प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑ । दे॒वाञ्जि॑गाति सुम्न॒युः ॥
प्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ । दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥
हे ऋतवः वाजाः । वजन्ति गच्छन्तीति वाजा मासाः । अभिद्यवः । अभितो द्यवो दिवसा येष्वित्यभिद्यवोऽर्धमासाश्च । हविष्मन्तः हविर्भाजो देवाः। घृताच्या । घृतमञ्चतीति घृताची गौः । तथा च तैत्तिरीयकं-- देवा हविष्मन्तो गौर्घृताची' (तै. सं.२.५.७.४) इति । यद्वा हविष्मन्तो हविषः क्षीरादेः प्रदातारः पशवो घृताच्या । घृतमञ्चति प्राप्नोतीति घृताची स्रुक् । तथा च वाजसनेयकं--- ‘ पशवो हविष्मन्तः स्रुग्घृताची' इति । तया घृताच्या सहिता हविष्मन्तो देवाः पशवश्च मासाश्चार्धमासाश्चेति सर्वे वः युष्माकं यजनार्थं प्रभवन्ति । तेषु वाजादिषु प्रभवत्सु सत्सु सुम्नयुः सुखमात्मन इच्छन् यजमानः देवाञ्जिगाति यज्ञद्वारा देवान् प्राप्नोति । उक्तार्थे तैत्तिरीय ब्राह्मणं- प्र वो वाजा इत्यन्वाह मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर्घृताची यज्ञो देवाञ्जिगाति यजमानः सुम्नयुः ' ( तै. सं. २, ५, ७. ४) इति ॥ अभिद्यवः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । घृताच्या । ‘ घृ क्षरणदीप्त्योः '। अस्मात् । अञ्जिघृषिभ्यः क्तः' (उ. सू. ३. ३६९) इति कर्मणि क्तः । घृतमाज्यमञ्चतीति ' ऋत्विग्दधृक्' इत्यादिना क्विन् । अनिदिताम्' इत्युपधालोपः। 'अञ्चतेश्चोपसंख्यानम् ' इति ङीप् ।' चौ ' इति पूर्वपदान्तोदात्तत्वम् । जिगाति । गातिः गत्यर्थः । छान्दसो जुहोत्यादिः । निघातः । सुम्नयुः । सुम्नं सुखमात्मन इच्छन्निति" ‘सुप आत्मनः क्यच्' । 'क्याच्छन्दसि ' इत्युः । प्रत्ययस्वरः ॥
“The months, the half months, (the gods) who are the receivers of oblations, with the butter-yielding kine, preside over your rite; the sacrificer, desirous of prosperity, worships the gods.”
IN ladle dropping oil your food goes in oblation up to heaven,
Goes to the Gods in search of bliss.
Forward (goes) your 1 strength tending heavenward, rich in offerings, with the (ladle) full of ghee. To the gods goes (the worshipper) desirous of their favour.
Forth to you (go) the heaven-bound prizes, bearing offerings, by the ghee-filled (ladle).
He [=Agni?] goes to the gods, seeking their favor.
Vor dringt eur Opfer himmelwärts, im Butterlöffel trankversehn, Zu Göttern eilt der gütige.
Eure für die Himmelswelt bestimmten Ehrengaben, in Opferspenden bestehend, sollen mit dem Schmalzlöffel zum Vorschein kommen. Zu den Göttern geht er, ihre Gunst suchend.
Пусть (двинутся) вперед ваши награды, предназначенные для неба.
Обильные жертвенным возлиянием, вместе с полной жира (ложкой)!
Он идет к богам, ища (их) расположения.
ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वानं॑ धि॒तावा॑नम् ॥
ईळे॑ । अ॒ग्निम् । वि॒पः॒ऽचित॑म् । गि॒रा । य॒ज्ञस्य॑ । साध॑नम् । श्रु॒ष्टी॒ऽवान॑म् । धि॒तऽवा॑नम् ॥
विपश्चितं मेधाविन यज्ञस्य साधनं यज्ञस्य निर्वाहकं श्रुष्टीवानं सुखवन्तं यद्वा वेगवन्तं धितावानम् । वानं वननीयं धनं धितं निहितं यस्य तं निहितधनम् । तमिमम् अग्निं गिरा स्तुतिलक्षणया वाचा ईळे विश्वामित्रोऽहं स्तौमि ॥ ईळे । 'ईड स्तुतौ ' । श्रुष्टीवानम् । ' वन षण संभक्तौ' इत्यस्माद्विच् । श्रुष्टी वनतीति श्रुष्टीवा । कृदुत्तरपदस्वरः । धितावानम् । दधातेः निष्ठायां धिरादेशश्छान्दसः । वन संभक्तौ' । कर्मणि घञ् । बहुव्रीहौ निष्ठा ' इति धितशब्दस्य पूर्वनिपातः । पूर्वपदप्रकृतिस्वरः ॥
“I worship with praise the wise Agni, the accomplisher of sacrifice, the possessor of happiness, the repository of wealth.”
