अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् । ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म॑न्थाम पू॒र्वथा॑ ॥
अस्ति॑ । इ॒दम् । अ॒धि॒ऽमन्थ॑नम् । अस्ति॑ । प्र॒ऽजन॑नम् । कृ॒तम् । ए॒ताम् । वि॒श्पत्नी॑म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्वऽथा॑ ॥
यजमानोऽध्वर्य्वादीन्प्रति बूते । इदम् अग्न्यर्थं यूपशकलम् अस्ति । अधिमन्थनम् । अरण्याः उपरि निधेयं मन्थनसाधनभूतं दण्डरज्वादिकम् अस्ति । प्रजननम् अग्निजननसाधनभूतं दर्भपिञ्जूलं कृतं संपादितमस्ति । यद्वा प्रजननं मन्थनदण्डस्य विन्यासविशेषः । यस्मादेतानि यूपशकलादीन्यग्निमन्थनसाधनान्याहृतानि सन्ति तस्मात् विश्पत्नीं विशां प्रजानामग्निसाध्याग्निहोत्रद्वारा स्वर्गादिफलसंपादनेन पालयित्रीम् एताम् अरणीम् आ भर हे अध्वर्यो आहर । तस्यामाहृतायां पूर्वथा यथा वयमाधानकालेऽग्निममथ्नीम यथा वा पूर्वे महर्षयोऽग्निममन्थिषुः तद्वद्वयमेनम् अग्निम् अस्मिन्कर्मणि मन्थाम। मन्थनेन निष्पन्नं करवाम ॥ अस्तीति पदद्वयस्य पादादित्वादनिघातः । विश्पत्नीम् । पतिशब्दस्य ‘ विभाषा सपूर्वस्य ' इति ङीप् नकारश्चान्तादेशः। ‘ परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । भर । ‘ हृञ् हरणे ' इत्यस्य लोटि ‘ हृग्रहोर्भश्छन्दसि ' इति भकारः । मन्थाम। ‘ मन्थ विलोडने '। लोटि रूपम् । निघातः । पूर्वथा । पूर्वशब्दात् इवार्थे ' प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ' इति थाल्प्रत्ययः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
“This, the apparatus of attrition is ready; the genitive ration (of the flame) is ready; take up this (stick) the protectress of mankind, and let us churn the fire as has been done of old.”
HERE is the gear for friction, here tinder made ready for the spark.
Bring thou the Matron: we will rub Agni in ancient fashion forth.
1 This is the support on which the rubbing (for producing the fire) is performed 2; the creative organ 3 has been prepared. Bring hither the house-wife 4; let us produce Agni by rubbing in the old way.
Here is the base for fire-churning; here is the readied begetting tool [=upper fire-churning stick].
Bring here the clanlord’s lady [=lower fire-churning stick]. Let us churn Agni in the ancient way.
Hier ist das männliche Reibholz, es ist zum Zeugen bereit gemacht, bringe diese Hausfrau [das weibliche Reibholz] her- bei, wir wollen den Agni durch Reiben hervorbringen wie in früherer Zeit.
Dies ist das Reibegestell, das Zeugungsglied ist fertig. Bring die Stammesfürsten herbei, wir wollen wie vordem das Feuer ausreiben!
Есть эта основа для трения,
Есть уд, готовый к зачатию.
Приведи эту жену главы рода!
Мы хотим добывать трением Агни, как прежде.
अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु । दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ॥
अ॒रण्योः॑ । निऽहि॑तः । जा॒तऽवे॑दाः । गर्भः॑ऽइव । सुऽधि॑तः । ग॒र्भिणी॑षु । दि॒वेऽदि॑वे । ईड्यः॑ । जा॒गृ॒वत्ऽभिः॑ । ह॒विष्म॑त्ऽभिः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ॥
जातवेदाः सर्वविषयज्ञानवानयमग्निः अरण्योर्निहितः । देवैर्यज्ञार्थं नितरां स्थापितोऽस्ति । अत्र दृष्टान्तः । गर्भइव इति । यथा गर्भः गर्भिणीषु स्त्रीषु सुधितः सुष्ठु निहितो वर्तते तद्वत् । स तादृशः अग्निः हविष्मद्भिः संभृतहविष्कैरत एव जागृवद्भिः कर्मणि जागरूकैः मनुष्येभिः मनुष्यैरस्माभिः दिवेदिवे प्रत्यहमुत्पत्त्यर्थम् ईड्यः स्तुतिरूपाभिर्गीर्भिः स्तोतव्यः ॥ अरण्योः । ‘ऋ गतौ । ' अर्तिसृधृधमि' इत्यादिना अनिः । प्रत्ययस्वरः । निहितः। दधातेः कर्मणि निष्ठायां ‘ दधातेर्हिः ' इति हिरादेशः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सुधितः । दधातेः कर्मणि निष्ठा । तस्मिन् “ सुधित वसुधित° ' इत्यादिना निपातनात् धिरादेशः । दिवेदिवे । दिवु क्रीडादौ । इगुपधलक्षणः कः । ‘ नित्यवीप्सयोः' इति द्विर्वचनम् । तस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः । जागृवद्भिः । ‘ जागृ निद्राक्षये ' इत्यस्य क्वसौ रूपम् । ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति विकल्पितत्वात् द्विर्वचनाभावः । वसुस्रंसुध्वंस्वनडुहां दः ' (पा. सू. ८. २. ७२) इति वसोः सकारस्य दत्वम् । प्रत्ययस्वरः ॥
“Jātavedas has been deposited in the two sticks as the embryo is deposited in pregnant women; Agni is to be adored day by day by vigilant men laden with oblations.”
1n the two fire-sticks Jatavedas lieth, even as the well-set germ in pregnant women,
Agni who day by day must be exalted by men who watch and worship with oblations.
In the two fire-sticks dwells Gâtavedas, as the germ (lies) safe in pregnant women—Agni who should be magnified 1 day by day by wakeful men who bring offerings.
As Jātavedas, who is placed within the two fire-churning sticks, like an unborn child well placed within women with child,
Agni is to be summoned day after day by those awake, by the sons of Manu bearing offerings.
In die zwei Reibhölzer ist der Wesenkenner niedergesetzt, wie die schön gesetzte Frucht in die Schwangeren, der Tag für Tag zu preisen ist von den wachsamen, mit Opfertrank versehenen Menschen, Agni.
Agni Jatavedas ist in den beiden Reibhölzern verwahrt, wohlaufgehoben wie die Leibesfrucht in den Schwangeren. Tag für Tag ist Agni von den frühwachen Menschenkindern, die Opferspenden haben, anzurufen.
Джатаведас вложен в два куска дерева для трения,
Прекрасно помещен, словно зародыш в беременных.
День за днем должны призывать Агни
Рано встающие люди, имеющие жертвенные возлияния.
