इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ । प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥
इन्द्र॑ । सोम॑म् । सो॒म॒ऽप॒ते॒ । पिब॑ । इ॒मम् । माध्य॑न्दिनम् । सव॑नम् । चारु॑ । यत् । ते॒ । प्र॒ऽप्रुथ्य॑ । शिप्रे॒ इति॑ । म॒घ॒ऽवन् । ऋ॒जी॒षि॒न् । वि॒ऽमुच्य॑ । हरी॒ इति॑ । इ॒ह । मा॒द॒य॒स्व॒ ॥
विश्वामित्रो ब्रूते । सोमपते सोमस्याधिपते हे इन्द्र इमम् अस्माभिर्माध्यंदिने सवने क्रियमाणं सोमं सोमरसं पिब । यत् यस्मात् ते त्वदर्थं क्रियमाणं माध्यंदिनं मध्यंदिनसंबन्धि सवनं निष्केवल्याख्यं शस्त्रं चारु रमणीयं वर्तते । मघवन् धनवन् ऋजीषिन् । ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते । तद्वन हे इन्द्र हरी रथे योजितावश्वौ रथात् विमुच्य शिप्रे हनू प्रप्रुथ्य अत्रत्येन ग्रासेन पूरयित्वा इह देवयजनदेशे मादयस्व तावश्वौ हर्षय ॥ प्रप्रुथ्य। प्रोथृ पर्याप्तौ' इत्यस्य ल्यपि रूपम् । ह्रस्वछन्दसः । लित्स्वरः । ऋजीषिन् । अर्ज षर्ज अर्जने इत्यस्मात् ‘अर्जेश्च ऋजि च ' ( उ. सू. ४.४६८) इतीषन्प्रत्ययः ऋजि इत्यादेशश्च धातोः । अर्ज्यत इत्यृजीषम् । तदस्यास्ति इति इनिप्रत्ययः । आमन्त्रितत्वान्निघातः । मादयस्व । मदि स्तुत्यादिषु । हेतुमण्णिच् । निघातः ॥
“Indra, lord of the Soma, drink this Soma which is grateful to you at noon-day sacrifice, Maghavan, partake of the spiritless Soma, unyoke your horses, and filling their jaws (with fodder), exhilarate them at this ceremony.”
DRINK thou this Soma, Indra, Lord of Soma; drink thou the draught of noonday which thou Iovest.
Puffing thy cheeks, impetuous, liberal Giver, here loose thy two Bay Horses and rejoice thee.
O Indra, lord of soma, drink this soma here, the Midday Pressing, which is dear to you.
Snuffling out your two lips, you bounteous possessor of the silvery drink, having unhitched your two fallow bays, reach exhilaration here.
Trink diesen Soma, Somaherr, o Indra, den Mittagstrunk des Saftes, der dir lieb ist, Aufblasend, starker, gieriger, die Lippen; hier löse ab die Füchse und berausch dich.
Indra, Herr des Soma, trink diesen Soma, die mittägliche Trankspende, die dir genehm ist. Durch die Lippen brustend, du Gabenreicher, Trestersomatrinker, spann die Falben ab, berausche dich hier!
О Индра – господин сомы, пей этого сому,
Полуденное выжимание, которое мило тебе.
Почмокав губами, о щедрый (бог,) пьющий выжимки,
Распрягай пару буланых коней, опьяняйся здесь!
गवा॑शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य । ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ॥
गोऽआ॑शिरम् । म॒न्थिन॑म् । इ॒न्द्र॒ । शु॒क्रम् । पिब॑ । सोम॑म् । र॒रि॒म । ते॒ । मदा॑य । ब्र॒ह्म॒ऽकृता॑ । मारु॑तेन । ग॒णेन॑ । स॒ऽजोषाः॑ । रु॒द्रैः । तृ॒पत् । आ । वृ॒ष॒स्व॒ ॥
हे इन्द्र गवाशिरं गव्यस्य पयस आशीर्मिश्रणं यस्मिन् तं सोमम् । अपि च मन्थिनं मन्थसंयुक्तं शुक्रम् अभिनवं यद्वा शुक्रामन्थिग्रहे वर्तमानम् । एवं त्रिषु सवनेषु वर्तमानमिमं सोमं पिब । ते तव मदाय हर्षाय ररिम तं सोमं वयं प्रयच्छामः । मारुतेन । मरुतां गणो मारुतः । स च ब्रह्मकृत् । ब्रह्म स्तोत्रं करोतीति ब्रह्मकृत् । इन्द्रस्तोत्रं कुर्वाणेन मारुतेन गणेन रुद्रैः एकादशसंख्याकैः रुद्रैश्च सजोषाः संगतस्त्वं तृपत् सोमपानेन तृप्यन् आ वृषस्व । तमिमं सर्वतो जठरे सिञ्च धारय ॥ गवाशिरं । श्रीणातेः आङ्पूर्वात् क्विपि 'अपस्पृधेथामानृचुः' इत्यादिना निपातनात् आशिरादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । पिबा" । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । ररिम । रातेः छान्दसे' वर्तमाने लिटि रूपम् । असमानवाक्यत्वान्निघाताभावः। आगमा अनुदात्ताः इति इटोऽनुदात्तत्वात् प्रत्ययस्वरः । तृपत् । 'तृप प्रीणने' । तुदादिः । आगमानुशासनस्यानित्यत्वात् नुमभावः । वृषस्व । वृषु सेचने ' । व्यत्ययेन शः ॥
“Indra, drink the Soma mixed with milk, with butter-milk, or fresh; we offer it for your exhilaration, associated with the devout company of the Maruts and the Rudras; drink it till you are satisfied.”
Quaff it pure, meal-blent, mixt with milk, O Indra; we have poured forth the Soma for thy rapture.
Knit with the prayer-fulfilling band of Maruts, yea, with the Rudras, drink till thou art sated;
Mixed with cows [=milk], stirred (with meal), or pure, o Indra—drink the soma. We have given it to you for your exhilaration.
Joined in pleasure with the formulation-making flock of Maruts, with the Rudras, drench yourself (in it), to satiety.
Den milchgemischten Soma, den gequirlten, den reinen trink, den dir zum Rausch wir gaben, Mit deiner frommen Marutschar, o Indra, der Rudraschar vereinigt schwelge lustig,
Trink, Indra, den milchgemischten, den mit Mehl angerührten, den klaren Soma! Wir haben ihn dir zum Rausche gespendet. Zusammen mit der marutischen Gefolgschaft, die dir eine Erbauung bereitet, mit den Rudrasöhnen begieße dich zur Genüge!
Пей, о Индра, смешанного с молоком, взболтанного (с ячменем)
(Или) чистого сому! Мы дали (его) тебе для опьянения.
Вместе с толпой Марутов, творящей молитвы,
Вместе с Рудрами вливай (его) в себя досыта!