Agni I laud, the Sage inspired, crowner of sacrifice through song,
Who listens and gives bounteous gifts.
I magnify 1 with prayer Agni who has knowledge of prayers (?), the accomplisher of sacrifice, who hears us, and in whom (manifold wealth) has been laid down.
With my song I summon Agni, recognizing inspired words, bringing success to the sacrifice,
with his attentive listening and his emplaced (fires).
Den weisen Agni preise ich, den Opfersegner mit Gesang, Der gern erhört und Gaben schenkt.
Agni rufe ich mit Lobeswort an, den redekundigen Ausrichter des Opfers, den Erhörenden, der das Erwartete besitzt.
Песней я зову Агни,
Прозорливца, приводящего жертву к цели,
Прислушивающегося (к нам), (того,) в ком сложены (дары).
अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिन॑: । अति॒ द्वेषां॑सि तरेम ॥
अग्ने॑ । श॒केम॑ । ते॒ । व॒यम् । यम॑म् । दे॒वस्य॑ । वा॒जिनः॑ । अति॑ । द्वेषां॑सि । त॒रे॒म॒ ॥
हे अग्ने वाजिनः संभृतहविष्काः वयं देवस्य द्योतमानस्य' ते तव यमं यमनम् आ यज्ञसमाप्तेः अत्रावस्थानं कर्तुं शकेम शक्यास्म। वाजिनो वेगवतो देवस्य इति वा योजनीयम् । ततः कारणात् द्वेषांसि अस्मदीयानि पापानि अति तरेम पापेभ्य उत्तीर्णा भवेम ॥ शकेम । शक्लृ शक्तौ ' इत्यस्य आशीर्लिंङि ' लिङ्याशिष्यङ्' इत्यङ्प्रत्ययः । ‘ किदाशिषि ' इति यासुट् । सलोपेयादेशयलोपगुणसलोपाः । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । उदात्तनिवृत्तिस्वरः । यमम् । ‘यम उपरमे ' इत्यस्माद्भावे घञ् । ‘यम उपरमे' इति निपातनात् वृद्ध्यभावः । ञित्स्वरः । तरेम । ‘तॄ प्लवनतरणयोः ' । प्रार्थने लिङि रूपम् । निघातः ॥
“May we offering oblations effect the detention of you is divine (until the completion of the rite), and may we (thereby) overcome all animosities.”
O Agni, if we might obtain control of thee the potent God,
Then should we overcome our foes.
O Agni, may we be able to bridle thee the strong god 1; may we overcome (all) hostile powers.
Agni, may we be able to guide the prizewinning (horses) of you, a god; may we cross beyond hatreds.
O könnten deine Rosse wir, des Gottes Agni lenken doch, Dann drängen durch die Feinde wir.
Agni! Wir möchten imstande sein, deine, des Gottes, Siegesrosse zu lenken; wir möchten den Anfeindungen entrinnen.
О Агни. да сумеем мы у тебя, бога,
Обуздать коней, приносящих награды!
Да пересечем мы проявления ненависти!
स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्य॑: । शो॒चिष्के॑श॒स्तमी॑महे ॥
स॒म्ऽइ॒ध्यमा॑नः । अ॒ध्व॒रे । अ॒ग्निः । पा॒व॒कः । ईड्यः॑ । शो॒चिःऽके॑शः । तम् । ई॒म॒हे॒ ॥
यः अग्निः अध्वरे यज्ञे समिध्यमानः घृताज्याहुतिभिः सम्यक् प्रज्वल्यमानः अत एव शोचिष्केशः ज्वालाकेशः पावकः शोधकः ईड्यः स्तोतृभिः प्रशस्यो भवति तम् इममभिमतफलार्थम् ईमहे वयं याचामहे ॥ ईड्यः । ‘ ईड स्तुती ' इत्यस्माण्ण्यत् । अस्य ‘ तित्स्वरितम् । इति स्वरितत्वे प्राप्ते 'ईडवन्द ' इत्यादिना आद्युदात्तत्वम् । ईमहे । ई कान्त्यादिषु । अयं धातुरत्र याच्ञार्थः । निघातः ॥
“We solicit that Agni, who is being kindled at the sacrifice, the purifier, the adorable, whose hair is flame.”
