प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने । गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥
प्र । पर्व॑तानाम् । उ॒श॒ती इति॑ । उ॒पऽस्था॑त् । अश्वे॑इ॒वेत्यश्वे॑ऽइव । विसि॑ते॒ इति॒ विऽसि॑ते । हास॑माने॒ इति॑ । गावा॑ऽइव । शु॒भ्रे इति॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । विऽपा॑ट् । शु॒तु॒द्री । पय॑सा । ज॒वे॒ते॒ इति॑ ॥
पर्वतानां गिरीणां शैलानामुपस्थादुत्सङ्गान्निर्गत्योशती समुद्रगमनं कामयमाने । गमने दृश्टान्तः । अश्वे इव । यथा विषिते मन्दुरातो विमुक्ते हासमाने अन्योन्यजवेन स्पर्धमाने । यद्वा हृष्यन्त्यावश्वे इव वडवे इव त्वरया गच्छन्त्यौ परस्परम् हृष्यन्तौ । तथा गावेव शुभ्रे । यथा द्वौ गावौ शोभमानौ वर्तते तद्वच्छुभ्रे शोभमाने । किञ्च मातरा । यथा मातरौ धेनू रिहाणे । अन्तर्णीतसनर्थो लिहिः । वत्सं जिह्वया लेढुमिच्छन्तौ शीघ्रं गच्छतस्तद्वत्समुद्रं गन्तुं जवाद्गच्छन्तौ पयसा संयुक्ते विपाट् । कूलविपाटनात् विपाशनाद्वा विमोचनाद्वाविपाट् । शुतुद्री । शु क्षिप्रं तु तुन्ना तुन्नेव द्रवति गच्छतिति शुतुद्री । एतन्नामके नदौ प्र जवेते । समुद्रं [रतो स्जोग्ज्र गच्छतझ् । अत्रनिरुक्तम् । पर्वतानामुपस्थादुपस्थानादुशतौ कामयमाने अश्वे इव विमुक्ते इति वा विशण्णे इति वा हासमाने हासतिः स्पर्धायां हर्षमाणेवा गावाविव शुभ्रे शोभने मातरौ संरिहाणे विपाट् छुतुद्र्यौ पयसा प्रजवेते । नि. ९-३९ । इति ॥ उशती । वश कान्तौ । अस्य शतुर्ङित्त्वाद्ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । विशिते । शिञ् बन्धन इत्यस्य कर्मणि निष्ठा । संहितायां परिनिविभ्यः सेवसितसयसिवुसहेत्यादिना । पा. ८-३-७० ॥ शत्वम् । गतिरनन्तर गतेः प्रकृतिस्वरः । हासमाने । हासतिः स्पर्धाकर्मा हसे हसने वा । शानच् । तस्य लसार्वधातुकस्वरे कृते धातुस्वरः । रिहाणी । लिह आस्वादने । स्वरितेत्त्वादुभयपदी । शानच् । आदादित्त्वाच्छपो लुक् । लकारस्य रेफश्छान्दसः । रेफमवलम्ब्य णत्वम् । चित्त्वादन्तोदात्तः । विपाट् । पट गतौ प्श बाधन स्पर्शनयोरिति वा ण्यन्तावेतौ विपूर्वौ । शकारस्य व्रश्चादिना शत्वम् । शुतुद्री । छान्दसी रूपसिद्धिः । जवेते । जुङ् गतौ । भौवादिकः । ङित्त्वादात्मनेपदम् । आतो ङित इतीयादेशः । निघातः ॥ १ ॥
“Rushing from the flanks of the mountains, eager (to reach the sea) like two mares with loosened reins contending (with each other in speed), like two fair mother cows (hastening) to caress (their calves), the Vipās' and Śutudri, flow readily with (united) waterṣ ”
FORTH from the bosom of the mountains, eager as two swift mares with loosened rein contending,
Like two bright mother cows who lick their youngling, Vipas and Sutudri speed down their waters.
Forth from the lap of the mountains, eager, racing with each other like two mares unloosed,
resplendent, licking each other like mother cows (their calves), the Vipāś and Śutudrī (rivers) speed with their milk.
