अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः । प्रा॒त॒:सा॒वे धि॑यावसो ॥
अग्ने॑ । जु॒षस्व॑ । नः॒ । ह॒विः । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ । प्रा॒तः॒ऽसा॒वे । धि॒या॒व॒सो॒ इति॑ धियाऽवसो ॥
विश्वामित्रः स्तौति । जातवेदः जातप्रज्ञ धियावसो । धिया स्तोत्रेण वसु धनं यस्माद्भवति सोऽयं धियावसुः । तस्य संबुद्धिः । कर्मानुरूपधनप्रद हे अग्ने प्रातःसावे अग्निष्टोमे प्रातःसवने नः अस्मत्संबन्धि पुरोडाशं पुरोडाशाख्यं हविः जुषस्व सेवस्व । जुषस्व । ‘जुषी प्रीतिसेवनयोः' इत्यस्मात् लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः। प्रातःसावे । षुञ् अभिषवे । सवनं सावः । भावे घञ् । थाथघञ्क्ताजबित्रकाणाम् ' इत्यन्तोदात्तत्वम् । धियावसो । विभक्त्यलोपश्छान्दसः । आमन्त्रितत्वान्निघातः ॥
“Agni, by whom all is known, who rewards pious acts with wealth, accept our cakes offered with butter at the morning worships.”
AGNI who knowest all, accept our offering and the cake of meal,
At dawn's libation, rich in prayer!
O Agni Gâtavedas, accept graciously our offering, the sacrificial cake at the morning libation, O god who givest wealth for our prayers.
O Agni, enjoy our offering, our sacrificial cake, o Jātavedas,
at the Early Morning Pressing, o you who are rich through insight.
Nimm, Agni, unser Opfer an, o Wesenkenner, das Gebäck Beim Morgenmahle voller Huld.
Agni, laß dir unsere Opfergabe, den Reiskuchen, bei der Morgenspende schmecken, o Jatavedas, du an Weisheit Reicher!
О Агни, наслаждайся нашим возлиянием,
Рисовой лепешкой, о Джатаведас,
На утреннем выжимании (сомы), о одетый поэтической мыслью!
पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः । तं जु॑षस्व यविष्ठ्य ॥
पु॒रो॒ळाः । अ॒ग्ने॒ । प॒च॒तः । तुभ्य॑म् । वा॒ । घ॒ । परि॑ऽकृतः । तम् । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥
यविष्ठ्य युवतम हे अग्ने यः पुरोळाः । पुरोडाशन्तेऽध्वर्य्वादयः४ एनमिति पुरोडाः पुरोडाशः। पचतः कपालयोः पक्वोऽस्ति । स च तुभ्यं त्वदर्थं परिष्कृतः वा घ पर्यग्निकरणादिभिरलंकृतः खलु । तम् इमं पुरोडाशं जुषस्व सेवस्व ॥ पुरोळाः । ‘ दाशृ दाने ' इत्यस्मात् पुरस्पूर्वात् ' मन्त्रे श्वेतवहोक्थशस्पुरोडशो ण्विन् ' ( पा. सू. ३. २. ७१ ) इति कर्मणि ण्विनि कृते ' श्वेतवहादीनां डस्पदस्य ' ( पा. सू. ३. २. ७१. १) इति डस्प्रत्यये च कृते ' अवयाः श्वेतवाः पुरोडाश्च ' ( पा. सू. ८. २, ६७ ) इति निपातनाद्दकारस्य डत्वम् । पुरोडाशन्त एनमिति पुरोडाः पुरोडाशः । डकारस्य लकारो बह्वृचसांप्रदायिकः । कृदुत्तरपदस्वरः । पचतः । ‘डुपचष् पाके' इत्यस्मात् ‘ भृमृदृशि' इत्यादिना कर्मणि अतच्प्रत्ययः । पच्यतेऽसाविति पचतः पक्वः । चित्स्वरः । घा । ‘ ऋचि तुनुघ' इत्यादिना संहितायां दीर्घः । परिष्कृतः । ‘ संपर्युपेभ्यः करोतौ भूषणे' (पा. सू. ६. १. १३७ ) इति करोतेः सुडागमः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । यविष्ठ्य । यविष्ठ एव यविष्ठ्यः । ‘ पादार्घाभ्यां च ' इत्यत्र चकारेण वस्वादीनां स्वार्थे यत्प्रत्ययस्योपादानात् यविष्ठेयत्यत्र स्वार्थिको यत्प्रत्ययः ( का. ५. ४. २५ )। आमन्त्रितत्वान्निघातः ॥
“The cakes and butter are dressed, Agni, and verily prepared for you; accept them youngest (of the gods).”