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च॑न्त इन्द्र म॒रुत॑स्त॒ ओज॑: । माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभि॒: सग॑णः सुशिप्र ॥
ये । ते॒ । शुष्म॑म् । ये । तवि॑षीम् । अव॑र्धन् । अर्च॑न्तः । इ॒न्द्र॒ । म॒रुतः॑ । ते॒ । ओजः॑ । माध्य॑न्दिने । सव॑ने । व॒ज्र॒ऽह॒स्त॒ । पिब॑ । रु॒द्रेभिः॑ । सऽग॑णः । सु॒ऽशि॒प्र॒ ॥
हे इन्द्र ये मरुतः ते तव शुष्मं शत्रूणां शोषकं तेजः ये च मरुतः तविषीं बलं च अवर्धन् युद्धसहकारितयावर्धयन् ते मरुतः अर्चन्तः त्वां स्तुवन्तः सन्तः ते तव ओजः युद्धसामर्थ्यम् अवर्धयन् । वज्रहस्त वज्रयुक्तः हस्तः यस्येति तादृश सुशिप्र शोभनहनो। शिप्रे हनू नासिके वा' इति यास्कः । हे इन्द्र रुद्रेभिः । रोदयन्ति शत्रूनिति रुद्राः मरुतः । तैः सगणः त्वं माध्यंदिने सवने सोमं पिब ॥ अवर्धन् । 'वृधु वर्धने' । अन्तर्भावितण्यर्थः । यद्वृत्तयोगादनिघातः । माध्यंदिने । उत्सादित्वादञ् । ञित्त्वादाद्युदात्तः ॥
“These are the Maruts, Indra, who, worshipping your prowess, augment your withering force (by their aid); attended by the Rudras, drink, wielder of the thunder-bolt, and handsome-chinned, at the noon-day sacrifice.”
Those who gave increase to thy strength and vigour; the Maruts singing forth thy might, O Indra.
Drink thou, O fair of cheek, whose hand wields thunder, with Rudras banded, at our noon libation.
They who increased your tempestuousness, who increased your power, the Maruts, hymning your strength, Indra—
at the Midday Pressing, you with mace in hand, drink in a flock with the Rudras, you of good lips.
Die deinen Muth und deine Kraft erquickten die Maruts, Indra, deine Stärke preisend; Blitzhalter trinke bei der Mittagsspende, o Schlürfender, vereint mit Rudrascharen.
Die Marut, die deine Wut, deine Kraft erhöhten, indem sie deine Stärke besangen, o Indra, mit den Rudrasöhnen als Gefolge trink, du Schönlippiger, bei der mittäglichen Trankspende, du Keulenträger!
Те, что увеличили твое неистовство, (твое) мужество, -
Маруты, воспевающие, о Индра, твою силу, –
О (ты,) с ваджрой в руке, на полуденном выжимании
Сопровождаемый толпой пей с Рудрами, о прекрасногубый!
त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् । येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥
ते । इत् । नु । अ॒स्य॒ । मधु॑ऽमत् । वि॒वि॒प्रे॒ । इन्द्र॑स्य । शर्धः॑ । म॒रुतः॑ । ये । आस॑न् । येभिः॑ । वृ॒त्रस्य॑ । इ॒षि॒तः । वि॒वेद॑ । अ॒म॒र्मणः॑ । मन्य॑मानस्य । मर्म॑ ॥
ये मरुतः इन्द्रस्य शर्धः बलभूताः आसन् ते इत् त एव मरुतः अस्य । द्वितीयार्थे षष्ठी । इममिन्द्रं मधुमत् । तव सहाया वयमास्महे त्वं युद्धमभिगच्छेति माधुर्योपेतं वाक्यं यथा भवति तथा विविप्रे नु क्षिप्रं प्रैरयन् । येभिः यैर्युद्धसहायैर्मरुद्भिः इषितः प्रेरित इन्द्रः अमर्मणः परैः अविदितमर्मस्थानस्य अत एव मन्यमानस्य न कोऽपि मम हन्तेत्यभिमन्यमानस्य वृत्रस्य असुरस्य मर्म यस्मिन् स्थाने प्रहृतौ सत्यां स मरिष्यति तादृशं स्थानं विवेद अज्ञासीत् ॥ विविप्रे । ‘ विप क्षेपणे ' इत्यस्य लिटि व्यत्ययेनात्मनेपदम् । इरेचः • इरयो रे' इति रे इत्यादेशः । निघातः॥ आसन् ।' अस भुवि ' इत्यस्य लङि रूपम् । यद्वृत्तयोगान्निघाताभावः । विवेद । ‘ विद ज्ञाने इत्यस्य लिटि रूपम् । लित्स्वरः । मर्म ।' मृङ् प्राणत्यागे ' इत्यस्मादौणादिको मनिन् । नित्स्वरः ॥
“Those were the Maruts who were the strength of Indra, and genitive ly encouraged him; animated by whom he pierced the vital part of Vṛtra, fancying himself vulnerable.”
They, even the Maruts who were there, excited with song the meath-created strength of Indra.
By them impelled to act he reached the vitals Of Vrtra, though he deemed that none might wound him.
It was they who became inspired at his honeyed (drink), Indra’s troop, who were the Maruts,
impelled by whom he found the vulnerable place of Vr̥tra, who thought himself invulnerable.
Sie wirbelten hinein das Süss des Soma's, die Maruts, die des Indra Heerbann waren, Mit denen eilend er durchstiess die Weichen des Vritra, der sich unverwundbar dünkte.
Eben diese seine Gefährten wurden beredt in süßen Worten, die Marut, die des Indra Truppe waren, von denen zur Eile getrieben er des Vritra verwundbare Stelle fand, der sich für unverwundbar hielt.
Вот Маруты хорошенько потрясли его сладкий напиток, -
Те, (что) были толпой Индры,
По чьему побуждению он нашел уязвимое место
У Вритры, считавшего себя неуязвимым.
म॒नु॒ष्वदि॑न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य । स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ॥
म॒नु॒ष्वत् । इ॒न्द्र॒ । सव॑नम् । जु॒षा॒णः । पिब॑ । सोम॑म् । शश्व॑ते । वी॒र्या॑य । सः । आ । व॒वृ॒त्स्व॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । स॒र॒ण्युऽभिः॑ । अ॒पः । अर्णा॑ । सि॒स॒र्षि॒ ॥
हे इन्द्र मनुष्वत् मनोर्यज्ञमिव ममेदं सवनं यज्ञं जुषाणः सेवमानस्त्वं शश्वते शाश्वताय वीर्याय परपरिभवलक्षणाय सामर्थ्यायेमं सोमं पिब । हे हर्यश्व हरितवर्णाश्वोपेत सः तादृशस्त्वं यज्ञैः यजनीयैः मरुद्भिः साकम् आ ववृत्स्व आगच्छ । किंच सरण्युभिः एकश्रुतिमन्मन्त्रानात्मन इच्छद्धिः यद्वा सरण्युभिः सरणशीलैर्मरुद्भिः सहितस्त्वम् अपः अन्तरिक्षस्थितान्युदकानि अर्णा पार्थिवान्युदकानि सिसर्षि प्रापय । यद्वा अपः । पञ्चम्यन्तमेतत्पदम् । अपो व्याप्तादन्तरिक्षात् सकाशात् अर्णांसि प्रापय ॥ ववृत्स्व । ‘ वृतु वर्तने ' । व्यत्ययेन शपः श्लुः । लोटि रूपम् । सरण्युभिः । रण शब्दार्थः । क्विप् । समानो रणो ध्वनिर्येषां ते सरणा मन्त्राः । तानिच्छन्तः । सुपः क्यच् । 'क्यात् इति उप्रत्ययः । यद्वा ‘ सृ गतौ '।' सृयुवचिभ्योऽन्युजागूजक्नुचः' (उ, सू. ३.३६१) इत्यन्युच्प्रत्ययः । ‘रषाभ्याम् ' (पा. सू. ८. ४. १ ) इति णत्वम् । चित्त्वादन्तोदात्तः । अपः । ‘ आप्लृ व्याप्तौ । आप्नोतेः क्विप् ह्रस्वश्च' इति क्विप् धातोर्ह्रस्वश्च । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । सिसर्षि । 'सृ गतौ । छान्दसो जुहोत्यादिः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् ॥ ॥ ९ ॥
“Phased with the sacrifice, as if it was that of Manu, drink, Indra, the Soma, for the sake of perpetual vigour; come, lord of the tawny steeds, with the adorable Maruts, and with the traversers (of the air); send down the waters (of the firmament) to (blend with) the waters of the earth.”
