शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् । पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥
शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् । पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥
कुशिकः प्रसङ्गात् कंचित् शास्त्रार्थं ब्रूते- अपुत्रस्य पितुः पुत्री दायादा पुत्रिका सती । यतः संतानकृत्तस्याः पुत्र इत्यनयोच्यते इति । अपुत्रो यः पिता कन्यामन्यकुलं प्रापयति स वह्निः इत्युच्यते । स पिता शासत् ।' अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति' ( वासिष्ठ. १७. १७) स्मृत्युक्तम् अनुशासनं कुर्वन् दुहितुः पुत्रिकायाः नप्त्यं नप्तृभवं पिण्डदानादिकं कर्तव्यतया गात् गच्छति । किं कुर्वन् । विद्वान् अस्यां दुहितरि जातः पुत्रो मम स्वधाकरो भविष्यतीति जानन् ऋतस्य सत्यस्य पुत्रोत्पादनसमर्थस्य रेतसः दीधितिं धर्तारं जामातरं तत्पतिं सपर्यन् वस्त्रालंकारादिना पूजयन् पिता नप्तृभवं गच्छति । यत्र यस्याः दुहितुः पिता पालकः पतिर्जामाता सेकं तस्यां रेतःसेकम् ऋञ्जन् प्रसाधयन् यः शग्म्येन केवलं सुखनिमित्तेन मनसा तया स्वशरीरं सं दधन्वे संधत्ते । न तु पुत्रनिमित्तेन मनसा । एतमर्थं यास्कोऽप्याह- प्रशास्ति वोढा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता दूरे हिता दोग्धेर्वा । नप्तारमुपागमद्दौहित्रं पौत्रमिति । विद्वान्प्रजननयज्ञस्य रेतसो वाङ्गादङ्गात्संभूतस्य हृदयादधिजातस्य मातरि प्रत्यृतस्य विधानं पूजयन्' (निरु. ३. ४ ) इत्यादिना ॥ शासत् । शासेः शतरि अभ्यस्तत्वान्नुमभावः । दुहितुः । ‘दुह प्रपूरणे'। • नप्तृनेष्ट्र° ' इत्यादिना तृचि निपातनादिडागमः । चित्स्वरः । नप्त्यम् । नप्तरि भवम् । ‘भवे छन्दसि' इति यत् । 'रीङृतः' इति रीङादेशः । 'यस्य' इति लोपः । रेफलोपश्छान्दसः । गात् । इण् गतौ' इत्यस्य छान्दसे लुङि रूपम् । ऋञ्जन्। ऋञ्जतिः प्रसाधनकर्मा । शग्म्येन । शं सुखं गच्छन्तीति गमेरौणादिकः कप्रत्ययः । कित्त्वात् ‘गमहन' इत्यादिनोपधालोपः । शग्मे साधुः इति तत्र साधुः' इति यत्प्रत्ययः । वीरवीर्यौ च इत्यत्र यतोऽनावः' इत्यस्य अनित्यत्वज्ञापितत्वादत्र० तित्स्वरः । दधन्वे । धवि सौत्रो धातुः । लिटि रूपम् । प्रत्ययस्वरः । यद्योगादनिघातः ॥
“The sonless father, regulating (the contract), refers to his grandson, (the son) of his daughter, and relying on the efficiency of the rite, honours (his son-in-law) with valuable gifts; the father, trusting to the impregnation of the daughter, supports himself with a tranquil mind.”
WISE, teaching, following the thought of Order, the sonless gained a grandson from his daughter.
Fain, as a sire, to see his child prolific, he sped to meet her with an eager spirit.
Instructing the (grand)daughter [=Āhavanīya?] of his daughter
[=Gārhapatya?], the (offering-)conveyor [=Agni] has come—he the
knowing one, ritually serving the visionary power of truth—
to where the father [=priest? Agni?], stretching out straight, has run toward the outpouring of his daughter [=butter offering?] with
capable mind.
Der fahrende [wie es scheint, das männliche Ileibholz, was an dem weiblichen, das hier als seine Tochter aufgefasst wird, hin und her fährt], der Tochter Spross erstrebend fc«s in dem Sinne von ä f««s], ging, des Werkes kundig und die Andacht liebend, dahin, wo seine Tochter zu besamen eilend, in brünstiger Gier sich mit ihr eint der Vater.
Der Opferlenker kam die Enkelin der Tochter zurechtweisend, des Gesetzes kundig, die Erkenntnis des Gesetzes hochhaltend, wobei der Vater rechtschaffenen Sinnes einverstanden war, indem er den Erguß der Tochter betrieb.
Повелевая, возница (жертвы) отправился к внучке (со стороны) дочери,
(Он,) знаток, почитающий соблюдение закона,
Когда отец, стараясь излить (семя) дочери,
Кинулся со (своим) могучим духом.
न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् । यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥
न । जा॒मये॑ । तान्वः॑ । रि॒क्थम् । अ॒रै॒क् । च॒कार॑ । गर्भ॑म् । स॒नि॒तुः । नि॒ऽधान॑म् । यदि॑ । मा॒तरः॑ । ज॒नय॑न्त । वह्नि॑म् । अ॒न्यः । क॒र्ता । सु॒ऽकृतोः॑ । अ॒न्यः । ऋ॒न्धन् ॥
अभ्रातृकाया दुहितुः पुत्रिकाकरणात् सा रिक्थभाक् इत्युक्तम् । भ्रातृमत्यास्तस्या रिक्थभाक्त्वं नास्तीति ब्रूते । तान्वः तनूज औरसः पुत्रः जामये भगिन्यै रिक्थं पित्र्यं धनं न अरैक् न प्ररेचयति न प्रददाति । किं तर्हि । सनितुः एनां संभजमानस्य भर्तुः गर्भम् । षष्य्िर्थे द्वितीया ॥ गर्भस्य निधानं रेतःसेकनिधानीमेनां चकार। पाणिग्रहणेन संस्कृताम् एनां करोति । न तु तस्यै रिक्थं ददातीत्यभिप्रायः । ' असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् ' ( याज्ञ. २. १२४ ) इति याज्ञवल्क्यस्मरणात् । स्त्रीपुंसलक्षणस्यापत्त्यस्यैकोत्पाद्य त्वाविशेषात् पुमपत्यस्य को विशेष इत्याशङ्क्य विशेषं दर्शयति । यदि यद्यपि मातरः मातापितरौ वह्निम् । अवह्निः स्त्री वह्निः पुमान् स्वभार्याया वोढ़ृत्वात् । अवह्निश्च वह्निश्च । तादृशं स्त्रीपुंसलक्षणमपत्यं जनयन्त । तथापि तयोर्मध्ये अन्यः पुंलक्षणः सुकृतोः शोभनय पिण्डदानादेः कर्मणः कर्ता भवति । अन्यः स्त्रीलक्षणः ऋन्धन् वस्त्रालंकारादिना ऋध्यमान एव भवति । पिण्डदानादिकर्तृत्वात् पुत्रो दायार्हः दुहितुस्तथात्वं नेति न दायार्हा सा तु केवलं परस्मै दीयते। तथा च निरुक्तं’--न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति । तान्व आत्मजः पुत्रो रिक्थं प्रारिचत्प्रादाच्चकारैनां गर्भनिधानीं सनितुर्हस्तग्राहस्य यदिह मातरोऽजनयन्त वह्निं पुत्रमवह्निं च स्त्रियमन्यतरः संतानकर्ता भवति पुमान्दायादोऽन्यतरोऽर्धयित्वा जामिः प्रदीयते परस्मै ' (निरु. ३. ६ ) इति ॥ तान्वः । तन्वाः प्राणाधिष्ठितत्वात्तनूः प्राणवती । तद्विकार इत्यर्थे ' प्राणिरजतादिभ्योऽञ्' इत्यञ् । संज्ञापूर्वकस्य विधेनित्यत्वाद्गुणाभावः । रिक्थम् । • रिचिर् विरेचने ।‘पातॄतुदिवचिरिचिभ्यस्थक्'। प्रत्ययस्वरः। अरैक्।' रिचिर् विरेचने' इत्यस्य लुङि सिचि ‘वदव्रज°' इत्यादिना वृद्धिः । 'बहुलं छन्दसि' इतीडभावः । हल्ङ्यादिसंयोगान्तलोपौ । निघातः । सनितुः । ‘षण संभक्तौ ' इत्यस्य तृचि रूपम् । निधानम् । दधातेर्ल्युटि रूपम् । लित्स्वरः। मातरः । ‘पिता मात्रा ' इति पितुः शेषे प्राप्ते मातुः शेषश्छान्दसः । द्विर्वचनस्य बहुवचनं पूजार्थम् । जनयन्त । जनेर्णिचि रूपम् । वह्निम् । पुमान् स्त्रिया ' ( पा. सू. १. २. ६७ ) इति वह्नेः शेषः । सुकृतोः । करोतेरौणादिकः क्तुप्रत्ययः । ऋन्धन् । 'ऋधु वृद्धौ' । व्यत्ययेन श्नम् ॥
“(A son) born of the body, does not transfer (paternal) wealth to a sister; he has made (her) the recptacle of the embryo of the husband; if the parents procreate children (of either sex), one is the performer of holy acts, the other is to be enriched (with gifts).”
The Son left not his portion to the brother, he made a home to hold him who should gain, it.
What time his Parents gave the Priest his being, of the good pair one acted, one promoted.
The son of her body [=Agni?] has not left behind his leavings for her sister [=Gārhapatya?]. He has made the womb [=Āhavanīya?] a
repository for the winner.
When the mothers [=fingers] begot the (offering-)conveyor, one of the two good workers [=fire-churning sticks] was the actor, the other was the one assuring success.
Nicht überliess der Sohn [Agni, das am männlichen Reib- holze entstandene Feuer] die Erbschaft der Schwester [der am weiblichen Reibholze entstehenden Flamme]; er machte fern vom Mutterschooss sein Lager [indem er als Brennholz die Flammen des Holzstosses anzündet, und so seine Erbschaft antritt]; wenn ihn den Fährmann [Agni] seine Aeltern [die beiden Reibhölzer] zeugen, ist von den beiden schön wirkenden der eine [das männ- liche Reibholz] der zeugende, der andere [das weibliche Reibholz] der fördernde [oder gedeihende].,
Der leibliche Sohn hat seiner Schwester das Erbe nicht überlassen; er machte ihren Mutterleib zu einer Schatzkammer des Gewinners. Wenn die Mütter den Opferfahrer erzeugen, so ist einer von den beiden Guttätern der Erzeuger, der andere ist der, der den Vorteil hat.
