इ॒च्छन्ति॑ त्वा सो॒म्यास॒: सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि । तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥
इ॒च्छन्ति॑ । त्वा॒ । सो॒म्यासः॑ । सखा॑यः । सु॒न्वन्ति॑ । सोम॑म् । दध॑ति । प्रयां॑सि । तति॑क्षन्ते । अ॒भिऽश॑स्तिम् । जना॑नाम् । इन्द्र॑ । त्वत् । आ । कः । च॒न । हि । प्र॒ऽके॒तः ॥
विश्वामित्रः स्तौति । हे इन्द्र सोम्यासः सोमार्हा ब्राह्मणाः त्वा त्वां शंसितुम् इच्छन्ति अत एव सखायः ते ब्राह्मणास्त्वदर्थं सोमं सुन्वन्ति अभिषुण्वन्ति । प्रयांसि इतराण्यपि हवींषि दधति त्वदर्थं धारयन्ति । त्वया प्रेरिताः सन्तः जनानां सपत्नानाम् अभिशस्तिं तत्कृतां हिंसां तितिक्षन्ते सहन्ते । एवमनुग्राहकः त्वत् त्वत्तोऽन्यः कश्चन हि को नाम पुरुषः खलु आ प्रकेतः सर्वतो जगति । प्रकेत्यते ज्ञाप्यत इति प्रकेतः । प्रज्ञापितः विद्यते ॥ सोग्यासः । सोममर्हतीत्यर्थे ' सोममर्हति यः' इति यः । प्रत्ययस्वरः । सुन्वन्ति । षुञ् अभिषवे'। स्वादित्वात् श्नुः। ‘सति शिष्टस्वरो बलीयान् ' इति झिप्रत्ययस्वर: । दधति । दधातेर्लटि रूपम् । ' समानवाक्ये युष्मदस्मदादेशनिघाताः ' ( पा. सू. ८. १. १८. ५. ) इति सोमपदस्य इतरवाक्येन अन्वयान्न निघातः । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । तितिक्षन्ते । ‘तिज निशाने ' इत्यस्य क्षमायां ‘गुप्तिज्किद्यः्य सन्' इति सन् । अभ्यस्तस्वरः । अभिशस्तिम् । शसु हिंसायाम् ' इत्यस्मात् भावे क्तिन् । ' तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । प्रकेतः । ‘कित ज्ञाने'। कर्मणि घञ्° ।' थाथघञ्क्त ' इत्यन्तोदात्तत्वम् ॥
“The bearers of the libations desire you; your friends pour forth the Soma; they offer copious oblations; (supported by) you they endure patiently the calumny of men, for who is so renowned as you are.”
THE friends who offer Soma long to find thee: they pour forth Soma and present their viands.
They bear unmoved the cursing of the people, for all our wisdom comes from thee, O Indra.
They desire you, your comrades in soma; they press the soma; they set out pleasurable offerings.
They endure the taunting of the people, for, Indra, there is no sign
from you.
Dir streben zu mit Soma die Genossen, sie pressen Soma, reichen dar die Speisen; Sie wehren ab von sich den Fluch der Menschen; denn jede Einsicht kommt von dir, o Indra.
Nach dir verlangen die somawürdigen Freunde; sie pressen Soma aus, sie bereiten das Opfermahl. Sie trotzen der üblen Nachrede der Leute, denn außer dir gibt es keine Losung, o Indra.
Ищут тебя друзья, занятые сомой.
Они выжимают сому. Они готовят жертвенные услады.
Они отвращают проклятья людей.
О Индра, от тебя (бы) хоть какой-нибудь знак!
न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् । स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥
न । ते॒ । दू॒रे । प॒र॒मा । चि॒त् । रजां॑सि । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । स्थि॒राय॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । यु॒क्ताः । ग्रावा॑णः । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ ॥
हरिवः' हरिद्वर्णौ अश्वौ यस्य सोऽयं हरिवानिन्द्रः । हे हरिवः परमा चित् परमाणि दूरे वर्तमानान्यपि 'रजांसि स्थानानि ते तव दूरे न भवन्ति । तस्मात् हरिभ्याम् उपेतस्त्वं तु क्षिप्रम् आ प्र याहि । अस्मदीयं यज्ञमभिलक्ष्यागच्छ । स्थिराय फलप्रदाने दृढचित्ताय अत एव 'वृष्णे कामानां वर्षित्रे तुभ्यम् इमा इमानि सवना सवनानि प्रातरादीनि कृता कृतानि । किंच । अग्नौ अहवनीये समिधाने आहुत्यधिकरणतया सम्यग्दीप्यमाने सति ग्रावणः उपलाः युक्ताः सोमाभिषवार्थमुद्युक्ताः । अतस्त्वं क्षिप्रमागच्छेति भावः ॥ याहि । ‘या प्रापणे इत्यस्य लोटि रूपम् । हरिवः । हरी अस्य स्त इति मतुप् । 'छन्दसीरः' इति तस्य वत्वम् । आमन्त्रितत्वान्निघातः । स्थिराय । ‘ष्ठा गतिनिवृत्तौ ' इत्यस्मात् ' अजिरशिशिर° ' इत्यादिना किरच्प्रत्ययान्तत्वेन निपातनादाकारलोपः । चित्स्वर: । सवना । ‘षुञ् अभिषवे' इत्यस्मात् अधिकरणे ‘ ल्युट् च ' इति ल्युट् । सूयते सोमो यत्रेति सवनानि प्रातरादीनि । लित्स्वरः । समिधाने । ञिइन्धी दीप्तौ ' इत्यस्य कानचि रूपम् । कित्त्वान्नकालोपः । चित्स्वरः ॥
“Master of tawny steeds, the remotest regions are not remote for you; then come quickly with your horses; to you the steady showerer (of benefits), these sacrifices are presented; the stones (for bruising the Soma) are ready, as the fire is being kindled.”
Not far for thee are mid-air's loftiest regions: start hither, Lord of Bays, with thy Bay Horses.
Made for the Firm and Strong are these libations. The pressing-stones are set and fire is kindled.
Even the farthest dusky realms are not at a distance for you. But drive here with your two fallow bays, bay-horsed one.
It is for (you), the sturdy bull, that these pressings here were made and the pressing stones yoked when the fire was being kindled.
᳓
Nicht ferne sind dir auch die höchsten Räume, auf, Herr der Rosse, komm mit deinen Füchsen, Dem starken Stiere stehn bereit die Säfte, die Steine sind geschirrt, entzündet Agni.
Für dich sind selbst die entferntesten Räume nicht weit ab. Komm doch her mit den Falben, du Falbenlenker ! Für den starken Bullen sind diese Trankopfer bereitet. Die Preßsteine sind eingestellt bei entzündetem Feuer.
Недалеки для тебя даже отдаленные пространства:
Приезжай же, о обладатель буланых коней, на паре буланых коней!
Для крепкого быка сделаны эти выжимания (сомы),
Запряжены давильные камни при зажженном огне.
इन्द्र॑: सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिॠघा॑वान् । यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व१॒॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥
इन्द्रः॑ । सु॒ऽशिप्रः॑ । म॒घऽवा॑ । तरु॑त्रः । म॒हाऽव्रा॑तः । तु॒वि॒ऽकू॒र्मिः । ऋघा॑वान् । यत् । उ॒ग्रः । धाः । बा॒धि॒तः । मर्त्ये॑षु । क्व॑ । त्या । ते॒ । वृ॒ष॒भ॒ । वी॒र्या॑णि ॥
वृषभ कामानां वर्षक हे इन्द्र यस्त्वम् इन्द्रः परमैश्वर्यसंपन्नः सुशिप्रः । शिप्रशब्देन शिरस्त्राणमभिधीयते । शोभनशिरस्त्राणोपेतः । यद्वा शोभनहनुमान् । ‘शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्कः । मघवा धनवान् तरुत्रः । तरन्त्यनेन शत्रून्देवा इति तरुत्रः इन्द्रः । महाव्रातः मरुद्भिर्महान् व्रातः समूहो यस्येति स तथोक्तः ।"तुविकूर्मिः संग्रामे नानाविधकर्मणां कर्ता ऋघावान् शत्रुविषयहिंसावान् अत एव उग्रः शत्रूणां भयंकरः स तादृशस्त्वं बाधितः असुरैः संग्रामे बाधितः सन् मर्त्येषु मारयितृषु असुरेषु यत् यानि वीर्याणि धाः व्यधा इदानीं ते तव त्या तानि वीर्याणि क्व क्वासते वद ॥ सुशिप्रः । ‘सृप्लृ गतौ ' । औणादिको रन्प्रत्ययः । बाहुलकात् सृ इत्यस्य शि इत्यादेशः । बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । तरुत्रः । तरतेः अशित्रादिभ्य इत्रोत्रौ' इत्युत्रप्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । महाव्रातः । 'आन्महतः' इत्याकारादेशो महतस्तकारस्य । तुविकूर्मिः । करोतेरौणादिको मिप्रत्ययः । गुणे कृते करोतेरकारस्योत्वं छान्दसम् । ‘हलि च' इति दीर्घः। ऋघावान् । ऋन् ( नॄन्) हन्तीत्यृघाः । अन्येभ्योऽपि दृश्यन्ते' इति विच् । दृशिग्रहणान्नलोपो हकारस्य घत्वम् । तदस्यास्तीति मतुबर्थे छन्दसीवनिपौ' इति वनिप् । व्यत्ययेनाद्युदात्तः । क्व । किंशब्दस्य सप्तम्यर्थे ‘किमोऽत्' इत्यत्प्रत्ययः । तस्मिन् ‘ क्वाति' इति क्वादेशः । तित्स्वरः ॥
“Showerer (of benefits), who are Indra, the wearer of the helmet, the professor of opulence, the conveyor (of men beyond the evil), the leader of the numerous troops (of the Maruts), the achiever of many great deeds, the devastation of hostile (regions), the terror of your foes, where are those heroic deeds (which you have performed) against the mortal (asuras) when opposed (by them in battle).”