Pleased, like a man, with our libation, Indra, drink, for enduring hero might, the Soma.
Lord of Bays, moved by sacrifice come hither: thou with the Swift Ones stirrest floods and waters.
As by Manu, o Indra, enjoying the pressing, drink the soma for manly power ever new.
Let yourself be turned hither by our sacrifices, you of the fallow bays. Along with the hastening ones, you set to running the flooding
waters,
Gleich wie ein Mensch lass dir den Soma schmecken, und trink den Saft zu stets erneuter Stärke, Durch Opfer wende her dich, Rosselenker, zu Wassers Fluten eilst du mit den schnellen.
Wie bei Manu der Trankspende dich erfreuend trink, Indra, den Soma zu voller Kraft. Laß dich, du Falbenfahrer, durch die Opfer herlenken. Du läßt die Wasserfluten mit den Eilenden laufen.
Подобно Манусу, о Индра, наслаждаясь выжиманием,
Пей сому для непрерывного (повторения) героического подвига!
Силой жертв повернись сюда, о обладатель буланых коней!
С помощью быстро текущих (Марутов) ты пускаешь течь воды, потоки.
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑ज॒: सर्त॒वाजौ । शया॑नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वम् ॥
त्वम् । अ॒पः । यत् । ह॒ । वृ॒त्रम् । ज॒घ॒न्वान् । अत्या॑न्ऽइव । प्र । असृ॑जः । सर्त॒वै । आ॒जौ । शया॑नम् । इ॒न्द्र॒ । चर॑ता । व॒धेन॑ । व॒व्रि॒ऽवांस॑म् । परि॑ । दे॒वीः । अदे॑वम् ॥
हे इन्द्र त्वं देवीः देवनशीलाः अपः परि वव्रिवांसं परित आवृत्य वर्तमानमत एव अदेवं बहूदकतयास्वच्छत्वेनाप्रतिभासमानं शयानम् एकत्र निश्चलतया वर्तमानं वृत्रं मेघं यत् यदा चरता तमुद्दिश्य वर्तमानेन वधेन युद्धेन जघन्वान् हतवानसि तदा त्वम् आजौ युद्धे सर्तवै अतिवेगगमनाय अत्यानिव यथाश्वान् प्रेरयसि तथा त्वमपः उदकान्यन्तरिक्षादाकाशात् प्रासृजः ह प्रकर्षेण मेघभेदनं कृत्वासृजः खलु । तं यजाम इत्युत्तरेणान्वयः ॥ जघन्वान् । ‘हन हिंसागत्योः ' इत्यस्य क्वसौ ' विभाषा गमहनविदविशाम् ' इतीटो विकल्पितत्वादत्र इडभावः । ‘ अभ्यासाच्च इति हकारस्य घत्वम् । प्रत्ययस्वरः । असृजः । ‘ सृज विसर्गे '। शविकरणी । यद्योगादनिघातः । सर्तवै । ' सृ गतौ' । तुमर्थे तवैप्रत्ययः । ‘ अन्तश्च तवै युगपत् ' इति धातोः प्रत्ययस्य चोदात्तत्वम् । आजौ ।' अज गतिक्षेपणयोः' । 'अज्यतिभ्यां च ' ( उ. सू . ४, ५७०) इति इण्प्रत्ययः । णित्त्वादुपधावृद्धिः । अजन्ति गच्छन्त्यस्मिन्नित्याजिर्युद्धम् । प्रत्ययस्वरः। सर्तवाजावित्यत्र संहितायाम् आयादेशे कृते तस्य लोपः शाकल्यस्य' इति यकारलोपः । सर्वविधीनां छन्दसि विकल्पितत्वात् सवर्णदीर्घत्वे कर्तव्ये यलोपो नासिद्धो भवति । सवर्णदीर्घः। शयानम् । ‘ शीङ स्वप्ने' । शानच् । अदादित्वाच्छ्पो लुक् । ङित्त्वाल्लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः । वधेन । हन्तेर्भावे ‘ हनश्च वधः' इत्यप्प्रत्ययो वधादेशश्च धातोरन्तोदात्तश्च । वव्रिवांसम्। ‘ वृञ् वरणे ' इत्यस्य क्वसौ इडागमश्छान्दसः । प्रत्ययस्वरः ॥
“Inasmuch as you have slain with active strife the slumbering, darking, water-investing Vṛtra, you have let forth the bright waters like horses (rushing) into battle.”
When thou didst loose the streams to run like racers in the swift contest, having smitten Vrtra
With flying weapon where he lay, O Indra, and, godless, kept the Goddesses encompassed.
When you sent forth the waters, like steeds to run in a contest—having smashed Vr̥tra,
who was lying still, with your moving weapon of death, o Indra, him having surrounded the goddesses, godless himself.
Die Wasser liessest rinnen du im Wettlauf wie Renner, als den Vritra du erschlagen Mit raschem Streiche, Indra, ihn, der da lag, der gottlos rings die Göttinnen gebannt hielt.
Da du die Gewässer losließest, um wie Renner im Wettkampf zu laufen, nachdem du den Vritra erschlagen hattest, o Indra, mit der beweglichen Waffe den Liegenden, den Ungott, der die göttlichen Gewässer eingeschlossen hatte.
Ведь, убив Вритру, ты выпустил воды,
Чтобы они мчались, как кони на скачках,
(Размозжив) подвижным смертоносным оружием, о Индра.