Kindled at sacrifices he is Agni, hallower, meet for praise,
With flame for hair: to him we seek.
Agni, inflamed at the sacrifice, the purifier who should be magnified, whose hair is flame—him we approach (with prayers).
Being kindled in the rite, the purifying Agni to be summoned,
he with flaming hair—him do we beg.
Der helle Agni wird entflammt, beim Opferfest des Preises werth, Den flammenhaar'gen flehn wir an.
Bei der Opferhandlung entzündet ist der lautere Agni mit den Flammenhaaren anzurufen - an ihn wenden wir uns.
Зажигаемый во время обряда
Агни, очищающий, достойный призывов,
Пламенновласый – к нему мы обращаемся.
पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥
पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । घृ॒तऽनि॑र्निक् । सुऽआ॑हुतः । अ॒ग्निः । य॒ज्ञस्य॑ । ह॒व्य॒ऽवाट् ॥
पृथुपाजाः प्रभूततेजोरूपः अमर्त्यः मरणधर्मरहितः घृतनिर्णिक् । घृतस्य विलयनद्वारा शोधनं येनेति घृतनिर्णिक् । स्वाहुतः सुष्ठु होत्रादिभिः सम्यगिष्टः । एवंभूतः अग्निर्यज्ञस्य ज्योतिष्टोमादेः 'हव्यवाट् हव्यानां वोढा भवति ॥ पृथुपाजाः । कृदुत्तरपदस्वरः । स्वाहुतः । जुहोतेः कर्मणि क्तः । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । हव्यवाट् ।' वहश्च' इति ण्विः ॥ २८ ॥
“Agni, the bright-shining, the immortal, the cleanser with clarified butter, the fitly-involved, the bearer of the oblation in the sacrifice.”
Immortal Agni, shining far, enrobed with oil, well worshipped, bears
The gifts of sacrifice away.
With his broad stream of light the immortal Agni, clothed in ghee, well served with oblations, is the carrier of offerings at the sacrifice.
Of broad visage, immortal, ghee-cloaked, receiving well-poured oblations, Agni is the oblation-carrier of the sacrifice.
Weitschimmernd der unsterbliche, mit Fett umkleidet, schön getränkt, Agni, der Opferspeisen fährt.
Von breiter Gestalt, unsterblich, in Schmalz festlich gekleidet, mit Schmalz schön begossen, ist Agni der Spendenfahrer des Opfers.
С широкой грудью, бессмертный,
С нарядом из жира, прекрасно политый (жиром)
Агни – возница возлияний жертвы.
तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव॑न्तः । आ च॑क्रुर॒ग्निमू॒तये॑ ॥
तम् । स॒ऽबाधः॑ । य॒तऽस्रु॑चः । इ॒त्था । धि॒या । य॒ज्ञऽव॑न्तः । आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये॑ ॥
सबाधः । रक्षोघ्नमन्त्रोच्चारणेन तद्विषयबाधा सह वर्तन्ते इति सबाधः । यज्ञवन्तः यजनीयहविर्युक्ताः यतस्रुचः । यताः संयताः स्रुचो जुह्वाद्याः यैस्ते यतस्रुचः ऋत्विजः । इत्था इत्थमनेन प्रकारेण क्रियमाणया धिया स्तुत्या तम् एवंभूतम् अग्निमूतये राक्षसबाधात् रक्षणाय आ अभिमुखं चक्रुः कुर्वन्ति ॥ सबाधः । ‘ बाधृ विलोडने ' इत्यस्मात् क्विप् । कृदुत्तरपदस्वरः । इत्था । इदंशब्दात् प्रकारार्थे इदमस्थमुः । तस्य ' सुपां सुलुक्° ' इति डादेशः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । चक्रुः । ‘डुकृञ् करणे' इत्यस्य लिट्युसि यणादेशे कृते तस्य द्विर्वचनेऽचि' इति स्थानिवद्भावात् द्विर्वचनम् । निघातः ॥
“The exorcisers (of the demons), lifting up their ladles, and offering sacrifice, have called upon Agni by this ceremony for their protection.”