Fair cheeks hath Indra, Maghavan, the Victor, Lord of a great host, Stormer, strong in action.
What once thou didst in might when mortals vexed thee,-where now, O Bull, are those thy hero exploits?
Indra of good lips, bounteous, overwhelming, having a great troop, powerfully ranging, mettlesome—
that which you, powerful one, established among mortals, even when hard-pressed, where are these manly powers of yours now, bull?
Der schönbehelmte mächt'ge Sieger wirket mit grosser Schar viel Thaten Indra, stürmend, Wo sind, o starker, deine Heldenkräfte, dass du, o Stier, bestürmt den Menschen Gut schenkst?
Indra mit schönen Trinkerlippen, der Gabenreiche, der Überwinder mit der großen Heerschar, der Tatenreiche, Drohende - was du, der Gewaltige, unter den Sterblichen in der Bedrängnis tatest, wo bleiben diese deine Heldentaten, du Bulle?
Индра прекрасногубый, щедрый, пересекающий (опасности),
С великим войском, решительный в деле (?), неистовый...
Что учинил ты, грозный, среди смертных, будучи загнанным,
Где (были) эти твои мужественные подвиги (тогда), о бык?
त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः । तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥
त्वम् । हि । स्म॒ । च्या॒वय॑न् । अच्यु॑तानि । एकः॑ । वृ॒त्रा । चर॑सि । जिघ्न॑मानः । तव॑ । द्यावा॑पृथि॒वी इति॑ । पर्व॑ता॒सः । अनु॑ । व्र॒ताय॑ । निमि॑ताऽइव । त॒स्थुः॒ ॥
हे इन्द्र त्वम् एकः असहाय एव अच्युतानि च्युतिरहितानि दृढमूलान्यपि तव प्रतिपक्षभूतानि रक्षांसि च्यावयन् स्वस्वस्थानात् पातयन् तथा वृत्रा वृत्राणि पापानि जिघ्नमानः हिंसन् चरसि हि स्म वर्तसे खलु। किंच एवंविधसामर्थ्योपेतस्य तव व्रताय कर्मणे आज्ञायै द्यावापृथिव्यौ पर्वतासः पर्वताश्च निमितेव निखाता निश्चला इव अनु तस्थुः अनुकूलास्तिष्ठन्ति ॥ स्म । चादित्वादनुदात्तः । च्यावयन् । 'च्युङ् गतौ ' इत्यस्य ण्यन्तस्य शतरि रूपम् । णिच्स्वरः । चरसि । चर गतिभक्षणयोः । हियोगादनिघातः । जिघ्नमानः । 'हन हिंसागत्योः' इत्यस्य ‘घञर्थे कविधानम् ' इति कः । तस्य ‘छन्दस्युभयथा' इति सार्वधातुकत्वाच्छप् । तस्य श्लुः । ‘बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । हन्तीति जिघ्नः । आचारार्थे क्विप् । अस्मात्ताच्छील्यार्थे चानश् । शप् । व्यत्ययेनाद्युदात्तत्वम् । द्यावापृथिवी । देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् ॥ निमितेव । डुमिञ् प्रक्षेपणे' इत्यस्य कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ‘सुपां सुलुक्° इति सुपो डादेशः। ‘इवेन विभक्त्यलोपः' इत्युक्तत्वात् पूर्वपदस्वरः । तस्थुः। ‘ष्ठा गतिनिवृत्तौ' इत्यस्य लिटयुसि आतो लोपे कृते तस्य द्विर्वचनेऽत्ति' इति स्थानिवद्भावात् द्विर्वचनम् । निघातः ॥
“You alone casting down the firmly-footed (asuras) proceed, destroying the Vṛtras, and obedient to your command the heaven and earth and the mountains stood as if immoveable.”
For, overthrowing what hath ne'er been shaken, thou goest forth alone destroying Vrtras.
For him who followeth thy Law the mountains and heaven and earth stand as if firmly stablished.
For you, stirring the unstirrable, alone range about smashing obstacle after obstacle.
It is following your commandment that heaven and earth and the mountains stand like (pillars) implanted.
Denn du fürwahr bewegst das unbewegte, ziehst aus allein, zu tödten deine Feinde; Sich fügend deinem Willen stehn die Berge, wie festgebannt der Himmel und die Erde.
Denn du fürwahr, der du das Unerschütterliche erschütterst, ziehst alleine aus, die Feinde erschlagend. Auf dein Gebot standen Himmel und Erde, die Berge wie festgerammt.
Ведь это ты, сотрясая несотрясаемое,
Бродишь один, убивая врагов.
По твоему завету стоят, как вкопанные,
Небо и земля (и) горы.
उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ळ्हम॑वदो वृत्र॒हा सन् । इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥
उ॒त । अभ॑ये । पु॒रु॒ऽहू॒त॒ । श्रवः॑ऽभिः । एकः॑ । दृ॒ळ्हम् । अ॒व॒दः॒ । वृ॒त्र॒ऽहा । सन् । इ॒मे । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । अ॒पा॒रे इति॑ । यत् । स॒म्ऽगृ॒भ्णाः । म॒घ॒व॒न् । का॒शिः । इत् । ते॒ ॥
उत इत्यामन्त्रणे । हे इन्द्र पुरुहूत पुरुभिर्बहुभिर्यज्वभिराहूत । यद्वा देवैरसुरेभ्यो रक्षार्थं बहुवारमाहूत । श्रवोभिः वीर्यैरुपेतः। एकः असहायस्त्वं वृत्रहा वृत्रशत्रोर्हन्ता सन् अभये असुरेभ्यः सकाशान्मा बिभीतेति देवान् प्रति यद्वाक्यम् अवदः अवोचस्तद्वाक्यं दृढं सत्यमेव । किंच मघवन् इन्द्र त्वम् अपारे चित् दूरपारेऽपि इमे रोदसी द्यावापृथिव्यौ यत् यस्मात् कारणात् संगृभ्णाः संगृह्णासि परस्परमधरोत्तरभावेन संयोजिते करोषीति यावत् । एषः ते तव महिमा काशिरित् प्रकाशो लोके प्रसिद्धः एव। यद्वा यत् येन ते रोदसी संगृह्णासि ते तव काशिर्मुष्टिः महान् ।' काशिर्मुष्टिः ' ( निरु. ६. १ ) इति यास्कः ॥ अभये । ञिभी भये' इत्यस्मात् भावे ‘एरच् ' इत्यच्प्रत्ययः । नञा समासे तस्य स्वरः। अवदः । वद व्यक्तायां वाचि । लङि रूपम् । निघातः । अपारे । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । संगृभ्णाः । ग्रह उपादाने' । क्रयादित्वात् श्ना ।' ग्रहिज्यावयि ' इत्यादिना संप्रसारणम् । 'हृग्रहोर्भश्छन्दसि । इति हकारस्य भकारः। इतश्च' इति सिप इकारलोपः। बहुलं छन्दसि' इत्यडभावः । समासस्वरः । काशिः । काशृ दीप्तौ' । औणादिक इप्रत्ययः । प्रत्ययस्वरः ॥ ॥१॥
“You alone, when invoked by many, and the slayer of Vṛtra, by your prowess, did say firmly (to the gods), fear not! Indra, endowed with opulence, vast is your grasp, wherewith you have seized these unbounded regions, heaven and earth.”
Yea, Much-invoked! in safety through thy glories alone thou speakest truth as Vrtra's slayer.
E'en these two boundless worlds to thee, O Indra, what time thou graspest them, are but a handful.
And, o you who are much invoked with acclamations, in fearlessness you alone talked tough, since you are the obstacle-smasher.
Even these two world-halves without limits—when you grabbed them together, bounteous Indra, it was just a handful for you.
Denn du allein zerschlugst mit Macht das Feste, als Vritratödter, furchtlos, vielgerufner, Wenn, starker, du die unbegränzten Welten ergreifst, sind, Indra, dir sie eine Hand voll.
Und in Furchtlosigkeit hast du Vielgerufener rühmlich allein eine feste Sprache geführt als der Vritratöter. Selbst diese beiden unbegrenzten Welthälften sind, wenn du sie zusammenfassest, für dich nur eine Handvoll, du gabenreicher Indra.
И в бесстрашии, о многопризываемый, один со (своею) славой.
Ты говорил решительно, будучи убийцей врагов.
Даже эти две безграничные половины вселенной, о Индра,
Для тебя только пригоршня, о щедрый, когда ты схватил (их).