(Его,) лежащего, запрудившего кругом божественные (воды) безбожного, –
यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्रं॑ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् । यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥
यजा॑मः । इत् । नम॑सा । वृ॒द्धम् । इन्द्र॑म् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् । यस्य॑ । प्रि॒ये । म॒मतुः॑ । य॒ज्ञिय॑स्य । न । रोद॑सी॒ इति॑ । म॒हि॒मान॑म् । म॒माते॒ इति॑ ॥
नमसा हविर्लक्षणेनान्नेन वृद्धं प्रवृद्धम् अत एव बृहन्तं महान्तम् 'ऋष्वम् । ऋष्यते गम्यते स्तुतिलक्षणैर्मन्त्रैरिति ऋष्वं स्तोतव्यम् । अजरं जरारहितम् अत एव युवानं नित्यतरुणम् एवंविधम् इन्द्रं यजाम इत् । कुशिका वयं यज्ञसिद्ध्यर्थं स्तुतिवाक्यैः पूजयामः । प्रिये प्रियतमे अपरिमिते रोदसी द्यावापृथिव्यौ यज्ञियस्य यज्ञार्हस्य यस्य इन्द्रस्य तव महिमानं वैभवं न ममतुः न परिच्छेत्तुं शक्नुतः । न ममाते इति द्वितीयं क्रियापदमादरार्थम् ॥ यजामः । यजेर्लटि रूपम् । ऋष्वम् । ‘ ऋषी गतौ'। ‘ सर्व निघृष्वऋष्व' ' इत्यादिना वप्रत्ययान्तो निपातितः । प्रत्ययस्वरः । प्रिये । ‘ ईदूदेत्' इति प्रगृह्यसंज्ञा । ममतुः । ‘ मा माने ' इत्यस्य लिट्यतुसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । महिमानम् । महिशब्दात् तस्य भावः इत्यर्थे पृथ्वादित्दिवामनिच् । चित्स्वरः । ममाते । ‘माङ् माने शब्दे च ' इत्यस्य लिट्यातामि रूपम् ॥
“Therefore we sacrifice with reverence to the vast and mighty Indra, who is adorable, undecaying, young; whose magnitude the unbounded heaven and earth have not measures, nor can measure.”
With reverence let us worship mighty Indra, great and sublime, eternal, everyouthful,
Whose greatness the dear world-halves have not measured, no, nor conceived the might of him the Holy.
Let us sacrifice to Indra, increased through homage, lofty and towering, unaging and youthful,
whose greatness the two dear world-halves measured, but did not measure up to the greatness of him worthy of the sacrifice.
Lasst dehmuthsvoll den Indra uns verehren, den hohen, grossen, hehren, ewig jungen, Dess Grösse beide liebe Welten massen, doch nicht ermassen, dess der hoch zu ehren.
So verehren wir unter Verbeugung den erstarkten Indra, den hohen, reckenhaften, alterlosen, jugendlichen Indra, den opferwürdigen, dessen Größe beide lieben Welten gemessen, aber nicht ermessen haben.
Вот мы и почитаем поклонением усилившегося Индру,
Высокого, выдающегося, нестареющего юношу, –
У него, достойного жертв, обе милые половины вселенной
Мерили величие (и) не измерили.
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ । दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसा॑: ॥
इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । व्र॒तानि॑ । दे॒वाः । न । मि॒न॒न्ति॒ । विश्वे॑ । दा॒धार॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान॑ । सूर्य॑म् । उ॒षस॑म् । सु॒ऽदंसाः॑ ॥
विश्वे सर्वे देवाः इन्द्रस्य तव कर्म कर्माणि सुकृता सुकृतानि सुष्ठु निर्मितानि पृथिव्यादीनि पुरूणि बहूनि व्रतानि यज्ञादीनि च न मिनन्ति । एतानि सर्वाणि तव कर्माणि न हिंसन्ति । किंत्वाद्रियन्ते । किंच यः अयमिन्द्रः पृथिवीं भूलोकं द्यां द्युलोकम् उत अपि च इमाम् इममन्तरिक्षलोकं च एतांस्त्रीन् लोकान् दाधार । 'सुदंसाः सुकर्मा शोभनकर्मा सन्निन्द्रः सूर्यं लोकप्रकाशकमादित्यम् उषसम् अग्निहोत्रादिकर्मनिर्वाहकमुष:कालं जजान उत्पादयामास । ‘ इन्द्रस्य कर्म सुकृता पुरूणि ' इत्येतत्पदकदम्बकम् ‘ एको द्वे वसुमती' इत्यस्मिन् वर्गे पठितम् (ऋ. सं. ३.३०, १३)। अत्रापि तदेव पठ्यते किमिति पदकाले नोत्सृज्यत इति चेन्न । वाक्यभेदात् । तत्र ‘इन्द्रस्य कर्म सुकृता पुरूणि ' इत्येकं वाक्यम् । अत्र तु ' कर्म सुकृता ' इत्येकं वाक्यं पुरूणि व्रतानि ' इत्यपरम् । किंच तत्रत्यं पदकदम्बकं प्रथमान्तम् अत्रत्यं द्वितीयान्तम् । अतो वाक्यभेदात् विभक्तिभेदाच्च पदकाले नोत्सृज्यते ॥ मिनन्ति । 'मीञ् हिंसायाम्' इत्यस्य लटि रूपम् । निघातः । दाधार । ‘ धृञ् धारणे ' इत्यस्य लिटि रूपम् । तुजादित्वात् अभ्यासस्य दीर्घः । लित्स्वरः । जजान । जन जनने ' इत्यस्यान्तर्भावितण्यर्थस्य लिटि रूपम् । लित्स्वरः । सुदंसाः । ‘ सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् ॥
“All the gods cannot detract from the many glorious exploits, and pious works of Indra; he who has upheld earth, and heaven, and the firmament, and who, the performer of great deeds, has engendered the sun and the dawn.”
Many are Indra's nobly wrought achievements, and none of all the Gods transgress his statutes.
He beareth up this earth and heaven, and, doer of marvels, he begot the Sun and Morning.
Many are the well-done deeds of Indra. The All Gods do not violate the commandments (of him),
who upholds earth and this heaven. Of wondrous power, he begot the sun and the dawn.
Viel sind des Indra schön vollbrachte Werke; die Götter alle stören sein Gesetz nicht, Der diesen Himmel und die Erde festhielt und herrlich schuf die Sonn' und Morgenröthe.
Des Indra viele Werke sind wohlgetan. Alle Götter verfehlen nicht seine Gebote, der die Erde und diesen Himmel gefestigt hat; der Guteswirkende hat die Sonne, die Morgenröte erzeugt.
Прекрасно исполнены многочисленные деяния Индры.
Все боги не нарушают заветов того,
Кто держит землю и это небо.
(Он) породил солнце, утреннюю зарю, (бог,) с замечательными чудесами.
अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् । न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासा॑: श॒रदो॑ वरन्त ॥
अद्रो॑घ । स॒त्यम् । तव॑ । तत् । म॒हि॒ऽत्वम् । स॒द्यः । यत् । जा॒तः । अपि॑बः । ह॒ । सोम॑म् । न । द्यावः॑ । इ॒न्द्र॒ । त॒वसः॑ । ते॒ । ओजः॑ । न । अहा॑ । न । मासाः॑ । श॒रदः॑ । व॒र॒न्त॒ ॥
अद्रोघ द्रोहवर्जित हे इन्द्र तव तन्महित्वं तादृशं माहात्म्यं सत्यं यथार्थम् । यत् यस्मात् जातः उत्पन्नः सद्यः तदानीमेव सोमम् अस्माभिर्दीयमानं सोमरसम् अपिबः । ह प्रसिद्धौ । किंच तवसः बलवतः ते तव ओजः सामर्थ्यं द्यावः दिवः दिवोपलक्षिताः सर्वे लोकाः न वरन्त न वारयन्ति । किंच अहा प्रतिपदादीन्यहानि न वारयन्ति । तथा मासाः चैत्राद्याः शरदः संवत्सराश्च तव सामर्थ्यं न वारयन्ति। किंतु तव सामर्थ्यमनुसृत्य सर्वे वर्तन्त इति भावः ॥ अद्रोघ ।' आमन्त्रितस्य च ' इति षाष्ठिकमाद्युदात्तत्वम् । अपिबः । यद्योगादनिघातः । मासाः । ‘ मसी परिमाणे ' । मस्यते परिमीयते त्रिंशता दिनैरिति मासः । कर्मणि घञ् । ञित्वादाद्युदात्तः । शरदः । ‘शॄ हिंसायाम् ' इत्यस्मात् शॄदॄभसोऽदिः' इत्यधिकरणेऽदिप्रत्ययः । शीर्यन्तेऽस्यां तृणगुल्मवनस्पतीनां तेजांसीति शरत् । प्रत्ययस्वरः । वरन्त । ‘ वृञ् वरणे ' । अन्तर्भावितण्यर्थोऽत्र निवारणे वर्तते । भौवादिकः । छान्दसे लङि रूपम् । निघातः ॥
“Doer of no wrong, such was your true greatness, that as soon as born, you have quaffed the Soma; neither the heavens, nor days, nor months, nor years, resist the force of you who is mighty.”
Herein, O Guileless One, is thy true greatness, that soon as born thou drankest up the Soma.
Days may not check the power of thee the Mighty, nor the nights, Indra, nor the months, nor autumns.
Undeceptive one, this greatness of yours is truly real: because, just born, you drank the soma,
not the heavens, Indra, nor the days, nor the months and years could obstruct the strength of you, the powerful one.
Trugloser, das ist wahrhaft deine Grösse, dass kaum geboren schon du Soma trankest; Nicht Himmel hemmen deine Macht, des starken, nicht Tag', o Indra, Monde nicht, noch Jahre.
Du Trugloser! Diese deine Größe ist wahrhaft, daß du eben geboren sogleich den Soma trankst. Weder die Tage, noch Tage und Nächte, noch die Monate und Herbste tuen deiner, des Kräftigen, Stärke Einhalt, o Indra.
О не знающий обмана, истинно твое величие, (состоящее) в том
Что едва родившись, ты сразу стал пить сому.
Ни дни, о Индра, ни дни и ночи, ни месяцы,
Ни осени не сдерживали силы у тебя, могучего.
त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् । यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥
त्वम् । स॒द्यः । अ॒पि॒बः॒ । ज॒तः । इ॒न्द्र॒ । मदा॑य । सोम॑म् । प॒र॒मे । विऽओ॑मन् । यत् । ह॒ । द्यावा॑पृथि॒वी इति॑ । आ । अवि॑वेशीः । अथ॑ । अ॒भ॒वः॒ । पू॒र्व्यः । का॒रुऽधा॑याः ॥
हे इन्द्र सद्यः तदानीमेव जातः परमे व्योमन् उत्तमे स्थाने स्थितः त्वं मदाय हर्षाय सोमम् अपिबः । यत् यदा त्वं द्यावापृथिवी द्यावापृथिव्यौ आविवेशीः ह आ समन्तात् भृशं प्रविष्टोऽसि खलु । अथ अनन्तरं पूर्व्यः पुरातनः सन् कारुधायाः कर्मणां विधाता अभवः खलु । व्योमन् । अव रक्षणगत्यादिषु । विपूर्वस्यावतेः ' नामन् सीमन्' इत्यादिना मनिन् । ज्वरत्वर' इत्यादिना ऊठ् । विशेषेणौम व्याप्तिर्यस्य तत् । ‘सुपां सुलुक्' इत्यादिना सुपो लुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । आविवेशीः । ‘ विश प्रवेशने ' इत्यस्य यङ्लुकि लङि सिपि यङो वा' इतीडागमः । ‘ इतश्च' इति सिप इकारलोपः । यद्योगादनिघातः । कारुधायाः । कारुः । करोतेः कृवापाजिमिस्वदिसाध्यशूभ्य उण्प्रत्ययः । णित्वााःत् वृद्धिः । दधातेः ‘वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन्। णित्' इत्यनुवृत्तेः ' आतो युक् चिण्कृतोः' इति युगागमः । समासे गति कारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति सूत्रात् पूर्वपदप्रकृतिस्वरः ॥ ॥ १० ॥
“As soon as born in the highest heaven, you have quaffed, Indra, the Soma for your exhilaration; and when you had pervaded the heaven and earth, you became the primary artificer (of creation).”
As soon as thou wast born in highest heaven thou drankest Soma to delight thee, Indra;
And when thou hadst pervaded earth and heaven thou wast the first supporter of the singer.
You, Indra, just born, drank the soma for exhilaration in the highest distant heaven.
After you had entered heaven and earth, then you became the first to suckle the bard.
Geboren kaum, im höchsten Himmel, trankest den Soma du, zum Rausche dir, o Indra; Als du hinein in beide Welten drangest, da warst du schon der alte Hort der Sänger.
Du trankst, eben geboren, sogleich den Soma im höchsten Himmel zum Rausche, o Indra. Als du in beide Welten eingezogen warst, da wurdest du der erste Brotgeber der Dichter.
Ты сразу стал пить сому, едва родившись, о Индра,
Для опьянения на высшем небе.
Когда же ты проник в небо и на землю,
То стал ты первым кормильцем певцов.
अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् । न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑ क्षामव॑स्थाः ॥
अह॒न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । ओ॒जा॒यमा॑नम् । तु॒वि॒ऽजा॒त॒ । तव्या॑न् । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः ॥
तुविजात । बहूनि जातानि पृथिव्यादीनि यस्मात सोऽयं तुविजातः । हे तुविजात इन्द्र तव्यान् अतिशयेन प्रवृद्धस्त्वम् अर्णः परिशयानम् उदकं परितः शयानमुदकमन्तः कृत्वा परितो वर्तमानमत एव ओजायमानं बलमाचरन्तम् अहिम् । आ समन्ताद्धन्ति अपहरत्युदकमित्यहिर्मेघः । तमिमं मेघम् अहन् उदकप्रेरणाय हतवानसि । अध अथ ते 'महित्वं महिमानं द्यौः न अनु भूत् नानुभवति न जानाति । यत् यस्मात् त्वम् अन्यया एकतरया स्फिग्या कट्या क्षां भूमिम् अवस्थाः अवच्छाद्य तिष्ठसि ॥ अहन् । हन्तेः लङि सिब्लोपे' रूपम्। अहिम् । हन हिंसागत्योः । ‘ आङि श्रिहनिभ्यां ह्रस्वश्च ' इति इण्प्रत्ययः डिच्च पूर्वपदस्य” ह्रस्वश्च । वृषादित्वात् आद्युदात्तत्वम्। ओजायमानम् । ओजःशब्दादाचारार्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ्प्रत्ययः सलोपश्च । ङित्वादात्मनेपदम् । प्रत्ययस्वरः । तव्यान् । तु इति सौत्रो धातुः । अस्मात् तृजन्तात् ‘तुश्छन्दसि ' इतीयसुन् । ‘तुरिष्ठेमेयःसु ' इति तृचो लोपः । भसंज्ञायामोर्गुणः । इकारलोप-श्छान्दसः । नित्स्वरः । भूत् । भवतेर्लुङि रूपम् । स्फिग्या । 'यचि भम्' इति भसंज्ञायाः बाधितत्वात् 'स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञायां जश्त्वम् । तृतीयायाः पूर्वसवर्णः । क्षाम् । ‘क्षि निवासगत्योः । ‘ अन्येभ्योऽपि दृश्यते' इति निरुपपदादपि डप्रत्ययः । ततष्टाप् । क्षियन्ति निवसन्त्यस्यां प्राणिन इति क्षा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः। अवस्थाः। ‘वस आच्छादने' इत्यस्य लङि अनुदात्तत्वात् आत्मनेपदम् । थासि अदादित्वाच्छपो लुक् । यद्योगादनिघातः । अडागमस्वरः ॥
“Indra, from whom many are born; you who is vigorous have slain Ahi, enveloping the slumbering water and confiding in his prowess; yet the heaven apprehended not your greatness as you remained concealing the earth by on eof your flames.”
Thou, puissant God, more mighty, slewest. Ahi showing his strength when couched around the waters.
The heaven itself attained not to thy greatness when with one hip of thine the earth was shadowed.
You smashed the serpent lying around the flood, displaying its strength—you powerfully born, as more powerful (than he).
Heaven did not come close to your greatness then, when you wore the earth on the other hip.
Du schlugst die Schlange, die die Flut umringte die mächt'ge stärker du, o kraftgeborner; Nicht kam der Himmel gleich da deiner Grösse, als du die Erd' mit einer Hüfte decktest.
Du erschlugst den Drachen, der die Flut umlagerte, der sich stark fühlte, du Starkgeborener als der Stärkere. Nicht kam da der Himmel deiner Größe gleich, als du mit der anderen Hüfte die Erde bedecktest.
Ты убил змея, лежащего вокруг потока,
Играющего силой, о рожденный силой, (ты,) который еще сильнее.
Не могло сравниться небо с твоим величием,
Когда одним бедром ты накрыл землю.
य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येध॑: । य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञिय॒: सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥
य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध॑नः । भूत् । उ॒त । प्रि॒यः । सु॒तऽसो॑मः । मि॒येधः॑ । य॒ज्ञेन॑ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः॑ । सन् । य॒ज्ञः । ते॒ । वज्र॑म् । अ॒हि॒ऽहत्ये॑ । आ॒व॒त् ॥
हे इन्द्र अस्मदीयोऽयं यज्ञः ते तव वर्धनः हविष्प्रदानेन वर्धयिता भूत् हि भवति खलु। उत अपि च सुतसोमः अभिषुतसोमवान् मियेधः सारभूतोऽयं यज्ञः तव प्रियः । स त्वं यज्ञियः यज्ञार्हः सन् 'यज्ञं यज्ञस्य कर्तारं यजमानं यज्ञेन अनुष्ठीयमानेनानेन अव फलप्रदानेन रक्ष। किंचायं यज्ञः ते तव वज्रमहिहत्ये वृत्रहनने कर्मणि आवत् रक्षतु ॥ वर्धनः । वृधु वर्धने ' इत्यस्य ण्यन्तस्य नन्द्यादित्वात् ल्युप्रत्ययः । लित्स्वरः । भूत् । हियोगादनिघातः । अव । अवतेर्लोटि रूपम् । निघातः । सन् । असेः शतरि रूपम् । प्रत्ययस्वरः । अहिहत्ये । हन हिंसागत्योः । इत्यस्य भावे ‘हनस्त च ' इति क्यप् तकारश्चान्तादेशः । कृदुत्तरपदस्वरः । आवत् । अवतेश्छान्दसे लहङि रूपम् । निघातः ॥
“This our sacrifice, Indra, is your augmentation, for the rite in which the Soma is effused is acceptable to you do you who is deserving of worship protect the worshipper by (the efficacy of) the worship, and may this sacrifice strengthen your thunderbolt for the slaying of Ahi.”
Sacrifice, Indra, made thee wax so mighty, the dear oblation with the flowing Soma.
O Worshipful, with worship help our worship, for worship helped thy bolt when slaying Ahi.
Since the sacrifice has become your strengthener, Indra, and the dear ritual meal of pressed soma also, aid sacrifice upon sacrifice, being the one who deserves the sacrifice; the sacrifice aided your mace in the serpent-smashing.
Denn dir, o Indra, war das Opfer Stärkung und die geliebte somareiche Speise; O opferwerther, Opfer nimm auf Opfer; das Opfer half dem Blitz beim Drachenkampfe.
Denn das Opfer wurde für dich, o Indra, stärkend und lieb ist dir das Opfermahl, bei dem der Soma ausgepreßt wird. Begünstige Opfer um Opfer, der du opferwürdig bist! Das Opfer half deiner Keule im Drachenkampf.
Ведь жертва была для тебя, о Индра, средством усиления,
И приятна тебе жертвенная пища из выжатого сомы.
Помогай жертве за жертвой, (ты,) что достоин жертв.
Жертва помогла твоей ваджре при убийстве змея.
य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् । यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥
य॒ज्ञेन॑ । इन्द्र॑म् । अव॑सा । आ । च॒क्रे॒ । अ॒र्वाक् । आ । ए॒न॒म् । सु॒म्नाय॑ । नव्य॑से । व॒वृ॒त्या॒म् । यः । स्तोमे॑भिः । व॒वृ॒धे । पू॒र्व्येभिः॑ । यः । म॒ध्य॒मेभिः॑ । उ॒त । नूत॑नेभिः ॥
हे इन्द्र सर्वो यजमानः अवसा स्वरक्षकेण यज्ञेन इन्द्रं त्वाम् अर्वाक् आ चके हविष्प्रदानेनाभिमुखं करोति । तथाहं नव्यसे नवतराय सुम्नाय धनाय एनं त्वाम् आ ववृत्याम् यज्ञेनावृत्तं मदभिमुखं कुर्याम् । कीदृशस्त्वम् । यः पूर्व्येभिः पुरातनैः स्तोमेभिः स्तोत्रैः ववृधे । तथा यः इन्द्रः मध्यमेभिः मध्ये भवैः स्तोत्रैः उत अपि च नूतनेभिः अस्माभिः क्रियमाणैः अधुनातनैः स्तोत्रैर्वर्धते । चक्रे । करोतेर्लिटि रूपम् । नव्यसे । नवशब्दादीयसुनि भसंज्ञायामकारलोपे ईकारलोपश्छान्दसः । नित्त्वदाद्युदात्तः । ववृत्याम् । ‘वृतु वर्तने '। लिङि' बहुलं छन्दसि ' इति शप: श्लुः । व्यत्ययेन परस्मैपदम् । निघातः । ववृधे । ' वृधु वर्धने ' इत्यस्य लिटि रूपम् । प्रत्ययस्वरः । मध्यमेभिः । मध्यशब्दात् शैषिकार्थे मध्यान्मः' ( पा. सू. ४. ३. ८) इति मप्रत्ययः । प्रत्ययस्वरः । नूतनेभिः । नवशब्दस्य ' त्नप्तनन्खाश्च प्रत्यया वक्तव्या नृ इत्यादेशश्च' ( पा. म. ५, ४. ३०.६ ) इति तन-न्र्सत्ययो नू इत्यादेशश्च ॥
“The worshipper, by his conservatory sacrifice, has made Indra present; may Ibring him to my presence to obtain new wealth, him who has been exalted by praise, whether ancient, medieval, or recent.”