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान । अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥
उ॒त्ता॒नाया॒म् । अव॑ । भ॒र॒ । चि॒कि॒त्वान् । स॒द्यः । प्रऽवी॑ता । वृष॑णम् । ज॒जा॒न॒ । अ॒रु॒षऽस्तू॑पः । रुश॑त् । अ॒स्य॒ । पाजः॑ । इळा॑याः । पु॒त्रः । व॒युने॑ । अ॒ज॒नि॒ष्ट॒ ॥
चिकित्वान् ज्ञानवानध्वर्युस्त्वम् उत्तानायाम् अधरारण्यामुत्तानशयायाम् उत्तरारणिम् अव भर अधोमुखां धारय । अनन्तरं सा अधरारणिः सद्यः प्रवीता तदानीमेव निषिक्तरेतस्का सती वृषणं कामानां वर्षकमग्निं जजान जनयतु । अथ अस्य अग्नेः रुशत् तमो विनाशयत् पाजः तेजोमात्रं तत्राभूत्। अनन्तरम् अरुषस्तूपः आरोचमानतेजःसंघोपेतः इळायास्पुत्रः उत्तरवेद्या: उत्पन्नः अग्निः वयुने अरण्यां योनिस्थाने अजनिष्ट अजनि ॥ जजान । जन जनने '। लोडर्थे लिटि ‘ बहुलमन्यत्रापि संज्ञाछन्दसोः' इति णिलोपः । प्रत्ययान्तत्वाभावादाम्न भवति । निघातः ॥ अरुषस्तूपः । न विद्यते रुषः क्रोधो यस्येत्यरुषः । क्रोधराहित्येन रोचमान इत्यर्थः । ‘ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । ‘ ष्टुञ् स्तुतौ ' । ‘ स्तौतेर्दीर्घश्च ' ( उ. सू. ३. ३०५ ) इति पप्रत्ययः किञ्च धातोर्दीर्घश्च । स्तूयते इति स्तूपस्तेजःसंघः । अरुषः अरोचमानस्तेजःसंघो यस्येति बहुव्रीहौ पूर्वपदस्वर: । रुशत् । ‘रुश हिंसायाम् ' । शतरि रूपम् । वयुने । ‘ अज गतिक्षेपणयोः । ‘ अजियमिशीङ्भ्यश्च ' इत्युनन् चित्संज्ञकः । अजति वीयते वा वयुनमङ्गम् । प्रत्ययस्य व्यत्ययेनाद्युदात्तत्वम् । अजनिष्ट । जनी प्रादुर्भावे । लुङि सिचि रूपम् । निघातः ॥
“Let the intelligent priest plural ce the lower of the sticks with the face upwards, the upper (with the surface) downwards, so that quickly impregnated it may genitive rate the showerer (of benefits) Agni; then the bright blazing son of Iḷā whose light dissipates the darkness is born of the wood of attrition.”
Lay this with care on that which lies extended: straight hath she borne the Steerwhen made prolific.
With his red pillar-radiant is his splendour -in our skilled task is born the Son of Ila.
Place it 1 skilfully into her who lies extended 2. Having conceived she has quickly given birth to the manly one. He whose summit is red—bright is his splendour—the son of Ilâ has been born in the (due) way 3.
Attentive, bear down upon her who is opened up [=the lower
fire-churning stick]. Impregnated on this day, she has given birth to the bull.
With flame-red crests—his countenance is glowing—the son of the
libation has been born within the ritual pattern.
Zu der zum Beischlafe ausgestreckten [dem weiblichen Reibholze] bringe jenen [das männliche] her wohlachtend ; sogleich geschwängert, hat sie den Stier [Agni] geboren ; der rothgekrönte — glänzend ist sein Schimmer — der Sohn der Andacht wurde bei dem kunstreichen Werke [des Reibens] geboren.
Steck ihn kundig in die Ausgestreckte hinein. Gleich nach der Empfängnis hat sie den Bullen geboren. Mit rotem Schopfe - weiß ist sein Aussehen - ist der Sohn der Ila zu rechter Zeit geboren worden.
Вставь умело в растянутую!
Покрытая тотчас же родила быка.
С алой макушкой – светел его облик –
Родился сын Иды в отмеченное время.
इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
इळा॑याः । त्वा॒ । प॒दे । व॒यम् । नाभा॑ । पृ॒थि॒व्याः । अधि॑ । जात॑ऽवेदः । नि । धी॒म॒हि॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥
जातवेदः जातप्रज्ञ हे अग्ने अध्वर्य्वादयः वयं पृथिव्याः अधि भूमेरुपरि उत्तरवेद्यां नाभा नाभौ तस्या नाभिस्थाने मध्यप्रदेशे । तदेव स्थान विशेष्यते । इळायाः पदे मानव्या इडाया गोः पदे इडापदरूपे उत्तरवेद्यात्मके स्थाने त्वा त्वां हव्याय वोळ्हवे पुरोडाशादिलक्षणं हविर्वोढुं नि धीमहि निदधीमहि । उक्तार्थे ब्राह्मण -- ‘ इळायास्त्वा पदे वयं नाभा पृथिव्या अधीत्येतद्वा इळायास्पदं यदुत्तरवेदीनाभिर्जातवेदो नि धीमहीति निधास्यन्तो ह्येनं भवन्त्यग्ने हव्याय वोळ्हव इति हव्यं हि वक्ष्यन्भवति ' ( ऐ. ब्रा. १. २८ ) इति ॥ नाभा । ‘ णह बन्धने '। 'इञ् ' इत्यनुवृत्तौ ‘ नहो भश्च ' इति इञ् भकारश्चान्तादेशः । ञित्त्वादुपधावृद्धिः । नह्यतीति नाभिर्मध्यस्थानम् । ' सुपां सुलुक्° ' इति सप्तम्या डादेशः । ञित्स्वरः । धीमहि । दधातेर्लिङि रूपम् । ‘ लिङः । सीयुट्' (पा. सू. ३. ४. १०२ ) इति सीयुट् । द्विर्वचनाभावश्छान्दसः । निघातः । वोळ्हवे । ‘ वह प्रापणे '। तुमर्थे तवेन् । 'सहिवहोरोदवर्णस्य' इति धात्वकारस्यौत्वम् । ढत्वधत्वष्टुत्वढलोपाः ॥ नित्त्वादाद्युदात्तः ॥
“Agni who is Jātavedas, we plural ce you upon the earth in the centre, in the plural ce of Iḷā, for the purpose of receiving the oblation.”
In Ila's place we set thee down, upon the central point of earth,
That, Agni Jatavedas, thou mayst bear our offerings to the Gods.
In the place of Ilâ, on the navel of the earth we will lay thee down, Gâtavedas, that thou, O Agni, mayst carry the offerings (to the gods).
In the footprint of the libation and upon the navel of the earth, we would install you to convey our oblation, o Agni Jātavedas.
Wir setzten an der Andacht Ort, dich auf der Erde Nabel hin, dass du, o Wesenkenner, uns, o Agni, unser Opfer fährst.
Wir setzen dich ein in die Stätte der Ila im Nabel der Erde, o Agni Jatavedas, daß du die Opferspende fahren sollst.
О Джатаведас, мы устраиваем
Тебя на месте Иды,
На пупе земли,
О Агни, чтобы ты увез жертву.
मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कम् । य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेव॑म् ॥
मन्थ॑त । न॒रः॒ । क॒विम् । अद्व॑यन्तम् । प्रऽचे॑तसम् । अ॒मृत॑म् । सु॒ऽप्रती॑कम् । य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रस्ता॑त् । अ॒ग्निम् । न॒रः॒ । ज॒न॒य॒त॒ । सु॒ऽशेव॑म् ॥
नरः कर्मणां नेतारो हे अध्वर्य्वादयः कविं क्रान्तदर्शिनम् अद्वयन्तं द्वयमनाचरन्तमद्वैतं कुर्वाणं मनसा वाचा च एकविधमेव कर्म कुर्वाणमत एव प्रचेतसं प्रकृष्टज्ञानोपेतम् अमृतं मरणधर्मरहितं सुप्रतीकं शोभनैरङ्गैर्ज्वालाभिः समेतं तमिमम् अग्निं मन्थत मन्थनेन निष्पादयत । किंच। हे नरः कर्मणां नेतारः अध्वर्य्वादयः यूयं यज्ञस्य ज्योतिष्टोमादेः केतुं प्रज्ञापकं प्रथमं मुख्याङ्गभूतम् । अग्निपूर्वकत्वात् सर्वेषामुत्तरक्रतूनाम् । सुशेवं शोभनसुखोपेतं तादृशमग्निं पुरस्तात् कर्मणः प्रारंभे जनयत । तमिममग्निमेवंविधगुणयुक्तं कुरुतेति भावः । मन्थत ।' मन्थ विलोडने ' । लोटि रूपम् । पादादित्वादनिघातः । नरः । ‘ णीञ् प्रापणे । ‘ नयतेर्डिच्च' ( उ. सू. २. २५७ ) इति ऋप्रत्ययः । डित्त्वाट्टिलोपः । नयन्ति कर्माणि नीयन्ते कर्माण्येभिरिति वा नरः । आमन्त्रितत्वात् निघातः । अद्वयन्तम् । द्वयमिवाचरतीत्यर्थे ' सर्व प्रातिपदिकेभ्यः क्विब्वक्तव्यः' इत्याचारार्थे क्विप् । द्वयति । तस्य शतरि रूपं द्वयन्निति । न द्वयन्नद्वयन् । तम् । तत्पुरुषे नञ्स्वरः । सुप्रतीकम् । बहुव्रीहौ ‘ क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वम् । जनयत । जनी प्रादुर्भावे ' । णिच् । अत उपधायाः इति वृद्धौ प्राप्तायां ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मिद्वद्भावात् ‘मितां ह्रस्वः' इति ह्रस्वः । निघातः । सुशेवम् । शेवशब्दो वन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ ३२ ॥
“Conductors of the rite, produce by attrition the far-seeing, single-minded, intelligent, immortal, radiant-limbed Agni; genitive rate him, leaders (of the solemnity), in the first plural ce the chief standard of the sacrifice, who is the source of felicity.”
Rub into life, ye men, the Sage, the guileless, Immortal, very wise and fair to look on.
O men, bring forth the most propitious Agni, first ensign of the sacrifice to eastward.
Rub, ye men, the truthful sage, the wise, the immortal, the fair-faced. Bring forth, ye men, Agni, the banner of sacrifice, the first in the front, the gracious one.
O men, churn out the unduplicitous poet, the discerning and immortal one of beautiful face.
Beget the beacon of the sacrifice, the foremost one in front—Agni, the very benevolent, o men.504 III.29
Erzeugt durch Reiben, o Männer, den truglosen Weisen, den verständigen, unsterblichen, von Antlitz schönen, das erste Banner des Opfers, den heilvollen Agni erzeugt, o Männer, zuerst.
Reibet, o Männer, den nicht doppelzüngigen Seher aus, den klugen Unsterblichen von schönem Aussehen! Das Wahrzeichen des Opfers, den freundlichen Agni, erzeuget zuerst vorweg, ihr Männer!
Добывайте трением, о мужи, поэта недвуличного,
Прозорливца бессмертного, прекрасноликого,
Знамя жертвы, первого с самого начала –
Агни, о мужи, порождайте дружелюбного!
यदी॒ मन्थ॑न्ति बा॒हुभि॒र्वि रो॑च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा । चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृत॒: परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ॥
यदि॑ । मन्थ॑न्ति । बा॒हुऽभिः॑ । वि । रो॒च॒ते॒ । अश्वः॑ । न । वा॒जी । अ॒रु॒षः । वने॑षु । आ । चि॒त्रः । न । याम॑न् । अ॒श्विनोः॑ । अनि॑ऽवृतः । परि॑ । वृ॒ण॒क्ति॒ । अश्म॑नः । तृणा॑ । दह॑न् ॥
यदि अध्वर्य्वादयः बाहुभिः स्वकीयैर्हस्तैरग्निं मन्थन्ति मथ्नन्ति ततः स जातोऽग्निः वनेषु काष्ठेषु वाजी शीघ्रगमनवान् अरुषः आरोचमानः सर्वेषां प्रीतिकरः सन आ वि रोचते आ समन्ताद्विशेषेण दीप्यते । तत्र दृष्टान्तः । अश्वो न इति । यथाश्वो वनेषु वननीयेषु वाह्यालीस्थानेषु वेगवानारोचमानो वर्तते तद्वत् । तत्रैव दृष्टान्तान्तरम् । चित्रो न इति । यथा यामन् यामनि वेगगमने अश्विनोः देवभिषजोः चित्रो नानाविधवर्णः रथः आरोचमानो वर्तते तद्वत् । अनिवृतः केनाप्यप्रतिबद्धगमनः सोऽयमग्निः अश्मनः उपलान् तृणा तृणानि च दहन् भस्मसात्कुर्वन् परि वृणक्ति दग्धस्थानानि परितो वर्जयति । तादृशोऽग्निरारोचते इति पूर्वेणान्वयः। मन्थन्ति । ‘मन्थ विलोडने '। लटि रूपम्। यदियोगादनिघातः । रोचते। ‘रुच दीप्तौ । भौवादिकः । लटि रूपम् । निघातः । यामन् । ' या प्रापणे '। ' आतो मनिन्क्वनिब्वनिपश्च' इति मनिन् । ‘सुपां सुलुक्' इत्यादिना सप्तम्या लुक् । नित्स्वरः । अनिवृतः । वृञ् वरणे'। निष्ठायां यस्य विभाषा' इतीट्प्रतिषेधः । निपूर्वो वृणोतिर्निवारणे वर्तते । न निवृतोऽनिवृतः । नञ्स्वरः । वृणक्ति । ‘ वृजी वर्जने' । रुधादिः । ‘ चोः कुः' इति कुत्वम् । निघातः । तृणा । ' तृह हिंसायाम्'।' तृहेः क्नो हलोपश्च' ( उ. सू. ५. ६८६ ) इति क्नः । कित्त्वादगुणः हलोपश्च । तृह्यते तद्गवादिभिरिति तृणम् । नित्स्वरः ॥
“When they rub (the sticks) with their arms the radiant Agni bursts forth from the wood like a fleet courser, and like the many-coloured car of the Aśvins unresisted in its course, Agni spreads wide around consuming stones and trees.”
When with their arms they rub him straight he shineth forth like a strong courser, red in colour, in the wood.
Bright, checkless, as it were upon the Atvins' path, lie passeth by the stones and burneth up the grass.
When they produce him by rubbing with their arms, he shines forth laming in the wood like a red race-horse. Like the bright one on the path of the Asvins 1 the unrestrained (Agni) spares the stones, burning the grass 2.
When they churn him with their arms, he shines out, like a prizewinning horse, flame-red here in the wood.
Unstoppable, like the shimmering (chariot) of the Aśvins on its course [=the sun?], he avoids the stones, burning the grasses.
Wenn sie mit den Armen reiben, so erglänzt er hell in den Hölzern, wie ein rasches, lichtrothes Ross, wie ein glänzendes, nicht zurückgehaltenes auf der Fahrt der Agvinen umgeht er die Steine [des Heerdes oder Feuerplatzcs], das Gras verbrennend.
Wenn sie mit den Armen ihn ausreiben, so erstrahlt er in den Hölzern rötlich wie der Preisrenner. Unaufhaltsam wie der prächtige Wagen der Asvin auf der Fahrt, verschont er die Steine, das Gras verbrennend.
Если они руками добывают (его) трением, он ярко вспыхивает.
В кусках дерева, словно конь, приносящий награду, алый.
Безудержный, как яркая (колесница) Ашвинов в движении,
Щадит он (только) камни, сжигая травы.
जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्र॑: कविश॒स्तः सु॒दानु॑: । यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥
जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि॑तानः । वा॒जी । विप्रः॑ । क॒वि॒ऽश॒स्तः । सु॒ऽदानुः॑ । यम् । दे॒वासः॑ । ईड्य॑म् । वि॒श्व॒ऽविद॑म् । ह॒व्य॒ऽवाह॑म् । अद॑धुः । अ॒ध्व॒रेषु॑ ॥
जातः मन्थनानन्तरमुत्पन्नः स च चेकितानः सर्वं जानानः सन् वाजी सततगमनस्वभावः विप्रः कर्माभिज्ञः अत एव कविशस्तः कविभिर्मेधाविभिर्होतृभिः स्तुतः सुदानुः सुष्ठु कर्मफलस्य दाता एवंविधः अग्निः रोचते दीप्यते । देवासः देवाः इन्द्रादयः ईड्यं होत्रादिभिः स्तुत्यं विश्वविदं सर्वस्य जगतो वेदितारं यम् अग्निम् अध्वरेषु ज्योतिष्टोमादियज्ञेषु हव्यवाहं हव्यानां वोढारम् अदधुः व्यदधुः सोऽग्निर्दीप्यते इति पूर्वेणान्वयः ॥ चेकितानः । ‘ कित ज्ञाने' इत्यस्य यङ्लुकि ' गुणो यङ्लुकोः ' इति अभ्यासस्य गुणः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कविशस्तः । थाथघञ्ताणःजबित्रकाणाम्' इत्यन्तोदात्तत्वम् । अदधुः । दधातेर्लङि झेः 'सिजभ्यस्तविदिभ्यश्च ' इति जुस् । यद्वृत्तयोगादनिघातः । अडागमस्वरः ॥
“As soon as born Agni, shines intelligent, swift-moving, skilled in rites, praised by the wise, and liberal in gifts; (and it is he) whom the gods have held as the bearer of oblations at sacrifices, adorable and all-knowing.”
Agni shines forth when born, observant, mighty, the bountiful, the Singar praised by sages;
Whom, as adorable and knowing all things, Gods set at solemn rites as offeringbearer.
Agni, when born, shines forth resplendent, the racer, the priest, praised by the sages, the giver of rain, whom the gods placed in the sacrifices, to be magnified, as the omniscient carrier of the sacrificial offerings.
As soon as he is born, Agni shines, becoming ever more visible—he, the prizewinning horse, the inspired one praised by poets, the one bringing good gifts,
whom the gods have established at the rites—the one to be summoned, knowing all things, conveying oblations.
Geboren leuchtet Agni hell erstrahlend, der schnelle, rege, von den Sängern gepriesene, gabenreiche, der preisenswerthe, allwissende, den die Götter bei den Opferfesten als Ueberbringer der Opfertränke einsetzten.
Geboren erstrahlt Agni, die Augen auf sich ziehend, der siegreiche, redekundige, von den Sehern gepriesen, gabenschön, den die Götter als berufenen allwissenden Opferfahrer zu den Opfern bestellt haben.
(Едва) родившись, Агни сверкает, притягивая к себе взоры,
Завоевывающий награды, вдохновенный, прославленный поэтами, с прекрасными дарами,
Кого боги поставили как призванного, всезнающего,
Увозящего жертву на жертвоприношениях.
सीद॑ होत॒: स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥
सीद॑ । हो॒त॒रिति॑ । स्वे । ऊँ॒ इति॑ । लो॒के । चि॒कि॒त्वान् । सा॒दय॑ । य॒ज्ञम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ । दे॒व॒ऽअ॒वीः । दे॒वान् । ह॒विषा॑ । य॒जा॒सि॒ । अग्ने॑ । बृ॒हत् । यज॑माने । वयः॑ । धाः॒ ॥
यजमानो ब्रूते । होतः होमनिष्पादक हे अग्ने स्वे स्वकीये लोके उत्तरवेद्याः नाभौ सीद उ त्वं होमनिमित्तम् उपविशैव । तथा चिकित्वान् ज्ञानवांस्त्वं सुकृतस्य सुकृतजन्योपभोगस्य योनौ स्थाने उत्तमलोके यज्ञं यज्ञस्य कर्तारं यजमानं सादय स्थापय । किंच देवावीः । देवान् हविष्प्रदानेन अवतीति देवावीः । तादृशस्त्वं हविषा पुरोडाशादिलक्षणेन हव्येन देवान् यजासि यज । अथ त्वं यजमानं यागं कुर्वाणे मयि बृहत् प्रभूतं पशुपुत्रादिसमेतं वयः अन्नं धाः विधेहि ॥ सीद । सदेर्लोटि रूपम् । सादय । सदेर्ण्यन्तस्य लोटि रूपम् । णिच्व्परः । देवावीः । अव रक्षणादिषु ।' अवितॄस्तृतन्त्रिभ्य ईः' इति ईप्रत्ययः । कृदुत्तरपदस्वरः । यजासि । यजेर्लेटि आडागमः । धाः । दधातेः छान्दसे लुङि रूपम् ॥
“Offerer of oblations sit down in your own sphere, for you are cognizant (of holy acts), and station the instrumental tutor of the ceremony in the chief plural ce of the sacred rite; cherisher of the gods, worship the gods, Agni, and bestow abundant food on the founder of the sacrifice.”
Set thee, O Priest, in, thine own place, observant: lay down the sacrifice in the home of worship.
Thou, dear to Gods, shalt serve them with oblation: Agni, give long life to the sacrificer.
Sit down, O Hotri, in the space which is thine, as the knowing one. Place the sacrifice in the abode of good works (i. e. on the altar). Eagerly longing for the gods thou shalt worship the gods by offerings. Agni, bestow mighty vigour on the sacrificer.
Sit attentive, Hotar, in your own broad place; make the sacrifice sit in the womb of the well-performed (sacrifice).
Pursuing the gods, you will sacrifice to the gods with the offering. Agni, place lofty vigor in the sacrificer.
Priester, sitze achtsam an deinem Orte, setze das Opfer hin in den Schooss des frommen Werkes, götterspeisend opfere den Göttern mit Trank, gib dem Opfernden grosse Lebenskraft.
Setz dich, o Hotri, kundig auf deinen Platz; setz das Opfer in den Schoß der Guttat. Die Götter einladend mögest du den Göttern die Opferspende opfern. O Agni, lege in den Opfernden hohe Kraft!
Сядь, хотар, на свое место, умелый!
Усади жертву в лоно доброго деяния!
Приглашая богов, ты должен жертвовать богам возлияние.
О Агни, положи жертвователю высокую жизненную силу!
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धन्त इतन॒ वाज॒मच्छ॑ । अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ॥
कृ॒णोत॑ । धू॒म॑म् । वृष॑णम् । स॒खा॒यः॒ । अस्रे॑धन्तः । इ॒त॒न॒ । वाज॑म् । अच्छ॑ । अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒ऽवीरः॑ । येन॑ । दे॒वासः॑ । अस॑हन्त । दस्यू॑न् ॥
यजमानोऽध्वर्य्वादीन्प्रति ब्रूते । हे सखायः कर्मसहकारिणः यूयं वृषणं कामानां वर्षितारं धूमम् । धुनोति कम्पयतीति धूमोऽग्निः। एवंविधम् अग्निं कृणोत कुरुत । मथनेन उत्पादयत । यद्यग्निर्न जायते तदानीमाह । अस्रेधन्तः अक्षीणा अनुपरतसामर्थ्याः सन्तो यूयं वाजं मथनलक्षणं युद्धम् अच्छ अग्न्याभिमुख्येन इतन प्राप्नुत । सुवीरः शोभनसामर्थ्योपेतः अयमग्निः पृतनाषाट् पृतनोपलक्षितं युद्धं सहमानो भवति । येन युद्धं सहमानेनाग्निना देवासः देवाः दस्यून् उपक्षपयितॄनसुरान् असहन्त अभ्यभवन् । तस्मादक्षीणबला यूयं मथनं कुरुतेति भावः ॥ कृणोत ।' कृवि हिंसाकरणयोः' । लोटि तप्रत्ययस्य ' तप्तनप्तनथनाश्च ' इति तबादेशः । पित्त्वाद्गुणः । पादादित्वादनिघातः । उप्रत्ययस्वरः । धूमम् । ‘ धूञ् कम्पने० ' । ' इषियुधीन्धिदसि ' इत्यादिना मक् । कित्त्वाद्गुणाभावः । धुनोति कम्पयति दाह्यानीति धूमोऽग्निः । प्रत्ययस्वरः । इतन । इण् गतौ ' इत्यस्य लोटि तप्रत्ययस्य तनादेशः । निघातः । पृतनाषाट् । ‘ षह मर्षणे '। ‘ छन्दसि सहः' इति ण्विः । णित्त्वादुपधावृद्धिः ।' सहेः साडः सः' इति षत्वम् । कृदुत्तरपदस्वरः । असहन्त । ‘ षह मर्षणे ' इत्यस्य लङि रूपम् । यद्योगादनिघातः । दस्यून् ।' दसु उपक्षये '।' यजिमनिशुन्धिदसिजनिभ्यो युच्' इति युच् । दस्यन्तीति दस्यवः शत्रवः । व्यत्ययेनाद्युदात्तत्वम् ॥
“Produce, friends, smoke, the showerer (of benefits); indefatigable person st in the contest with (Agni); the heroic Agni is able to encounter hosts, and by him the gods overcome their foes.”