प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्र॑: प्रमृ॒णन्ने॑तु॒ शत्रू॑न् । ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥
प्र । सु । ते॒ । इ॒न्द्र॒ । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्रः॑ । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् । ज॒हि । प्र॒ती॒चः । अ॒नू॒चः । परा॑चः । विश्व॑म् । स॒त्यम् । कृ॒णु॒हि॒ । वि॒ष्टम् । अ॒स्तु॒ ॥
हे इन्द्र ते तव हरिभ्याम् अश्वाभ्यां युक्तो रथः शत्रूनभिलक्ष्य प्रवता प्रवणेन मार्गेण सु सुष्ठु प्र एतु शीघ्रं गच्छतु । तथा ते वज्रः अशनिः शत्रून् असुरान् प्रमृणन् हिंसन् प्र एतु। त्वं च प्रतीचः त्वदाभिमुख्येनागच्छतः शत्रून् जहि मारय । तथा अनूचः अनुगच्छतः पार्ष्णिग्राहानसुरान् पराचः पलायनपरांश्च जहि । एवं शत्रुषु बाधितेषु सत्सु विश्वं जगत् सत्यं कृणुहि सत्यभूताग्निहोत्रादिकर्मपरं कुरु । एवंविधं सामर्थ्यं त्वयि विष्टं निविष्टम् अस्तु ॥ प्रवता । प्रशब्दात् उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । प्रत्ययस्वरः । प्रमृणन् । मृण हिंसायाम् । जहि ।' हन हिंसागत्योः' इत्यस्य लोटि सिपो हिरादेशः । तस्मिन् ‘हन्तेर्जः' इति जादेशः । ‘अतो हेः' इति लुकि प्राप्ते आभाच्छास्त्रस्यासिद्धत्वान्निवृत्तिः । हेर्ङित्त्वादन्तोदात्तः । प्रतीचः । ‘अञ्चु गतिपूजनयोः' । ' अञ्चेश्छन्दस्यसर्वनामस्थानम्' इति विभक्तेरुदात्तत्वम् । पराचः । ‘अनिगन्तोऽञ्जतौ वप्रत्यये ' इति गतेः प्रकृतिस्वरत्वम् । कृणुहि । ‘कृवि हिंसाकरणयोः । अस्तु । ' अस भुवि ' ॥
“Let (your car), Indra, drawn by your horses (rush) downwards (upon the asuras); let your destroying thunder-bolt fall upon your enemies; slay those that assail in front or in rear, or that fly (from the combat); make the universe (the abode of) truth; (let such power) be concentrated in you.”
Forthwith thy Bay steeds down the steep, O Indra, forth, crushing foemen, go thy bolt of thunder!
Slay those who meet thee, those who flee, who follow: make all thy promise true; be all completed.
(Come) forth along an easy slope with your two fallow bays; let your mace come forth, pulverizing the rivals.
Smash those facing you, those following, those turned away. Make all this come true; let it be accomplished.
Vor eil' dein Wagen jählings mit den Füchsen, und vor dein Blitz, die Feinde niederschmetternd, Erschlag' die vordern, mittleren und letzten; lass alles wahr sein und von dir vollendet.
Dein Wagen soll fein mit dem Falbenpaar in gestrecktem Laufe, deine Keule soll die Feinde zermalmend vordringen, o Indra. Erschlage sie, wenn sie sich entgegenstellen, wenn sie von hinten kommen, wenn sie den Rücken kehren ! Mach alles wahr; es soll ein Ende gemacht werden!
(Пусть помчится) стремительно вперед твоя (колесница), о Индра, с парой буланых коней,
Пусть двинется вперед твоя ваджра, сокрушая врагов!
Убей (тех,) кто идет навстречу, идет следом, идет прочь!
Сделай все истинным! Да будет (все) спокойно!
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः । भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥
यस्मै॑ । धायुः॑ । अद॑धाः । मर्त्या॑य । अभ॑क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य॑म् । सः । भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तिः । घृ॒ताची॑ । स॒हस्र॑ऽदाना । पु॒रु॒ऽहू॒त॒ । रा॒तिः ॥
हे इन्द्र धायुः निरन्तरमैश्वर्यं दधानस्त्वं यस्मै मर्त्याय मनुष्याय अदधाः यद्वीर्यं दधासि सः मर्त्यः अभक्तं चित् पूर्वमप्राप्तमपि गेह्यं गृहेषु भवं कनकपश्वादिकं भजते प्राप्नोति । किंच। हे पुरुहूत बहुभिराहूतेन्द्र घृताची । घृतशब्दो हविर्मात्रमुपलक्षयति । तथा च सोमाज्यपुरोडाशादिलक्षणं हविरञ्चति प्राप्नोतीति घृताची । ते तव सुमतिः शोभना बुद्धिः भद्रा कल्याणकरी । तथा तव रातिः दानशक्तिः सहस्रदाना अपरिमितधनदानसमेता । इन्द्रस्य बहुदातृत्वे मन्त्रवर्णः - ’भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ' ( ऋ. सं. ४. ३२. २०) इति ॥ धायुः । दधातेरौणादिक उण्प्रत्ययः । अदधाः । दधातेर्लङि रूपम् । यद्वृत्तयोगाद निघातः । मर्त्याय । मर्त एव मर्त्यः । वस्वादिषु पाठात् स्वार्थिको यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । गेह्यम् । गेहशब्दात् तत्र भवः' इत्यर्थे ' भवे छन्दसि' इति यत्। तित्स्वरितः । सुमतिः।' मन्त्रे वृष° । इत्यादिना मतिशब्दोऽन्तोदात्तः । समासे कृदुत्तरपदस्वरः । रातिः । ‘रा दाने '। ' मन्त्रे वृष० ) इत्यादिना क्तिन्नुदात्तः ॥
“The man to whom you grant, lord of power, (your good-will), enjoys unprecedented domestic (prosperity); Indra, who are invoked by many, your auspicous favour, which is obtained by oblations, is the giver of unbounded wealth.”
The man to whom thou givest as Provider enjoys domestic plenty undivided.
Blest, Indra, is thy favour dropping fatness: thy worship, Much-invoked! brings gifts in thousands.
To whatever mortal you have provided sustenance, he takes a portion of the household goods, even what is not yet apportioned.
Auspicious is your benevolence and covered with ghee, much-invoked Indra; your generosity provides a thousand gifts.
der Sterbliche, dem gabenreich du schenktest erlangt, o Indra, nicht erlangten Hausrath, Fetttriefend ist und heilvoll deine Güte und tausendfach die Gab', o vielgerufner.
Welchem Sterblichen du Genüge getan hast, der hat Anteil an dem noch unverteilten Hauswesen. Glückbringend ist deine Gnade, o Indra, in Schmalz gehend; tausendschenkend deine Freigebigkeit, du Vielgerufener.
(Если) какому смертному ты дал удовлетворение пищей (?),
Он получает долю в неразделенном еще домашнем имуществе.
О Индра, твое благоволение приносит счастье, оно полно жира.
(Твоя) щедрость, о многопризываемый, приносит тысячи даров!
स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् । अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥
स॒हऽदा॑नुम् । पु॒रु॒ऽहू॒त॒ । क्षि॒यन्त॑म् । अ॒ह॒स्तम् । इ॒न्द्र॒ । सम् । पि॒ण॒क् । कुणा॑रुम् । अ॒भि । वृ॒त्रम् । वर्ध॑मानम् । पिया॑रुम् । अ॒पाद॑म् । इ॒न्द्र॒ । त॒वसा॑ । ज॒घ॒न्थ॒ ॥
हे पुरुहूत इन्द्र त्वं सहदानुम् । दानुः दानवी वृत्रमाता तया सह वर्तमानम् । तथा च मन्त्रवर्णः- दानुः शये सहवत्सा' (ऋ. सं. १. ३२. ९) इति । यद्वा सहदानुं दानुभिर्दानवैः सह वर्तत इति सहदानुः । तं क्षियन्तं बाधमानं कुणारुं क्वणनशीलं कंचिदसुरम् अहस्तं हस्तहीनं कृत्वा सं पिणक् सम्यक् चूर्णीकुरु । किंच हे इन्द्र वर्धमानं सर्वत इषुमात्र वर्धमानम् । स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत' (तै. सं. २. ४. १२. २) इति श्रुतेः। पियारुं हिंस्रं वृत्रं वृत्रासुरम् अपादं पादहीनं कृत्वा तवसा बलेन अभि जघन्थ हतवानसि । यद्वा सहदानुमुदकदानोपेतं क्षियन्तमाकाशे निवसन्तं कुणारुं गर्जन्तं वृत्रम् । वृणोत्याच्छादयति नभ इति वृत्रो मेघः । तमिमं वर्धमानं मेघं हस्तपादशून्यं कृत्वा संपिणक् संपिण्ढि। तथा च यास्कः -- ’अहस्तमिन्द्र कृत्वा संपिण्ढि परिक्वणनं मेघम् ' ( निरु. ६. १ ) इति ॥ सहदानुम् । 'दो अवखण्डने '। दाभाभ्यां नुः । इति नुप्रत्ययः । द्यतीति दानुर्दानवः । यद्वा दानुर्दानम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । क्षियन्तम् । ' क्षि निवासगत्योः '। तुदादित्वाच्छः । प्रत्ययस्वरः । पिणक् । ' पिष्लृ संचूर्णने' । रुधादित्वात् श्नम् । हेर्लुक् । षकारस्य ककारश्छान्दसः । कुणारुम् ।' कुण शब्दने'। बाहुलकाद्रूपसिद्धिः । आद्युदात्तः । जघन्थ ।' हन हिंसागत्योः' इत्यस्य लिटि थलि रूपम् । ' अभ्यासाच्च' इति धातुहकाररय घत्वम् । निघातः ।' उपदेशेऽत्वतः' इतीट्प्रतिषेधः ॥
“Indra, who is invoked by many, grind to dust the reviling malevolent Vṛtra opposing you, dwelling with the mother of the Dānavas, and increasing in might, until having deprived him of hand and foot, you have destroyed him by your strength.”
Thou, Indra, Much-invoked! didst crush to pieces Kunaru handless fiend who dwelt with Danu.
Thou with might, Indra, smotest dead the scorner, the footless Vrtra as he waxed in vigour.
The one dwelling together with (his mother) Dānu, the handless vermin did you utterly crush, much-invoked Indra.
With your powerful (mace), Indra, you smashed at the sneering footless Vr̥tra, who was growing strong.
Der da lag sammt dem Dämon, vielgerufner, den trafst du, Indra, handlos ward er, armlahm; Den bösen Vritra, ihn der mächtig anwuchs, zerschlugst mit Kraft du, Indra, fusslos ward er.