With sacrifice and wish have I brought Indra; still for new blessings may I turn him hither,
Him magnified by ancient songs and praises, by lauds of later time and days yet recent.
With the sacrifice as aid I (previously) brought Indra nearby with his aid. May I turn him hither for newer favor,
him who was strengthened by previous praises, who by midmost ones and by the present ones.
Durch Lied und Opfer schafft' ich her den Indra, zu neuer Gunst will ich ihn herwärts wenden, Der kräftig ward durch alte Lobgesänge, durch mittlere und durch die allerneusten.
Durch das Opfer habe ich früher den Indra samt seiner Hilfe hierher gebracht. Zu neuer Huld möchte ich ihn herlenken, der sich an den früheren Preisliedern erbaut hat, der an den mittleren und neuesten.
Жертвой я привлек сюда Индру (с его) помощью.
Я хочу подвигнуть его на новую милость,
(Того,) кто усилился древними восхвалениями,
Кто средними, а также нынешними.
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्न॑: । अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥
वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ । अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥
यत् यदा धिषणा इन्द्रं स्तवानीति मदीया बुद्धिर्मां विवेष व्याप्नोत् तदाहं स्तोत्रं जजान करोमि । बुद्धेः स्वरूपं दर्शयति । अहं पार्यात् पारे भवादतिदूरवर्तिनः विघ्नकारिणः अह्नः पुरा पूर्वं स्तवै स्तवानि । यत्र यस्यां धिषणायामेव जातायां सत्यां स इन्द्रः नः अस्मान् अंहसः पापरूपाद्दारिद्र्यात् यथा पीपरत् यथा पारं नयेत् तथास्मदुभयपार्व्“वर्तिधनार्थिनो जनाः हवन्ते आह्वयन्ति । तत्र दृष्टान्तः। नावेव यान्तम् । यथा नद्यादिषु नौकया यान्तं गच्छन्तं पुरुषम् उभये उभयकूलवर्तिनः जना हवन्ते आह्वयन्ति तद्वत् ॥ विवेष । ' विष्लृ व्याप्तौ' इत्यस्य लिटि णलि रूपम् । लित्स्वरः । जजान ।' जन जनने 'इत्यस्य लिट्युत्तमे णलि रूपम् । वाक्यभेदात् अनिघातः । अंहसः । अम गत्यादिषु । ' अमेर्हुक् च ' (उ, सू. ४, ६५२ ) इत्यसुन्प्रत्ययो हुगागमश्च । नित्स्वरः । पीपरत् । पॄ पालनपूरणयोः ' इत्यस्य लुङि चङि ह्रस्वाभ्यासेत्वदीर्घगुणाः । यथायोगादनिघातः । लित्स्वरः । नावेव । नुद प्रेरणे' इत्यस्मात् ' ग्लानुदिभ्यो डौः ' ( उ. सू. २, २२ ) इति डौप्रत्ययः । नुद्यत इति नौः प्लवः । सावेकाचः ० ' इति तृतीयाया उदात्तत्वम् । ‘ इवेन नित्यसमासः विभक्त्यलोपः० ' इत्यादि । उभये । उभशब्दात् परस्य तयपः ‘ उभादुदात्तो नित्यम् ' ( पा. सू. ५, २, ४४ ) इत्ययजादेशः । वचनसामर्थ्यादादेः उदात्तत्वम् । हवन्ते । ह्वयतेर्लटि रूपम् ॥
विवेषेति। यद्यस्मात्कारणाद्धिषणा पूर्वोक्ता बुद्धिर्मां विवेष व्याप्तवती तस्मादहं सुबुद्धिर्जजान जातवानस्मि। एत एव पार्यादह्नः पुरोत्तमान्मरणादि वसात्पुरा त्वां स्तवै, आमरणं स्तवानीत्यर्थः। यत्र यस्यां धिषणायां सत्यामि न्द्रोऽस्मानंहसः पापात्पीपरदुत्तारितवान्सा धिषणा विवेषेत्यन्वयः। अथवा यत्राहन्यस्मानंहसः पारयति तस्मात्पार्यादह्नः पुरा स्तवा इत्यन्वयः। यथा लोके नावा नद्यां यान्तं नाविकमुभये कुलद्वयवर्तिनो हवन्ते मामुत्तारयेत्पाह्वयन्ति तथैवांहसो मुक्तानस्मानुभयकूलप्रभवा आह्वन्तीत्यर्थः।
“When the thought of glorifying Indra entered my mind, then I gave birth (to his praises); may I laud him before encountering distant (evil) days, whereby he may guide us beyond sin; for those on both sides of us invoke him, as (those on either bank of a river hail) a passenger in a boat.”
I have brought forth a song when longing seized me: ere the decisive day will I laud Indra;
Then may lie safely bear us over trouble, as in a ship, when both sides invocate him.
That to which Dhisana impelled me have I produced;
I shall praise Indra before the decisive day;
Him that goeth as with a ship
Both parties invoke that there he may rescue us.
She labored when she begot me [=poet]—the Holy Place [=Earth? ritual ground?]. I shall praise Indra before the decisive day,
so that at that time he (will) carry us across (to the far shore) of
constraint, as if with a boat. Both (sides) call upon him as he travels.
Wenn mich der Trunk ergriffen und erregt hat, dann preis' ich Indra vor dem Tag der Hauptschlacht, Dass aus der Noth er uns hinüberfahre, wie auf dem Schiff; ihn rufen beide Schlachtreih'n.
Wenn die Dhisana mich erfüllt, neu geboren hat, will ich den Indra vor dem entscheidenden Tage preisen, auf daß er uns an diesem aus der Not heraushelfe. Ihn rufen beide Teile an wie den zu Schiffe Fahrenden.
Если меня охватила Дхишана, (воз)родила (меня),
Я хочу восхвалять Индру до (того) решающего дня,
Чтобы он спас нас тогда от узости.
Обе (стороны) взывают к нему, как (стоящие на берегу) - к тому, кто едет на лодке.