Raise ye a mighty smoke, my fellow-workers! Ye shall attain to wealth without obstruction.
This Agni is the battle-winning Hero by whom the Gods have overcome the Dasyus.
Produce a mighty 1 smoke, ye friends. Without fail go forward towards strength. This Agni is the conqueror in battles, rich in valiant men, he by whom the gods have overpowered the Dasyus.
Companions, create the smoky bull and without faltering go toward victory’s prize.
Here is Agni, overwhelming in battles and rich in good heroes, by whom the gods overwhelmed the Dasyus.
Lasst Rauch entstehn, o Freunde, geht den Stier um Lab- sal an, nimmer falsch verfahrend; dieser Agni ist ein sehr mann- hafter Feindbesieger, durch den die Götter die Dämonen besiegt haben.
Macht riesigen Rauch, ihr Freunde! Ohne Unfall gelangt zum Ziel! Dies ist der Agni, der Schlachtensieger, der Meister, durch den die Götter die Dasyu´s überwältigten.
Создайте сильный дым, друзья!
Невредимыми идите к награде!
Вот Агни, победитель в боях, очень мужественный,
С чьей помощью боги одолели дасью.
अ॒यं ते॒ योनि॑ॠ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिर॑: ॥
अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः । तम् । जा॒नन् । अ॒ग्ने॒ । आ । सी॒द॒ । अथ॑ । नः॒ । व॒र्ध॒य॒ । गिरः॑ ॥
हे अग्ने ऋत्वियः वसन्ताद्यृतौ भवः अयम् अङ्गुल्या निर्दिश्यमानः पलाशाश्वत्थादिमयः काष्ठविशेषोऽरणिः ते तव योनिः उत्पत्तिस्थानं यतः अरणेः जातः त्वम् अरोचथाः अशोभथाः । जानन त्वं तम् अरणिरूपं काष्ठविशेषम् आ सीद । तस्यामरण्यामारोपितः सन् नैरन्तयेंण तिष्ठ । अथ अनन्तरं नः अस्माकं गिरः स्तुतिलक्षणा वाचः वर्धय । यद्वा गीःशब्देन तद्वन्तो लक्ष्यन्ते । तथा स्तोतॄनस्मान् वर्धय । पशुपुत्रादिभिः समृद्धान् कुरु ॥ योनिः । ‘ यु मिश्रणे ' । ‘ वहिश्रि ' इत्यादिना निप्रत्ययः । ‘ नित ' इत्युक्तत्वादाद्युदात्तः । ऋत्वियः । 'छन्दसि घस्' ( पा. सू. ५, १. १०६ ) इति ऋतुशब्दात् प्राप्तार्थे घस्प्रत्ययः । घस्य इयादेशः । ‘ सिति इति पदसंज्ञायाम् ' ओर्गुणः' ( पा. सू. ६. ४. १४६ ) इति भसंज्ञाधीनो गुणो न भवति । प्रत्ययस्वरः । अरोचथाः । रुच दीप्तौ ' इत्यस्य लङि रूपम् । यद्वृत्तयोगादनिघातः । सीद । सदेर्लोटि • पाघ्रा° ' इत्यादिना सीदादेशः । निघातः । अथा। ' निपातस्य च ' इति सांहितिको दीर्घः । वर्धय । ' वृधु वर्धने ' । हेतुमति णिच् । निघातः ॥ ॥ ३३ ॥
“This in every season, Agni, is your plural ce, whence, as soon as genitive rated, you have ever shone; knowing that to be so, Agni, there abide, and thrive by our praises.”
This is thine ordered place of birth whence sprung to life thou shonest forth.
Knowing this, Agni, sit thee down, and prosper thou the songs we sing.
This is thy birth-place in due time whence born thou shonest forth; knowing it, O Agni, sit down on it, and make our prayers prosper.
Here is your womb at its season, from which you shone at birth. Recognizing it, Agni, take your seat here, and then make our songs strong.
Hier ist dein angemessner Schooss, aue dem geboren du erstrahltest, ihn kennend, Agni, setze dich hin und segne unsre Lieder.
Dies ist dein zeitgemäßer Schoß, aus dem geboren du erstrahltest. Ihn kennend setz dich nieder, Agni, und fördere unsere Lobrede!
Вот твое своевременное лоно,
Откуда родившись, ты засверкал.
Зная его, усядься, о Агни,
И вдохновляй нашу песнь!
तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते । मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ॥
तनू॒ऽनपा॑त् । उ॒च्य॒ते॒ । गर्भः॑ । आ॒सु॒रः । नरा॒शंसः॑ । भ॒व॒ति॒ । यत् । वि॒ऽजाय॑ते । मा॒त॒रिश्वा॑ । यत् । अमि॑मीत । मा॒तरि॑ । वात॑स्य । सर्गः॑ । अ॒भ॒व॒त् । सरी॑मणि ॥
योऽग्निर्यदा गर्भः अरणीषु गर्भरूपतया वर्तते तदा सोऽग्निः तनूनपादुच्यते । यष्टॄणां तनूः शरीराणि न पातयति न दहतीति व्युत्पत्तेः । यद्वा तनूशब्देनापोऽभिधीयन्ते नपाच्छब्देनैकान्तरिताः प्रजाः । तथा च अपां नप्ता । कथमेतत्। आपस्तता अन्तरिक्षे । ताभ्य ओषधिवनस्पतयो जायन्ते । तेभ्यो ह्येष इति । यत् यदा विजायते विशेषेण प्रत्यक्षतया जायते तदा आसुरः कर्मविघ्नकारिणामसुराणां हन्ता अत एव नराशंसः नरैः कर्मणां नेतृभिरध्वर्य्वादिभिः शंसनीयो भवति । यत् यदा मातरि अन्तरिक्षे स्वं तेजः अमिमीत निर्मिमीते तदा मातरिश्वा भवति । मातरि अन्तरिक्षे श्वसिति चेष्टते इति व्युत्पत्तेः । एवंविधस्याग्नेः सरीमणि सरणे शीघ्रगमने वातस्य वायोः सर्गः सृष्टिः अभवत् भवति । यदाग्निररणीषु गर्भरूपतया वर्तते तदा तनूनपान्नामको भवति । यदा जायते तदा नराशंसनामको भवति । यदान्तरिक्षे विद्योतते तदा मातरिश्वनामको भवतीति ॥ तनूनपात् ।' तनु विस्तारे । 'कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' इति ऊप्रत्ययः । व्यत्ययेनाद्युदात्तः । नपात् । ‘पा रक्षणे ‘ पत्लृ गतौ ' वा ण्यन्तः। क्विप् । न पाति न पातयतीति वा नपात्। 'नभ्राण्नपान्नवेदा' इत्यादिना निपातनात् नञः प्रकृतिभावः। नञ्स्वरः। तनूर्न पातीति तनूनपात् । कृदुत्तरपदप्रकृतिस्वत्वे प्राप्ते ‘ उभे वनस्पत्यादिषु युगपत् ' इति उभयपदप्रकृतिस्वरत्वम् । आसुरः । असुरस्यायमासुरः । अहितकारित्वेन संबन्धी । तस्येदम्' इत्यण् । प्रत्ययस्वरः । नराशंसः। ‘नॄ नये'।' ऋदोरप्' इत्यप् । प्रत्ययस्य पित्त्वान्नरशब्द आद्युदात्तः । ‘ शंसु स्तुतौ ' इत्यस्मात् घञन्त आद्युदात्तः । नरशब्दस्य ‘ अन्येषामपि दृश्यते ' इति दीर्घः । वनस्पत्यादित्वादुभयोः प्रकृतिस्वरत्वम् । विजायते । जनी प्रादुर्भावे'। दिवादित्वात् श्यन् । धातुस्वरः । अमिमीत । • माङ् माने शब्दे च '। जुहोत्यादिः । ‘भृञामित्' इत्यभ्यासस्येत्वम् । यद्योगादनिघातः । सरीमणि । ‘ सृ गतौ ' । हृभृसृस्तृसूभ्यः ' ( उ. सू. ४. ५८७ ) इति ईमनिन्प्रत्ययः । नित्स्वरः ॥
“When (existing) as an embryo (in the wood), Agni is called Tanunapāt; when he is genitive rated (he is called) the asura-destroying narāśam,sa; when he has displayed (his energy) in the material firmament, Mātariśvan; and the creation of the wind is in his rapid motion.”