Den mit der Danu zusammenhausenden handlosen Kunaru hast du zerschmettert, vielgerufener Indra. Auf den sich auswachsenden Vritra, den Feindseligen, den Fußlosen hast du, Indra, mit der starken Keule losgeschlagen.
О многопризываемый, ты раздавил живущего
Вместе с Дану безрукого Кунару, о Индра.
Вритру разрастающегося, злобного,
Безногого ты убил мощной (дубиной), о Индра.
नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः ॥
नि । सा॒म॒नाम् । इ॒षि॒राम् । इ॒न्द्र॒ । भूमि॑म् । म॒हीम् । अ॒पा॒राम् । सद॑ने । स॒स॒त्थ॒ । अस्त॑भ्नात् । द्याम् । वृ॒ष॒भः । अ॒न्तरि॑क्षम् । अर्ष॑न्तु । आपः॑ । त्वया॑ । इ॒ह । प्रऽसू॑ताः ॥
हे इन्द्र महीं महतीमत एव अपाराम् इषिरां स्थानाभावेन चलन्तीम् एवंविधां भूमिं सामनां समानाम् । तथा च मन्त्रवर्ण:--' गावौ ते सामनावितः ' ( ऋ. सं. १०. ८५. ११ ) इति । यद्वा सम एव साम । तथा च शतपथे श्रूयते- यदेव समः प्लुषिणा समो मशकेन समो नागेन सम एतैस्त्रिभिर्लोकैस्तस्मादेव साम' (श. ब्रा. १४. ४. १) इति । तदस्यास्तीति सामनः । तां साम्यवतीं कृत्वा सदने स्वे स्थाने नि ससत्थ निवेशयामासिथ । तथा वृषभः अभिमतफलानां वर्षक इन्द्रः द्यां द्युलोकम् अस्तभ्नात् यथा न पतति तथा धारयत् । तथा अन्तरिक्षम् । एवं द्यावापृथिव्योरवस्थितौ सत्यां त्वया प्रसूताः मेघभेदनेन प्रेरिताः आपः '“इह भूमौ अर्षन्तु आगच्छन्तु । तथा च मन्त्रवर्णः- यः पृथिवीं व्यथमानामदृंहत् ' ( ऋ. सं. २. १२. २ ) इति ॥ सामनाम् । समः एव साम । तदस्यास्ति' इति मतुबर्थे परमादित्वान्नप्रत्ययः । प्रत्ययस्वरः। इषिराम् । इष गतौ ' । इषिमदि° ' ( उ. सू. १. ५१ ) इत्यादिना किरच्प्रत्ययः । कित्त्वादगुणः । चित्स्वरः । ससत्थ । 'षद्लृ विशरणगत्यवसादनेषु' इत्यस्यान्तर्भावितण्यर्थस्य लिटि थलि ‘ उपदेशेऽत्वतः' इतीट्प्रतिषेधः। निघातः । अस्तभ्नात् । 'स्तम्भु स्तम्भने ' इति सौत्रो धातुः। 'स्तम्भुस्तुम्भु°' इत्यादिना आप्रत्ययः । श्नान्नलोपः' इति धातुनकारलोपः। अडागमस्वरः।
“You have fixed tranquil in its position the vast unbounded and wandering earth; the showerer (of benefits) has upheld the heaven and the firmament; let the waters engendered by you here descend.”
Thou hast established in her seat, O Indra, the level earth, vast, vigorous, unbounded.
The Bull hath propped the heaven and air's mid-region. By thee sent onward let the floods flow hither.
You set down in its seat the whole, great, limitless, vital earth, Indra. The bull propped up heaven and the midspace. Let the waters flow here, propelled by you.
Du setztest Indra hin die gleiche Erde an ihren Sitz, die saft'ge, reiche, weite; Es festigte der Stier die Luft, den Himmel, von dir erregt hier mögen Fluten rinnen.
Du, Indra, hast die gütige, eifrige, große, unbegrenzte Erde an ihren Platz gesetzt. Er stützte den Himmel, der Bulle, den Luftraum; auf dein Geheiß sollen hier die Gewässer fließen.
Ты усадил на место, о Индра, обильную,
Подвижную, великую, бескрайнюю землю.
(Этот) бык укрепил небо, воздушное пространство,
Да потекут сюда воды, тобою пробужденные к жизни!
अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र । सु॒गान्प॒थो अ॑कृणोन्नि॒रज॒ा गाः प्राव॒न्वाणी॑: पुरुहू॒तं धम॑न्तीः ॥
अ॒ला॒तृ॒णः । व॒लः । इ॒न्द्र॒ । व्र॒जः । गोः । पु॒रा । हन्तोः॑ । भय॑मानः । वि । आ॒र॒ । सु॒ऽगान् । प॒थः । अ॒कृ॒णो॒त् । निः॒ऽअजे॑ । गाः । प्र । आ॒व॒न् । वाणीः॑ । पु॒रु॒ऽहू॒तम् । धम॑न्तीः ॥
हे इन्द्र अलातृणः। बहूदकतया अलमत्यर्थमातृद्यते हिंस्यत इत्यलातृणः। गोः माध्यमिकायाः वाचः व्रजः गोष्ठभूतः वलः । वृणोत्याकाशमिति वलो मेघः। पुरा हन्तोः तव वज्रप्रहारत् प्राक् भयमानः बिभ्यत् व्यार विलिष्टो बभूव । अनन्तरं स इन्द्रः गा: अपः निरजे निर्गमयितुं सुगान् सुगमान् पथः मार्गान् अकृणोत् अकरोत् । अतः वाणी: वननीयाः धमन्तीः शब्दायमानास्ता आपः पुरुहूतं बहुभिराहूतं पार्थिवमुदकं प्रति प्रावन् अभ्यागच्छन् । एतामृचं यास्क एवं व्याख्यत्--’अलातृणो वल इन्द्र व्रजो गोः । अलातृणोऽलमातर्दनो मेघो वलो वृणोतेर्व्रजो व्रजत्यन्तरिक्षे गोरेतस्या माध्यमिकाया वाचः पुरा हननाद्भयमानो व्यार सुगान्पथो अकृणोन्निरजे गाः । सुगमनान्पथोऽकरोन्निर्गमनाय गवाम् । प्रावन्वाणीः पुरुहूतं धमन्तीः । आपो वा वहनाद्वाचो वा वदनाद्बहुभिराहूतमुदकं भवति । धमतिर्गतिकर्मा' (निरु. ६. २.) ॥ अलातृणः । तृहि हिंसायाम्'। अलंपूर्वात् तृहेः ‘घञर्थे कविधानम् ' इति कर्मणि कप्रत्ययः । अलमो मकारस्याकारः । समासस्वरः । वलः । ‘वल संवरणे । वल्यत आच्छाद्यते नभोऽनेनेति' वलो मेघः । ‘पुंसि संज्ञायाम् ' इति घः । प्रत्ययस्वरः । व्रजः । ‘व्रज गतौ'।' गोचरसंचर० ' (पा० सू. ३.३.११९ ) इत्यादिना घप्रत्ययान्तत्वेन निपातनात् कुत्वाभावः । व्रजत्यन्तरिक्ष इति । प्रत्ययस्वरः। भयमानः । 'ञिभी भये' । व्यत्ययेन शप् । आर । ‘ऋ गतौ ' इत्यस्य लिटि णलि रूपम् । निघातः । सुगान् ।' गम्लृ गतौ ' इत्यस्मादधिकरणे ‘सुदुरोरधिकरणे ' इति डप्रत्ययः । डित्त्वाट्टिलोपः । कृत्स्वरः। निरजे । ‘अज गतिक्षेपणयोः' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । कृदुत्तरस्वरः । आवन् । अव रक्षणगत्यादिषु इत्यस्य लङि रूपम् । पुरुहूतम् । ह्वयतेर्निष्ठायां यजादित्वात् संप्रसारणम् । ‘हलः' इति दीर्घः । थाथादिस्वरः । धमन्तीः । ‘ध्मा शब्दे'। शपि पाघ्रा ' इत्यादिना धमादेशः।' वा छन्दसि' इति जसः सवर्णदीर्घः । शतुर्लसार्वधातुकस्वरे कृते धातुस्वरः ॥ ॥ २ ॥
“The heavy cloud, the receptacle of water, dreading you its destroyer, opened out before (you had cast your bolt); then Indra made easily-traversed paths for the waters to issue, and desirable and loud sounding they proceeded to the (waters of the earth) invoked of many.”
He who withheld the kine, in silence I yielded in fear before thy blow, O Indra.
He made paths easy to drive forth the cattle. Loud-breathing praises helped the Much-invoked One.
Vala, the enclosure of cattle, unquiet and fearful, opened up (even) before being struck, o Indra.
He [=Indra] made the paths easy to travel, to drive out the cows. The choir (of Aṅgirases) aided the much-invoked one, blowing (on their instruments).
Der geiz'ge Vala und der Stall der Kühe, sie gaben nach aus Furcht vor deinem Hiebe; Die Pfade bahnt' er, trieb heraus die Kühe, der Winde Ton war lieb dem vielgerufnen.
Ohne zurückzufordern hat sich Vala, der Rinderpferch, noch vor deinem Schlage furchtsam aufgetan. Er machte die Wege frei, um die Rinder herauszutreiben. Die blasenden Chöre der Marut ermutigten dich, den Vielgerufenen.
Вала, которого не пробуравить, (этот) загон для скота,
Боясь, открылся (сам) до (твоего) удара.
Он сделал пути легкопроходимыми, чтобы выгнать коров.
Сильно поддержали (тебя,) многопризываемого, трубящие голоса (Марутов).
एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् । उ॒तान्तरि॑क्षाद॒भि न॑: समी॒क इ॒षो र॒थीः स॒युज॑: शूर॒ वाजा॑न् ॥
एकः॑ । द्वे इति॑ । वसु॑मती॒ इति॒ वसु॑ऽमती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । इन्द्रः॑ । आ । प॒प्रौ॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । उ॒त । अ॒न्तरि॑क्षात् । अ॒भि । नः॒ । स॒म्ऽई॒के । इ॒षः । र॒थीः । स॒ऽयुजः॑ । शू॒र॒ । वाजा॑न् ॥
योऽयम् इन्द्रः एकः असहाय एव सन् पृथिवीम् उत अपि च द्यां द्वे एते द्यावापृथिव्यौ समीची परस्परं संगते वसुमती धनयुक्ते सत्यौ आ पप्रौ समन्तात् पूरयामास । उत अपि च हे शूर सामर्थ्योपेत तादृशस्त्वं रथीः रथवान् सः नः अस्माकं समीके समीपे इषः स्थातुमिच्छन् 'सयुजः संगतान् वाजान्। वजन्ति गच्छन्तीति वाजा अश्वाः। तानश्वान् अन्तरिक्षात् अन्तरिक्षसकाशात् अभि प्रेरय । रथारूढस्त्वम् अस्मत्समीपं शीघ्रमागच्छेति भावः ॥ वसुमती। ' वा छन्दसि ' इति पूर्वसवर्णदीर्घः । पप्रौ।' प्रा पूरणे ' इत्यस्य लिटि णलि ‘आत औ णलः' इत्यौकारः । निघातः । इषः । इषु इच्छायाम् ' । अस्मादिगुपधलक्षणः कः । कित्त्वादगुणः । प्रत्ययस्वरः । रथीः । रथोऽस्यास्तीति मतुबर्थे ' छन्दसीवनिपौ ' इति ईप्रत्ययः । प्रत्ययस्वरः ॥
“Indra alone has filled the two,both earth and heaven mutually combined, and abounding with wealth; do you hero, mounted in your car, come with your harnessed horses from the firmament, impatient to be near us.”
Indra alone filled full the earth and heaven, the Pair who meet together, rich in treasures.
Yea, bring thou near us from the air's mid-region strength, on thy car, and wholesome food, O Hero.
The one—Indra—filled the two—earth and heaven—the joint repositories of goods.
And from the midspace, at their join [i.e., of heaven and earth], as charioteer of refreshment (bring) us prizes in yoke together, o
champion.
Die zwei vereinten güterreichen füllte der eine Indra beide Erd' und Himmel, Und aus der Luft auch fährst du her uns Tränke im Wagen, und, o Held, verbundne Speisen.
Indra allein hat die beiden schätzereichen gepaarten Himmel und Erde erfüllt. Auch aus der Luft komm zu uns im Kampfe, bring uns als der Wagenlenker der Speise verdoppelt die Gewinne, du Held!
Индра один заполнил две богатые добром
Соединенные (половины) вселенной: землю и небо.
А из воздушного пространства нам для битвы
Пусть привезешь ты как колесничий объединенные награды, о герой!
दिश॒: सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः । सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥
दिशः॑ । सूर्यः॑ । न । मि॒ना॒ति॒ । प्रऽदि॑ष्टाः । दि॒वेऽदि॑वे । हर्य॑श्वऽप्रसूताः । सम् । यत् । आन॑ट् । अध्व॑नः । आत् । इत् । अश्वैः॑ । वि॒ऽमोच॑नम् । कृ॒णु॒ते॒ । तत् । तु । अ॒स्य॒ ॥
हर्यश्वप्रसूताः। हरी अश्वौ यस्यासाविति हर्यश्व इन्द्रः । तेन प्रेरिताः दिशः प्रागादयः दिवेदिवे प्रतिदिवसं प्रदिष्टाः सूर्यस्य गमनार्थं दत्ता या दिशो विद्यन्ते ताः सूर्यो न मिनाति न हिनस्ति । किंतु ताभिरेव व्रजति । यत् यदा सूर्यः अध्वनः गन्तव्यान् प्रदेशान् अश्वैः गमनसाधनभूतैः सम् आनट् सम्यगश्नुते । आदित् अनन्तरमेव विमोचनं कृणुते । अश्वानां विमोचनं कुरुते । तत् एतत्सर्वं कर्म अस्य तवैव खलु। तु प्रसिद्धौ ॥ सूर्यः। ‘षू प्रेरणे' इत्यस्मात् ‘सुसूधागृधिभ्यः क्रन्' इति क्रन्प्रत्ययः । सुवति प्रेरयतीति सूर आदित्यः । सूर एव सूर्यः । वस्वादित्वात् स्वार्थिको यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । मिनाति । 'मीञ् हिंसायाम् । ‘मीनातेर्निगमे ' इति ह्रस्वः । हर्यश्वप्रसूताः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । आनट् । ‘अशू व्याप्तौ ' इत्यस्य ‘बहुलं छन्दसि ' इति लङः श्लुः । अश्नोतेश्च ' इति नुडागमः । व्रश्चादिना पत्वम् । यद्योगादनिघातः ॥
“Sūrya harms not the quarters (of the horizon), set open daily (for his journey), the progeny of Haryaśva; when he has traversed the roads (he is to travel), then he lets loose his horses, for such is his office.”
Surya transgresses not the ordered limits set daily by the Lord of Tawny Coursers.
When to the goal he comes, his journey ended, his Steeds he looses: this is Indra's doing.
The Sun does not confound the directions as they are directed, as they are day after day propelled forth by him of the fallow bays.
When he has fully reached (the end) of the road, only after that does he perform his unyoking of the horses. But that is his (way).
Die Sonne ändert nicht die festen Ziele, der Tag für Tag vom Rosseherrn gesetzt sind, Wenn sie die Bahn durchlaufen, dann erst lenkt sie zur Einkehr mit den Rossen, das ist sein Werk.
Die Sonne verfehlt nicht die vorgezeichneten Richtungen, die Tag für Tag vom Falbenlenker bestimmten. Wenn sie ihre Wege vollendet hat, dann macht sie mit den Rossen Ausspann. Das aber ist sein Werk.
Солнце не меняет предписанных сторон света,
Порожденных день за днем обладателем буланых коней.
Только после того, как оно достигло конца (своих) путей,
Оно распрягает коней – такова его (работа).
दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् । विश्वे॑ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥
दिदृ॑क्षन्ते । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वि॒वस्व॑त्याः । महि॑ । चि॒त्रम् । अनी॑कम् । विश्वे॑ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा॑त् । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ॥
विश्वे सर्वे जनाः विवस्वत्याः विवासनवत्या निर्गमनपरायाः अक्तोः रात्रेः संबन्धिनः उषसो यामन् यामनि निर्गमने सति महि महत् चित्रं चायनीयम् अनीकं सौरं तेजः दिदृक्षन्ते द्रष्टुमिच्छन्ति । यत् यदा आगात् उषःकालः समन्तादागतः व्यपैति तदा तेजो दिदृक्षमाणाः सर्वे जनाः महिना महनीयान्यग्निहोत्रादीनि कर्माणि जानन्ति कर्तव्यतयावबुध्यन्ते । हे इन्द्र पुरूणि बहूनि सुकृता सुष्ठु कृतानि कर्म कर्माणि इन्द्रस्य तवैव ॥ दिदृक्षन्ते। ' दृशिर् प्रेक्षणे ' इत्यस्य सनि ‘ज्ञाश्रुस्मृदृशां सनः ' ( पा. सू. १. ३. ५७ ) इत्यात्मनेपदम् । अभ्यस्तस्वरः । विवस्वत्याः । विवासतेः संपदादिलक्षणः क्विप्। व्यत्ययेनोपधाह्रस्वत्वम् । तस्मात् तदस्यास्ति' इति मतुप् । मादुपधायाः' इति तस्य वत्वम् । मतुपः पित्त्वादनुदात्तत्वे धातुस्वरः। जानन्ति । ‘ज्ञा अवबोधने '। ‘ज्ञाजनोर्जा ' इति जादेशः । निघातः । अगात् । इण् गतौ ' इत्यस्य लुङि रूपम् । यद्योगादनिघातः । सुकृता । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
“Al,l me are anxious to behold the great and variegated host (of the solar rays) at the issuing of the dawn after the night has been displaced; and when the morning has come, they recognize the many great and glorious acts of Indra.”
Men gladly in the course of night would look on the broad bright front of the refulgent Morning;
And all acknowledge, when she comes in glory, the manifold and goodly works of Indra.
They desire to see, at the coming of Dawn from night, the great glittering face of her who shines forth [=Dawn].
They all know when she has come with her greatness. Many are the well-done deeds of Indra.
Im Lauf der Nacht auch möchten alle sehen den grossen, hellen Schein des prächt'gen Frühroths; Es kennen alle, wenn mit Glanz es ankam, des Indra viele schöngethanen Werke.
Sie verlangen beim Kommen der Morgenröte aus dem Dunkel der Nacht das große, prächtige Antlitz der Aufleuchtenden zu sehen. Alle erkennen, wenn sie in ihrer Herrlichkeit gekommen ist: Des Indra viele Werke sind wohlgetan.
При выходе Ушас из ночи (все) хотят видеть
Великий, яркий облик зажигающейся (зари).
Все знают, когда она явилась со (своим) величием.
Многие деяния Индры благотворны.