आपू॑र्णो अस्य क॒लश॒: स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै । समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥
आपू॑र्णः । अ॒स्य॒ । क॒लशः॑ । स्वाहा॑ । सेक्ता॑ऽइव । कोश॑म् । सि॒सि॒चे॒ । पिब॑ध्यै । सम् । ऊँ॒ इति॑ । प्रि॒याः । आ । अ॒व॒वृ॒त्र॒म् । मदा॑य । प्र॒ऽद॒क्षि॒णित् । अ॒भि । सोमा॑सः । इन्द्र॑म् ॥
हे इन्द्र अस्य तव पानार्थं कलशः द्रोणकलशः सोमेन आपूर्णः । स्वाहा' स्वाहाकृतो दत्तश्च सोमसहितः कलशः पिबध्यै तव पानार्थं सिसिचे तं सोमं चोदिताधारे सिञ्चामि। तत्र दृष्टान्तः । कोशं सेक्तेव । यथा सेक्ता सेचकः जलपूर्णात् कोशात् दृतेः सकाशात् जलं पात्रान्तरे सिञ्चति तद्वत् । प्रियाः स्वादुतमाः सोमासः दत्तास्ते सोमाः इन्द्रं त्वाम् अभि अभिलक्ष्यैव मदाय तव हर्षार्थं प्रदक्षिणित् प्रादक्षिण्येन सम् आववृत्रन् सम्यगावृत्य वर्तन्ताम् ॥ आपूर्णः। पॄ पालनपूरणयोः' इत्यस्य कर्मणि निष्ठा । ‘रदाभ्याम्' इति तस्य नत्वम् । ‘गतिरनन्तरः' इति गतिस्वरः । स्वाहा । निपातत्वादाद्युदात्तः । सेक्तेव कोशम्। 'न लोकाव्यय' इति षष्ठीप्रतिषेधः । सिसिचे । ‘षिच क्षरणे' इत्यस्य लिटि रूपम् । पिबध्यै । ‘पा पाने' इत्यस्य तुमर्थे शध्यैन्प्रत्ययः। शित्त्वात् पिबादेशः । नित्त्वादाद्युदात्तः। आववृत्रन्। ‘वृतु वर्तने' इत्यस्य लङि शप् । 'बहुलं छन्दसि' इति तस्य शपः श्लुः । व्यत्ययेन परस्मैपदम् । 'बहुलं छन्दसि ' इति झे रुडागमः ॥
“The vase is filled for him (with Soma); welcome Indra; I pour it out for you to drink, as a water-carrier (pours water) from his bag; may the grateful Soma flow in reverence round Indra for his exhilaration.”
Full is his chalice: Glory! Like a pourer I have filled up the vessel for his drinking.
Presented on the right, dear Soma juices have brought us Indra, to rejoice him, hither.
His (soma) tub is filled—hail! As a man pours out a bucket, I have poured (for him) to drink.
And the dear soma drinks have together turned him here with
respectful circumambulation, to exhilarate Indra.
Sein Becher ist ganz angefüllet – Heil ihm – dem Giesser gleich ergoss das Fass zum Trunk er, Die lieben Tränke wogten hin zu Indra zum Rausch zusammen, rechter Hand, sich wendend.
Aufgefüllt ist für ihn die Kufe. Wohl bekomm´s! Wie ein Wasser Schöpfender habe ich den Eimer zum Trinken ausgegossen. Die lieben Soma´s sind von der rechten Seite dem Indra genaht, daß er sich daran berausche.
Наполнена его чаша – Свага!
Словно водолей, я налил ведро для питья.
Приятные соки сомы все вместе повернули
Направо к Индре, чтобы он опьянялся.
न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑य॒: परि॒ षन्तो॑ वरन्त । इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ॥
न । त्वा॒ । ग॒भी॒रः । पु॒रु॒ऽहू॒त॒ । सिन्धुः॑ । न । अद्र॑यः । परि॑ । सन्तः॑ । व॒र॒न्त॒ । इ॒त्था । सखि॑ऽभ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु॑जः । गव्य॑म् । ऊ॒र्वम् ॥
हे पुरुहूत इन्द्र गभीरः सिन्धुः समुद्रः त्वा त्वां न वारयति । ततः परि परितः वर्तमाना: सन्तः अद्रयः शैलास्त्वां न वरन्त न वारयन्ति । किंतु त्वामनुसृत्य वर्तन्ते । यत् यस्मात् इत्था इत्थमनेन प्रकारेण सखिभ्यः सखिभिर्देवैः इषितः प्रार्थितः त्वं दृळ्हं चित् अतिप्रबलमपि गव्यं गवि भवम् अवटे वर्तमानम् ऊर्वम् ऊर्वानलम् आ अरुजः सम्यगभाङ्क्षीः ॥ गभीरः । ‘गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च' । अस्मात् ईरच्प्रत्ययः' । धकारस्य भकारः आकारस्य ह्रस्वश्च ‘ गभीरगम्भीरौ ' ( उ. सू. ४. ४७५) इत्यनेन निपात्यते । चित्स्वरः । सिन्धुः । ‘ स्यन्दू प्रस्रवणे । ‘ स्यन्देः संप्रसारणं धश्च' इत्युप्रत्ययः संप्रसारणं दकारस्य धकारः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तः । परिषन्तः । सन्तः । अस्तेः शतरि रूपम्। उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' इति षत्वम् । केचित् परेः' क्रियान्वयम् इच्छन्ति । तदा षत्वमनुपपन्नम् । परि। निपातस्वरः । सन्तः। प्रत्ययस्वरः । वरन्त । वृञ् वरणे । भौवादिकः । लङि रूपम् । निघातः । अरुजः । ‘ रुजो भङ्गे' इत्यस्य लङि रूपम् । गव्यम् । गोर्विकार इत्यर्थे ' गोपयसोर्यत्' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् ॥
“Invoked of many, the deep ocean arrests you not, nor do the accompanying mountains (stay you); and therefore, summoned by your friends, you have repressed the strong flame abiding in the abyss.”
Not the deep-flowing flood, O Much-invoked One! not hills that compass thee about restrain thee,
Since here incited, for thy friends, O Indra, thou breakest e'en the firm built stall of cattle.
Not the deep river nor the surrounding peaks could obstruct you, much-invoked one,
when impelled just so from your comrades, Indra, you broke into the cattle enclosure though it was firmly fastened.
Nicht hielt dich auf das tiefe Meer, nicht Felsen, auch wenn sie dich umschlossen, vielgerufner, So oft du eilend deinen Freunden, Indra, den festverschlossnen Stall der Kühe aufbrachst.
Nicht hielten dich der tiefe Strom, noch die Felsen, die im Wege standen, auf, du Vielgerufener, als du darum zur Eile getrieben für die Freunde die doch so fest verschlossene Rinderhöhle erbrachst, o Indra.
. Ни глубокая река, о многопризываемый,
Ни бывшие на пути горы не удержали тебя,
Когда так воодушевленный, о Индра, ради друзей
Ты проломил очень твердую пещеру с коровами.
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भर सङ्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमानां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राधि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्चेतारं त्वामूतये रक्षनाय वयमाह्वयेम ॥ शुनं ॥ टुओश्वि गतिवृद्ध्योरित्यस्य निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृशादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षने । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्चितम् । जि जये । क्विप् ॥ १७ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in this fight where spoil is gathered,
The Strong who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heile, den männlichsten in diesem Kampf um Beute, Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного – для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!