशिकगोत्रोत्पन्ना वयं वैश्वानरम् । विश्वे नरा अग्निप्रणयनादिक्रियाया नेतारो यस्येति विश्वानरः अग्निः । तस्य संबन्धी वैश्वानरः । अपत्यमिति यावत् । यद्वा विश्वानर एव वैश्वानरः । तद्धितोऽनन्यार्थो राक्षसवायसादिवत् । तम् अनुषत्यं सत्येनानुगतं कर्मानुरूपफलप्रदाने सत्यप्रतिज्ञं स्वर्विदं स्वर्गादिलक्षणफलस्य ज्ञातारम् अत एव सुदानुं सुष्ठु फलस्य दातारं रथिरं रथवन्तम् अत एव रण्वं यज्ञान् गच्छन्तं देवं द्योतमानं तमिमम् अग्निं मनसा निचाय्य अन्तःकरणेन एवंविधगुणविशिष्टस्त्वमिति ज्ञात्वा गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः हवामहे इह कर्मणि त्वामाह्वयामः ॥ वैश्वानरम् ।' नरे संज्ञायाम् ' इति पूर्वपदस्य दीर्घत्वम् । विश्वानरस्येदमित्यर्थे ' तस्येदम् इत्यण् । प्रत्ययस्वरः । निचाय्य । ‘ चायृ पूजानिशामनयोः' इत्यस्य ल्यपि रूपम् । लित्स्वरः ॥ अनुषत्यम् । अनुगतं सत्येन । ' अवादयः क्रुष्टाद्यर्थे तृतीयया' इति समासः । सुषामादित्वात् षत्वम् । निरुदकादित्वादन्तोदात्तत्वम् । सुदानुम् । डुदाञ् दाने '। ' दाभाभ्यां नुः' इति कर्तरि नुप्रत्ययः । ‘ परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । रथिरम् । रथशब्दान्मतुबर्थे ‘ मेधारथाभ्यामिरन्निरचौ वक्तव्यौ ' इति इरच् । चित्स्वरः । वसूयवः । वसु आत्मन इच्छन्त इति • सुप आत्मनः क्यच् '। ‘ अकृत्सार्वधातुकयोः ' इति दीर्घः ।' क्याच्छन्दसि ' इत्युप्रत्ययः । अतो लोपः । प्रत्ययस्वरः । रण्वम् । रविर्गत्यर्थः । रण्वति यज्ञान् गच्छतीति रण्वः । पचाद्यजन्तः । चित्स्वरः । कुशिकासः । कुशिकशब्दात् ' गोत्रम्' इत्यर्थे विदादित्वादञ् । तस्य बहुषु ‘ यञञोश्च' ( पा. सू. २. ४. ६४ ) इति लुक् । हवामहे । ह्वयतेः ‘ बहुलं छन्दसि ' इति संप्रसारणम् । निघातः ॥
“We of the race of Kuśika offering oblations, desirous of wealth, having contemplated him in our minds, invoke with praises the divine Vaiśvānara, the observer of truth, the cognizant of heaven, the bountiful, the charioteer, the frequenter (of sacrifices).”
REVERING in our heart Agni Vaisvanara, the finder of the light, whose promises are true,
The liberal, gladsome, car-borne God we Kusikas invoke him with oblation, seeking wealth with songs.
With our offerings revering in our mind Agni Vaisvânara, the follower of truth, the finder of the sun—we, the Kusikas 1, desirous of goods, call with our prayers the god who gives rain, the charioteer, the, cheerful.
Having discerned with our mind Vaiśvānara, who conforms to what is real and finds the sun, we Kuśikas, bringing offerings
and desiring goods, invoke with our songs the god of good gifts, the delighting charioteer.
Dem Männerhorte, Agni, herzlich huldigend mit Trank dem treuen, himmelkund'gen, holden Gott, Der reichlich schenkt und Wagen lenkt, den rufen wir, die Kuçiker mit Liedern Gut begehrend an.
Den Agni Vaisvanara im Geiste erschauend rufen dir Opfer spendend, den worthaltenden Sonnenfinder, den gabenschönen Gott, den Wagenfahrer, den erfreulichen, wir Kusika´s Gutes begehrend mit Lobreden herbei.
Созерцая мыслью Вайшванару Агни,
Мы с жертвенными возлияниями (его,) следующего истине, нашедшего солнце,
Щедрого бога, колесничего, веселого,
(Мы,) люди племени Кушики, призываем песнями.