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः । विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ॥
महि॑ । ज्योतिः॑ । निऽहि॑तम् । व॒क्षणा॑सु । आ॒मा । प॒क्वम् । च॒र॒ति॒ । बिभ्र॑ती । गौः । विश्व॑म् । स्वाद्म॑ । सम्ऽभृ॑तम् उ॒स्रिया॑याम् । यत् । सी॒म् । इन्द्रः॑ । अद॑धात् । भोज॑नाय ॥
वक्षणासु । वक्ष्यन्ते यासूदकानीति वक्षणा नद्यः । तासु महि महत् ज्योतिः ज्योतिष्मदुदकं निहितम् इन्द्रेण आमा नवसूतिका गौः पक्वं क्षीरादिकं बिभ्रती दधाना सती चरति सर्वत्र वर्तते । यत् यस्मादुदकात् स्वाद्म स्वादुतरं संभृतं स्वेन संपादितं दधिघृतक्षीरादिकं सीम् एतत् विश्वं सर्वम् उस्रियायां गवि भोजनाय इन्द्रः अदधात् । तस्मात् क्षीरादिकं बिभ्रती गौश्चरतीति पूर्वेणान्वयः ॥ वक्षणासु ।' वक्ष रोषे '। अस्मात् ‘करणाधिकरणयोश्च । इति करणे ल्युट् । लित्स्वरः । पक्वम् । पचतेर्निष्ठातकारस्य ‘पचो वः' इति वत्वम् । प्रत्ययस्वरः। चरति । चरतिर्गत्यर्थः । बिभ्रती । डुभृञ् धारणपोषणयोः '। जुहोत्यादिः । शतुरुगित्त्वात् ‘उगितश्च ' इति ङीप् ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । उस्रियायाम् । 'वस निवासे ' ।' स्फायितञ्चि° ' इत्यादिनाधिकरणे रक्प्रत्ययः । यजादित्वात् संप्रसारणम् । ‘शासिवसिघसीनां च ' इति षत्वाभावश्छान्दसः । स्वार्थिको घप्रत्ययः । प्रत्ययस्वरः ॥
“A great light has been shed upon the rivers; the cow yet immature grazes, charged with the ripe (milk), for Indra has plural ced in the cow all this collected sweetness for food.”
A mighty splendour rests upon her bosom: bearing ripe milk the Cow, unripe, advances.
All sweetness is collected in the Heifer, sweetness which Indra made for our enjoyment.
Great light was deposited in her udder. Herself raw, the cow roams about carrying the cooked (milk).
Every sweetness was brought together in the ruddy one, when Indra established her for nourishment.
Ein grosser Glanz ist in den Leib gesetzet, die rohe Kuh geht tragend garen Milchtrank Vereint ist alles Süsse in der Milchkuh, was Indra machte zum Genuss der Menschen.
Ein großes Licht ist in ihren Eutern verwahrt: die rohe Kuh wandelt die gekochte Milch tragend. Aller Wohlgeschmack ward in der Kuh vereinigt, als Indra sie zur Nahrung bestimmte.
Великий свет сокрыт в вымени (Ушас):
Сырая корова бродит, нося вареное (молоко).
Весь вкус был собран в корове (-утренней заре),
Когда Индра предназначил ее для наслаждения (человека).
इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः । दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ॥
इन्द्र॑ । दृह्य॑ । या॒म॒ऽको॒शाः । अ॒भू॒व॒न् । य॒ज्ञाय॑ । शि॒क्ष॒ । गृ॒ण॒ते । सखि॑ऽभ्यः । दुः॒ऽमा॒यवः॑ । दुः॒ऽएवाः॑ । मर्त्या॑सः । नि॒ष॒ङ्गिणः॑ । रि॒पवः॑ । हन्त्वा॑सः ॥
हे इन्द्र दृह्य दृढो भव। यतः यामकोशाः। यान्त्यस्मिन्निति यामो मार्गः । तस्य कोशाः कोशवदाच्छादकाः मार्गप्रतिबन्धका राक्षसाः अभूवन् । त्वं यज्ञाय यज्ञकर्त्रे गृणते स्तोत्रं कुर्वते यजमानाय सखिभ्यः पुत्रादिभ्यश्च शिक्ष अपेक्षितं फलं दत्स्व । दुर्मायवः । दुष्टमायुधानि मिन्वन्ति प्रक्षिपन्तीति दुर्मायवः । दुरेवाः दुष्टं गच्छन्तः मर्त्यासः मारयितारः निषङ्गिणः । निषङ्गशब्देन इषुधिरभिधीयते । तद्वन्तः । एवंविधसामर्थ्योपेताः रिपवः शत्रवो राक्षसाः 'हन्त्वासः त्वया हननीयाः ॥ दृह्य । ‘दृह दृहि वृह वृहि वृद्धौ'। व्यत्ययेन श्यन् । लोटि रूपम् । नित्स्वरः । अभूवन् ।' भू सत्तायाम् । अस्य लुङि रूपम् । ‘गातिस्था' इति सिचो लुक्। ‘भूसुवोस्तिङि' इति गुणे प्रतिषिद्धे ‘भुवो वुग्लुङलिटोः' इति वुगागमः । निघातः । शिक्ष। ' शिक्ष विद्योपादाने'। अयं धातुरत्र दाने वर्तते । व्यत्ययेन परस्मैपदम्। निघातः। दुर्मायवः । मिनोतेः ‘कृवापाजिमि' इत्यादि। उण्प्रत्ययः । कृदुत्तरपदस्वरः । दुरेवाः । ‘इण् गतौ ' । ‘इण्शीङ्भ्यां वन्' इति कर्तरि वन्प्रत्ययः । रिपवः ।' रपेरिच्चोपधायाः' इत्युप्रत्ययः । उपधाया इत्वम् । प्रत्ययस्वरः । हन्त्वासः । ‘हन हिंसागत्योः'। ‘कृत्यार्थे तवैकेन्केन्यत्वनः' इति त्वन् । नित्त्वादाद्युदात्तः ॥ ॥ ३ ॥
“Indra, be firm, for there are obstructors of your path; secure to the worshipper and his friends (the means of completing) the sacrifice; mortal enemies bearing bows, armed with mischievous weapons, and coming with evil intent, must be destroyed (by you).”
Barring the way they come. Be firm, O Indra; aid friends to sacrifice and him who singeth.
These must be slain by thee, malignant mortals, armed with ill arts, our quiverbearing foemen.
Indra, stand fast! The (enemies’) “journey-buckets” [=chariots] have come. Do your best for the sacrifice, for the singer, for your
comrades.
The mortals who use dirty tricks, those of evil ways, the cheaters
wearing quivers are to be smashed.
Erstark' o Indra, Wegelag'rer kamen, dem Opfer hilf, dem Sänger und den Freunden; Zu tödten sind die zauberischen Menschen, die bösen, und die Feinde Köcher tragend.
Indra, bleib fest ! Die Reisetruhen sind bereit. Tu dem Sänger und seinen Freunden für das Opfer zu Dank! Die hinterlistigen Sterblichen, deren Trachten böse ist, die Schelme, die den Köcher umhaben, sollen erschlagen werden!
О Индра, будь тверд! Дорожные лари (?) готовы.
Помоги с жертвой певцу и (его) друзьям!
Обладающие колдовской силой смертные, чинящие зло,
Мошенники с колчанами должны быть убиты!
सं घोष॑: शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् । वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ॥
सम् । घोषः॑ । शृ॒ण्वे॒ । अ॒व॒मैः । अ॒मित्रैः॑ । ज॒हि । नि । ए॒षु॒ । अ॒शनि॑म् । तपि॑ष्ठाम् । वृ॒श्च । ई॒म् । अ॒धस्ता॑त् । वि । रु॒ज॒ । सह॑स्व । ज॒हि । रक्षः॑ । म॒घ॒ऽव॒न् । र॒न्धय॑स्व ॥
हे इन्द्र अवमैः समीपे वर्तमानैः अमित्रैः शत्रुभिरसुरैरुत्सृष्टो योऽशनिः घोषः घुष्यमाणः सं शृण्वे सम्यगस्माभिः श्रूयते तपिष्ठाम् अतिशयेन तापिकां ताम् अशनिम् एषु शत्रुष्वेव निधाय जहि मारय । तैः प्रयुक्तामशनिं तानेव प्रापयेति भावः । ईम् एनान् शत्रून् अधस्तात् मूलतः वृश्च छिन्धि । किंच वि रुज तान् विशेषेण बाधस्व सहस्व अभिभव च । हे मघवन् इन्द्र रक्षः कर्मविघ्नकारीणि रक्षांसि जहि मारय । अनन्तरमिमं यज्ञं रन्धयस्व पारं नय॥ शृण्वे। निघातः । जहि । ‘हन हिंसागत्योः'। अस्य लोटि रूपम् । अशनिम्।' अशू व्याप्तौ ।' अश्यवितॄभ्योऽनिः' इत्यनिप्रत्ययः। प्रत्ययस्वरः । तपिष्ठाम् । तप्तृशब्दादिष्ठन्प्रत्ययः । नित्स्वरः। वृश्च । ‘ओव्रश्चू छेदने' । तुदादिः । ग्रहिज्यादिना संप्रसारणम् । सहस्व। वाक्यभेदादनिघातः । रन्धयस्व। 'रध हिंसासंराद्धयोः' इत्यस्य ण्यन्तस्य लोटि • रधिजभोरचि' इति नुमागमः । वाक्यभेदादनिघातः ॥
“The sound (of your bolt) has been heard by the approaching foes; hurl upon them the consuming thunder-bolt, cut them up by the root, oppose; Maghavan, overcome, slay the rākṣasas, complete (the sacrifice).”
A cry is beard from enemies most near us: against them send thy fiercest-flaming weapon.
Rend them from under, crush them and subdue them. Slay, Maghavan, and make the fiends our booty.
All around your battle-cry is heard by the closest foes. Smash your most scorching missile down on them.