Agni, the sacrificial cake hath been prepared and dressed for thee:
Accept it, O Most Youthful God.
The sacrificial cake, O Agni, has been baked or made ready for thee: accept it graciously, O youngest (god).
The sacrificial cake has been cooked, o Agni, or rather, perfected for you. Enjoy it, o youngest one.
Gebacken ist der Kuchen dir, und, Agni, dir zurecht gemacht, Gniesse ihn, o jüngster du.
Der Reiskuchen ist gar, o Agni, oder vielmehr für dich zubereitet; den laß dir schmecken, du Jüngster!
Испеклась, о Агни, рисовая лепешка,
Или, вернее, для тебя она приготовлена.
Наслаждайся ею, о самый юный!
अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यम् । सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥
अग्ने॑ । वी॒हि । पु॒रो॒ळाश॑म् । आऽहु॑तम् । ति॒रःऽअ॑ह्न्यम् । सह॑सः । सू॒नुः । अ॒सि॒ । अ॒ध्व॒रे । हि॒तः ॥
हे अग्ने तिरोअह्नयम् अह्नि तिरोहिते सति आहुतम् आ समन्तात् हुतं पुरोडाशं पुरोडाशाख्यं हविः वीहि भक्षय । अध्वरे अस्मिन्यज्ञे सहसः सूनुः बलस्य पुत्रस्त्वं हितः असि आहवनीयादिस्थानेष्वस्माभिर्निहितोऽसि । तस्माद्वीहीति शेषः ॥ वीहि । वी कान्तिगत्यादिषु । लोटि रूपम् । हेरपित्वादन्तोदात्तत्वम् । आहुतम् । जुहोतेः कर्मणि क्ते ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । तिरोअह्नयम् । अह्नि भवमह्नयम् । ‘भवे छन्दसि ' इति यत् । तिरोभूतमह्न्यं यस्मिन् काले स तिरोअह्नयः । रात्रिकाल इत्यर्थः । ‘ कालध्वनोरत्यन्तसंयोगे' इति द्वितीया । ‘ प्रकृत्यान्तःपादम्' इत्येङः प्रकृतिभावः । बहुव्रीहौ पूर्वपदस्वरः ॥
“Eat, Agni, the cakes and butter offered as the day disappears; you, son of strength, are stationed (by us) at the sacrifice.”
Agni, enjoy the cake of meal and our oblation three days old:
Thou, Son of Strength, art stablished at our sacrifice.
Agni, accept eagerly the sacrificial cake which has been offered, which has stood overnight. Thou art the son of strength, established at the sacrifice.
O Agni, seek after the offered sacrificial cake “aged overnight.”
You are the son of strength, installed in the rite.
Den Kuchen iss, o Agni, du, der gestern gor, mit Guss versehn, Als Sohn der Kraft beim Opferfest.
Agni! Hab nach dem geopfertem Reiskuchen Gelüst, der einen Tag alt ist. Du, der Sohn der Stärke, bist zum Opfer bestellt.
О Агни, одобри рисовую лепешку,
Политую (сомой,) бродящим вторые сутки!
Ты, о сын силы, поставлен при обряде.
माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व । अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीरा॑: ॥
माध्य॑न्दिने । सव॑ने । जा॒त॒ऽवे॒दः॒ । पु॒रो॒ळाश॑म् । इ॒ह । क॒वे॒ । जु॒ष॒स्व॒ । अग्ने॑ । य॒ह्वस्य॑ । तव॑ । भा॒ग॒ऽधेय॑म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे॑षु । धीराः॑ ॥
कवे मेधाविन् हे जातवेदः इह अस्मिन् अग्निष्टोमाख्ये कर्मणि तत्र च माध्यंदिने मध्यंदिनसंबन्धिनि सवने पुरोडाशं माध्यंदिनसवनीयपुरोडाशं जुषस्व सेवस्व । हे अग्ने विदथेषु यज्ञेषु धीराः कर्मकुशला अध्वर्य्वादयः यह्वस्य । यान्ति प्राप्नुवन्ति देवा हवींष्यनेनेति यह्वो महानग्निः । यह्वस्य महतः तव भागधेयं भागतया परिकल्पितमिमं पुरोडाशं न प्र मिनन्ति न हिंसन्ति । किंतु तुभ्यं प्रयच्छन्ति । तं जुषस्वेति शेषः ॥ माध्यंदिने । मध्यंदिनस्येदमित्यर्थे उत्सादित्वादञ् । ञित्वादादिवृद्धिः । ञित्त्वादेवाद्युदात्तत्वम् । यह्वस्य । ‘ या प्रापणे ' इत्यस्मात् ' शेवयह्वजिह्व° ' इति निपातनात्करणे वन्प्रत्ययः । हुगागमधातुह्रस्वौ । यान्त्यनेनेति यह्वोऽग्निः । व्यत्ययेनान्तोदात्तः । भागधेयम् । भागशब्दात्स्वार्थे ' भागरूपनामभ्यो धेयप्रत्ययो वक्तव्यः' ( पा. सू. ५. ४. ३६. २ ) इति धेयः । प्रत्ययस्वरः । मिनन्ति । ‘ मिञ् हिंसायाम्' इत्यस्य क्रयादित्वात् । । तस्मिन् “ मीनातेर्निगमे ' इति ह्रस्वत्वम् । ' हिनु मीना ' ( पा. सू. ८. ४.१५) इति णत्वं न भवति सर्वविधीनां छन्दसि विकल्पितत्वादिति ॥
“Wise Jātavedas accept the cakes and butter offered in this sacrifice at the mid-day rite; prudent (worshippers), withhold not at solemn ceremonies the portion of you who are mighty.”
Here at the midday sacrifice enjoy thou the sacrificial cake, wise, Jatavedas!
Agni, the sages in assemblies never minish the portion due to thee the Mighty.
At the midday libation, Gâtavedas, accept here graciously the sacrificial cake, O sage. Agni, the wise ones do not diminish at the sacrificial distributions 1 the portion which belongs to thee, the vigorous one 2.
At the Midday Pressing, o poet Jātavedas, enjoy the sacrificial cake here. O Agni, the wise do not diminish the portion that belongs to you, the youthful one, at the ritual distributions.
Bei mittäglichem Mahl, o Wesenkenner, geniess, o weiser, hier den Opferkuchen; o Agni, dies dein Opfertheil, des raschen; verkürzen nicht beim Feste die Verständ'gen.
Bei der Mittagsspende laß dir, Jatavedas, hier den Reiskuchen schmecken, du Weiser! Agni, deinen, des Jüngsten, Anteil schmälern nicht die in der Opferkunde Erfahrenen.
На полуденном выжимании сомы, о Джатаведас,
Наслаждайся здесь рисовой лепешкой, о поэт!
О Агни, долю, положенную тебе, самому юному,
Мудрые не уменьшают на местах жертвенных раздач.
अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् । अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ॥
अग्ने॑ । तृ॒तीये॑ । सव॑ने । हि । कानि॑षः । पुरो॒ळाश॑म् । स॒ह॒सः॒ । सू॒नो॒ इति॑ । आऽहु॑तम् । अथ॑ । दे॒वेषु॑ । अ॒ध्व॒रम् । वि॒प॒न्यया॑ । धाः । रत्न॑ऽवन्तम् । अ॒मृते॑षु । जागृ॑विम् ॥
सहसः सूनो बलस्य पुत्र हे अग्ने त्वं तृतीये सवने आहुतं हूयमानं पुरोडाशं कानिषः कामयसे । अथ अनन्तरम् अध्वरम् अविनाशिनं रत्नवन्तम् । रत्नशब्देन स्वर्गादिलक्षणमुत्तमं फलमभिधीयते । तद्वन्तं फलप्रदं जागृविं जागरणकारिणम् । प्रातः सोमो जागृविर्भवति स्वप्ननिवारक इति । तमिमं सोमं विपन्यया स्तुतिलक्षणया वाचा स्तुतस्त्वम् अमृतेषु मरणधर्मरहितेषु देवेषु इन्द्रादिषु धाः धेहि। हि पूरणः । तृतीये। त्रिशब्दात्पूरणार्थे ' त्रेः संप्रसारणम् । (पा.सू. ५. २. ५५) इति तीयप्रत्ययः । तत्संनियोगेन संप्रसारणम् । हलः' इति दीर्घो न भवति । अणिति(? अणः इति; पा. सू. ६. ३. १११ ) तत्रानुवर्तनात् प्रत्ययस्वरः । कानिषः । कनी कान्त्यादिषु । लेटि ‘ सिब्बहुलम् ' इति सिप् । तस्यार्धधातुकत्वादिडागमः । कान्तिरभिलाषः । अकारस्य आकारो व्यत्ययेन । हियोगादनिघातः । धातुस्वरः । विपन्यया । ‘पन स्तुतौ ' । भावे क्विप् । विपनं यतीति कप्रत्ययः । प्रत्ययस्वरः । धाः । दधातेः धातोः छान्दसे लुङि रूपम् । पादादित्वादनिघातः । जागृविम् । क्विन्प्रत्ययान्तो जागृविशब्दः । नित्स्वरः ॥
“Be plural ased, Agni, son of strength, with the cakes and butter offered at the third (daily sacrifice), and do you (propitiated) by praise convey the precious imperishable and awakening (oblation) to the immortal gods.”
O Agni, at the third libation takewith joy the offered cake of sacrifice, thou, Son of Strength.
Through skill in song bear to the Gods our sacrifice, watchful and fraught with riches, to Immortal God.
Agni, at the third libation take joyfully the sacrificial cake, O son of strength, which has been offered. And in thy admirable way place our wakeful sacrifice, blessed with treasures, before the immortal gods.
O Agni, since at the Third Pressing you will take pleasure in the
sacrificial cake offered you, o son of strength,
then (establish) the rite among the gods, amid their admiration; establish it, bearing treasure and wakeful, among the immortals.
Beim dritten Mahl', o Agni, lass dir munden nun den dargereichten Kuchen, o du Sohn der Kraft bring zu den Göttern liederregt das Opfer hin, das schatzbegabte, wache, den Unsterblichen.
Agni, so mögest du denn bei der dritten Spende den geopferten Reiskuchen genehmigen, du Sohn der Stärke. Und bring das Opfer unter Beifall zu den Göttern, das kostbare, das auf die Götter wartet.
О Агни, раз на третьем выжимании (сомы) тебе понравилась.
О сын силы, рисовая лепешка, политая (сомой),
То с помощью чуда помести среди богов обряд,
Приносящий сокровища, бодрствующий среди бессмертных!
अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः । जु॒षस्व॑ ति॒रोअ॑ह्न्यम् ॥
अग्ने॑ । वृ॒धा॒नः । आऽहु॑तिम् । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ । जु॒षस्व॑ । ति॒रःऽअ॑ह्न्यम् ॥
जातवेदः जातप्रज्ञ हे अग्ने वृधानः आहुतिभिर्वर्धमानस्त्वं तिरोअह्न्यम् । अह्निभवमह्न्यं दिवसकृत्यम् । तिरोभूतमह्न्यं यस्मिन्काले स तिरोअह्न्यो रात्रिकालः । तस्मिन्काले आहुतिं पुरोडाशाख्यं हविः जुषस्व सेवस्व ॥ आहुतिम् । जुहोतेः कर्मणि क्तिन् ।' तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ ३१ ॥
“Agni who is Jātavedas and is thriving upon oblations accept the cakes the butter as the day disappears.”
O waxing Agni, knower, thou, of all, accept our gifts, the cake,
And that prepared ere yesterday.
Agni, grown strong, O Gâtavedas, accept graciously our offering, the sacrificial cake which has stood overnight.
O Agni Jātavedas, becoming strong, enjoy the offering, the
sacrificial cake,
“aged overnight.”
Dich labend speise Agni nun den Kuchen, Wesenkenner auf, der gestern gor, den wir gebracht [wol âhutam zu lesen, wie in Vers 3].
Agni, dich stärkend, laß dir das Opfer, den Reiskuchen schmecken, der einen Tag alt ist, o Jatavedas!
О Агни, подкрепляясь, наслаждайся
Возлиянием, рисовой лепешкой,
Сопровождаемый позавчерашним (сомой), о Джатаведас!