Родной сын не оставил сестре наследства,
Он сделал (ее) чрево кладовой захватчика.
Когда матери порождают возницу (жертвы),
Один из двоих благодетелей – деятель, другой – извлекающий выгоды.
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ । म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥
अ॒ग्निः । ज॒ज्ञे॒ । जु॒ह्वा॑ । रेज॑मानः । म॒हः । पु॒त्रान् । अ॒रु॒षस्य॑ । प्र॒ऽयक्षे॑ । म॒हान् । गर्भः॑ । महि॑ । आ । जा॒तम् । ए॒षा॒म् । म॒ही । प्र॒ऽवृत् । हरि॑ऽअश्वस्य । य॒ज्ञैः ॥
हे इन्द्र अरुषस्य रोचमानस्य तव प्रयक्षे यज्ञार्थं जुह्वा ज्वालाभिः रेजमानः कम्पमानः अग्निः महः प्रभूतानु पुत्रान् रश्मीन् जज्ञे उत्पादयामास । एषां रश्मीनां गर्भः जलात्मना क्रोडीकारः महान् आसीत् । किंच एषां रश्मीनां मेलनम् आ जातं सर्वत ओषध्यात्मना जातं महि महदभूत् । किंच एषां रश्मीनां प्रवृत् अनेन प्रकारेण प्रवृत्तिः हर्यश्वस्य इन्द्रस्य यज्ञैः यजनार्हैः सोमाज्याहुतिभिः मही महती भवति ॥ जज्ञे । जनी प्रादुर्भावे ' इत्यस्य लिटि रूपम् । अन्तर्भावितण्यर्थः । जुह्वा । ‘जुहोतेर्द्वे दीर्घश्च' इति क्विप् द्विर्वचनं दीर्घश्च धातोः । ‘उदात्तस्वरितयोः इति स्वरितत्वम् । हर्यश्वस्य । हरी अश्वौ यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥
“For the worship of the resplendent (Indra), Agni, glowing with flame, has begotten mighty sons; great was the germ, and great was their birth, and great was their efficacy, for the worship of Haryaśva.”
Agni was born trembling with tongue that flickered, so that the Red's great children should be honoured.
Great is their germ, that born of them is mighty, great the Bays' Lord's approach through sacrifices.
Agni was begotten, quivering with his tongue [/by the offering-spoon, trembling], to display the sons [=flames?] of the great ruddy one.
Great was the womb, great the birth of these here, great the growth of the one with fallow bays [=Indra] through the sacrifices.
Erzeugt ward Agni mit der Zunge zuckend, um hinzudringen zu den grossen Söhnen [Flammen] des feuerrothen [Agni], gross ist ihr [der Söhne] Spross, und gross das von ihnen geborene; durch Opfer wird gross des Flammenrosses [Agni] Wachsthum.
Agni wurde mit der Zunge zitternd geboren, um die Söhne des großen Rötlichen zu verehren. Groß war die Leibesfrucht, groß auch diese Geburt, groß die Erbauung des Falbenlenkers Indra durch die Opfer.
Агни был рожден как (бог,) трепещущий языком,
Чтобы почтить сыновей великого алого.
Велик зародыш, велико рождение среди них,
Велико взращивание обладателя буланых коней жертвами.
अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् । तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षास॒: पति॒र्गवा॑मभव॒देक॒ इन्द्र॑: ॥
अ॒भि । जैत्रीः॑ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि॑ । ज्योतिः॑ । तम॑सः । निः । अ॒जा॒न॒न् । तम् । जा॒न॒तीः । प्रति॑ । उत् । आ॒य॒न् । उ॒षसः॑ । पतिः॑ । गवा॑म् । अ॒भ॒व॒त् । एकः॑ । इन्द्रः॑ ॥
जैत्रीः जित्वर्यो विशो मरुतः स्पृधानं वृत्रेण सह स्पर्धमानमिन्द्रम् अभि असचन्त सर्वतः समगच्छन् । ते च मरुतः महि महत् ज्योतिः सूर्याख्यं तेजः तमसः तमोरूपात् वृत्रात् निरजानन् निर्गतमज्ञासिषुः । उदितं सूर्यं जानतीः जानानाः उषसः तं प्रति उत् अभिलक्ष्यैव आयन् प्राप्नुवन् । अथ तत्रोद्भूतानां गवां रश्मीनाम् एकः अद्वितीय एव इन्द्रः पतिः अभवत् ॥ जैत्रीः। जयतेः तृनि रूपम् । गुणस्य स्थाने व्यत्ययेन वृद्धिः। नित्स्वरः। असचन्त । ‘पच समवाये' इत्यस्य लङि रूपम् । स्पृधानम् ।' स्पर्ध संघर्षे '। छन्दसि कानजादेशः । छन्दसि द्विर्वचनस्य विकल्पितत्वात् द्विर्वचनाभावः । चित्स्वरः । अजानन्। 'ज्ञा अवबोधने ' इत्यस्य लङि रूपम् । निघातः । आयन् । 'अय गतौ ' इत्यस्य लङि रूपम् ॥
“The victorious (Maruts) associated (with Indra when contending with Vṛtra) perceived a great light issuing from the darkness. The dawns recognizing him (as the sun) arose, and Indra was the sole sovereign of the rays (of light).”
Conquering bands upon the Warrior waited: they recognized great light from out the darkness.
The conscious Dawns went forth to meet his coming, and the sole Master of the kine was Indra.
The victorious (clans [=Aṅgirases?]) escorted the contender [=Indra?]. They distinguished the great light from the darkness.
Recognizing him, the dawns rose up in response. He became the lone lord [/husband] of the cows—Indra.
Die Siegerinnen [die Morgenröthen, als über das Dunkel siegend] strebten hin zu dem kämpfenden [Agni]; sie fanden grosses Licht aus der Dunkelheit heraus; als sie ihn erblickten eilten sie hin, die Morgenröthen ; da ward Indra allein der Herr der Kühe [im Vritrakampfe].
Dem Streiter schlossen sich die siegreichen Scharen an; sie fanden das große Licht aus dem Dunkel heraus. Die Morgenröten erkannten ihn und kamen ihm entgegen aus der Höhle. Indra wurde der alleinige Besitzer der Kühe.
Победоносные примкнули к борющемуся,
Они отыскали во мраке великое светило.
Узнавая его, утренние зори вышли (ему) навстречу.
Индра стал единственным господином коров.
वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्रा॑: । विश्वा॑मविन्दन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥
वी॒ळौ । स॒तीः । अ॒भि । धीराः॑ । अ॒तृ॒न्द॒न् । प्रा॒चा । अ॒हि॒न्व॒न् । मन॑सा । स॒प्त । विप्राः॑ । विश्वा॑म् । अ॒वि॒न्द॒न् । प॒थ्या॑म् । ऋ॒तस्य॑ । प्र॒ऽजा॒नन् । इत् । ता । न॒म॒सा । वि॒वे॒श॒ ॥
पुरा किलाङ्गिरसां गावः पणिनामकैरसुरैरपहृत्य निगूढे कस्मिंश्चिपर्वते स्थापिताः । ते चाङ्गिरसस्तत्प्राप्त्यर्थमिन्द्रं तुष्टवुः । स्तुतश्च सः इन्द्रो गवान्वेषणाय देवशुनीं प्राहिणोत् । सा च गवां गवेषणपरा सती तत्स्थानमलभत । तया विज्ञापित इन्द्रस्ता गाः आनीयाङ्गिरोभ्यः प्रादादित्यैतिहासिकी कथा । तथा चास्या ऋचोऽयमर्थः । धीराः धीमन्तः सप्त विप्राः मेधाविनः सप्तसंख्याका अङ्गिरसः वीळौ दृढे पर्वते सतीः निगूढाः सतीर्गाः अभि अभिलक्ष्य अतृन्दन् उपेक्षामकुर्वन् । ततस्तेऽङ्गिरसः पर्वतबिले गावः सन्तीति मनसा निश्चित्य प्राचा येन मार्गेण प्रविष्टास्तेनैव प्राचीनेन मार्गेण ता गाः अहिन्वन् निरगमयन् । यद्वा प्राचा । प्रकर्षणेन्द्रमञ्चति प्राप्नोतीति प्राक् । तेनेन्द्रविषयेण मनसा । मन्यत इति मनः स्तोत्रम् । तेन स्तोत्रेणाहिन्वन् अवर्धयन् इन्द्रं तुष्टमकुर्वन् । स्तुत्वा च ऋतस्य पथ्यां यज्ञस्य मार्गे साधुभूतां विश्वां सर्वामपहृतां गाम् अविन्दन् अलभन्त । ततः स इन्द्रः ता तान्यङ्गिरसां कर्माणि प्रजानन् इत् प्रकर्षेण जानन्निन्द्रो नमसा नमस्कारेणाङ्गिरसः संभावयन् तैरधिष्ठितं पर्वतम् आ विवेश ॥ अतृन्दन् । ‘उतृदिर् हिंसानादरयोः' इत्यस्य लङि रुधादित्वात् श्नम् । तस्य ‘श्नसोः' इत्यल्लोपः । निघातः । प्राचा । ‘अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति विभक्तेरुदात्तत्वम् । अहिन्वन् । ' हि गतिवर्धनयोः' इत्यस्य लङि रूपम् । अविन्दन् । 'विद्लृ लाभे' इत्यस्य लङि मुचादित्वान्नुम् । निघातः । पथ्याम् । पथि साधुरित्यर्थे ' तत्र साधुः' इति यत्प्रत्ययः । 'यचि भम्' इति भसंज्ञायां ‘नस्तद्धिते' इति टिलोपः । ‘यतोऽनावः' इत्यस्यानित्यत्वात् ‘तित्स्वरितः' इति स्वरितः । विवेश । ‘विश प्रवेशने ' इत्यस्य लिटि रूपम् ॥ ॥ ५ ॥
“The seven intelligent ages (the aṅgirasas) having ascertained that (the cows) were concealed in the strong (cavern), propitiated (Indra) by mental devotion; they recovered them all by the path of sacrifice; for Indra, knowing (their pious acts), and offering them homage, entered (the cave).”