As Germ Celestial he is called Tanunapat, and Narasamsa born diffused in varied shape.
Formed in his Mother he is Matarisvan; he hath, in his course, become the rapid flight of wind.
He is called Tanûnapât as the Asura's germ. Narâsamsa he becomes when he is born, Mâtarisvan when he has been shaped in the mother 1. And he has become the rush of the wind in his swift course 2,
He is called Tanūnapāt as the embryo belonging to the lord [=the upper churning stick?]. He becomes Narāśaṃsa when he is born,
and Mātariśvan when he has assumed his measure in his mother. He became the rush of the wind in leaping forth.
Sohn seiner selbst, so heisst er als himmlischer Spross, der Männerliort wird er, wenn er [im Opfer] gehören wird, Mutter- spross wenn er gebildet wird in der Mutter Leib, des Windes Strom wird er, wenn er in der Luft strömt.
Tanunapat heißt der Asurische als Leibesfrucht, zum Narasamsa wird er, wenn er geboren wird, Matarisvan, wenn er in der Mutter sich bildete. Zum Windstrom ward er in seinem Laufe.
Танунапат – зовется отпрыск Асуров;
Нарашансой становится он, когда рождается;
Матаришваном – когда сформировался в матери;
Порывом ветра он стал в (своей) стремительности.
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः । अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वान्दे॑वय॒ते य॑ज ॥
सु॒निः॒ऽमथा॑ । निःऽम॑थितः । सु॒ऽनि॒धा । निऽहि॑तः । क॒विः । अग्ने॑ । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒ । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥
हे अग्ने कविः मेधावी सुनिर्मथा शोभनेन मन्थनेन निर्मथितः नितरां मथितोऽसि । तथा सुनिधा शोभनेन निधानेन निहितः असि । उत्तरवेद्यादिस्थानेषु नितरां प्रक्षिप्तोऽसि । किंच स्वध्वरा अस्माभिः क्रियमाणानि कर्माणि सुष्ठु हिंसारहितानि कृणु कुरु । तथा देवयते देवान्कामयमानाय यजमानाय देवान् यजनीयानिन्द्रादीन् यज पूजय ॥ सुनिर्मथा । मथे विलोडने ' । अस्मात् संपदादिलक्षणो भावे क्विप् । प्रादिसमासः । कृदुत्तरपदस्वरः । निर्मथितः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वत्वम् । सुनिधा । निपूर्वस्य दधातेर्भावे ‘ आतश्चोपसर्गे' इत्यङ् । ‘सुपां सुलुक्° ' इति तृतीयाया लुक् । कृदुत्तरपदस्वरः । कृणु । ' कृवि हिंसाकरणयोः । इत्यस्य लोटि ‘धिन्विकृण्व्योः ' इत्युप्रत्ययः । ‘ उतश्च प्रत्ययात्° ' इति हेर्लुक् । निघातः ॥
“Agni, who is pronounced by reverential attrition, and deposited with reverential care, and who are far-seeing, render our rites (exempt from defects), and worship the gods (on behalf) of the devout worshipper.”
With strong attrition rubbed to life, laid down with careful hand, a Sage,
Agni, make sacrifices good, and for the pious bring the Gods.
Rubbed forth by skilful rubbing, established by skilful establishing, as a sage, O Agni, perform excellent sacrifices. Sacrifice to the gods for him who is devoted to the gods 1.
The poet is churned out by skillful churning and installed with skillful installation.
O Agni, perform good rites. Sacrifice to the gods for him seeking the gods.
Schaffe als hervorgeriebener schön hervorgeriebenes Gut, schön niedergelegtes wenn du weiser niedergesetzt bist, o Agni, wirke schöne Opferfeier, die Götter verehre für den Gotter- gebenen.
Mit Geschick ist der Seher herausgerieben, mit Geschick eingesetzt. Agni, vollzieh das Opfer gut, verehre für den Gottverlangenden die Götter!
Прекрасным трением вытерт наружу,
Прекрасным водворением водворен поэт.
О Агни, создай прекрасные обряды!
Принеси жертву богам для почитающего богов!
अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुज॑म्भम् । दश॒ स्वसा॑रो अ॒ग्रुव॑: समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भन्ते ॥
अजी॑जनन् । अ॒मृत॑म् । मर्त्या॑सः । अ॒स्रे॒माण॑म् । त॒रणि॑म् । वी॒ळुऽज॑म्भम् । दश॑ । स्वसा॑रः । अ॒ग्रुवः॑ । स॒मी॒चीः । पुमां॑सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥
मर्त्यासः मर्त्याः ऋत्विज: अमृतं मरणधर्मरहितम् अत एव अस्रेमाणं क्षयरहितं वीळुजम्भं हविर्भक्षणार्थं दृढदन्तं तरणिम् । तरन्ति यजमानाः पापमनेनेति तरणिरग्निः । तम् अजीजनन् मन्थनेनोदपीपदम् । अथ जातं तमग्निमभिलक्ष्य स्वसारः सरन्त्यः दश दशसंख्याकाः अग्रुवः कर्मकरणार्थमग्रमङ्गन्तीति अगुवोऽङ्गुलयः । तादृशाः अङ्गुलयः समीचीः परस्परं सङ्गताः सत्यः सं रभन्ते शब्दं कुर्वते । जातमग्निं दृष्ट्वाध्वर्य्वादयो हर्षाद्धस्तद्वयसंपुटेन' शब्दं कुर्वन्ति इत्यर्थः । तत्र दृष्टान्तः । पुमांसम् इति । यथा जातं पुत्रमुपलभ्य तत्रत्याः पित्रादयो हर्षादुद्धोषन्ति तद्वत् ॥ अजीजनन् । जनी प्रादुर्भावे ' इत्यस्य ण्यन्तस्य लुङि चङि रूपम् । अस्रेमाणम्। स्त्रिवु गतिशोषणयोः । भावे ‘ मनिन् ' इति मनिन्प्रत्ययः । लघूपधगुणः । ‘ लोपो व्योर्वलि' इति वलोपः । बहुव्रीहौ ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । तरणिम् । तॄ प्लवनतरणयोः' ।' अर्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः । इत्यनिप्रत्ययः । गुणः । प्रत्ययस्वरः । स्वसारः । ‘ असु क्षेपणे ' इत्यस्मात् ‘ सुञ्यसेर्ऋन् ' इति ऋन्प्रत्ययः । सुष्ठु अस्यन्ति कर्मसु पदार्थानिति स्वसारः । न षट्स्वस्रादिभ्यः ' इति ङीपः प्रतिषेधः । नित्त्वादाद्युदात्तः । अग्रुवः । ‘ अगि गतौ । जञ्वादयश्च ' ( उ.सू. ४.५४२ ) इति रुप्रत्ययः । निपातनान्नलोपः। जसि तन्वादित्वादुवङादेशः । प्रत्ययस्वरः । समीचीः । ‘ इण् गती' इत्यस्मात् 'समीणः ' ( उ. सू. ४. ५३२ ) इति चट्प्रत्ययो धातोर्दीर्घश्च । टित्त्वात्। ‘ टिड्ढाणञ्° 'इत्यादिना ङीप् । संयन्तीति समीच्यः । यद्वा संपूर्वस्याञ्चतेः क्विप् । “ समः समि' इति समि इत्यादेशः । ‘ अञ्चतेश्वोपसंख्यानम्' इति ङीप् । “ अचः' इत्यकारलोपः। चौ ' इति दीर्घः । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः । एकादेशस्वरः । पुमांसम् । ‘ पा रक्षणे' इत्यस्मात् ‘ पातेर्डुम्सुन्' ( उ. सू. ४. ६१७ ) इति डुम्सुन् प्रत्ययः । 'पुंसोऽसुङ्' ( पा. सू. ७, १. ८९ ) इत्यसुङादेशः । पाति कुलमिति पुमान् । नित्स्वरः । रभन्ते । ‘ रभ शब्दे' इत्यस्य लटि रूपम् । निघातः ॥
“Mortals have begotten the immortals, the undecaying (Agni), the devourer of oblations, the conveyance (by which they cross over sin), the ten sister fingers intertwined proclaim him born as if it was a male (infant).”
Mortals have brought to life the God Immortal, the Conqueror with mighty jaws, unfailing.
The sisters ten, unwedded and united, together grasp the Babe, the new-born Infant.
The mortals have generated the immortal one, the … 1, advancing one with strong jaws. The ten unwedded sisters 2 united take care of the man (Agni) when he has been born.
Mortals have begotten the immortal one, who is no miscarriage, overwhelming, hard-jawed.
Joined together, ten unwed sisters [=fingers] embrace the male just born.
Die Sterblichen erzeugten den Unsterblichen, der. nimmer fehlgeht, der vorwärtsdringt mit festem Gebiss, die zehn vereinten unvermählten Schwestern [die Finger] ergreifen den neugeborenen Jüngling.
Die Sterblichen haben den Unsterblichen erzeugt, der keine Fehlgeburt ist, den sich durchsetzenden mit starkem Gebiß. Zehn unvermählte Schwestern halten vereint den neugeborenen Mann umfaßt.
Смертные породили бессмертного,
Безошибочного, пересекающего (опасности), с крепкой челюстью.
Десять девиц-сестер вместе
Охватывают новорожденного мужа.
प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि । न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ॥
प्र । स॒प्तऽहो॑ता । स॒न॒कात् । अ॒रो॒च॒त॒ । मा॒तुः । उ॒पऽस्थे॑ । यत् । अशो॑चत् । ऊध॑नि । न । नि । मि॒ष॒ति॒ । सु॒ऽरणः॑ । दि॒वेऽदि॑वे । यत् । असु॑रस्य । ज॒ठरा॑त् । अजा॑यत ॥
सनकात् सनातनोऽग्निः सप्तहोता । सप्त होतारो होत्रका यस्यासौ सप्तहोता सन् प्र अरोचत गार्हपत्यस्थानेऽदीप्यत । यत् यदा मातुः पृथिव्याः उपस्थे उत्सङ्गे तत्रापि ऊधनि ऊधःस्थाने उत्तरवेद्याम् अशोचत अशोभत तदा सोऽग्निः सुरणः । सुष्ठु रणयति शब्दयतीति सुरणः । सर्वैः कमनीयतया दृश्यमानः सन् दिवेदिवे प्रतिदिनं न नि मिषति न निद्राति । किंतु सर्वदा यज्ञार्थं जागर्त्येव । यत् यस्मात् असुरस्य अग्नेः प्रेरकस्यारणीरूपस्य काष्ठस्य जठरात् उदरात् अजायत कर्मार्थमुदपद्यत तस्मान्न निमिषतीति पूर्वेणान्वयः ॥ अरोचत । ‘ रुच दीप्तौ ' इत्यस्य लङि रूपम् । निघातः । अशोचत् । ‘ शुच दीप्तौ । ऊधनि । सकारस्य नकारश्छान्दसः । मिषति । ‘ मिषु सेचने ' इत्यस्य लटि रूपम् । सुरणः । ‘रण शब्दे '। ‘ तत्करोति° ' इति णिच् । तस्मात् अकृच्छ्रार्थे खल् । लित्स्वरः । असुरस्य । ‘ असु क्षेपणे ' इत्यस्मात् ' असेरुरन्' इत्युरन्प्रत्ययः । अस्यतीत्यसुरः । नित्स्वरः । जठरात् । ‘ जनी प्रादुर्भावे' इत्यस्मात् ‘ जनेररष्ठ च ' ( उ. सू. ५. ७१६ ) इत्यरप्रत्ययः ठकारश्चान्तादेशः । प्रत्ययस्वरः । अजायत । जनी प्रादुर्भावे ' इत्यस्य लङि श्यनि ‘ ज्ञाजनोर्जा ' इति धातोर्जादेशः । यद्योगादनिघातः ॥
“Agni, who has seven ministering priests, shines eternally; when he has blazed upon the bosom and lap of his mother (earth), he is vociferous (with delight); day by day he never slumbers after he is born from the interior of the (spark) emitting wood.”
Served by the seven priests, he shone forth from ancient time, when in his Mother's bosom, in her lap, he glowed.
Giving delight each day he closeth not his eye, since from the Asura's body hewas brought to life.
He the god of the seven Hotris shone forth from of old, when he flamed up in his mother's lap, at her udder. Day by day the joyous one never closes his eyes, when he has been born from the Asura's (i. e. of the Heaven's?) belly 1.
From of old, bringing the seven Hotars, he has shone forth in the lap of his mother when he blazed upon her udder.
Day after day, greatly delighting, he does not blink after he has been born from the belly of the lord.
Von Alters her erstrahlte der von sieben Priestern be- diente, als er glänzte au der Mutter Schooss und Euter, nicht nickt er ein der Tag für Tag erfreuende, seit er erzeugt ward aus dem Leib des Himmlischen.
Von sieben Opferpriestern umgeben erstrahlte er seit alters, wenn er im Schoße der Mutter, an ihrem Euter erglühte. Nicht schließt der Erfreuliche Tag für Tag die Augen, nachdem er aus dem Leibe des Asura geboren wurde.
Окруженный семью хотарами, сверкал он издревле,
Когда в лоне матери пламенел у ее вымени.
День за днем не смыкает глаз очень радостный,
С тех пор как родился из чрева Асуры.
अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः । द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥
अ॒मि॒त्र॒ऽयुधः॑ । म॒रुता॑म्ऽइव । प्र॒ऽयाः । प्र॒थ॒म॒ऽजाः । ब्रह्म॑णः । विश्व॑म् । इत् । वि॒दुः॒ । द्यु॒म्नऽव॑त् । ब्रह्म॑ । कु॒शि॒कासः॑ । आ । ई॒रि॒रे॒ । एकः॑ऽएकः । दमे॑ । अ॒ग्निम् । सम् । ई॒धि॒रे॒ ॥
अमित्रायुधः अमित्रैः कर्मविघ्नकारिभिरसुरैः सह योद्धारः । यद्वा अमित्राणि पापानि । तैः सह योद्धारः । तत्र दृष्टान्तः । मरुतामिव प्रयाः इति । यथा मरुतां देवानां प्रयाः प्रकर्षेण शत्रूनभियान्तीति प्रया बलानि शत्रूणां हन्तॄणि तद्वत्कर्मविघ्नकारिणां पापानां च हन्तारः ब्रह्मणः सर्वस्य जगतः स्रष्टुः प्रथमजाः प्रथममुत्पन्नाः कुशिकासः कुशिकगोत्रोत्पन्ना ऋषयः विश्वं स्थावरजङ्गमात्मकं सर्वं जगत् विदुः इत् जानन्त्येव । तेऽमी कुशिकाः द्युम्नवत् हविर्युक्तं ब्रह्म स्तोत्रम् एरिरे । अग्नये अ समन्तात्प्रेरयन्ति । ते च दमे स्वे स्वे गृहे एकएकः एकैकः भूत्वा
"अग्निं समीधिरे आज्याद्याहुतिभिः सम्यग्दीपयन्ति । अमित्रायुधः । ‘ युध संप्रहारे । क्विप् । कृदुत्तरपदस्वरः। संहितायां पूर्वपदस्य दीर्घश्छान्दसः । प्रयाः । ‘ या प्रापणे' । 'अन्येभ्योऽपि दृश्यन्ते' इति विच् । प्रथमजाः ।' जनी प्रादुर्भावे'।' जनसन' इत्यादिना विट् । 'विड्वनोः । इत्यात्वम् । विदुः । विदेर्लटि ‘ विदो लटो वा' इति झेः उसादेशः । ईरिरे । ' ईर गतौ ' इत्यस्य लिटि रूपम् । मन्त्रत्वादाम्न भवति । दमे ।' दमु उपशमने '। करणे घञ् ।' नोदात्तोपदेशस्य इति वृद्धिप्रतिषेधः । ञित्स्वरः । ईधिरे । ' ञिइन्धी दीप्तौ ' इत्यस्य लिटि इन्धिभवतिभ्यां च' इति किद्वद्भावान्नकारलोपः । निघातः ॥
“The Kuśikas, the first-born of Brahmā, armed against enemies like the energies of the Maruts, comprehend the universe; they have uttered the prayer accompanied by the oblation; they have one by one lighted Agni in this dwelling.”
Even as the Maruts, onslaughts who attack the foe, those born the first of all knew the full power of prayer.
The Kusikas have made the glorious hymn ascend, and, each one singly in his home, have kindled fire.
The onsets of (Agni) when he attacks his enemies, are like those of the Maruts. (He is) the first-born (son) of the sacred spell. They know every (fire) 1. The Kusikas have raised their brilliant spell; they have kindled Agni, every one in his house.
Fighting their enemies like the advance troops of Maruts, those first-born of the formulation [=the Kuśikas] know everything.
The Kuśikas raised a formulation filled with brilliance. One by one, each in his house, they kindled Agni.
Die Ku^iker, den Feind bekämpfend, wie die Anläufe der Maruts, die erstgeborenen erkannten ganz des Gebetes Kraft, sie brachten glänzendes Gebet hervor, und zündeten einer wie der andre im Hause den Agni an.
Die Feinde bekämpfend wie die Heereszüge der Marut, verstehen die Erstgeborenen des heiligen Wortes alles. Die Kusika`s haben die erleuchtete heilige Rede zustande gebracht; sie haben den Agni entflammt, jeder einzelne in seinem Hause.
Бьющиеся с недругами как передовой отряд Марутов,
Перворожденные ведают все в священной речи.
Люди из рода Кушики привели в движение сверкающую священную речь.
Они зажгли Агни: каждый в своем доме.
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह । ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॒रिति॑ । चि॒कि॒त्वः॒ । अवृ॑णीमहि । इह॒ । ध्रु॒वम् । अ॒याः॒ । ध्रु॒वम् । उ॒त । अ॒श॒मि॒ष्ट्ह॒ाः । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥
होतः होमनिष्पादक चिकित्वः कर्मविषयज्ञानवन् हे अग्ने अद्य इदानीं प्रयति प्रवर्तमाने अस्मिन् ज्योतिष्टोमादौ यज्ञे त्वा त्वां यत् यस्मात् कारणात् अवृणीमहि त्वद्विषयं वरणमकुर्म तस्मात्तादृशस्त्वम् इह कर्मणि देवान् ध्रुवमयाः ध्रुवं यथा भवति तथास्माभिर्दत्तानि हवींषि प्रापय" । उत अपि च अशमिष्ठाः हविःस्वीकरणात्तृप्तैर्देवैः शान्तस्त्वमकारिष्टाः । अथ प्रजानन् इमं यज्ञं सम्यक् जानन विद्वान् यत्किञ्चित्सर्वं जानानस्त्वं सोमम् अस्माभिः क्रियमाणमिममभिषुतं सोममभिलक्ष्य उप याहि समीपे आगच्छ ॥ प्रयति । ‘इण् गतौ ' इत्यस्य शतरि रूपम् । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । अवृणीमहि । ' वृञ् वरणे । क्र्यादित्वात् श्ना । लङि उत्तमबहुवचने ‘ई हल्यघोः' इति ईत्वम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वात् अनिघातः । अयाः । ' या प्रापणे ' इत्यस्य लङि सिपि रूपम् । निघातः । अशमिष्ठाः । ‘शमु उपशमने ' इत्यस्य ण्यन्तस्य कर्मणि' लुङि ' स्यसिच्सीयुट्' (पा. सू. ६. ४. ६२ ) इति विकल्पेन इडागमः । तस्यासिद्धत्वात् ' णेरनिटि ' इति णिलोपः । निघातः । प्रजानन् । “ ज्ञा अवबोधने' । शतरि रूपम् । याहि । यातेर्लोटि रूपम् ॥ ॥ ३४ ॥ ॥ २ ॥
“Agni, offerer of oblations, cognizant of rites, inasmuch as we have recourse to you today in this progressing sacrifice, therefore do you steadily convey (the offering to the gods), or tranquilly be at rest, and knowing (the purport of our acts), and wise (in all respects), approach (and accept) the Soma.”
As we, O Priest observant, have elected thee this day, what time the solemn sacrifice began,
So surely hast thou worshipped, surely hast thou toiled: come thou unto the Soma, wise and knowing all.
After we had chosen thee here to-day, O wise Hotri, while this sacrifice was going on, thou hast firmly sacrificed and firmly laboured. Come to this Soma, expert and knowing!
Since we chose you here today while the sacrifice was proceeding, o attentive Hotar—
you have steadfastly journeyed and you have steadfastly labored—as the knowing one recognizing this, journey here to the soma.
Als wir heute dich im Beginne dieses Opfers, o acht- samer Pi'iester, uns hier erwählt hatten, so kamst du auch treu, und treu hast du gewirkt; des Weges kundig, wissend komm zum Soma.
Da wir dich heute bei diesem beginnenden Opfer, du kundiger Hotri, hier erwähnt haben - du hast bisher beständig geopfert und beständig den Dienst versehen - so komm des Weges kundig als Kenner her zum Soma!
Раз мы сегодня во время этого начинающегося жертвоприношения
Выбрали здесь тебя, о опытный хотар, –
Ты основательно приносил жертвы и основательно трудился -
Приди на (питье) сомы, зная подобно сведущему путь!