The priests with ladles lifted up, worshipping here with holy thought,
Have brought this Agni for our aid.
Holding the (sacrificial) ladles, performing the sacrifice they have with right thought pressingly brought Agni hither 1 for help.
With their sacrificial spoons held out, bringing the sacrifice with their insight just so, they eagerly
put Agni here for help.
Den Agni schaffen sich herbei mit rechter Andacht opferreich Die Löffel-Lenker eifervoll.
Den Agni haben sie eifrig mit bereitgehaltenem Löffel so recht von Herzen opfernd zur Gunsterweisung bewogen.
Настойчивые, с протянутой жертвенной ложкой,
Приносящие жертву вот так вместе с молитвой,
Они приготовили этого Агни для помощи.
होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ । वि॒दथा॑नि प्रचो॒दय॑न् ॥
होता॑ । दे॒वः । अम॑र्त्यः । पु॒रस्ता॑त् । ए॒ति॒ । मा॒यया॑ । वि॒दथा॑नि । प्र॒ऽचो॒दय॑न् ॥
होता होमनिष्पादकः अमर्त्यः मरणधर्मरहितः देवो द्योतमानः विदथानि वेदितव्यानि कर्माणि प्रचोदयन् प्रकर्षेण प्रेरयन् सोऽग्निः मायया कर्मविषयाभिज्ञानेन युक्तः सन् पुरस्तात् कर्मप्रारंभकाले एव एति अस्मानागच्छति ॥ मायया । ' माङ् माने शब्दे च ' इत्यस्मात् ‘ माच्छाससिसूभ्यो यः' इति कर्तरि कर्मणि वा यप्रत्ययः । मिमीते जानीते कर्म मीयतेऽनयेति वा माया कर्मविषयज्ञानम् । प्रत्ययस्वरः। विदथानि । विद ज्ञाने' इत्यस्मात् ‘ रुदिविदिभ्यां कित्' (उ, सू. ३. ३९५) इति कर्मणि अथप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः ॥
“The offerer of the oblation, the divine, immortal, Agni, comes first (at the ceremony) directing solemnities by his experiences.”
Immortal, Sacrificer, God, with wondrous power he leads the way,
Urging the great assembly on.
The Hotri, the immortal god goes in front with his secret power 1, instigating the sacrifices 2.
As the Hotar, the immortal god goes in front with his craft,
spurring on the ritual distributions.
Vor schreitet weisheitsvoll der Gott, der Priester der unsterbliche, Und treibt die Festgenossen an.
Als Hotri geht der unsterbliche Gott voran mit Zauberkraft, die Worte der Weisheit anregend.
Хотар, бессмертный бог,
Он идет впереди благодаря (своей) чудесной силе,
Приводя в возбуждение места жертвенных раздач.
वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते । विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥
वा॒जी । वाजे॑षु । धी॒य॒ते॒ । अ॒ध्व॒रेषु॑ । प्र । नी॒य॒ते॒ । विप्रः॑ । य॒ज्ञस्य॑ । साध॑नः ॥
वाजी बलवानग्निः वाजेषु युद्धेषु धीयते देवैः शत्रुहननार्थं निधीयते । किंच अध्वरेषु अग्निहोत्रादिषु प्र णीयते अध्वर्वा्रदिभिः प्रकर्षेण आहवनीयादिस्थानेषु प्रक्षिप्यते । अत एव विप्रः मेधावी सन्नग्निः यज्ञस्य अग्निहोत्रादेः साधनः साधको भवति ॥ धीयते । दधातेः कर्मणि यक्। घुमास्थागापा ' इत्यादिना ईत्वम् । निघातः । नीयते । ‘णीञ् प्रापणे' इत्यस्य कर्मणि यकि रूपम् । उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । साधनः । ‘ साध संसिद्धौ' । नन्द्यादित्वात्कर्तरि ल्युः । लित्स्वरः ॥
“The mighty Agni is plural ced (foremost by the gods) in battle; he is brought forward reverently at holy rites; for he is the sage fulfiller of the sacrifice. ”
Strong, he is set on deeds ofstrength. In sacrifices led in front,
As Singer he completes the rite.