Vom Schooss der Berge eilen lustig vorwärts im Wettlauf wie zwei lossgelassne Stuten, Wie schmucke Kühe, wie zwei Mütter kosend, Vipāç und Çutudrī mit ihrer Milchflut.
Aus der Berge Schoße stürzten begierig wie zwei losgebundene Stuten um die Wette laufend, leckend wie zwei schmucke Mutterkühe, Vipas und Sutudri mit ihrer Milchflut hervor.
Из лона гор жадно спешат вперед,
Словно две отвязанные кобылицы, мчащиеся наперегонки,
Прекрасные, как две коровы, две матери, лижущие (своих телят),
Випаш и Шутудри со (своей) водой.
इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः । स॒मा॒रा॒णे ऊ॒र्मिभि॒: पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥
इन्द्रे॑षिते॒ इतीन्द्र॑ऽइषिते । प्र॒ऽस॒वम् । भिक्ष॑माणे॒ इति॑ । अच्छ॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । या॒थः॒ । स॒मा॒रा॒णे इति॑ स॒म्ऽआ॒रा॒णे । ऊ॒र्मिऽभिः॑ । पिन्व॑माने॒ इति॑ । अ॒न्या । वा॒म् । अ॒न्याम् । अपि॑ । ए॒ति॒ । शु॒भ्रे॒ इति॑ ॥
हे नदौ इन्द्रेशिते इन्द्रेण प्रेशिते प्रसवं तस्येन्द्रस्यानुज्ञां भिक्षमाणे प्रार्थयमाने युवां समुद्रमच्छाभिमुख्येन याथः । गच्छथः । तत्र दृष्टान्तः । रथ्येवेति । यथा रथिनौ लक्ष्यं देशमभिगच्छतस्तद्वत् । किं कुर्वत्यौ । समाराणे परस्परं सङ्गच्छन्त्यावूर्मिभिस्तरङ्गैः पिन्वमाने परिसरप्रदेशं सन्तर्पयन्त्यौ शुभ्रे शोभमाने । युवां समुद्रं गच्छथ इति पूर्वेणान्वयः । तथा वां युवयोर्मध्येऽन्यैकान्यामपरां नदीमप्येति । अपिगच्छति । परस्पमैक्यमापद्यत इत्यर्थः । इन्द्रेषिते । इश गतावित्यस्य कर्मणि निष्ठायास्तीषसहेत्यादिना इडागमः । तृतीया कर्मणीति पूर्वपदस्वरः । प्रसवम् । षू प्रेरण इत्यस्याप् । थाथादिस्वरः । भिक्षमाणे । भिक्ष यज्ञायाम् । आत्मनेपदी । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । रथ्येव । रथस्येमौ । तस्येदमित्यर्थे रथाद्यदिति यत्प्यत्ययः । तित्स्वरितः । इवेन विघक्त्यलोपः । याथः । यातेर्लटि रूपम् । समाराणे । ऋ गतावित्यस्य लिट् । सम्पूर्वस्यर्तेः समो गमीत्यादिनात्मनेपदत्वात्तस्य कानजादेशः । ऋच्छत्यूतामिति गुणः । पिन्वमाने । पिवि सेचने । भूवादिः । लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः ॥ २ ॥
“Impelled by Indra, soliciting (his commands), you go to the ocean like charioteers (to their goal); flowing together, and swelling with (your) waves, bright (rivers) one of you proceeds to the other.”
Impelled by Indra whom ye pray to urge you, ye move as 'twere on chariots to the ocean.
Flowing together, swelling with your billows, O lucid Streams, each of you seeks the other.
Impelled by Indra as you long to take part in the forward thrust, you drive like two charioteers to the sea,
clashing together, swelling with your waves, the one of you merges into the other—you resplendent ones.
Erregt von Indra, schnelle Strömung heischend, wie Wagenlenker eilet ihr zum Meere; Zusammenrinnend und von Wogen schwellend, so lauft ihr Schönen nahe beieinander.
Von Indra angetrieben, um das Zeichen zum Galopp bittend, geht ihr wie zwei Wagenrosse. Wenn ihr mit den Wogen anschwellend euch vereinigt habt, geht die eine von euch in der anderen auf, ihr Schmucken.