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् । बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ॥
तम् । शु॒भ्रम् । अ॒ग्निम् । अव॑से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑नम् । उ॒क्थ्य॑म् । बृह॒स्पति॑म् । मनु॑षः । दे॒वऽता॑तये । विप्र॑म् । श्रोता॑रम् । अति॑थिम् । र॒घु॒ऽस्यद॑म् ॥
योऽग्निः पूर्वमन्त्रे प्रतिपादितः तं शुभ्रं द्योतमानं वैश्वानरं विश्वानरसंबन्धिनं मातरिश्वानम् । मातरि अन्तरिक्षे श्वसिति विद्युदादिरूपतया चेष्टते इति मातरिश्वा अग्निः । तम् उक्थ्यम् उक्थैः शस्त्रैः शंसनीयं बृहस्पति बृहतो यज्ञस्य पतिं पालकतया स्वामिनं विप्रं मेधाविनं श्रोतारं स्तोत्रशस्त्रादिमन्त्रवाक्यं शृण्वन्तम् अतिथिम् आतिथेयपूजार्हतया यदृच्छया प्राप्तं रघुष्यदम् । रघुर्लघुः स्यदो वेगो यस्येति क्षिप्रगन्तारम् । यद्वा स्यदशब्देन अध्वा लक्ष्यते । रघुस्यदः क्षिप्रगन्ता इत्यर्थः । तम् एवंविधगुणयुक्तम् अग्निम् अवसे अस्माकं रक्षणाय हवामहे कुशिकगोत्रजा वयम् आह्वयामः । किंच मनुषः मनुष्यस्य देवतातये यज्ञार्थं त्वामाह्वयामः ॥ शुभ्रम् । ‘शुभ दीप्तौ' । अस्मात् ‘ स्फायितञ्चि ' इत्यादिना कर्तरि रक् । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । मातरिश्वानम् । निर्माणहेतुत्वात् माता अन्तरिक्षम् । तत्र श्वसिति प्राणितीति मातरिश्वा अग्निः । ‘ श्वनुक्षन्' इत्यादिना मातरिश्वञ्छब्दस्य कन्प्रत्ययान्तत्वेन निपातनात्पूर्वपदान्तोदात्तत्वम् । उक्थ्यम् । उक्थेन स्तोत्रेण स्तुत्यः । तत्र भवः इत्यर्थे ' भवे छन्दसि ' इति यत् । “ तित्स्वरितम्' इति स्वरितः । देवतातये । देव एव देवतातिः । स्वार्थिकस्तातिल् । देवतातिशब्देन यज्ञो लक्ष्यते तत्संप्रदानकत्वाद्यज्ञस्य । लित्स्वरः । रघुस्यदम् । ' स्यन्दू प्रस्रवणे' इत्यस्मात् घञन्तः स्यदशब्दः । ‘स्यदो जवे' इति निपातनादनुनासिकलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“We invoke you for our own protection and for the devotions of mankind, the radiant Agni, Vaiśvānara, the illuminator of the firmament, the adorable lord of sacred rites, the wise, the hearer (of supplications), the guest (of man), the quick-moving.”
That Agni, bright, Vaisvanara, we invoke for help, and Matarisvan worthy of the song of praise;
Brhaspati for man's observance of the Gods, the Singer prompt to hear, the swiftly-moving guest.
We call that beautiful Agni to help us, Vaisvânara, Mâtarisvan the praiseworthy 1; we the men (call) Brihaspati 2 for (the worship) of the divine host, the priest who hears us, the. guest who swiftly glides along.
We invoke the beautiful Agni for help, who is Vaiśvānara and
praiseworthy Mātariśvan,
who is Br̥haspati for the divine assembly of Manu, who is the inspired poet and the listener, the guest and the quick-streaming one.
Den hellen Agni rufen wir zu Hülfe uns, den Männerhort, den preisenswerthen Mutterspross, Den Andachtsherrn der Menschen zu dem Gottesdienst, den Gast, der eilend läuft und der den Sänger hört.
Den schmucken Agni rufen wir zum Beistand, den Vaisvanara, Matarisvan, den preiswürdigen, den Brihaspati zum Gottesdienst des Menschen, den Redegewaltigen, den Erhörer, den Gast, den Schnelläufer.
Этого прекрасного Агни мы призываем на помощь
Вайшванару, Матаришвана, достойного гимнов,
Брихаспати, для службы богам (.установленной) Манусом,
(Его,) вдохновенного, слушателя, гостя, быстрого бегуна.
अश्वो॒ न क्रन्द॒ञ्जनि॑भि॒: समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे । स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥
अश्वः॑ । न । क्रन्द॑न् । जनि॑ऽभिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः॑ । यु॒गेऽयु॑गे । सः । नः॒ । अ॒ग्निः । सु॒ऽवीर्य॑म् । सु॒ऽअश्व्यम् । दधा॑तु । रत्न॑म् । अ॒मृते॑षु॑ । जागृ॑विः ॥
यः वैश्वानरः अग्निः कुशिकेभिः स्तोत्रं कुर्वाणैर्होत्रादिभिः युगेयुगे प्रतिदिनं समिध्यते आज्याहुतिप्रक्षेपेण' सम्यक् दीप्यते । तत्र दृष्टान्तः । अश्वो न इति । यथा जातोऽश्वः क्रन्दन् हेषारवं कुर्वन् जनिभिः जनयित्रीभिः वडवाभिः स्तन्यप्रदानेन प्रतिदिनं सम्यक् पोष्यते तद्वत् । अमृतेषु मरणधर्मरहितेषु देवेषु मध्ये जागृविः ज्वालया जाग्रत् दीप्यमानः सः अग्निः सुवीर्यं शोभनापत्ययुक्तं स्वश्व्यं शोभनाश्वादिपशुयुक्तं रत्नम् उत्तमं धनं नः अस्माकं दधातु विदधातु प्रयच्छतु ॥ युगेयुगे । ‘नित्यवीप्सयोः ' इति द्विर्वचनम् । परस्याम्रेडितत्वात् अनुदात्तत्वे पूर्वपदप्रकृतिस्वरः । स्वश्व्यम् । अश्वशब्दः क्वन्प्रत्ययान्तः आद्युदात्तः । बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । यकारोपजनश्छान्दसः । यद्वा । अश्वेषु साधवोऽश्व्याः । तत्र साधुः ' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । बहुव्रीहौ पूर्वोक्तस्वरः । दधातु । दधातेर्लोटि रूपम् । रत्नम् ।' रमु क्रीडायाम् । “ रमेस्त च ' इत्यधिकरणे नप्रत्ययस्तकारश्चान्तादेशः । रमन्तेऽस्मिन्निति रत्नम् । नित्' इत्यनुवृत्तौ आद्युदात्तः । जागृविः । क्विन्प्रत्ययान्तः । नित्त्वादाद्युदात्तः ॥
“Vaiśvānara is kindled in every age by the Kuśikas as a neighing foal (is nourished) by its mother; may that Agni, vigilant among the immortals, give us wealth with excellent offspring and good horses.”