The strong (horse, i. e. Agni) is set at the races. He is led forth at the sacrifices, the priest, the accomplisher of sacrifice.
The prizewinner is placed among the prizes. He is led forth in the rites as the inspired poet bringing success to the sacrifice.
Zu Speisen wird er speisereich gesetzt, zu Opfern vorgeführt, Der Feier weiser Förderer.
Der Preisgewinner wird in seine Ehrengaben eingesetzt, bei den Opferhandlungen wird er vorgeführt, der redkundige Ausrichter des Opfers.
Скакуна, приносящего награды, помещают среди наград;
Его ведут впереди во время обрядов,
(Его,) вдохновенного, приводящего жертву к цели.
धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे । दक्ष॑स्य पि॒तरं॒ तना॑ ॥
धि॒या । च॒क्रे॒ । वरे॑ण्यः । भू॒ताना॑म् । गर्भ॑म् । आ । द॒धे॒ । दक्ष॑स्य । पि॒तर॑म् । तना॑ ॥
योऽग्निः धिया आधानपवमानेष्टिरूपेण कर्मणा चक्रे आहवनीयरूपतया कृतोऽभूत् अत एव वरेण्यः सर्वैर्यजमानैः कर्माङ्गत्वेन वरणीयः यश्चाग्निः भूतानां स्थावरजङ्गमात्मकानां भूतजातानामन्तः गर्भं स्वात्मानमेव गर्भरूपतया आ दधे सर्वत्र दधार पितरं सर्वस्य जगतः पालकं तमिममग्निं दक्षस्य दक्षप्रजापतेः तना तनया वेदिरूपा भूमिर्दर्शपूर्णमासाग्निहोत्रादिकर्मसिद्ध्यर्थं धारयति । भूमेर्दक्षदुहितृत्वे' मन्त्रवर्णः- अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ' (ऋ. सं. १०. ७२. ५) इति ॥ चक्रे । करोतेः कर्मणि लिटि रूपम् । गर्भम् । 'गॄ निगरणे' इत्यस्मात् ‘अर्तिगॄभ्यां भन्' इति भन् । गिरति गीर्यते वा गर्भः । नित्त्वादाद्युदात्तः । दधे । दधादेर्लिटि रूपम् । पितरम् । • पा रक्षणे'। ‘नप्तृनेष्टृ' इत्यादिना तृजन्तत्वेन निपातनादित्वम् । पाति पालयतीति पिता पालकः । चित्स्वरः । तना । यलोपश्छान्दसः ॥
“He who has been made by the sacred rite, the choice (of the worshipper), who comprehends (within himself) the germ of all creatures, and whom the daughter of Dakṣa (receives) as the parent of the world.”
Excellent, he was made by thought. The Germ of beings have I gained,
Yea, and die Sire of active strength.
He has been produced 1 by prayer, the excellent one. I have established 2 him, the germ of beings, for ever the father of Daksha 3.
Through insight the one to be chosen has been created. He has received as the embryo of living beings
the father of skill through the continuity (of his fires).
Durch Andacht ward er holdgestimmt, der Wesen Samen hegte er; Den Vater er, des Geistes Spross.
Mit Andacht wurde der Auserwählte erzeugt. Er empfing den Keim der Wesen, als Kind des Daksa seinen Vater Daksa.
Достойный избрания был создан молитвой.
Он воспринял зародыша (всех) существ –
Отца Дакши в непрерывной череде.
नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत । अग्ने॑ सुदी॒तिमु॒शिज॑म् ॥
नि । त्वा॒ । द॒धे॒ । वरे॑ण्यम् । दक्ष॑स्य । इ॒ळा । स॒हः॒ऽकृ॒त॒ । अग्ने॑ । सु॒ऽदी॒तिम् । उ॒शिज॑म् ॥
उक्तार्थः अनयर्चा विव्रियते । सहस्कृत मथनाख्येन बलेन निष्पन्न हे अग्ने सुदीतिं शोभनदीप्तियुक्तम् उशिजं पुरोडाशादिहविः कामयमानम् । यद्वा कर्मार्थिभिः काम्यमानम् । अत एव वरेण्यं तैर्वैरणीयं त्वा एवंविधं त्वां दक्षस्य दुहिता इळा वेद्यादिलक्षणा भूमिः नि दधे अग्निहोत्रादिकर्मसमृद्य्वर्थं नितरां दधार ॥ इळा । ‘ ईड स्तुतौ ' ।' पुंसि संज्ञायाम् ' इत्यत्र प्रायिकवचनात् स्त्र्यर्थेऽपि घप्रत्ययः । ह्रस्वश्छान्दसः । संज्ञापूर्वकस्य विधेरनित्यत्वात् अगुणः । ईड्यन्ते स्तूयन्तेऽस्यां यजमानैर्देवा इतीळा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । प्रत्ययस्वरः । उशिजम् । वश कान्तौ' इत्यस्मात् ' वशः किच्च' इतीजिप्रत्ययः । कित्त्वात्संप्रसारणम् । वष्टि हविः कामयते उश्यते काम्यते कर्मार्थिभिः इति वा उशिक् अग्निः । प्रत्ययस्वरः ॥ ॥ २९ ॥
“Agni, strength-engendered, Iḷā (the daughter) of Dakṣa has sustained you, the desirable, the resplendent, and longing (for the oblation).”