Отправленные Индрой, прося (разрешения) на галоп,
Вы движетесь к океану, словно две колесницы.
Когда вы слились, набухая волнами,
Одна из вас входит в другую, о прекрасные!
Вишвамитра:
अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म । व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥
अच्छ॑ । सिन्धु॑म् । मा॒तृऽत॑माम् । अ॒या॒स॒म् । विपा॑शम् । उ॒र्वीम् । सु॒ऽभगा॑म् । अ॒ग॒न्म॒ । व॒त्सम्ऽइ॑व । मा॒तरा॑ । सं॒रि॒हा॒णे इति॑ स॒म्ऽरि॒हा॒णे । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्ती ॥
हे नद्यौ मातृतमामतिशयेन मातरं सिन्धुं स्रवन्तीं शुतुद्रीं त्वामच्छाभिमुख्येनायासम् । विश्वामित्रोऽहं प्राप्तोऽभूवम् । उर्वीं महतीं सुभगां सौभाग्यवतीं विपाशं त्वामगन्म । वयं प्राप्ताः स्मः । किं कुर्वत्यौ । मातरा मातरौ द्वे धेनू वत्समिव संरिहाणे । अन्तर्णीतसनर्थो लिहिः । जिह्वया लेढुमिच्छन्तौ यथा वत्समनुगच्छतस्तद्वत् समानमेकं योनिं स्थानं समुद्रमनु अभिलक्ष्य सञ्चरन्ती सम्यप् चरन्त्यौ । युवामयासिषमिति पूर्वेणान्वयः ॥ अयासम् । याप्रापण इत्यस्य रूपम् । इदभावश्छान्दसः । अगन्म । गमेर्लङि बहुलं छन्दसीति शपो लुक् । म्वोश्चेति मकारस्य नकारः । निघातः । सञ्चरन्ती । चरतिर्गत्यर्थः । तृतीयायुक्तत्वाभावादात्मनेपदाभावः । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः ॥ ३ ॥
“I repaired to the most material river; I went to the wide auspicious Vipās', flowing together to a common receptacle, like parent cows (hastening to) caress the calf.”
I have attained the most maternal River, we have approached Vipas, the broad, the blessed.
Licking as 'twere their calf the pair of Mothers flow onward to their common home together.
[Viśvāmitra:] I have driven to the most motherly river [=Śutudrī]; we have come to the broad, well-portioned Vipāś—
the two who are like mothers together licking their calf, proceeding together along the same womb [=riverbed].
Ich fuhr herbei zum mütterlichsten Strome, wir kamen zur Vipāç, der breiten, schönen, Zum Mütterpaar, das, wie sein Kalb beleckend, zu gleichem Schoosse hin zusammen wandert.
Ich bin zu dem mütterlichsten Strom gekommen, wir sind an die breite holde Vipas gelangt, die sich beide lecken wie Mutterkühe ein Kalb, indem sie im gemeinsamen Bette weiterlaufen.
Я пришел к самой материнской реке,
К Випаш, широкой, благодатной мы пришли,
К облизывающим друг друга, словно две матери – теленка,
К следующим вместе по общему руслу.