Cleave them below; break them apart; overwhelm them. Smash the
demonic force, bounteous one; make them subject to you.
Der Lärm erschallt von allernächsten Feinden, auf sie wirf nieder deinen schärfsten Blitzstrahl; Zerbrich, zerspalte sie von unten, siege, den Nachtgeist schlag', o starker, unterwirf ihn.
Man hört das Geschrei von den ganz nahen Feinden. Schleudere auf sie deinen glühenden Keil! Hau ihn unten ab, zerspalte, bezwinge ihn, erschlage den Dunkelgeist, du Gabenreicher, bring ihn in deine Gewalt!
Повсюду слышится гул близких врагов.
Порази их самым раскаленным камнем!
Расщепи их сверху вниз! Расколи! Одолей!
Убей ракшаса, о щедрый! Отдай (нам) во власть!
उद्वृ॑ह॒ रक्ष॑: स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि । आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विष्॒ तपु॑षिं हे॒तिम॑स्य ॥
उत् । वृ॒ह॒ । रक्षः॑ । स॒हऽमू॑लम् । इ॒न्द्र॒ । वृ॒श्च । मध्य॑म् । प्रति॑ । अग्र॑म् । शृ॒णी॒हि॒ । आ । कीव॑तः । स॒ल॒लूक॑म् । च॒क॒र्थ॒ । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥
हे इन्द्र रक्षः कर्मविघ्नकारि रक्षःकुलं सहमूलं मूलसहितं यथा भवति तथा उद्वृह उद्धर । किंच मध्यं तस्य मध्यभागं वृश्च छिन्धि । प्रत्यग्रम् अग्रं प्रत्यागतं तत् शृणीहि जहि । तस्य रक्षःकुलस्य मध्ये सललूकं सरणशीलं रक्षः आ कीवतः । ‘आङ् मर्यादायाम् ' । कियतः अनिर्ज्ञायमानपरिमाणात् अतिदूराद्देशात् 'चकर्थ कुरु । कृत्वा च ब्रह्मद्विषे ब्राह्मणद्वेषकारिणे तस्मै रक्षसे तपुषिं तापकं हेतिं घातकमायुधं अस्य क्षिप । उक्तमर्थं यास्कोऽब्रवीत्-‘उद्धर रक्षः सहमूलमिन्द्र। मूलं मोचनाद्वा मोषणाद्वा मोहनाद्वा। वृश्च मध्यं प्रति शृणीह्यग्रम् । अग्रमागतं भवति । अ कियतो देशात्सललूकं सल्लुँब्धं भवति पापकमिति नैरुक्ताः सररूकं वा स्यात्सर्तेरभ्यस्तात् । तपुषिस्तपतेर्हेतिर्हन्तेः ' ( निरु. ६. ३ ) इति ॥ वृह । ‘वृहू उद्यमने ' इत्यस्य लोटि रूपम् । शृणीहि । ' शॄ हिंसायाम् । अस्य लोटि हौ ‘ई हल्यघोः' इतीदम्। निघातः । कीवतः । किंशब्दात् किं परिमाणमस्येत्यर्थे ' किमिदंभ्यां वो घः' इति किंशब्दात् वतुबरतीति ज्ञापितत्वात् वतुप् । घादेशाभावश्छान्दसः । इदंकिमोरीदकी ' इति की इत्यादेशः । सल्लूकम् । ‘सृ गतौ' । छान्दसी रूपसिद्धिः । चकर्थ । ' डुकृञ् करणे' इत्यस्य लिटि थलि रूपम् । क्रादित्वादिडभावः । निघातः । तपुषिम् । तप संतापे ' इत्यस्मात् ‘अर्तिपॄवपियजितनिधनितपिभ्यो नित्' इत्युसिप्रत्ययो निच्च । अकारस्य इकारश्छान्दसः । नित्स्वरः । हेतिम् । ‘हन हिंसागत्योः' । 'उतियूतिजूतिसाति ' इत्यादिना निपातनादन्तोदात्तः । अस्य । असु क्षेपणे ' । लोटि रूपम् ॥
“plural ck the rākṣasas, Indra, by the root; cut as under the middle, blight the summit; to whatever remote (regions) you have driven the sinner, cast upon the enemy of the Veda your consuming weapon.”
Root up the race of Raksasas, O Indra rend it in front and crush it in the middle.
How long hast thou bebaved as one who wavers? Cast thy hot dart at him who hates devotion:
Tear out the demonic power, root and all, Indra; cleave its middle; shatter its top.
How far have you sent it scooting? Hurl your scorching lance at the hater of the sacred formulation.
Reiss aus den Nachtgeist mit der Wurzel, Indra, spalt mitten durch ihn, brich ihm seinen Schädel; Wie weit bist du umhergeschweift vergeblich, auf Andachthasser wirf die heisse Lanze.
Rotte den Dunkelgeist mit der Wurzel aus, Indra ! Hau die Mitte durch, brich die Spitze ab ! Wie lange schon hast du Nachsicht geübt ! Schleuder dein glühendes Geschoß auf den Feind des Segenswortes!
Вырви ракшаса с корнем, о Индра!
Расщепи середину! Отломи верхушку!
До каких пор ты пребывал в нерешительности?
Метни раскаленный дротик в ненавистника молитвы!
स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेत॒: सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः । रा॒यो व॒न्तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ॥
स्व॒स्तये॑ । वा॒जिऽभिः॑ । च॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । सम् । यत् । म॒हीः । इषः॑ । आ॒ऽसत्सि॑ । पू॒र्वीः । रा॒यः । व॒न्तारः॑ । बृ॒ह॒तः । स्या॒म॒ । अ॒स्मे इति॑ । अ॒स्तु॒ । भगः॑ । इ॒न्द्र॒ । प्र॒जाऽवा॑न् ॥
प्रणेतः प्रकर्षेण जगतो निर्वाहक हे इन्द्र अस्मान् वाजिभिः अश्वैः सहितान् कुरु स्वस्तये च अविनाशाय कुरु । यत् यदा त्वं सम् आसत्सि अस्माकं समीपे यज्ञनिर्वाहार्थमासीदसि तदा वयं महीः महान्ति इषः अन्नानि पूर्वीः प्रभूतानि रायः धनानि वन्तारः तेषां संभक्तारः सन्तः बृहतः महान्तः स्याम भवेम । किंच प्रजावान् अपत्योपेतं भगः धनम् अस्मे अस्मासु अस्तु भवतु ॥ आसत्सि । षद्लृ विशरणादिषु । ‘बहुलं छन्दसि' इति शपो लुक् । यद्योगादनिघातः । इषो राय इति च द्वे षष्ट्यर्थे द्वितीये । वन्तारः। ‘वन षण संभक्तौ ' इत्यस्य तृचि आगमानुशासनस्य अनित्यत्वादिडभावः । चित्स्वरः । स्याम। ' अस भुवि ' इत्यस्य लिङि रूपम् । अस्मे । अस्मच्छब्दस्य सप्तम्याः ‘सुपां सुलुक् ' इति शे इत्यादेशः ॥
“Regulator (of the world, provide us) with horses for our welfare, and when you are seated near to us may we become mighty, enjoying abundant food, and ample riches, and may there be to us wealth accompanied by progeny.”
When borne by strong Steeds for our weal, O Leader, thou seatest thee at many noble viands.
May we be winners of abundant riches. May Indra be our wealth with store of children.
It is for our well-being and with your prize-seeking (horses), o leader, that you will sit down to many great refreshments.
Might we be winners of lofty wealth. Let your portion, conferring
offspring, be in us, Indra.
Wenn mit den Rossen du zum Heil, o Lenker, dich zu den vielen, reichen Tränken setzest, So seien wir Empfänger grossen Gutes, uns Indra sei ein kinderreicher Antheil.
Wenn du zum Heil mit deinen Siegesgewohnten, du Anführer, ausziehst, wenn du viele große Speisegenüsse in Besitz nimmst, so möchten wir die Gewinner großen Reichtums sein. Uns soll kinderreiches Glück zuteil werden!
Если на счастье со (своими) конями, приносящими награду, о вождь,
Ты завладеешь великой, обильной освежающей пищей,
Пусть (и) мы станем добытчиками обильного богатства!
Да будет нам доля, о Индра, связанная с потомством!
आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नाम् ॥
आ । नः॒ । भ॒र॒ । भग॑म् । इ॒न्द्र॒ । द्यु॒ऽमन्त॑म् । नि । ते॒ । दे॒ष्णस्य॑ । धी॒म॒हि॒ । प्र॒ऽरे॒के । ऊ॒र्वःऽइ॑व । प॒प्र॒थे॒ । कामः॑ । अ॒स्मे इति॑ । तम् । आ । पृ॒ण॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ॥
हे इन्द्र नः अस्मदर्थं द्युमन्तं दीप्तियुक्तं भगं धनम् आ भर आ समन्तात् संभर । देष्णस्य दानशीलस्य ते तव संबन्धिनो धनस्य प्ररेके प्ररेचने दाने नि धीमहि धनदानस्य वयं पात्रभूताः स्म इत्यर्थः । कुत इत्यत आह । अस्मे अस्माकं कामः अभिलाषः ऊर्वइव अनवाप्तकामो वडवानल इव पप्रथे प्रभूतो वर्तते । वसूनां वसुपते धनानां मध्ये उत्तमधनानामधिपते हे इन्द्र तं महान्तं कामम् आ पृण बहुधनप्रदानेनापूरय ॥ भर । 'भृञ् भरणे' इत्यस्य लोटि रूपम् । देष्णस्य । ‘डुदाञ् दाने '। 'गादाभ्यामिष्णुच् ' इतीष्णुच्प्रत्ययः । अत्यर्थं ददातीति देष्णः । चित्स्वरः । धीमहि । दधातेर्लिङि ' बहुलं छन्दसि' इति शपो लुक् ।' छन्दस्युभयथा ' इति महिङः सार्वधातुकत्वात् सीयुटः सलोपः। आर्धधातुकत्वात् आतो लोपः । निघातः । ऊर्व इव । पूर्वपदस्वरः । पप्रथे । ‘प्रथ प्रख्याने' इत्यस्य लिटि रूपम्। पृण। 'पृण प्रीणने' इत्यस्य लोटि सेर्हिः । तुदादिः। अतो हेः' इति हेर्लुक् । वसूनाम् । नित्त्वादाद्युदात्तः ॥
“Bring to us, Indra, splendid affluence; we rely on the bounty of you who are fond of giving; our desire is as insatiable as the fire of the ocean; appease it, lord of infinite riches.”