Thee have I stablished, Excellent, O strengthened by the sage's prayer,
Thee, Agni, longing, nobly bright.
I have laid thee down 1, the excellent one, with the nourishment 2 of Daksha, O thou who art produced by power, O Agni, thee the resplendent one, O Usig 3.
I have installed you, the one to be chosen, (the father) of skill, o you who are made with strength by the libation;
(I have installed) you, the bright shining fire-priest, o Agni.
Dich holden setzte nieder ich, durch Trunk der gekräftigter, Den Agni, welcher heischend glänzt.
Dich, den zu Erwählenden, habe ich eingesetzt, du von der Id mit Kraft erzeugter Sohn des Daksa, den leuchtenden Usij, o Agni.
Я устроил тебя, достойного избрания,
(Отца) Дакши, о ты, созданный силой с помощью возлияния,
О Агни, (тебя,) прекрасно сверкающего Ушиджа.
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुष॑: । विप्रा॒ वाजै॒: समि॑न्धते ॥
अ॒ग्निम् । य॒न्तुर॑म् । अ॒प्ऽतुर॑म् । ऋ॒तस्य॑ । योगे॑ । व॒नुषः॑ । विप्राः॑ । वाजैः॑ । सम् । इ॒न्ध॒ते॒ ॥
वनुषः कर्मसिद्ध्यर्थं संभजमानाः विप्राः मेधाविनोऽध्वर्वाघादयः यन्तुरं सर्वस्य नियन्तारम् । यद्वा क्षिप्रं गन्तारम् । अप्तुरम् अपां प्रेरकं तमिमम् अग्निम् ऋतस्य सत्यभूतस्य ज्योतिष्टोमादेः योगे प्रयोगार्थं वाजैः हविर्लक्षणैरन्नैः समिन्धते सम्यग्दीपयन्ति ॥ यन्तुरम् । वर्णव्यत्ययः । यन्तारमित्यर्थः । अप्तुरम् । ‘ तुर त्वरणे' । अपस्तुतोर्ति त्वरयतीति क्विप् । कृदुत्तरपदस्वरः । योगे । ‘ युजिर् योगे'। भावे घञ् । चजोः कुघिण्ण्यतोः' इति कुत्वम् । ञित्स्वरः । वनुषः । ‘ वन षण संभक्तौ । ‘ जनेरुसिः ' इत्यधिकारे बहुलवचनादस्मादपि उसिः । प्रत्ययस्वरः । इन्धते । ‘ ञिइन्धी दीप्तौ ' । निघातः ॥
“The wise (priests) performers (of the ceremony) kindle with oblations for the due celebration of the rite, Agni, the regulator (of all), the sender of the rain.”
Agni, the swift and active One, singers, at time of sacrifice,
Eagerly kindle with their food.
The priests, eager to set to work the Rita 1, kindle with quick strength Agni the governor 2, him who crosses the waters 3.
Agni, guiding (his horses) and crossing the waters—at the harnessing of the truth, the eager
inspired ones kindle him with the prizes of victory.
Den raschen Lenker, Agni, ihn entflammen hell zur Opferzeit Mit Speisen Priester eifervoll.
Den Agni, den Lenker, der über die Gewässer hinüberkommt, zünden eifrig bei der Ausübung des rechten Brauches die Redekundigen unter Ehrengaben an.
Агни, правящего (конями), пересекающего воды,
Ревностные поклонники, вдохновенные, зажигают
С помощью наград, чтобы пустить в ход закон.
ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ । अ॒ग्निमी॑ळे क॒विक्र॑तुम् ॥
ऊ॒र्जः । नपा॑तम् । अ॒ध्व॒रे । दी॒दि॒ऽवांस॑म् । उप॑ । द्यवि॑ । अ॒ग्निम् । ई॒ळे॒ । क॒विऽक्र॑तुम् ॥
ऊर्जो नपातं हविर्लक्षणैः अन्नैः समिध्यमानत्वेनान्नस्य पुत्रम् । यद्वान्नस्य चतुर्थम् । यथान्नात् आहुतिराहुतेरादित्य आदित्यादग्निरिति । उप द्यवि अन्तरिक्षस्य समीपे 'दीदिवांसम् अतिशयेन दीप्यमानं कविक्रतुम् । कवयो मेधाविनोऽध्वर्वा आदयो मथनेन क्रतवः कर्तारो यस्येति । अध्वर्य्वादिभिः निष्पाद्यमानं तमिमम् अग्निम् अध्वरे अस्मिन्यज्ञे ईळे स्तुतिलक्षणाभिर्गीर्भिरहं स्तौमि ॥ ऊर्जः । ‘ ऊर्ज बले ' इत्यस्मात् ' भ्राजभास' इत्यादिना ताच्छीलिकः क्विप् । ऊर्जयति शरीरमित्यूर्क् अन्नम् । सावेकाचः' इति विभक्तेरुदात्तस्वम् । द्यवि। ‘ द्युत दीप्तौ ' इत्यस्मात् औणादिको डुन्प्रत्ययः । द्योतते किरणसंबन्धादिति द्युः अन्तरिक्षम् । नित्स्वरः । ईळे । लटि रूपम् ॥
“I adore at this sacrifice Agni the grandson of (sacrificial) food, shining above in the firmament, the creation of the wise.”
Agni the Son of Strength who shines up to the heaven in solemn rites,
The wise of heart, I glorify.
I magnify 1 the child of vigour at this sacrifice, who shines under the heaven, the thoughtful Agni.
The child of nourishment, shining in the rite up to heaven,
having a poet’s purpose, Agni—him I summon.
Den Sohn der Stärke preise ich, ihn, welcher strahlt zum Himmel auf, Den ew'gen Agni bei dem Fest.
Das Kind der Kraft, der bei der Opferhandlung zum Himmel leuchtet, den Agni rufe ich an, der Sehergabe besitzt.
Отпрыска подкрепления, ярко сверкающего
Во время обряда до (самого) неба,
Агни я призываю, наделенного силой духа поэта.
ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः । सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥
ई॒ळेन्यः॑ । न॒म॒स्यः॑ । ति॒रः । तमां॑सि । द॒र्श॒तः । सम् । अ॒ग्निः । इ॒ध्य॒ते॒ । वृषा॑ ॥
ईळेन्यः स्तोतृभिरीड्यः अत एव नमस्यः सर्वैर्नमस्कार्यः तमांसि तिरः ध्वान्तानि स्वप्रभाभिस्तिरस्कुर्वन् दर्शतः कमनीयतया सर्वैर्दर्शनीयः । तादृशः अग्निः वृषा यजमानस्य कामानां वर्षिता सम् इध्यते आहुतिप्रक्षेपेण प्रज्वाल्यते । उक्तार्थे वाजसनेयकम्-- ईडेन्यो ह्येष नमस्यो ह्येष तिरस्तमांसि ददृशे समिद्धः' इति । ईळेन्यः । ‘ ईड स्तुतौ ' । ‘ कृत्यार्थे तवैकेन्केन्यत्वनः' इति केन्यः । प्रत्ययस्वरः । नमस्यः । नमस्यतेः ‘अचो यत्' इति यत् । अतोलोपयलोपौ ।' तित्स्वरितः ' इति स्वरितः । दर्शतः । ‘ दृशिर् प्रेक्षणे ' । अस्मात्० ‘ भृमृदृशि° ' इत्यादिना कर्मणि अतच्प्रत्ययः । चित्स्वरः । वृषा । ' वृषु सेचने ' इत्यस्मात् 'कनिन्युवृषि° ' इत्यादिना कनिन् । कित्त्वादगुणः । नित्त्वादाद्युदात्तः ॥
“Agni, who is to be worshipped with praise and with prostration, the dispeller of darkness, the beautiful, the showerer (of benefits) is kindled.”