The sages freed them from their firmbuilt prison: the seven priests drove them forward with their spirit.
All holy Order's pathway they discovered he, full of knowledge, shared these deeds through worship.
The insightful ones bored through to the (cows), though they were in a stronghold. The seven inspired poets impelled (the cows?) with
advancing mind.
They found the whole path of truth. Himself knowing the way, he
[=Indra] entered among them [=cows] with homage.
Den im festen Fels befindlichen Kühen bohrten Bahn die Weisen, die sieben Sänger [die Angiras] trieben sie [die Kühe] kühnen Sinnes vorwärts, sie fanden jeden Pfad, der richtig zum Ziele führt; den Weg kennend ging er [Indra] zu den Kühen [täs gegen Pada] ein.
Die Weisen bahnten den Weg zu den in der Feste weilenden Kühen, mit vorwärtsstrebendem Sinne trieben die sieben Wortführer zur Eile. Sie fanden jeden richtigen Weg. Der Kundige hat seitdem mit seiner Anbetung diese eingeschlagen.
Мудрые пробились к находящимся в твердыне (коровам).
Семеро вдохновенных, о мыслью, устремленной вперед, погоняли (коров).
Они находили любой путь закона.
Понимающий же вошел в них с поклонением.
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथ॑: पू॒र्व्यं स॒ध्र्य॑क्कः । अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥
वि॒दत् । यदि॑ । स॒रमा॑ । रु॒ग्णम् । अद्रेः॑ । महि॑ । पाथः॑ । पू॒र्व्यम् । स॒ध्र्य॑क् । क॒रिति॑ कः । अग्र॑म् । न॒य॒त् । सु॒ऽपदी॑ । अक्ष॑राणाम् । अच्छ॑ । रव॑म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥
यदि यदा सरमा इन्द्रेण गवान्वेषणार्थं प्रेषिता सरमा नाम देवशुनी अद्रेः रुग्णं भग्नं द्वारं विदत् अलभत तदानीमिन्द्रः महि महत् पूर्व्यं पूर्वं प्रेषणकालेऽन्नादिनीं ते प्रजां करिष्यामि इति प्रतिज्ञातं सध्र्यक् इतरैरपि भोज्यैः सध्रीचीनं पाथः गव्यादिलक्षणमन्नं कः अकार्षीत् तस्यै दत्तवान् । ततः सुपदी शोभनपादयुक्ता सा सरमा अक्षराणां क्षयरहितानां गवाम् अग्रं प्रान्तं नयत् प्राप्नोत् । कुत इत्यत आह । यतः रवं तेषां हम्भारवं प्रथमा प्रथमं जानती सती अच्छ शब्दाभिमुख्येन गात् जगाम ॥ विदत् । विद्लृ लाभे ' इत्यस्य लुङि लृदित्त्वात् च्लेरादेशः। तस्य स्वरः । सरमा। सृ गती ' । औणादिकोऽमप्रत्ययः । सरतीति सरमा। ‘सरमा सरणात् ' ( निरु. ११. २४ ) इति यास्कः । प्रत्ययस्वरः । रुग्णम् । ‘रुजो भङ्गे' इत्यस्य निष्ठायाम् ‘ओदितश्च' इति नत्वम् । प्रत्ययस्वरः । पाथः । ‘पा रक्षणे ' ।' अन्ने च ' ( उ. सू. ४. ६४४ ) इत्यसुन्प्रत्ययः । थुडागमः । पातीति पाथोऽन्नम् । नित्स्वरः । सध्र्यक्। 'अञ्चु गतिपूजनयोः । ‘ऋत्विक् ' इत्यादिना क्विन् । सहाञ्चतीति । सहस्य सध्रिः ' इति सध्र्यादेशः । क्विन्प्रत्ययस्य कुत्वम् । ‘अद्रिसध्र्योः अन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति सध्रि इत्यादेशोऽन्तोदात्तः । यणादेशे कृते ‘ उदात्तस्वरितयोर्यणः स्वरितः' इति यणः स्वरितत्वम् । कः । करोतेर्लुङि सिपि च्लेः ' मन्त्रे घसह्वर ' इत्यादिना लुक् । गुणे कृते हल्या कदिना सिपो लोपः । विसर्जनीयः । निघातः । नयत् । नयतेर्लङि रूपम् । सुपदी । ‘पादोऽन्यतरस्याम् ' (पा. सू. ४. १. ८) इति ङीप् । गात् । इणो लुङि रूपम् ॥
“When Saramā discovered the broken (entrance) of the mountain, then Indra made great and ample (provision) for her young, as previously (promised); then the sure-footed (animal), forest recognizing their lowing, proceeded, and came to the presence of the imperishable kine.”
When Sarama had found the mountain's fissure, that vast and ancient place she plundered thoroughly.
In the floods' van she led them forth, light-footed: she who well knew came first unto their lowing.
When Saramā found the break in the rock, she made the great ancient herd directed toward one goal.
Sure-footed, she led the vanguard of the cows [/syllables]. First
recognizing (them), she went to their bellowing.
Als Sarama den Spalt des Felsens auffand, da bahnte sie den grossen, alten Himmelspfad, der zu einem Ziele hinführt; mit sicherm Fuss geht sie voran; der unversieglichen [Kühe oder Ströme] Getön erkennend,, kam sie zuerst hin.
Wenn die Sarama die Bresche imFelsen findet, so wird sie ihren früheren großen Schutz vollständig machen." Die Leichtfüßige führt die Spitze der Kühe. Sich auskennend ging sie als erste auf den Schall zu.
Когда Сарама нашла пролом в скале,
Она сделала великое древнее защищенное место направленным на одну цель.
Прекрасноногая повела главу коров.
Знающая, она первой отправилась на зов.
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रि॑: । स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ॥
अग॑च्छत् । ऊँ॒ इति॑ । विप्र॑ऽतमः । स॒खि॒ऽयन् । असू॑दयत् । सु॒ऽकृते॑ । गर्भ॑म् । अद्रिः॑ । स॒सान॑ । मर्यः॑ । युव॑ऽभिः । म॒ख॒स्यन् । अथ॑ । अ॒भ॒व॒त् । अङ्गि॑राः । स॒द्यः । अर्च॑न् ॥
विप्रतमः अतिशयेन मेधावी सखीयन् अङ्गिरोभिः साकमात्मनः सखित्वमिच्छन् इन्द्रः अगच्छत् उ । गोभिरधिष्ठितं पर्वतमगमदेव । सः अद्रिः सखित्वमिच्छन् सुकृते सुष्ठु युद्धकर्त्रे इन्द्राय गर्भं गवात्मकं गर्भम् असूदयत् निरगमयत् । युवभिः नित्यतरुणैर्मरुद्भिः सह मखस्यन् गोधनमङ्गिरसामिच्छन् मर्यः असुराणां मारयितेन्द्रः ससान असुरैरपहृताः ताः गाः भेजे । अथ अनन्तरम् अङ्गिराः सप्तानामङ्गिरसां मध्ये वरिष्ठोऽङ्गिरा ऋषिः इन्द्रात् ता गा लब्ध्वा सद्यः तदानीमेव अर्चन् इन्द्रं पूजयन् अभवत् ॥ अगच्छत् । गमेर्लङि रूपम् । सखीयन् । सुप आत्मनः क्यच् । असूदयत् । ‘षूद निरासे' इत्यस्य ण्यन्तस्य लङि रूपम् । ससान। ‘षण संभक्तौ' इत्यस्य लिटि णलि रूपम् । लित्स्वरः। मखस्यन् । 'छन्दसि परेच्छायाम्' इति" परेच्छायामपि क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः इति सुगागमः । एकादेशस्वरः । अङ्गिराः ।' सृ गतौ' । अङ्गारशब्द उपपदे सर्तेर्धातोरसुन्प्रत्ययः । उपपदे गकारात् परस्याकारस्येत्वम् अन्त्यलोपश्च धातोर्लोपश्च ‘अङ्गिराः' इति सूत्रेण निपात्यते। भूतकालेऽङ्गारेभ्यः सृत इति अङ्गिरा ऋषिः । ‘अङ्गारेष्वङ्गिराः ' ( निरु. ३. १७ ) इति यास्कः । नित्स्वरः ॥
“The most sage (Indra), desirous of the friendship of the (aṅgirasas), went to the cave, and the mountain yielded its contents to the valiant (deity), aided by the youthful Maruts, equally wishing (to conciliate the sages); the destroyer (of the asuras) recovered (the cattle), and immediately aṅgirasas became his worshipper.”
Longing for friendship came the noblest singer: the hill poured forth its treasure for the pious.
The Hero with young followers fought and conquered, and straightway Angiras was singing praises,
The foremost inspired poet [=Indra] came, acting in partnership (with the Aṅgirases). The rock brought the embryo to sweetness for the
good worker.
The young blood won, doing battle alongside the youths. Then he
became (an) Aṅgiras immediately upon singing.
Und es kam der weiseste [Indra] sich ihr gesellend; dem kräftig wirkenden machte der Fels seinen Schboss zurecht, der Held gewann kämpfend sammt den Jünglingen [den Angiras]; da war sogleich fröhlich [oder leuchtend] das Haupt der Angirascn.
Es kam der erste Wortführer, sich als Freund erweisend. Der Fels brachte für den Guttäter seine Leibesfrucht zur Reife. Der Jüngling gewann mit den Jugendlichen, sich als Freigebiger erweisend. Da ward sogleich der Angiras zum Lobsänger:
И пошел самый вдохновенный, настраиваясь как друг.
Скала сделала (свой) плод зрелым для совершающего благое деяние.
Юный муж добился (своей цели) вместе с юношами, настраиваясь воинственно,
Тут сразу же возник воспевающий Ангирас.