Age after age Vaisvanara, neighing like a horse, is kindled with the women by the Kusikas.
May Agni, he who wakes among Immortal Gods, grant us heroic strength and wealth in noble steeds.
Vaisvânara, neighing like a horse, is kindled by the women 1, by the Kusikas, from age to age; may this Agni give us abundance in valiant men and in horses and treasures, he who wakes among the immortals.
Whinnying like a horse, he is kindled by the females [=the fingers of the priest]; Vaiśvānara (is kindled) by the Kuśikas, generation after
generation.
Let Agni, awake among the immortals, grant us treasure and an
abundance of good men and good horses.
Mit Fingern wird entflammt er, wiehernd wie ein Ross, der Männerhort von Kuçikern, von Stamm zu Stamm; Es schenk' uns Agni reiche Füll' an Mann und Ross, und Schatz, der wache unter den Unsterblichen.
Wie ein Pferd wiehernd wird er durch die Frauen entzündet, der Vaisvanara von den Kusika´s in jedem Geschlecht. Agni soll uns die Meisterschaft, die besten Rosse, das Kleinod einbringen, indem er auf die Unsterblichen wartend wachsam ist.
Ржущий, словно конь, он зажигается женами
Вайшванара (зажигается людьми из племени) Кушики из поколения в поколение.
Пусть этот Агни дарует нам богатство из прекрасных мужей,
Из прекрасных коней, (он,) бодрствующий среди бессмертных.
प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नय॑: शु॒भे सम्मि॑श्ला॒: पृष॑तीरयुक्षत । बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दस॒: प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥
प्र । य॒न्तु॒ । वाजाः॑ । तवि॑षीभिः । अ॒ग्नयः॑ । शु॒भे । सम्ऽमि॑श्लाः । पृष॑तीः । अ॒यु॒क्ष॒त॒ । बृ॒ह॒त्ऽउक्षः॑ । म॒रुतः॑ । वि॒श्वऽवे॑दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । अदा॑भ्याः ॥
वाजाः वेगवन्तः अग्नयः प्र यन्तु जलमभिलक्ष्य गच्छन्तु । गताश्च तेऽग्नयः तविषीभिः बलयुक्तैः मरुद्भिः शुभे जले संमिश्लाः परस्परं संगताः सन्तः पृषतीः बिन्दून् अयुक्षत अयुञ्जन् । जले बिन्दुनकुर्वन् । यद्वा वाजाः वेगवन्तोऽग्नयस्तविषीभिर्बलयुक्तैर्मरुद्भिर्जलमनुलक्ष्य प्रयन्तु गच्छन्तु । ते च मरुतः शुभे जले संमिश्ला अग्निभिः संगताः सन्तः पृषतीश्चित्रवर्णा वाहनरूपा वडवा अयुक्षत । रथे मेघभेदनार्थे ता अयौक्षुः । रथारूढास्ते विश्ववेदसः प्राणिकृतकर्माभिज्ञानयुक्ताः अदाभ्याः केनाप्यतिरस्कार्याः मरुतः एवंविधा वायवः बृहदुक्षः प्रभूतसेक्तॄन् पर्वतान् मेघान् प्र वेपयन्ति । यथा प्रभूता वृष्टिर्भवति तथा मेघान् चालयन्ति ॥ तविषीभिः । ‘ तव गतौ ' इति सौत्रो धातुः । अस्मात् ‘तवेर्णिद्वा' इति टिषच् निच्च । तवन्ति संचरन्त्याकाशे इति तविषा वायवः । ‘ टिड्ढाणञ्' इति ङीप् । लिङ्गव्यत्ययः । नित्त्वादाद्युदात्तः । पृषतीः । ‘पृषु सेचने' ' पॄ पालनपूरणयोः' इति वा । अस्मात् वर्तमाने ‘पृषद्बृहन्महत्' इति निपातनादतिप्रत्ययः शतृवद्भवति। ‘उगितश्च' इति ङीप् । पर्षन्तीति पृषत्यः शीकराः । पृणन्ति पालयन्तीति पृषत्यो वडवाः । अयुक्षत । ' युजिर् योगे' इत्यस्य लुङि सिचि रूपम् । निघातः । बृहदुक्षः ।' उक्ष सेचने ' इत्यस्मात्क्विप् । कृदुत्तरपदप्रकृतिस्वरः । वेपयन्ति । टुवेपृ कम्पने '। निघातः । पर्वतान् । ' पर्व पूरणे' इत्यस्मात् ' भृमृदृशि° ' इत्यादिना अतच् । पर्वति पूरयति भूमिमुदकेन इति पर्वतो मेघः । व्यत्ययेनाद्युदात्तः ॥
“May the swift fires combined with the vigorous winds proceed to the pure (region of the water), uniting the drops (of rain); the Maruts irresistible, all-knowing, agitate the copious-shedding clouds.”