Meet to be lauded and adored, showing in beauty through the dark,
Agni, the Strong, is kindled well.
He who should be magnified and adored, who is visible through the darkness, Agni, the manly, is kindled 1.
As the one to be summoned, to be revered, visible throughout the darkness,
the bull Agni is kindled.
Der preisenswerth, verehrungswerth, hin durch das Dunkel sichtbar ist, Agni, der Stier, wird hell entflammt.
Anzurufen, zu verehren, durch das Dunkel sichtbar, wird Agni, der Bulle entzündet.
Достойный призывов, достойный поклонений,
Видимый сквозь мрак
Воспламеняется Агни-бык.
वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः । तं ह॒विष्म॑न्त ईळते ॥
वृषो॒ इति॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः॑ । न । दे॒व॒ऽवाह॑नः । तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ ॥
वृषो वृषेव कामानां वर्षिता देववाहनः । देवान् हवींषि वाहयति प्रापयतीति देववाहनः । तत्र दृष्टान्तः । अश्वो न इति । यथाश्वो राजानं वाहयति स्वपुरं प्रापयतीति । वाहनमश्वः । तद्वत् वाहनभूतो यः अग्निः समिध्यते आज्याहुतिप्रदानेन सम्यक् दीप्यते तं तादृशमग्निं हविष्मन्तः
संभृतहविष्का यजमानाः ईळते कर्मसिद्ध्यर्थं स्तुवन्ति ॥ वृषा उ। गुणः । उञमवलम्ब्य प्रगृह्यसंज्ञा । देववाहनः । वह प्रापणे ' इत्यस्माण्ण्यन्तात्कर्तरि ल्युः । लित्स्वरः । समासे कृदुत्तरपदस्वरः ॥
“The offerers of oblations glorify that Agni who is the showerer (of benefits) and is the bearer of the offerings to the gods as a horse (bears his rider to his home).”
Agni is kindled as a bull, like a horsebearer of the Gods:
Men with oblations worship him.
Agni, the manly, is kindled, he who draws hither the gods like a horse. The (worshippers) rich in offerings magnify him.
The bull Agni is kindled, conveying the gods like a horse.
Bearing offerings, they summon him.
Agni, der Stier, wird hell entflammt, gleich wie ein Ross, das Götter fährt, Ihn ehren wir mit Opfertrank.
Der Bulle Agni wird entzündet, der wie ein Roß die Götter fährt. Ihn berufen sie mit den Opfergaben.
Бык-Агни воспламеняется,
(Он,) словно конь, везущий богов.
(Люди) с жертвенными возлияниями призывают его.
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑ण॒: समि॑धीमहि । अग्ने॒ दीद्य॑तं बृ॒हत् ॥
वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑णः । सम् । इ॒धी॒म॒हि॒ । अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥
वृषन् कामानां वर्षितर्हे अग्ने वृषणः वृषाण: घृताज्याहुतीनां सेक्तारः वयं वृषणम् आहुतिद्वारा उदकस्य सेक्तारम् । तथा च स्मृतिः- अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' (मनु. ३. ७६)इति । दीद्यतं दीप्यमानं बृहत् अत एव महान्तं त्वा त्वाम् अग्निं 'समिधीमहि सम्यग्दीपयामः ॥ इधीमहि । ञिइन्धी दीप्तौ ' इत्यस्य प्रार्थने लिङि नकारलोपश्छान्दसः । निघातः । दीद्यतम् । दीदेतिः दीप्तिकर्मा । तस्य शतरि रूपम् ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ ३० ॥
“Showerer (of benefits) we profusely offering (oblations) kindle you mighty and resplendent Agni, who is the sender of showers.”
Thee will we kindle as a bull, we who are Bulls ourselves, O Bull.
Thee, Agni, shining mightily.
We the manly ones will kindle thee the manly (god), O manly Agni who shinest mightily.
As bulls ourselves, o bull, may we kindle you, the bull,
shining aloft, o Agni.
O Stier, dich wollen wir, den Stier, entflammen, die wir Stiere sind, O Agni, dich, der hell erstrahlt.
Dich, den Bullen, wollen wir Bullen, o Bulle, entflammen, den hoch aufleuchtenden, o Agni.
Тебя, быка, мы, быки,
О бык, хотим зажечь,
О Агни, (тебя) сверкающего высоко!