स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् । प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखीँ॑रमुञ्च॒न्निर॑व॒द्यात् ॥
स॒तःऽस॑तः । प्र॒ति॒ऽमान॑म् । पु॒रः॒ऽभूः । विश्वा॑ । वे॒द॒ । जनि॑म । हन्ति॑ । शुष्ण॑म् । प्र । नः॒ । दि॒वः । प॒द॒ऽवीः । ग॒व्युः । अर्च॑न् । सखा॑ । सखी॑न् । अ॒मु॒ञ्च॒त् । निः । अ॒व॒द्यात् ॥
योऽयमिन्द्रः सतःसतः उत्तमस्य वसुनः प्रतिमानम् । प्रतिमीयत उपमीयतेऽनेन सर्वमिति प्रतिमानं प्रतिनिधिः । यद्वा सतःसतो जातस्य सर्वस्य प्रतिमानं स्वस्य महत्त्वेन प्रतिमातीयत्तया सर्वं परिच्छिनत्तीत्यर्थः । पुरोभूः युद्धे पुरतः शत्रूनवाप्नोतीति पुरोभूश्च विश्वा जनिम सर्वाणि जातानि वेद जानाति । शुष्णं शुष्णनामानम् असुरं हन्ति । पदवीः कवितमः गव्युः गोधनम् अङ्गिरसामिच्छन् अस्माकं सखा इन्द्रः सखीन् नः अस्मान् दिवः द्युलोकादागत्य प्र अर्चन प्रकर्षेण पूजयन् अवद्यात् वृत्रबाधरूपात् दोषात् निः अमुञ्चत् नितरां मुञ्चतु ॥ प्रतिमानम् । मातीति मानम् । औणादिको नन्प्रत्ययः । यद्वा करणे ल्युट् । पुरोभूः ।‘भू प्राप्तौ'। क्विप् । वेद । वेत्तेर्लटि रूपम् । जनिम। ‘जनी प्रादुर्भावे । जनिहृभ्यामिमनिन् ' इति इमनिन्प्रत्ययः । भूतकाले जातानीति जनिम ।' सुपां सुलुक्' इति सुपो लुक् । नित्स्वरः । हन्ति । हन्तेर्लटि रूपम् । वाक्यभेदादनिघातः। शुष्णम् । शोषयतीति शुष्णः । प्र णः ।' उपसर्गाद्बहुलम्' इति संहितायां णत्वम् । पदवीः । वी कान्त्यादिषु । क्विप् । पदानि वेत्ति परस्परसंगतानि करोतीति पदवीः कविः । गव्युः । गोशब्दात् परेच्छायां छन्दसि' इति क्यच् । 'वान्तो यि प्रत्यये' इति वान्तादेशः । ‘क्याच्छन्दसि' इत्युप्रत्ययः । प्रत्ययस्वरः । अर्चन् । अर्चतेः शतरि रूपम् । सखीन् । संहितायां नकारस्य ‘दीर्घादटि' इति रुः । पूर्वस्य वर्णस्य अत्रानुनासिकः' इत्यनुनासिकादेशः । अमुञ्चत् । ‘मुच्लृ मोक्षणे' इत्यस्य लङि ‘शे मुचादीनाम्' इति नुमागमः । निघातः । अवद्यात् ।' वद व्यक्तायां वाचि' इत्यस्य नञ्पूर्वस्य गर्ह्यार्थे ' अवद्यपण्यवर्याः' (पा. सू. ३. १. १०१ ) इति निपातनात् यत्प्रत्ययः ॥
“May he who is the type of all that is excellent the anticipator (of his foes), he who knows all that is born, who destroys Śuṣṇa, the far-seeing, the restorer of cattle may he, a friend coming from heaven, honouring us as his friends, be free from all reproach.”
Peer of each noble thing, yea, all excelling, all creatures doth he know, he slayeth Susna.
Our leader, fain for war, singing from heaven, as Friend he saved his lovers from dishonour.
The counterweight of every being, standing at the forefront, he knows all the races; he smashes Śuṣṇa.
Following the track of heaven, seeking cows, chanting, the comrade released us, his comrades, from calumny.
Er, überragend das Mass jedes Seienden, kennt die Ge- schöpfe alle, tödtet den ^uschna; vorleuchtend vom Himmel her als unser kampflustiger Führer, befreite er, der Freund, die Freunde von der Schmach.
Jedem einzelnen gewachsen, allen voranstehend kennt er alle Geschlechter; er erschlägt den Susna. Der Pfadsucher des Himmels, der Rindersucher ging uns singend voran. Der Freund erlöste die Freunde von Unehre.
Образец для каждого существа, находящийся впереди (всех),
Он знает все поколения, он убивает Шушну.
Пролагатель пути неба, жаждущий захватить (коров), распевая (шел) впереди для нас.
Друг избавил друзей от поношения.
नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥
नि । ग॒व्य॒ता । मन॑सा । से॒दुः॒ । अ॒र्कैः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् । इ॒दम् । चि॒त् । नु । सद॑नम् । भूरि॑ । ए॒षा॒म् । येन॑ । मासा॑न् । असि॑सासन् । ऋ॒तेन॑ ॥
गव्यता गा इच्छता मनसा युक्ताः अर्कैः अर्चनीयैः स्तोत्रैः अमृतत्वाय देवत्वप्राप्त्यर्थं गातुम् । गच्छन्त्यनेनेति गातुर्मार्गः । अमृतत्वप्राप्त्युपायभूतं मार्गं कृण्वानासः कुर्वाणास्तेऽङ्गिरसः नि सेदुः सत्राख्ये कर्मणि आसीदन् । एषाम् अङ्गिरसाम् इदं चित् सदनम् इदमेव सत्राख्ये कर्मणि आसदनं भूरि नु प्रभूतम् । अमृतत्वप्राप्त्यर्थं महानुपायः खलु । कुत इत्यत आह । ऋतेन सत्यभूतेन येन सत्रकर्मणा तेऽङ्गिरसः मासान् अभिप्लवपृष्ठ्यषडहै। कल्पितान् मासान् असिसासन् संभक्तुमैच्छन् ॥ गव्यता । गोशब्दात् क्यचि रूपम् । ‘वान्तो यि प्रत्यये' इति वान्तादेशः। एकादेशस्वरः । सेदुः । सदेर्लिटि ‘अत एकहल्मध्येऽनादेशादेर्लिटि' इत्येत्वाभ्यासलोपौ । निघातः । कृण्वानासः । ‘कृवि हिंसाकरणयोः' इत्यस्य ताच्छीलिकश्चानश् ।' धिन्विकृण्व्योरच ' इत्युप्रत्ययः । चित्स्वरः । गातुम् । गाङ् गतौ'। 'कमिमनिजनिगाभापायाहिभ्यः' इति करणे तुप्रत्ययः। प्रत्ययस्वरः । असिषासन् । ‘षण संभक्तौ' इत्यस्य सनि “ जनसनखनां सञ्झलोः' इत्यात्वम् । अभ्यासस्य ‘सन्यतः' इतीत्वम् । सनोतेरनः' इति संहितायां षत्वम् । तदन्ताल्लङि रूपम् । यद्वृत्त योगादनिघातः ॥
“The aṅgirasas, with minds intent on their cattle, (sat down to worshipIndra) with hymns, following the road to immortality; great was their person verance by which they sought for months to accomplish (their ends).”
They sate them down with spirit fain for booty, making with hymns a way to life eternal.
And this is still their place of frequent session, whereby they sought to gain the months through Order.
With cow-seeking mind, they sat down (to a ritual “Session”) with their chants, making for themselves a way toward immortality.
Just this was their long Session, by which, for months, they sought to win (the cows) through truth.
Sie [die Angirasen] setzten sich nieder mit brünstigem Geiste, durch Lieder sich bahnend den Weg zur Unsterblichkeit; das ist ja nun ihr grosser Wohnsitz, durch den sie nach der Ord- nung die Monate gewannen.
Das Herz voll verlangen nach den Rindern setzten sie sich unter Lobpreisungen nieder, indem sie sich den Weg zur Unsterblichkeit bereiteten. Diese ihre Opfersitzung ist auch jetzt noch häufig, der rechte Brauch, durch den sie die Monate zu gewinnen suchten.
С душой, жаждущей захватить коров, они уселись под песнопения,
Создавая себе путь к бессмертию.
Это самое сидение и сейчас часто (бывает) у них –
Закон, с помощью которого (долгие) месяцы они хотели добыть (коров).
स॒म्पश्य॑माना अमदन्न॒भि स्वं पय॑: प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः । वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥
स॒म्ऽपश्य॑मानाः । अ॒म॒द॒न् । अ॒भि । स्वम् । पयः॑ । प्र॒त्नस्य॑ । रेत॑सः । दुघा॑नाः । वि । रोद॑सी॒ इति॑ । अ॒त॒प॒त् । घोषः॑ । ए॒षा॒म् । जा॒ते । निः॒ऽस्थाम् । अद॑धुः । गोषु॑ । वी॒रान् ॥
स्वं स्वकीयं गोधनम् अभि अभिलक्ष्य संपश्यमानाः मदीया एता गाव इत्यात्मीयतया जानानाः तेऽङ्गिरसः प्रत्नस्य पुरा जातस्य रेतसः तदुपलक्षितस्य पुत्रस्य धारणार्थं पयः दुघानाः ता गाः पयो दुहन्तः सन्तः अमदन् हृष्टा अभूवन् । एषाम् अङ्गिरसां घोषः हर्षादुत्पन्नो महाध्वनिः स्तुतिजातः । वा रोदसी द्यावापृथिव्यौ वि अतपत् ते व्याप्य अतपिष्ट। ततस्तेऽङ्गिरसः जाते आत्मीयतया संपन्ने चराचरात्मके वस्तुनि निःष्ठां पूर्वं यथा स्थितिमकार्षुः । तथा गोषु आहृतासु वीरान् रक्षाकर्मण्यतिशूरान् पुरुषान् अदधुः स्थापयामासुः ॥ संपश्यमानाः । संपूर्वस्य दृशेः ' 'दृशेश्चेति वक्तव्यम्' इत्यात्मनेपदम् । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः । अमदन् । मदी हर्षे' इत्यस्य लुङि सिच्यङि रूपम् । निघातः । दुघानाः । ‘दुह प्रपूरणे' इत्यस्मात् शानच् । अदादित्वाच्छपो लुक् । घत्वं छान्दसम् । वृषादित्वादाद्युदात्तः । अतपत् । विपूर्वस्य तपतेरत्र सकर्मकत्वादात्मनेपदाभावः । लङि रूपम् । घोषः। 'घुष संशब्दने'। घञन्तः । ञित्स्वरः । निःष्ठाम् । ‘ष्ठा गतिनिवृत्तौ ' ।' स्थः क च ' ( पा. सू. ३. २. ७७ ) इति क्विप् । कृदुत्तरस्वरः । अदधुः । दधातेर्लङि झेः ' सिजभ्यस्त ' इति जुसादेशः । वाक्यभेदान्निघाताभावः । गोषु । ‘सावेकाचः' इति विभक्तेरुदात्तत्वे प्राप्ते ‘न गोश्वन्' इति प्रतिषिद्धत्वात् प्रातिपदिकस्वरः ॥ ॥६॥
“Contemplating their own (cattle) giving milk to their former progeny (the aṅgirasas) were delighted; their shouts spread through heaven and earth; they replaced the recovered kine in their plural ces, and stationed guards over the cows.”