Let them go forth, the strong, as flames of fire with might. Gathered for victory they have yoked their spotted deer.
Pourers of floods, the Maruts, Masters of all wealth, they who can ne'er be conquered, make the mountains shake.
May the Vâgas 1 come forward, the Agnis with their powers. United 2 they have harnessed the spotted deer for their triumphal procession 3. The Maruts, mightily growing, the all-wealthy, make the mountains tremble, the unbeguiled ones.
Let the prizes of victory go forth. Blended with their powers, the fires have hitched up their spotted antelopes for beauty.
Growing aloft, providing all possessions, the undeceivable Maruts make mountains tremble.
Vor mögen gehn mit Kraft die raschen, Flammen gleich, sie schirrten an zum Schmuck vereint die Hirsche sich, Die Maruts, Regen strömend, die allwissenden, erschüttern rings die Berge, die untrüglichen.
Die Ehrengaben sollen zum Vorschein kommen! Mit ihren Stärken haben sich die Agni´s zu voller Pracht vereint. Ihre scheckigen Antilopen haben sie angeschirrt, die hochgewachsenen, allwissenden Marut. Die Unbeirrten machen die Berge erzittern;
Пусть двинутся вперед награды со (своими) силами! (Многие) Агни,
Смешавшись (с ними), запрягли пестрых (антилоп) для блеска.
Высоковозросшие Маруты, всеведущие,
Сотрясают горы, (эти) не терпящие обмана.
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् । ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥
अ॒ग्नि॒ऽश्रियः॑ । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः॑ । ई॒म॒हे॒ । व॒यम् । ते । स्वा॒निनः॑ । रु॒द्रियाः॑ । व॒र्षऽनि॑र्निजः । सिं॒हाः । न । हे॒षऽक्र॑तवः । सु॒ऽदान॑वः ॥
अग्निश्रियः वैद्युतम् अग्निं श्रयन्तः
विश्वकृष्टयः । विश्वस्य वृक्षादेः कृष्टिराकर्षणं नमनोन्नमनादिलक्षणं कर्म येभ्यो भवति ते विश्वकृष्टयः ।
एवंविधा ये मरुतः विद्यन्ते तेषां च मरुतां त्वेषं दीप्तम् उग्रम् उद्गूर्णम् अवः रक्षणम् आ ईमहे कुशिका वयम् आ समन्तात् याचामहे । ते मरुतः रुद्रियाः रुद्रपुत्राः वर्षनिर्णिजः । निर्णिक्शब्दो रूपवाची • निर्णिक् वव्रिः' इति तन्नामसु पाठात् । वर्षणं रूपं स्वभावो येषां ते वर्षनिर्णिजो वर्षकाः । हेषक्रतवः । हेषारवस्य क्रतुः करणं येषां ते कृतहेषारवाः सिंहा न सिंहा इव स्वानिनः शब्दवन्तः एवंविधास्ते मरुतः सुदानवः सुष्ठु जलस्य दातारो भवन्ति ॥ अग्निश्रियः ।
‘ श्रिञ् सेवायाम्। वचिप्रच्छि०' इत्यादिना क्विप् संप्रसारणभावो धातोर्दीर्घश्च । जसि इयङादेशः । कृत्स्वरः । उग्रम् । गम्लृ गतौ' । उत्पूर्वः । ऋज्रेन्द्राग्र° ' इति निपातनात् रप्रत्ययो मकारलोप उपसर्गस्यान्तलोपश्च । उद्गच्छतीत्युग्रः । प्रत्ययस्वरः । ईमहे । ई कान्तिगत्यादिषु" । व्यत्ययेनात्मनेपदम् । अदादित्वाच्छपो लुक् । निघातः । स्वानिनः । स्वानो घञन्तः । तद्वन्तः । अत इनिठनौ ' इतीनिः । प्रत्ययस्वरः। रुद्रियाः । रुद्रशब्दाच्छान्दसो घः । तस्येयादेशः । प्रत्ययस्वरः ॥ ॥ २६ ॥
“The fire-beautified, all-agitating Maruts; we seek their fierce radiance for protection; they, the sons of Rudra, the bountiful Maruts, whose form is the rain, are loudlike roaring lions.”
The Maruts, Friends of men, are glorious as the fire: their mighty and resplendent succour we implore.
Those storming Sons of Rudra clothed in robes of rain, boon-givers of good gifts, roar as the lions roar.