Bestow on us resplendent wealth. O Indra let us enjoy thine overflow of bounty.
Wide as a sea our longing hath expanded, fulfil it, O thou Treasure-Lord of treasures.
Bring hither to us a brilliant portion, Indra. Might we deposit it amid the surplus of your giving.
As if in the (sea-)basin, desire spreads out in us. Fulfill it, goods-lord of goods.
Uns bring' herbei, o Indra, schönen Antheil, lass uns der Gabe Ueberfluss empfangen; Wie Meeresbecken dehnt sich unser Wunsch aus, den fülle an mit Gütern, Herr des Gutes.
Bring uns glänzendes Glück mit, o Indra ! Wir möchten von deiner Gabe etwas auf Vorrat zurücklegen. Wie das Meer hat sich unser Wunsch ausgedehnt; den erfülle, du Herr der Schätze!
Принеси нам, о Индра, сверкающую долю!
Мы хотим оказаться в избытке твоего дара!
Наше желание простерлось, словно море!
Удовлетвори его, о господин благ!
इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाह॑: कुशि॒कासो॑ अक्रन् ॥
इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोऽभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ । स्वः॒ऽयवः । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥
हे इन्द्र इमं धनादिविषयं कामम् अस्मदीयमभिलाषं गोभिः अग्निहोत्रादिकर्मसाधनभूतैर्गवादिभिर्वाहनसाधनभूतैः अश्वैः च चन्द्रवता दीप्तियुक्तेन राधसा धनेन च मन्दय । एतानि दत्त्वा इममभिलाषं पूरय । किंच । एतैरस्मान् पप्रथः प्रथितांश्च कुरु । पश्चात् स्वर्यवः स्वर्गादिसुखमात्मन इच्छन्तः विप्राः कर्मकुशलाः कुशिकासः कुशिकाः मतिभिः मननीयैर्मन्त्रैः वाहः स्तोत्रम् इन्द्राय तुभ्यम् अक्रन् अकार्षुः ॥ मन्दय । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । गोभिः ।' सावेकाचः' इति विभक्तेरुदात्तत्वे प्राप्ते ‘न गोश्वन्साववर्ण° ' इत्यादिना प्रतिषेधः । प्रकृतिस्वरः । पप्रथः ।' प्रथ प्रख्यानै '। क्विप् । 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वात् शप् । तस्य ' बहुलं छन्दसि' इति श्लुः । धातुस्वरः । अक्रन् । करोतेर्लुङि ‘मन्त्रे घसह्वर इत्यादिना लुक् । निघातः ॥
“Gratify this our desire (of wealth) with cows, with horses, with shining treasure, and make us renowned; the wise Kuśikas, desirous of heaven, offer praise to you Indra, with pious (prayers).”
With kine and horses satisfy this longing with very splendid bounty skill extend it.
Seeking the light, with hymns to thee, O Indra, Kusikas have brought their gift, the singers.
Invigorate this desire with cows, with horses, with recompense in gold, and you will (further) spread it out.
Seeking the sun, the inspired poets, the Kuśikas, have made with their thoughts a (ritual) conveyance for you, for Indra.
Befried'ge diesen Wunsch durch Ross und Rinder, und mach ihn weit durch glänzende Geschenke; Nach Glück verlangend brachten mit Gebeten dem Indra Gaben Kuçiker, die Sänger.
Dieses Verlangen stille mit Rindern, mit Rossen, mit blinkender Ehrengabe und dehn es noch aus ! Nach dem Sonnenlicht verlangend haben die beredten Kusika´s mit Gedichten dir, dem Indra, ein Fahrzeug bereitet.
Порадуй это желание коровами, конями,
Подношением из золота, и (еще) распространи (его)!
Стремясь к солнечному свету, вдохновенные люди из рода Кушики
(Своими) молитвами тебе, Индра, создали средство для езды.
आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजा॑: । दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ॥
आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒ऽप॒ते॒ । गाः । सम् । अ॒स्मभ्य॑म् । स॒नयः॑ । य॒न्तु॒ । वाजाः॑ । दि॒वक्षाः॑ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्यऽशु॑ष्मः । अ॒स्मभ्य॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥
गोपते स्वर्गाधिपते हे इन्द्र नः अस्मदर्थं गोत्रा गोत्राण्यभ्राणि गाः अपः प्रति आ दर्दृहि आद्रियस्व । अभ्राणि विदीर्य जलानि प्रापयेत्यर्थ । ततः सनयः संभजनीयानि वाजाः अन्नानि अस्मभ्यम् अस्मदर्थं सं यन्तु समागच्छन्तु । वृषभ कामानां वर्षितर्हे इन्द्र त्वं दिवक्षाः असि दिवं व्याप्य वर्तमानत्वेन महानसि । अत एव सत्यशुष्मः सत्यसामर्थ्यः मघवन् धनवन् हे इन्द्र अस्मभ्यं गोदाः गवां प्रदाता भवामीति सु बोधि सुष्ठु बुध्यस्व ॥ दर्दृहि ।' दृङ् आदरे ' । यङ्लुकि लोटि रूपम् । 'ऋतश्च ' ( पा. सू. ७. ४. ९२ ) इत्यभ्यासस्य रुगागमः । निघातः । गाः । ' औतोऽम्शसोः ' ( पा. सू. ६. १. ९३ ) इत्योकारस्याकारः । एकादेशस्वरः । अस्मभ्यम् । ‘भ्यसो भ्यम्' इति चतुथींबहुवचनस्य भ्यमादेशः । यन्तु ।“ इण गतौ । लोटि रूपम् । दिवक्षाः । ‘अक्षू व्याप्तौ ' । असुन् । दिवं व्याप्नोतीति दिवक्षाः। कृदुत्तरपदस्वरः। गोदाः । ‘डुदाञ् दाने '। अस्मात् विच् । कृदुत्तरपदस्वरः ॥
“Indra, lord of cattle, (divide the clouds and send us) rain, whence nutritious food may come to us; showerer (of benefits), you are spread through the sky, and powerful through truth; Maghavan, consider yourself as our protector.”
Lord of the kine, burst the kine's stable open: cows shall be ours, and strength that wins the booty.
Hero, whose might is true, thy home is heaven: to us, O Maghavan, grant gifts of cattle.
Keep breaking open the cowpens for us, (break out) the cows, lord of cows; let winnings and victory-prizes together come to us.
You are the ruler of heaven, you bull, whose blusterings are real. For us, bounteous one, become a giver of cows.
Erschliess die Ställ' und Rinder, Herr der Rinder, uns mögen kommen Gaben und Genüsse; Im Himmel wohnest, wahrhaft starker Held du, o Reicher, sei uns reichlich Kühe spendend.
Schlag uns Rinderherden heraus, du Rinderbesitzer ! Für uns sollen sich die Gewinne, die Belohnungen ansammeln. Du bist der Himmelsherr, o Bulle, dessen Eifer echt ist. Sei uns fein ein Rinderschenker, du Gabenreicher!
Проломи для нас загоны для коров, о господин коров, (выгони) коров!
Да стекутся для нас выигрыши, награды!
Ты – небожитель, о бык, чье неистовство истинно.
Будь нам хорошим дарителем коров, о щедрый!
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिः लाभः यस्मिन् सोऽयं वाजसातिः तस्मिन् । भरे। बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः संग्रामः। तस्मिन् संग्रामे शुनं शूनम् उत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तम् अत एव इन्द्रं निरतिशयैश्वर्यसंपन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तम् अस्माभिः क्रियमाणां स्तुतिं शृण्वन्तम् उग्रं शत्रूणां भयंकरं समत्सु संग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रसंबन्धिनां संजितं सम्यग्जेतारं त्वाम् ऊतये रक्षणाय वयमाह्वयेम ॥ शुनम् ।‘टओश्वि गतिवृद्धयोः' इत्यस्य निष्ठायां यस्य विभाषा' इतीट्प्रतिषेधः। यजादित्वात् संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेः ‘बहुलं छन्दसि ' इति संप्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे।' भृञ् भरणे'। करणे घः । वृषादित्वात् आद्युदात्तः । वाजसातौ । ‘षणु दाने'। भावे क्तिन् । 'जनसन' इत्यादिना अनुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः। समत्सु । ‘अद भक्षणे'। संपूर्वात् क्विप् । संभक्षयन्ति योद्धॄणामायूंषीति समदः संग्रामाः। कृदुत्तरपदस्वरः । घ्नन्तम् । 'हन हिंसागत्योः' इत्यस्य शतरि ‘गमहन' इत्यादिना उपधालोपः । 'हो हन्तेः' इति कुत्वम्” । संजितम् ।' जि जये'। क्विप् तुक् ॥ ॥ ४ ॥
“We invoke for our protection the opulent Indra distinguished in this combat; the leader in the food-bestowing (strife), hearing (our praises), terrible in battles the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in this fight where spoil is gathered,
The Strong who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute; Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!