Drawing the milk of ancient seed prolific, they joyed as they beheld their own possession.
Their shout of triumph heated earth and heaven. When the kine showed, they bade the heroes rouse them.
Surveying (the cows) en masse, they delighted in their own possession, milking out the milk of the age-old semen.
Their cry heated the two worlds through. Amid (all) that was born they set the outstanding one [=Indra?]; amid the cows they set heroes.
Sie freuten sich, da sie ihren Besitz [an Kühen] sahen, indem sie die Milch des alten Samens molken; ihr Lärm durch- drang [wol atarad statt atapad zu lesen] beide Welten; über das Geborene [den Nachwuchs der Kühe ?] setzten sie einen Auf- seher, und Männer über die Kühe(?).
Als sie die Herde überzählten, freuten sie sich ihres Eigentums, indem sie die Milch des alten Samens melkten. Ihr Geschrei erhitzte beide Welten. Sie teilten sich in den Nachwuchs, sie verteilten die Männer auf die Kühe.
Оглядывая (коров), они обрадовались (своей) собственности,
Доя молоко древнего семени.
Их рев раскалил обе половины вселенной,
(Когда) они распределились среди молодняка, (распределили) мужей среди коров.
स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः । उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुह॒अ जेन्या॒ गौः ॥
सः । जा॒तेभिः॑ । वृ॒त्र॒ऽहा । सः । इत् । ऊँ॒ इति॑ । ह॒व्यैः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त् । इन्द्रः॑ । अ॒र्कैः । उ॒रू॒ची । अ॒स्मै॒ । घृ॒तऽव॑त् । भर॑न्ती । मधु॑ । स्वाद्म॑ । दु॒दु॒हे॒ । जेन्या॑ । गौः ॥
सः इन्द्रः जातेभिः सहायतया संपन्नैर्मरुद्भिः सहितः सन् वृत्रहा वृत्रस्यासुरस्य हन्ता भवति । सेदु स एव इन्द्रः अर्कैः अर्चनीयैः अत एव हव्यैः होतव्यैर्मरुद्भिः सहितः सन् उस्रियाः। ऊर्ध्वं वसत्यासु क्षीरादिरूपं हविरित्युस्रिया गावः । यद्वा ऊर्ध्वं क्षीरदधिनवनीतादि क्रमेणासु वसतीति । ‘उस्रियेति गोनामोत्स्राविणोऽस्यां भोगाः । ( निरु. ४. १९ ) इति यास्कः । ता गाः उत असृजत् यज्ञार्थं सम्यक् ससर्ज । यस्मादेवं तस्मात् घृतवत् घृतोपेतं क्षीरादिकं हविः भरन्ती बिभ्राणा अत एव उरूची । उरु प्रभूतमग्निहोत्रादिकम् अञ्चति हविः प्रदातुं प्राप्नोतीत्युरूची । जेन्या जेतव्या प्रशस्ता गौः अस्मै यजमानाय स्वाद्म स्वादुतरं क्षीरादि दुदुहे दुह्यते स्म ॥ उस्रियाः । वस निवासे' इत्यस्मात् ' स्फायितच्चि° ' इत्यादिना रक्प्रत्ययः । उस्रशब्दात् स्वार्थे पृषोदरादित्वात् घप्रत्ययः । प्रत्ययस्वरः। यद्वा । ‘सृ गतौ'। उत्पूर्वस्य सरतेः कप्रत्ययः । पूर्वपदस्यान्त्यलोपश्छान्दसः। अत्रापि स्वार्थिको घप्रत्ययः । असृजत् ।' सृज विसर्गे' इत्यस्य लङि रूपम् । उरूची । उरु अञ्चतीति क्विन् ।' अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । दुदुहे। ‘दुह प्रपूरणे' इत्यस्य लिटि रूपम् । जेन्या । जयतेः कृत्यार्थे केन्यप्रत्ययः । इकारलोपश्छान्दसः । प्रत्ययस्वरः ॥
“Indra, the slayer of Vṛtra,let loose the milch kine, assisted by the Maruts, born for his aid, and entitled to praises and oblations, and the excellent (cows) contributing abundantly to sacred offerings, and yielding the butter of libation, milked for him sweet (sacrificial) food.”
Indra drove forth the kine, that Vrtra-slayer, while hymns of praise rose up and gifts were offered.
For him the Cow, noble and far-extending, poured pleasant juices, bringing oil and sweetness.
He was Vr̥tra-smasher with (the help of) those who were born (together) [=Maruts], and he sent the ruddy (cows) surging upward with
oblations and with the chants (of the Aṅgirases)—he is Indra.
She of broad extent, bearing ghee-rich (milk) to him, milked out honey, sweetness—the thoroughbred cow.
Durch die Söhne [des Angiras, also durch die Angirasen ?, (Säyana: durch die Maruts)] und durch ihre Opfer und Gesänge liess indra, der Vritratödter, die Kühe heraus; ihm strömte die weitreichende edle Milchkuh, welche fette Süssigkeit trug, den süssen Trank zu.
Er, der Vritratöter, ließ samt dem Nachwuchs, der Indra samt den Opfergaben die Kühe durch Zaubergesänge heraus. Die breitäugige, häusliche Kuh, die für ihn die schmalzige Milch trägt, hat ihren leckeren Honig aus sich melken lassen.
Этот убийца Вритры, этот самый Индра выпустил с помощью песнопений
Коров (-утренние зори) вместе с молодняком, вместе с жертвенными возлияниями.
Широко шагающая домашняя корова, несущая для него
(Молоко,) полное жира, доится медовой сладостью.
पि॒त्रे चि॑च्चक्रु॒: सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् । वि॒ष्क॒भ्नन्त॒: स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥
पि॒त्रे । चि॒त् । च॒क्रुः॒ । सद॑नम् । सम् । अ॒स्मै॒ । महि॑ । त्विषि॑ऽमत् । सु॒ऽकृतः॑ । वि । हि । ख्यन् । वि॒ऽस्क॒भ्नन्तः॑ । स्कम्भ॑नेन । जनि॑त्री॒ इति॑ । आसी॑नाः । ऊ॒र्ध्वम् । र॒भ॒सम् । वि । मि॒न्व॒न् ॥
सत्रमनुतिष्ठन्तोऽङ्गिरसः पित्रे चित् पालकाय अस्मै इन्द्राय महि महत् त्विषीमत् दीप्तिमत् सदनम् उन्नतं स्थानं सं चक्रुः । कथमिति तदुच्यते । यतः सुकृतः समुपार्जितसुकृतकर्माणः तेऽङ्गिरसस्तादृशमिन्द्रस्य उचितं स्थानं वि हि ख्यन् विशेषेणादर्शयन् खलु । कुत इत्यत आह । आसीनाः सत्रम् उपतिष्ठन्तः तेऽङ्गिरसः जनित्री सर्वस्य जगतो जनयित्र्यौ द्यावापृथिव्यौ स्कम्भनेन स्तम्भनसाधनेन अन्तरिक्षेण 'विष्कभ्नन्तः यथा ते रोदस्यौ अधो न पततस्तथा विष्टब्धे कुर्वन्तः सन्तः रभसं वेगवन्तं तमिन्द्रम् ऊर्ध्वं द्युलोके वि मिन्वन् हविःस्वीकरणार्थं विशेषेणास्थापयन् ॥ चक्रुः । करोतेर्लिट्युसि रूपम् । निघातः । ख्यन् ।' ख्या प्रकथने ' । अस्य लुङि च्लेः । अस्यतिवक्तिख्यातिभ्योऽङ् ' इत्यादेशः । आतो लोप इटि ' इत्याकारलोपः। हियोगादनिघातः । विष्कभ्नन्तः । ‘स्कम्भु रोधने' । सौत्रो धातुः । तस्मात् शतरि रूपम् । वेः स्कभ्नातेर्नित्यम्' (पा. सू. ८. ३. ७७ ) इति षत्वम् । शतृप्रत्ययस्वरः । जनित्री। ऋन्नेभ्यो ङीप् ।' जनिता मन्त्रे ' इति निपातनात् णिलोपः । ‘वा छन्दसि ' इति सवर्णदीर्घः । असीनाः । ‘आस उपवेशने' इत्यस्मात् शानच् । 'ईदासः ' ( पा. सू. ७. २. ८३ ) इतीकारः । शानचो लसार्वधातुकस्वरे कृते धातुस्वरः । मिन्वन् । डुमिञ् प्रक्षेपणे ' इत्यस्य लङि रूपम् । निघातः ॥
“They (the aṅgirasas) performing pious acts made for their protector a spacious and splendid abode which they celebrated; seated (at the sacrifice) and supporting with the pillar (of the firmament) the parents (of all things heaven and earth), they established the rapid Indra on high (in heaven).”
They made a mansion for their Father, deftly provided him a great and glorious dwelling;
With firm support parted and stayed the Parents, and, sitting, fixed him there erected, mighty.
It was for the father that they performed a ritual Session, for him also they prepared a seat, because the good workers surveyed the great, turbulent (cowpen).
Propping apart with a prop the two begetters [=Heaven and Earth], while sitting (the Session) they fixed upright the dazzling (seat).
Dem Vater [dem Angiras, der hier dem Himmel gleich- gesetzt seheint] bereiteten sie den Sitz; denn grossen glänzenden Sitz ersahn ihm die thätigen; das Aelternpaar [Himmel und Erde] mit fester Stütze stützend, errichteten sie sitzend den aufgerich- teten glänzenden [Sitz].
Wie ein Vater bereiteten sie ihm einen Sitz, denn die Guttäter hatten eine hohen, funkelnden Sitz ausersehen. Sie stützten die beiden Erzeugerinnen durch eine Stütze und während die die Opfersitzung hielten, richteten sie den blendenden empor.