The Maruts who possess the beauty of Agni 1, belong to all races of men. We implore their fierce, strong help. They are tumultuous, the sons of Rudra, clothed in rain, hot-spirited like lions 2, givers of rain.
The Maruts, with Agni’s splendor and belonging to all communities—we beg for their powerful and mighty help—
are the noisy sons of Rudra, cloaked in rain, having the will to destroy like lions but bringing good gifts.
Wie Feuer glänzt die menschenholde Marutschar, wir wünschen ihre schnelle, starke Hülfe uns; Sie, tobend, glänzend, sind gehüllt in Regenschmuck, wie Löwen mächtig brüllend, reich an jedem Gut.
Die allbekannten Marut, durch Agni verschönt, - wir bitten um ihren heftigen, gewaltigen Beistand - die brausenden Rudrasöhne, die in Regen gekleideten, wie Löwen mutgetrieben, die Gabenschönen.
Украшенные с помощью Агни Маруты, принадлежащие всем народам, –
Мы просим об их страшной, грозной помощи –
Эти гремящие сыновья Рудры, одетые в дождь, –
(Те,) что подобны львам, чья сила духа в реве, очень щедрые (боги).
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे । पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीरा॑: ॥
व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अ॒ग्नेः । भाम॑म् । म॒रुता॑म् । ओजः॑ । ई॒म॒हे॒ । पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । गन्ता॑रः । य॒ज्ञम् । वि॒दथे॑षु । धीराः॑ ॥
कुशिका वयम् अग्नेर्भामं भासकं मरुतामोजः तेजः 'व्रातंव्रातं व्राते व्राते प्रतिसमूहं गणंगण गणे गणे महति समूहे क्रियमाणाभिः सुशस्तिभिः । शोभनाः शस्तयः स्तुतयो यैर्मन्त्रैः क्रियन्ते ते सुशस्तयः । तैर्मन्त्रैः ईमहे तादृशं मारुतं तेजो याचामहे । पृषदश्वासः । पृषत्यश्चित्रवर्णा अश्वा येषां ते तादृशाः । अनवभ्रराधसः । न विद्यतेऽवभ्रंशो यस्य तदनवभ्रम् । अनवभ्रं राधो धनं येषां तेऽनवभ्रष्टधनाः । संपूर्णधना इति यावत् । धीराः कर्माभिज्ञास्ते मरुतः विदथेषु यज्ञेषु यज्ञं यजनीयं हविः अभिलक्ष्य गन्तारः गमनशीला भवन्ति ॥ गणंगणम् ।' गण संख्याने '। पचाद्यच् । ‘ नित्यवीप्सयोः' इति द्विर्वचनम् । परस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः । सुशस्तिभिः । बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । भामम् । ‘ भा दीप्तौ' ।' अर्तिस्तुसु° ' इत्यादिना मन् । नित्स्वरः । ओजः ।' उब्ज आर्जवे' । 'उब्जेर्बले बलोपश्च' ( उ. सू. ४. ६३१) इत्यसुन् । तत्संनियोगेन बकारलोपः । आर्धधातुकलक्षणो गुण: । नित्स्वरः । ईमहे । ई कान्त्यादिषु । निघातः । अनवभ्रराधसः । अनवभ्रम् । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । बहुव्रीहौ° पूर्वपदस्वरः । गन्तारः । ताच्छीलिकस्तृन् । विदथेषु ।' विद ज्ञाने' । 'रुदिविदिभ्यां कित्' इत्यथप्रत्ययः । कित्त्वादगुणः । विदन्त्यस्मिन्कर्मजातमध्वर्य्वादय इति विदथो यज्ञः । प्रत्ययस्वरः ॥
“We solicit the might of the Maruts, the irradiation of Agni with solemn prayers in every assembly and company (of worshippers); those Maruts who ahve partly-coloured steeds, who are dispensers of unfailing wealth, firm (of purpose), and frequenters of sacrifices.”
We, band on band and troop following troop, entreat with fair lauds Agni's splendour and the Maruts' might,
With spotted deer for steeds, with wealth that never fails, they, wise Ones, come to sacrifice at our gatherings.
We implore with our best praises every host, every troop (of the Maruts) 1, the splendour of Agni, the power of the Maruts. With the spotted deer as horses 2, with gifts that cannot be taken away, they go to the sacrifice wise in the (sacrificial) ordinances 3.
We beg (the Maruts)—cohort upon cohort, band upon band—with our good chants for the radiance of Agni and the power of the
Maruts,
with their dappled horses, with their unreceding generosity, the travelers to the sacrifice, wise at the ritual distributions.
Und Schar für Schar und Trupp für Trupp verehren wir mit Lobgesang den Feuerglanz, die Marutmacht; Mit Hirschen fahrend, mit Geschenk, das nimmer weicht, so kommen klug bei Festen zu dem Opfer sie.
Schar um Schar, Rotte um Rotte bitten wir mit Preisreden um den Glanz des Agni, um die Kraft der Marut - ihre Rosse sind scheckig, ihre Gaben unentreißbar; sie kommen zum Opfer, kundig in der Weisheit.
Ряд за рядом, толпа за толпой мы просим
В прекрасных восхвалениях о сиянии Агни, о силе Марутов, -
Их кони-пестрые (антилопы), (их) даров не отнять,
(Они) приходят, мудрые, на жертву на места жертвенных раздач.
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् । अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥
अ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् । अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥
'साक्षात्कृतपरतत्त्वरूपः’ अग्निद्वृचेन स्वात्मनः सर्वात्मकत्वानुभवमाविष्करोति । हे कुशिकाः । भोक्तृभोग्यभावेन द्विविधं हीदं सर्वं जगत् । ‘ एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः ' (बृ. उ. १. ४, ६ ) इति श्रुतेः । तत्र सकलभोक्तृवर्गरूपेणान्नादोऽग्निः । स च अग्निवाय्वादित्यभेदेन त्रेधा भूत्वा पृथिव्यन्तरिक्षलोकानधितिष्ठति । तदुक्तं वाजसनेयके-‘स त्रेधात्मानं व्यभजत । आदित्यं तृतीयं वायुं तृतीयम्' (बृ. उ. १. २. ३ ) इति। तत्र सः अग्निः अहं जन्मना एव जातवेदाः अस्मि । श्रवणमननादिसाधननिरपेक्षेण स्वभावत एव साक्षात्कृतपरतत्त्वस्वरूपोऽस्मि । घृतं मे चक्षुः । यदेतत् विश्वस्य विभासकं मम स्वभावभूतप्रकाशात्मकं चक्षुस्तद्घृतम् । इदानीमत्यन्तं दीप्तम् । यदेतत् अमृतं कर्मफलं दिव्यादिव्यविविधविषयोपभोगात्मकं तत् मे मम आसन् आस्ये वर्तते । सकलभोक्तृवर्गात्मना स्वयमेवावस्थानात् । एवं स्वात्मनः पृथिव्यधिष्ठातृरूपताम् अभिधाय वाय्वात्मनान्तरिक्षाधिष्ठातृतामाह । अर्कः जगत्स्रष्टा प्राणः । ‘ सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम् ' ( श. ब्रा. १०. ६. ५) इति श्रुतेः । स प्राणोऽहं त्रिधातुः । त्रेधात्मानं विभज्य तत्र वाय्वात्मना रजसः अन्तरिक्षस्य विमानः विमाता अधिष्ठाता अस्मि । तथादित्यरूपेण द्युलोकाधिष्ठातृतामाह । अजस्रो घर्मः इति । अजस्रोऽनुपक्षीणो घर्मः प्रकाशात्मा द्युलोकाधिष्ठाता आदित्योऽहमस्मि। एवं भोक्तृरूपमात्मनोऽनुसंधाय भोग्यरूपतामपि अनुसंधत्ते । यत् हविः भोग्यं प्रसिद्धमस्ति तदप्यहमेव अस्मि । यद्वा । अहमग्निरस्मि । देवानां हविष्प्रापणात् अङ्गनादिगुणयुक्तोऽस्मि । किंच जन्मना उत्पत्त्या जातवेदा जातप्रज्ञोऽस्मि । उत्पत्तिक्षणे एव सर्वज्ञोऽहमस्मि । अथवा जातं सर्वं स्वात्मरूपतया वेत्तीति जातवेदाः । सर्वात्मक इत्यर्थः । तत्कथमित्युच्यते । घृतं मे चक्षुः । यदेतद्घृतं प्रसिद्धमस्ति तन्मे चक्षुःस्थानीयम् । यथा लोके चक्षुर्भासकं एवं घृतं मयि प्रक्षिप्तं ज्वालामुत्पादयन्मम भासकम् । अमृतं प्रभारूपं यदमृतमविनाशि ज्योतिर्मे ममासन् आस्ये वर्तते । त्रिधातुः प्राणापानव्यानात्मना त्रिधा वर्तमानोऽर्कोऽर्चनीयो यः प्राणोऽस्ति सोऽपि अहमेवास्मि। तथा च रजसोऽन्तरिक्षस्य विमानो विशेषेण माता परिच्छेत्ता वायुश्चाहमस्मि । किंच अजस्रो घर्मो नैरन्तर्येण संतापकारी सूर्यश्चाहमस्मि । किं बहुना आज्यपुरोडाशादिरूपं यदेतद्धविरस्ति तदुपलक्षितं सर्वमप्यहमस्मि । ‘ सर्वं खल्विदं ब्रह्म (छा. उ. ३. १४. १) इति श्रुतेः। नामशब्दः प्रसिद्धौ । तदनेनाग्नेः सर्वात्मकत्वप्रतिपादनेन परब्रह्मत्वमुक्तं भवति ॥ चक्षुः । ‘चक्षिङ् व्यक्तायां वाचि। ‘उसिन्' इत्यनुवृत्तौ ‘चक्षेः शिच्च' इत्युसिन् । शिद्वद्भावात् ख्याञादेशाभावः । नित्स्वरः । आसन् । आस्यशब्दस्य ‘पदृन्नोमास्' इत्यादिना आसनादेशः । ‘सुपां सुलुक्' इति सप्तम्या लुक् । विमानः । माङ् माने '।' कृत्यल्युटो बहुलम् इति कर्तरि ल्युट् । लित्स्वरः । अजस्रः । ‘जसु मोक्षणे' । नञ्पूर्वः । 'नमिकम्पिस्म्यजसकमहिंसदीपो रः ' ( पा. सू. ३. २. १६७ ) इति ताच्छीलिको रप्रत्ययः । नञ्पूर्वो जसिर्नैरन्तर्ये वर्तते । नञ्स्वरः । ' जस' उपक्षये ' वा ॥
“I, Agni, am by birth endowed with knowledge of all that exists; clarified butter is my eye; ambrosia is my mouth; I am the living breath of threefold nature, the measure of the firmament, eternal warmth; I am also the oblation.”