Ему, отцу, они приготовили сидение:
Ведь они, благодетели, обнаружили великое блистающее (сидение).
Они укрепили креплением обеих родительниц,
Сидя, они воздвигли кверху неукротимого.
म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः । गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥
म॒ही । यदि॑ । धि॒षणा॑ । शि॒श्नथे॑ । धात् । स॒द्यः॒ऽवृध॑म् । वि॒ऽभ्व॑म् । रोद॑स्योः । गिरः॑ । यस्मि॑न् । अ॒न॒व॒द्याः । स॒म्ऽई॒चीः । विश्वाः॑ । इन्द्रा॑य । तवि॑षीः । अनु॑त्ताः ॥
मही महती धिषणा अस्माभिः क्रियमाणेन्द्रविषया स्तुतिः रोदस्योः शिश्नथे द्यावापृथिव्योरन्योन्यविश्लेषाय सद्योवृधं तदानीमेव वर्धमानं विभ्वं विभुं तयोर्धारणसमर्थं साधनं यदि धात् अकरोत् ततस्तत्र वर्तमाने यस्मिन् इन्द्रे अनवद्याः दोषरहिताः गिरः स्तुतिलक्षणा वाचः समीचीः संगता भवन्ति । इन्द्राय इति विभक्तिव्यत्ययः । तादृशस्येन्द्रस्य विश्वाः तविषीः सर्वाणि बलानि अनुत्ताः अपरप्रेषितानि स्वभावसिद्धान्येव ॥ धिषणा । ‘ञिधृषा प्रागल्भ्ये ' । धृषेः ‘धिष च संज्ञायाम् ' इति क्युप्रत्ययः । धातोर्धिषादेशः । धृष्णोत्यनयेति धिषणा स्तुतिः । प्रत्ययस्वरः। शिश्नथे। श्नथ हिंसार्थः । अस्मात् क्विप्। 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वात् शप्। तस्य ‘बहुलं छन्दसि' इति श्लुः । ‘बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । धातुस्वरः । धात् । दधातेश्छान्दसे लुङि रूपम् । यदियोगादनिघातः । विभ्वम् । भवतेः क्विप् । 'छन्दस्युभयथा' इति यणादेशः । उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । अनुत्ताः । ‘णुद प्रेरणे' इत्यस्य नञ्पूर्वस्य निष्ठायां ' नसत्तनिषत्तानुत्त' इत्यादिना निपातनान्निष्ठातकारस्य नत्वाभावः । नञः स्वरः ॥
“Inasmuch as our devout praise has appointed a thiriving ruler for the regulation of heaven and earth, to whom faultless and appropriate commendations (are due), therefore are all the energies of Indra spontaneously exerted.”
What time the ample chalice had impelled him, swift waxing, vast, to pierce the earth and heaven,-
Him in whom blameless songs are all united: all powers invincible belong to Indra.
When the great (Earth), the Holy Place, has set him to piercing— him who is grown strong in a single day, spread wide in the two world-halves,
and in whom the flawless hymns are united—(then) all powers are conceded to Indra.
Wenn die grosse mit Soma gefüllte Schale den schnell er- starkten Helden beider Welten zum Angriff treibt, ihn, in welchem die tadellosen Lieder sich vereinen, so sind alle ungebeugten Kräfte dem Indra.
Wenn die hohe Disana ihn dazu bestimmt hat, den Vritra niederzustoßen, der an einem Tage groß wurde und in beiden Welthälften sich breit machte, so sind alle Kräfte dem Indra zugestanden, auf den die fehlerlosen Lobreden sich vereinigen.
Когда великая Дхишана, чтобы столкнуть (Вритру), поставила
(Того,) кто вырос за один день, распространился среди двух миров,
На ком сходятся безупречные песни,
Все силы были предоставлены Индре.
मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः । महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥
महि॑ । आ । ते॒ । स॒ख्यम् । व॒श्मि॒ । श॒क्तीः । आ । वृ॒त्र॒ऽघ्ने । नि॒ऽयुतः॑ । य॒न्ति॒ । पू॒र्वीः । महि॑ । स्तो॒त्रम् । अवः॑ । आ । अ॒ग॒न्म॒ । सू॒रेः । अ॒स्माक॑म् । सु । म॒घ॒व॒न् । बो॒धि॒ । गो॒पाः ॥
हे इन्द्र ते तव महि महत् सख्यम् आ वश्मि आकामये । शक्तीः त्वत्संबन्धीनि दानानि चाकामये । वृत्रघ्ने वृत्रासुरस्य हन्त्रे तुभ्यं पूर्वीः बह्व्यः नियुतः वडवाः आ यन्ति वहनार्थमागच्छन्ति । सूरेः विदुषस्तव महि महत् स्तोत्रम् अवः हविर्लक्षणमन्नं च आ अगन्म प्रापयामः। हे मघवन् इन्द्र तादृशस्त्वं अस्माकं सु" सुष्ठु गोपाः पालयिता भवामीति बोधि बुध्यस्व ॥ सख्यम् । सख्युर्यः' इति भावार्थे यप्रत्ययः । प्रत्ययस्वरः । वश्मि । ‘वश कान्तौ । लटि रूपम् । नियुतः । ‘यु मिश्रणे'। क्विप् । नितरां युवन्ति मिश्रयन्त्यात्मानं रथेष्विति नियुतो वडवाः । अगन्म । गमेर्लङ्युत्तमबहुवचने ‘बहुलं छन्दसि' इति शपो लुक् । ‘म्वोश्च ' इति मकारस्य नकारः । निघातः । बोधि । बुधेर्लोटि हेर्धौ रूपम् । निघातः । गोपाः । ‘गुपू रक्षणे '। ‘गुपूधूप' इत्यादिना आयप्रत्ययः। तदन्तात् क्विप् । अतोलोपयलोपौ । प्रत्ययस्वरः॥
“I wish, Indra, for your friendship, and (the exercise of) your powers;many heroes come to the slayer of Vṛtra; we offer to you, sage, great praise and oblations; consider yourself, Maghavan, as our protector.”
I crave thy powers, I crave thy mighty friendship: full many a team goes to the Vrtra-slayer.
Great is the laud, we seek the Princes' favour. Be thou, O Maghavan, our guard and keeper.
Great is your comradeship—I long for it here, and for your powers. Numerous teams [=our poetic thoughts] come here to the
Vr̥tra-smasher.
Great is the praise song. We have arrived at the favor of the patron [=Indra]. For us, liberal one, become a protector of cows.
Ich wünsche mir deine grosse Freundschaft und deine Hülfen, zum Vritratödter gehen viele Lieder- Gespanne; wir voll- führten grosses Loblied, ein Labsal des Herrlichen [Indra]; sei du, mächtiger, unser Behüter.
Ich verlange nach deiner großen Freundschaft, nach deinen guten Diensten. Dem Vritratöter gehen viele Gaben zu. Groß ist das Loblied; wir sind in die Gunst des Herrn gekommen. Sei uns, du Gabenreicher, fein ein Beschützer!
Я хочу твоей великой дружбы, (твоих) услуг.
Многие упряжки движутся к убийце Вритры.
Велико восхваление. Мы достигли поддержки покровителя.
Будь же по-настоящему нашим хранителем, о щедрый!
महि॒ क्षेत्रं॑ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ॥
महि॑ । क्षेत्र॑म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि॑ऽभ्यः । च॒रथ॑म् । सम् । ऐ॒रत् । इन्द्रः॑ । नृऽभिः॑ । अ॒ज॒न॒त् । दीद्या॑नः । सा॒कम् । सूर्य॑म् । उ॒षस॑म् । गा॒तुम् । अ॒ग्निम् ॥
योऽयम् इन्द्रः महि महत् क्षेत्रं केदारादि पुरु प्रभूत चन्द्रं हिरण्यं च विविद्वान अर्थिभ्यः सखिभ्यः अस्मभ्यं लम्भयन् । आदित् अनन्तरं चरथं चरात्मकं गवादिकं च समैरत् सम्यक् प्रैरयत् । दत्तवानित्यर्थः । दीद्यानः दीप्यमानः सोऽयम् इन्द्रः नृभिः नेतृभिः कर्मसहायभूतैर्मरुद्भिः साकं सहितः सन् सूर्यं कालस्य निर्वाहकम् आदित्यम् उषसम् उषःकालं गातुम् । गायन्ति स्तुवन्त्यस्यामिन्द्रादिदेवानिति गातुः पृथिवी । ताम् । अग्निम् अग्निहोत्रादिकर्मसाधनभूतम् आहवनीयादिलक्षणमग्निं च अजनत् अजनयत् ॥ पुरु चन्द्रम् । संहितायां ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे इति सुडागमः । तस्य श्रुत्वेन शकारः । पदकाले नास्ति सुडागमः । पुरु । कुप्रत्ययस्वरः । चन्द्रम् । रक् । प्रत्ययस्वरः । चरथम् । चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । प्रत्ययस्वरः । ऐरत् । ‘ईर गतौ ' इत्यस्य लङि • आडजादीनाम्' इत्याडागमः । निघातः । अजनत् । जनेर्ण्य॑न्तस्य लङि रूपम् । ‘बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलुक् । गातुम् । ‘गै शब्दे'। ‘°गापायाहिभ्यः' इति तुप्रत्ययः । प्रत्ययस्वरः ॥ ॥ ७ ॥
“Wide fields, vast treasure, (spacious) pastures has the much-knowing (Indra) bestowed upon his friends; the radiant Indra with the leaders (of rites, the Maruts) genitive rated the sun, the dawn, the earth and fire.”
He, having found great, splendid, rich dominion, sent life and motion to his friends and lovers.
Indra who shone together with the Heroes begot the song, the fire, and Sun and Morning.
Great the dwelling place, abundant the gleaming (goods) that he found; thereupon he assembled movable (goods [=livestock]) for his comrades.
Indra along with the men, as shining one, begot at one blow the sun, the dawn, the way, the fire.
Einen grossen, sehr glänzenden Grundbesitz ertheilend, beförderte er den Freunden recht den Fortgang; Indra erzeugte mit den Männern strahlend zugleich die Sonne, die Morgenröthe, Wohlfahrt, Feuer.
Er gewann ein großes Land, viel Gold und stellte den Freunden den beweglichen Besitz wieder her. Indra, von den Männern entflammt, erzeugte miteinander Sonne, Morgenröte, den Gang des Himmels, das Feuer.