Agni am I who know, by birth, all creatures. Mine eye is butter, in my mouth is nectar.
I am light threefold, measurer of the region exhaustless heat am I, named burnt-oblation.
Agni am I, by birth Gâtavedas. Ghee is my eye; (the drink of) immortality is in my mouth. The threefold song 1 traversing the aerial space, the imperishable Gharma 2, the sacrificial food am I by name.
[Agni:] “I am Agni, Jātavedas by birth. My eye is ghee; the immortal one [=soma] is in my mouth.
The chant of three parts, which is the measure of space, the
inexhaustible hot milk, and the offering—I am that by name.”
»Agni bin ich, von Haus ein Wesenkenner, mein Auge Butter, Amrita im Mund mir, Dreifaches Licht, das Luftgebiet durchmessend, beständ'ge Glut, bin Opferguss mit Namen.«
Ich bin Agni, von Geburt des Jatavedas. Das Schmalz ist mein Auge, in meinem Munde wird es Götterspeise. Ich bin das dreifache Loblied, der den Raum durchmißt, die unverlöschliche Glut. Opfer bin ich genannt.
Я есмь Агни, Джатаведас по рождению,
Жир – мой глаз, амрита во рту у меня.
Трехчастная песнь, мера пространства,
Неистощимый жар, жертвенное возлияние – (вот что) я по имени.
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् । वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥
त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् । वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥
सर्वात्मकः अग्निः हृदा अन्तःकरणवृत्त्या मतिं मननीयं ज्योतिः स्वप्रकाशरूपं परब्रह्माख्यं तेजः अनु प्रजानन् श्रवणमननादिक्रमेण प्रकर्षेण संशयविपर्यासभावनाबुद्धिनिरासेन स्वात्मरूपतया जानानः सन् पवित्रैः पावनैः त्रिभिः अग्निवायुसूर्यैः अर्कम् अर्चनीयं स्वात्मानम् अपुपोद्धि तेभ्योऽपि निर्मलतया पावनं परिचिच्छेद खलु । यथा दशपवित्रेण सोमं पावयति तद्वत् । एवं जानानोऽग्निः वर्षिष्ठं स्वात्मानमुत्तमं स्वधाभिः। स्वेन लोकान् दधातीति स्वधा । तैरग्निवायुसूर्यैः रत्नं रमणीयम् अकृत अकार्षीत् । आदित् अनन्तरमेवमात्मनि ज्ञाते सति द्यावापृथिवी तत्र परिकल्पिते द्यावापृथिव्यौ तदुपलक्षितं सर्वं जगत् पर्यपश्यत् । परितः सर्वतः स्वात्मतया' अदर्शत् । 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति' इति श्रुतेः ॥ पवित्रैः । ‘ पृञ् पवने' । अस्मात् “ कर्तरि चर्षिदेवतयोः ' ( पा. सू. ३. २. १८६ ) इति देवतायामभिधेयायां कर्तरि इत्रप्रत्ययः । पुनन्तीति पवित्रा अग्निवायुसूर्याः । प्रत्ययस्वरः । अपुपोत् । 'पूञ् पवने' इत्यस्य यङ्लुगन्तस्य रूपम् । संज्ञापूर्वकस्य विधेरनित्यत्वात अभ्यासस्य गुणाभावः । ‘ यद्धितुपरं छन्दसि' ( पा, सू. ८, १, ५६ ) इति न निघातः । अर्कम् ।' अर्च पूजायाम्'। 'कृदाधारार्चिकलिभ्यः कः' इति कप्रत्ययः । हृदा । हृदयशब्दस्य ‘ पद्दन्नोमास्' इत्यादिना हृदादेशः । मतिम् । 'मन ज्ञाने'। ' मन्त्रे वृषेषपच' ' इत्यादिना कर्मणि क्तिन् उदात्त: । अकृत । करोतेर्लुङि सिच् । तस्य 'ह्रस्वादङ्गात् इति लोपः । द्यावापृथिवी । ' देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरः ॥
“Agni, thoroughly comprehending the light that is to be understod by the heart, has purified himself (by the three) purifying (forms); he has made himself most excellent treasure by (these) self-manifestations, and has thence contemplated heaven and earth.”
Bearing in mind a thought with light accordant, he purified the Sun with three refinings;
By his own nature gained the highest treasure, and looked abroad over the earth and heaven.
With three purifying strainers he (Agni) purified the song, with his heart the thought, discovering the light. The mightiest treasure he produced by the powers of his own nature, and then he looked over heaven and earth.