Добывший огромную местность, много золота,
Он еще пригнал для друзей движимое имущество.
Индра вместе с мужами породил, сверкая,
Одновременно солнце, утреннюю зарю, свободный путь, огонь.
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑ना॒: प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः । मध्व॑: पुना॒नाः क॒विभि॑: प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥
अ॒पः । चि॒त् । ए॒षः । वि॒ऽभ्वः॑ । दमू॑नाः । प्र । स॒ध्रीचीः॑ । अ॒सृ॒ज॒त् । वि॒श्वऽच॑न्द्राः । मध्वः॑ । पु॒ना॒नाः । क॒विऽभिः॑ । प॒वित्रैः॑ । द्युऽभिः॑ । हि॒न्व॒न्ति॒ । अ॒क्तुऽभिः॑ । धनु॑त्रीः ॥
दमूनाः । दान्तं मनो यस्यासौ दमूनाः दन्तमनाः । यद्वा दाम्यतीति दमूनाः । उपरत इत्यर्थः । स एषः एवेन्द्रः विभ्वः व्याप्तः सधीचीः परस्परसंगता: विश्वश्चन्द्राः विश्वस्याह्लादयित्रीः। विश्वस्याह्लादो याभ्यस्ता इति वा । एवंभूताः अपः प्र असृजत् सृष्टवान् । सृष्टाश्च ता आपः मध्वः माधुर्योपेतान् सोमान् कविभिः पवित्रैः अग्निवायुसूर्यैः पुनानाः शोधयित्र्यः धनुत्रीः सर्वस्य जगतः प्रीणयित्र्यः सत्यः द्युभिः दिवसैः अक्तुभिः चित् रात्रिभिः च हिन्वन्ति । रात्रिंदिवं सर्वं जगत् स्वस्वव्यापारप्रवणं कुर्वन्तीत्यर्थः ॥ दमूनाः। 'दमु उपशमे । ‘दमेरूनसिः' इत्यूनसिप्रत्ययः । दाम्यतीति दमूनाः । यद्वा दान्तशब्दस्य दभावो मनसो मकारात् परस्याकारस्य ऊकारश्छान्दसः । असृजत् ।' सृज विसर्गे'। हिन्वन्ति । ' हि गतौ । निघातः । धनुत्रीः । ‘धन धान्ये ' इत्यस्मात् अशित्रादित्वात् उत्रप्रत्ययः । शार्ङ्गरवादिषु ङीन् द्रष्टव्यः । नित्स्वरः ॥
“This lowly-minded Indra has created the wide-spread, commingled, all-delighting waters; and they, purifying the sweet (libations) with the sage purifiers, and being benevolent (to all), proceed with (the revolutions) of days and nights.”
Vast, the House-Friend, he set the waters flowing, all-lucid, widely spread, that move together.
By the wise cleansings of the meath made holy, through days, and nights they speed the swift streams onward.
Also the all-gleaming waters, spread wide, did this master of the house send surging forth toward a single goal.
Through the days, through the nights, (the priests) impel the runners, (the streams) of honey [=soma] being purified with poets as their purifying filters.
Die Wasser auch liess er, der starke Hausfreund, ver- einigt fliessen, die allschimmernden; und die durch die Priester und die Seihen gereinigten süssen, schnellströmendon Tränke lassen sie [wol die Wasser als Subject] rinnen Tag und Nacht.
Auch die sich verbreitenden Gewässer ließ der Gebieter in gleicher Richtung laufen, die allschimmernden, süßen, mit geistigen Filtern geläutert. Tag und Nacht laufend trieben sie ihre Rosse an.
И растекающиеся воды этот друг дома
Направил к одной цели, переливающиеся всеми цветами,
Сладкие, очищаемые духовными цедилками.
Мчась дни и ночи, они (вс?) приводят в движение.
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे । परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ॥
अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । जि॒हा॒ते॒ इति॑ । उ॒भे इति॑ । सूर्य॑स्य । मं॒हना॑ । यज॑त्रे । परि॑ । यत् । ते॒ । म॒हि॒मान॑म् । वृ॒जध्यै॑ । सखा॑यः । इ॒न्द्र॒ । काम्याः॑ । ऋ॒जि॒प्याः ॥
हे इन्द्र सूर्यस्य सुष्ठु जगतः प्रेरकस्य तव मंहना महत्त्वेन सामर्थ्येन वसुधिती वस्तव्यपदार्थधारणोपेते यजत्रे यजनार्हे ते उभे कृष्णे अहोरात्रे अनु जिहाते पुनःपुनरावृत्य वर्तेते । किंच। ऋजिप्याः ऋजुगतयः सखायः ते मित्रभूताः काम्याः कमनीया मरुतः वृजध्यै कर्मविघ्नकारिणामसुराणां वर्जनाय परिभवाय । यत् यस्य ते तव महिमानं सामर्थ्यमनुसृत्य परि परितः प्रभवन्ति ॥ जिहाते । ओहाङ् गतौ' । जुहोत्यादिः । ‘भृञामित्' इत्यभ्यासस्येत्वम् । निघातः । मंहना । ' महि वृद्धौ ' । ल्युट् । लित्स्वरः । वृजध्यै । ' वृजी वर्जने' । तुमर्थे कध्यैप्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । काम्याः । कमेर्ण्यन्तस्य ' अचो यत्' इति यत्प्रत्ययः । यतोऽनावः' इत्याद्युदात्तत्वम् । ऋजिप्याः । ‘ओप्यायी वृद्धौ ' । क्विप् । लोपो व्योर्वलि ' इति यलोपः । पूर्वपदस्योकारस्येकारो व्यत्ययेन । बहुवचनस्यैकवचनं छान्दसम् । कृदुत्तरपदप्रकृतिस्वरः ॥
“The two adorable (alternations of) day and night, upholding (all things) by the might of the sun, successively revolve; your sincere and acceptable friends (the Maruts) are ready to encounter (your foes) and maintain your greatness.”
To thee proceed the dark, the treasure-holders, both of them sanctified by Surya's bounty.
The while thy ovely storming Friends, O Indra, fail to attain the measure of thy greatness.
The two black treasure-chambers [=Dawn and Night], deserving the sacrifice, follow (each other) in succession through the magnanimity of the Sun,
when your amiable, straight-flying comrades (gather) round about, to twist your greatness (toward them), Indra.
Es geben bereitwillig nach die beiden schwarzen, ehr- würdigen Schatzkammern der Sonne [Himmel und Erde oder Tag und Nacht, Säy.], wenn deiner Grösse, o Indra, auszuweichen deine begehrenswerthen Genossen eilend sind.
Die beiden verehrungswürdigen Schatzhalterinnen, die schwarze Nacht und die Morgenröte folgen ihm mit Einwilligung des Sonnengottes, während die Freunde deine Hoheit umringen, um sie für sich in Beschlag zu nehmen, o Indra, sie die Geliebten, Vorstürmenden.
Две кладовые добра: черная (ночь и утренняя заря) следуют (за тобой).
Благодаря щедрости солнца, обе достойные жертв,
В то время как друзья твои, о Индра, мощные, рвущиеся вперед,
О(кружают) (твое) величие, чтобы привлечь к себе.
पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः । आ नो॑ गहि स॒ख्येभि॑: शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभि॑: सर॒ण्यन् ॥
पतिः॑ । भ॒व॒ । वृ॒त्र॒ऽह॒न् । सू॒नृता॑नाम् । गि॒राम् । वि॒श्वऽआ॑युः । वृ॒ष॒भः । व॒यः॒ऽधाः । आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ॥
हे वृत्रहन् इन्द्र विश्वायुः । विश्वं संपूर्णमायुर्यस्यासौ विश्वायुः । अविनाशी वृषभः कामानां वर्षिता वयोधाः अन्नस्य दाता तादृशस्त्वं सूनृतानां गिराम् अस्माभिः क्रियमाणानां प्रियतमानां वाचां पतिः स्वामी भव । सरण्यन् सरणं यज्ञार्थं गमनमिच्छन् महान् महीभिः महतीभिः ऊतिभिः रक्षाभिः शिवेभिः कल्याणैः सख्येभिः फलप्रदानरूपोपकारलक्षणैः सख्यैश्च सहितस्त्वं नः अस्मान् प्रति आ गहि यज्ञार्थमागच्छ ॥ सुनृतानाम् । ‘ऊन परिहाणे'। सुतरामूनयत्यप्रियमिति सूनिति प्रियमुच्यते । तच्च तदृतं सत्यं चेति सूनृतम् । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । वयोधाः । वयस्युपपदे दधातेर्विच् । गहि । गमेर्लोटि • बहुलं छन्दसि ' इति शपो लुक् । सेर्हिरादेशः । अपिच्च । तस्य ङित्त्वात् ' अनुदात्तोपदेश° ' इत्यादिना मलोपः । तस्यासिद्धत्वात ‘ अतो हेः' इति हेर्लुक् न भवति । निघातः । सरण्यन् । सरणशब्दात् क्यच् । एकादेशस्वरः ॥
“Slayer of Vṛtra, do you, who is long lived the showerer (of benefits), the giver of food, be the lord of our true praises, repairing (to the sacrifice), come to us great, with great, friendly, and auspicious protections.”
Be Lord of joyous songs, O Vrtra-slayer, Bull dear to all, who gives the power of living.
Come unto us with thine auspicious friendship, hastening, Mighty One, with mighty succours.
Become lord of liberalities, you smasher of Vr̥tra, a bull of songs, conferring vigor all the life long.
Come here to us with your friendly fellowship, a great one hastening with great help.
Sei du, o Vritratödter, Herr der schönen Lieder, der Held der alles belebt und Jugendkraft verleiht; komm her zu uns mit freundlichen Genossen, als grosser du mit grossen Hülfen eilend.
Sei du, Vritratöter, der Herr der Geschenke, sei lebenslänglich der befruchtende Stier der Lieder! Komm zu uns mit deinen gütigen Freundschaftsdiensten, du der Große mit deinen großen Hilfen, dich beeilend!
О убийца Вритры, будь господином прекрасных даров,
(Будь) весь век быком – оплодотворителем хвалебных песен!
Приди к нам с добрыми дружескими услугами,
Великий, с великими поддержками спешащий!
तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् । द्रुहो॒ वि या॑हि बहु॒ला अदे॑वी॒: स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥
तम् । अ॒ङ्गि॒र॒स्वत् । नम॑सा । स॒प॒र्यन् । नव्य॑म् । कृ॒णो॒मि॒ । सन्य॑से । पु॒रा॒ऽजाम् । द्रुहः॑ । वि । या॒हि॒ । ब॒हु॒लाः । अदे॑वीः । स्वरिति॑ स्वः॑ । च॒ । नः॒ । म॒घ॒ऽव॒न् । सा॒तये॑ । धाः॒ ॥
हे इन्द्र अङ्गिरस्वत् अङ्गिरस इव नमसा स्तोत्रेण सपर्यन् पूजयन् विश्वामित्रोऽहं तं तादृशमहिमोपेतं पुराजां पुरातनं त्वां सन्यसे संभजनाय नव्यं कृणोमि । स्तोतव्यतयाभिनवं करोमि । अदेवीः तमोरूपत्वेनाद्योतमानान् बहुलाः बहून् द्रुहः द्रोग्धॄन् शत्रुभूतान् राक्षसान् वि याहि विशेषेण मृतिं प्रापय । हे मघवन् इन्द्र नः अस्मभ्यं स्वः स्वं धनं च सातये संभजनार्थं धाः धेहि ॥ अङ्गिरस्वत् । अङ्गिरस इव । तेन तुल्यम्' इति वतिप्रत्ययः ।' नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' इति भसंज्ञायां सकारस्य रुत्वाभावः। सपर्यन् । सपरशब्दः कण्ड्वादिः। नव्यम् । ‘णु स्तुतौ' इत्यस्मात् ‘ अचो यत्' इति यत्प्रत्ययः । ‘धातोस्तन्निमित्तस्य' इति वान्तादेशः। यतोऽनावः ' इत्याद्युदात्तत्वम् । कृणोमि । कृवेर्लटि रूपम् । सन्यसे । सनतेर्भावे क्विप् । यसु प्रयत्ने'। अस्मात् क्विप् । सनः संभजनस्य यसे यत्नाय । संभजनार्थमित्यर्थः। पुराजाम्। जनेर्विटि आत्वे रूपम्। याहि । यातेर्लोटि रूपम् । स्वः । ‘स्वरादिनिपातमव्ययम्' इत्यव्ययसंज्ञायाम् ‘अव्ययादाप्सुपः' इति सुपो लुक् । सातये । ‘षण संभक्तौ । भावे क्तिन् । ' जनसन' इत्यादिना आत्वम् ।' ऊतियूति°' इत्यादिना निपातनादुदात्तः ॥
“Worshipping him with reverence, like an aṅgiras, I make the ancient (Indra) renovate to accept the oblation; destroy the many impious oppressors (of your worshippers) and bestow upon us, Maghavan, yours own (wealth) for our acceptance.”
Like Angiras I honour him with worship, and renovate old song for him the Ancient.
Chase thou the many godless evil creatures, and give us, Maghavan, heaven's light to help m.
Serving him with homage like the Aṅgirases, I make new (their hymn) born of old, for the older one.
Run over the deceits, manifold and godless, and set us up to win the sun, bounteous one.
Mit Anbetung ihn nach Angiras-Art verehrend, mach' ich das alterzeugte [Lied] neu dem Alten; die vielen bösen Unholdin- nen fahre über, und lass uns, o mächtiger, Glanz erlangen.
Ihn ehre ich nach Art der Angiras´ unter Verbeugung und mache ein vor Zeiten entstandenes Lied zu einem, das dem Ältesten ganz neu ist. Durchkreuze die vielen gottlosen Tücken und laß uns, du Gabenreicher, die Sonne gewinnen!
Подобно Ангирасам, почитая его с поклонением,
Я делаю для древнего давно рожденную (песню) новой.
Преодолей многие безбожные обманы
И дай нам, о щедрый, захватить солнце!
मिह॑: पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति न॑: पिपृहि पा॒रमा॑साम् । इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥
मिहः॑ । पा॒व॒काः । प्रऽत॑ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् । इन्द्र॑ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षुऽम॑क्षु । कृ॒णु॒हि॒ । गो॒ऽजितः॑ । नः॒ ॥
हे इन्द्र ते पावकाः पापानां शोधयित्र्यः मिहः सेचनसाधनान्यापः प्रतताः लोके प्रकर्षेण विस्तृताः अभूवन् । आसाम् अपां स्वस्ति विनाशरहितं पारं तीरं नः अस्मदर्थं पिपृहि जलैः संपूर्णं कुरु । जलमवारपारीणं कुर्वित्यर्थः । रथिरः रथवान् त्वं रिषः हिंसकात् शत्रोः सकाशात् नः अस्मान् पाहि पालय । अनन्तरं नः अस्मान् मक्षुमक्षु अतिशीघ्रं गोजितः गवादिपशूनां जेतॄन्
“कृणुहि कुरु । वृष्टिप्रदानेन तटाकादिजलाशयान् संपूर्णान् कृत्वा गवादिधनयुक्तान् कुर्विति भावः ॥ अभूवन् ।' भू सत्तायाम्' इत्यस्य लुङि रूपम् । निघातः । पिपृहि । 'पॄ पालनपूरणयोः' । जुहोत्यादिः । ‘अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम् । हेर्ङित्त्वादगुणः । निघातः । रथिरः । मत्वर्थे ‘मेधारथभ्यामिरन्निरचौ ' इतीरच्प्रत्ययः । रिषः । ‘रिष हिंसायाम् ' । क्विप् । 'सावेकाच: ' इति विभक्तेरुदात्तत्वम् । मक्षूमक्षू ।' नित्यवीप्सयोः' इति द्विर्वचनम् । संहितायाम् ऋचि तुनुघमक्षुतङ्' इति दीर्घः ॥
“You purifying water have been spread abroad; fill their beds for our welfare; riding on the car, defend us from the malevolent, and make us quickly the conquerors of cattle.”
Far forth are spread the purifying waters convey thou us across them unto safety.
Save us, our Charioteer, from harm, O Indra, soon, very soon, make us win spoil of cattle.
The far-extended mists have just become clear; carry us across to the edge of them, to well-being.
O Indra, as charioteer protect us from harm. Quickly, quickly make us winners of cows.
Viele schwüle Nebel waren ausgebreitet, führe uns durch sie hindurch zum Heile, o Indra, du Wagenstreiter, schütze uns vor dem Feinde; bald, recht bald lass uns Rinder erbeuten.
Die ausgebreiteten Nebel haben sich jetzt geklärt, bring uns glücklich an ihr Ende! Du, Indra, der Wagenlenker, bewahre uns vor Schaden; mach uns recht bald zu Erbeutern von Rindern!
Простершиеся туманы стали прозрачными:
Благополучно переправь нас на ту сторону их!
О Индра, ты, колесничий, сохрани нас от повреждения!
Как можно скорей сделай нас захватчиками коров!
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् । प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
अदे॑दिष्ट । वृ॒त्र॒ऽहा । गोऽप॑तिः । गाः । अ॒न्तरिति॑ । कृ॒ष्णान् । अ॒रु॒षैः । धाम॑ऽभिः । गा॒त् । प्र । सू॒नृताः॑ । दि॒शमा॑नः । ऋ॒तेन॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥
वृत्रहा वृत्रस्य हन्ता गोपतिः गवां स्वामी सन्निन्द्रः गाः अदेदिष्ट अस्मभ्यं दिशतु । तथा कृष्णान् कर्मविघ्नकारिणोऽसुरान् अरुषैः आरोचमानैः धामभिः तेजोभिः अन्तर् अन्तर्धानं विनाशं गात् गमयतु । तथा सूनृताः प्रियतमा गाः ऋतेन प्रतारणवर्जितेन’ सत्येन वाक्येन प्र दिशमानः अङ्गिरोभ्यः प्रदिशन्निन्द्रः विश्वाः सर्वाणि दुरः गवां स्वेच्छया निर्गमनद्वाराणि स्वाः स्वकीया गाः च अप अवृणोत् । व्रजे गाः स्थापयित्वा तानि द्वाराण्याच्छादितवानित्यर्थः । अदेदिष्ट । *दिश अतिसर्जने' इत्यस्मात् यङ्लुकि लङि व्यत्ययेनात्मनेपदम् । अडागमस्वरः । गोपतिः । ‘पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरः । गात् । ‘इण् गतौ ' । अन्तर्भावितण्यर्थः । दिशमानः । दिशेः व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे शस्वरः । अवृणोत् । ‘वृञ् वरणे' इत्यस्य लङि रूपम् ॥
“Indra, the slayer of Vṛtra, the lord of herds, has discovered the cattle, and by his radiant effulgence driven away the black (asuras), and indicating with veracity (to the aṅgirasas) the honest (kine), he shut the gate uon all their own cattle.”
His kine their Lord hath shown, e'en Vrtra's slayer, through the black hosts he passed with red attendants.
Teaching us pleasant things by holy Order, to, us hath he thrown open all his portals.
The Vr̥tra-smasher, lord of cows, has put his cows on display. He has come between the black (nights) (and bright days) with the ruddy
manifestations (of the cows [=dawns]).
And allotting the liberalities [=gifts] in accord with truth, he opened up all the doors that are his own.
Der Vritratödter, der Herr der Kühe, wies Kühe als Ge- schenk an; mitten durch die schwarzen [Dämonen] ging er mit den feuerrothen Scharen [der Blitze]; und mit Gerechtigkeit die herrlichen Gaben anweisend erschloss er alle seine Thüren.
Der Vritratöter hat als Rinderbesitzer die Rinder zugewiesen. Er schloß die Schwarzen aus mit den feuerfarbigen Wesen. Und die Gnadenbeweise nach dem Rechte zuweisend sperrte er alle seine Tore auf.
Убийца Вритры как господин коров указал коров.
Он вытеснил черных с помощью алых существ.
Указуя прекрасные дары согласно закону,
Он открыл все свои врата.
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जलक्ष्मीमनेन योद्धार इति भरः । सङ्ग्रामः । तस्मिन्सङ्गामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नैतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रो पलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रुसम्बन्धिना सञ्चितं समग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । धरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । भौव्रीहौ पूर्वपदस्वरः । समत्सु । आद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिम्साअगत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ २२ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praise), terriblein battles, the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in this fight where spoil is gathered.
The Strong who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
= 264, 22
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!