Since he [=Agni?] purified the chant with three purifying filters,
discovering understanding and light with his heart,
he made for himself the highest treasure by his own will, and then he surveyed heaven and earth.
Durch drei Entflammer liess ja Licht er flammen, im Herzen Weisheit, hellen Glanz erweisend; Die höchste Pracht errang durch eigne That er, drauf schaute er den Himmel an, die Erde.
Weil er mit drei Sieben das Preislied gesiebt hat, im Herzen den Weg zu dem Gedanken, zum Licht findend, hat er sich aus eigener Kraft das höchste Kleinod verdient und er überschaute Himmel und Erde.
Раз он очистил песнь тремя (очищающими) цедилками,
Сердцем находя путь к молитве, к свету,
Своими усилиями он создал себе высшее сокровище,
Затем он охватил взором небо и землю.
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नाम् । मे॒ळिं मद॑न्तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म् ॥
श॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् । मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥
यस्मादुपाध्यायाद्विश्वामित्रो वैश्वानराख्यं परं ब्रह्माज्ञासीत्तमिममुपाध्यायमनयर्चा स्तौति । हे रोदसी द्यावापृथिव्यौ शतधारम् अपरिमितजलधारायुक्तम् अक्षीयमाणं न कदापि विच्छिन्नप्रवाहम् उत्सम् । लुप्तोपममेतत् । उत्समिव सतत प्रवाहोपेत स्रोत इवाविच्छिन्नवावसरणीसमेतं विपश्चितं मेधाविनं सकलशास्त्राभिज्ञं पितरं शिष्याणां विद्योपदेशेन पालकं वक्त्वानां वक्तव्यानां वेदवाक्यानां मेळिं मेलकं नानाशाखागतानां वाक्यानामेकस्मिन्नर्थे संकलय्य वक्तारं पित्रोः द्यावापृथिव्योः उपस्थे समीपे मदन्तं ज्ञानातिशयेन हृष्यन्तम् अत एव सत्यवाचम् अज्ञातार्थाभावात्परप्रतारणे च कारणाभावात् सत्यवादिनम् । तम् इममुपाध्यायं पिपृतम् अपेक्षितफलप्रदानेन संपूर्णं कुरुतम् । यद्वा पालयतम् ॥ उत्सम् । ‘उन्दी क्लेदने' । अस्मात् ' उन्द्यमिगुधिषिभ्यः कित्' (उ.सू. ३. ३४८ ) इति सप्रत्ययः । कित्त्वान्नकारलोपः । उनत्तीत्युत्सः । व्यत्ययेनाद्युदात्तः । विपश्चितम् ॥ विशेषेण पातीति विपा वाक् । विपो वाचश्चिनोतीति क्विप् । ह्रस्वस्य पिति०' इति तुक् । 'तत्पुरुषे कृति बहुलम्' इति बहुलवचनात् द्वितीयाया अप्यलुक्। कृदुत्तरपदस्वरः। वक्वातिनाम् ।' वच परिभाषणे'। अस्मात् ‘कृत्याथें तवैकेन्केन्यत्वनः' इति त्वन्प्रत्ययः । ‘चोः कुः' इति कुत्वम् । नित्स्वरः । मेळिम् । मिलिः संपर्कार्थो धातुः । अस्मादौणादिक इप्रत्ययः। रोदसी। आमन्त्रितत्वान्निघातः । पिपृतम् । ‘ पॄ पालनपूरणयोः'। छान्दसो जुहोत्यादिः। ‘अर्तिपिपर्त्योश्च ' इत्यभ्यासस्येत्वम् । निघातः ॥ ॥ २७॥
“Heaven and earth be kind to that stage who is as it were a many-cahnneled and inexhaustible stream (of knowledge); the parent (of his disciples), the collater of holy texts, rejoicing on the lap of his parents,, whose words are truth.”
The Spring that fails not with a hundred streamlets, Father inspired of' prayers that men should utter,
The Sparkler, joyous in his Parents' bosorn, -him, the Truth-speaker, sate ye, Earth and Heaven.
Carry him who is the inexhaustible spring with a hundred rills, who has knowledge of prayers (?), the father of (every speech) that should be uttered, the roaring one 1, gladly excited in the lap of his parents—carry him the truth-speaking across (all dangers), O ye two worlds!
Lead him across—the inexhaustible well-spring of a hundred streams, the father of words to be said, who understands inspiration,
and the joyful crackling in the lap of his parents—him who speaks what is real, o you two world-halves.
Den hundertström'gen Quell, der nie versieget, den geisterfüllten Vater der Gebete, Den muntern Sprüher in dem Schooss der Aeltern, den Wahrheitssprecher fördern Erd' und Himmel.
Ihn, der ein unversiegbarer Quell mit hundert Strömen ist, den redekundigen Vater der Worte, wie die Windsbraut im Schoße der Eltern rauschend ihn schützet, ihr beiden Welten, dessen Worte wahrhaft sind!
(Того, кто есть) неиссякающий фонтан в сто потоков,
Прозорливого отца тех (слов,) что должны быть сказаны,
(Того, кто) радостный треск в лоне родителей, –
Спасите его, чья речь истинна, о два мира!