Р е к и:
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः । न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥
ए॒ना । व॒यम् । पय॑सा । पिन्व॑मानाः । अनु॑ । योनि॑म् । दे॒वऽकृ॑तम् । चर॑न्तीः । न । वर्त॑वे । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । कि॒म्ऽयुः । विप्रः॑ । न॒द्यः॑ । जो॒ह॒वी॒ति॒ ॥
एवं स्तुते नदौ विश्वामित्रं प्रत्यूचतुः एनैनेन पयसा पिन्वमानाः सन्तर्पयन्त्यो देवकृतं देवेनेन्द्रेण कृतं सन्दिष्टं योनिं स्थानं समुद्रमनु लक्षीकृत्य चरन्तीर्गच्छन्त्यो वयमास्मदे द्वयोर्बहुवचनं पूजार्थं तासामस्माकं स्वर्गतक्तः सर्गे गमने प्रवृत्तः प्रसव उद्योगो न वर्त्तवे । निवर्तनाय न भवति । किंयुः किमिच्छन्नसौ विप्र् ब्राह्मणो नद्यो नदीरस्मान् जोडवीति । भृशमाह्वयति ॥ एना । इदंशब्दस्य तृतीयाया एनादेशः । सुपां सुलुगिति तृतीयाया आजादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पिन्वमानाः । पिवि सेचने । देवकृतम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । वर्त्तवे । वृतु वर्तने । तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । सर्गतक्तः । क्ते चेति पुर्वपदप्रकृतिस्वरः । किंयुः । किमिच्छन् । क्यचि मान्ताव्ययप्रतिषेधः । पा. ३-१-८-१ । इति छान्दसत्वादत्र प्रतिषेधो न भवतीति क्यच् । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । नद्यः । छान्दसो यणादेशः । जोहवीति । ह्वयो यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारणे कृते गुणो यङ् लुकोरित्यभ्यासस्य गुणः । यङो वेतीडागमः । गुणः । निघातः ॥ ४ ॥
“The rivers speak: Fertilizing (the land) with this (our) current, we are flowing to the receptacle which has been appointed by the deity (Indra); the course appointed for our going (permits) not of delay; of what is the sage desirious, that he addresses the rivers?”
We two who rise and swell with billowy waters move forward to the home which Gods have made us.
Our flood may not be stayed when urged to motion. What would the singer, calling to the Rivers?
[Rivers:] So we are—swelling with milk, proceeding along our god-made womb.
Our forward thrust, launched in a surge, is not to be obstructed. Seeking what does the poet keep calling upon the rivers?
»Die wir von diesen süssen Fluten schwellen, zum Gott-geschaffnen Schoosse vorwärts wandernd, Nicht ist zu hemmen unsre schnelle Strömung was wünschend ruft der Sänger uns, die Flüsse?«
So sind wir von der Milchflut anschwellend, im gottgeschaffenen Bette weiterlaufend - nicht ist unser pfeilschneller Galopp aufzuhalten. Was begehrt der Redekundige, daß er die Flüsse ruft?
Так мы (выглядим), набухши от воды,
Двигаясь по руслу, созданному богами.
Не удержать (нашего) течения, устремленного в (едином) порыве!
Что за вдохновенный громко взывает к рекам?
Вишвамитра:
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवै॑: । प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥
रम॑ध्वम् । मे॒ । वच॑से । सो॒म्याय॑ । ऋत॑ऽवरीः । उप॑ । मु॒हू॒र्तम् । एवैः॑ । प्र । सिन्धु॑म् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । अ॒व॒स्युः । अ॒ह्ने॒ । कु॒शि॒कस्य॑ । सू॒नुः ॥
विश्वामित्रो नदीः प्रति ब्रूते । ऋतावरीः । ऋतमुदकम् । तद्वत्यो हे नद्यो यूयं मे विश्वामित्रस्य मम सोम्याय । उत्तीर्याहं सोमं सम्पादयामीत्येवं सोमसम्पादिने । वचसे तदर्थमेवैः । पञ्चम्यर्थे तृतीया । शीघ्रगमनेभ्यो मुहूर्तं मुहूर्तमात्रमुप रमध्वम् । उपपूर्वो रमिरुपसंहारे वर्तते । क्षणमात्रं शीघ्रगमनादुपरता भवत । सामान्येन सदीषूच्यमानासु समीहितं प्रयोजनमकुर्वतीषु पुरोवर्तिनिं शुतुद्रीं प्रति ब्रूते । कुशिकस्य राजर्षेः सूनुर्विश्वामित्रोऽहं बृहती महत्या मनीषा मनीषया स्तुत्यावस्युरात्मनो रक्षणमिच्छन् सन् सिन्धुं शुतुद्रीं त्वामच्छाभिमुख्येन प्राह्वे । प्रकर्षेणाह्वयामि । अत्र निरुक्तम् । उपरमध्वरं मे वचसे सोम्याय सोमसम्पादिन ऋतावरीरुतवत्य ऋतमित्युदकनाम प्रत्यृतं भवति मुहूर्तमेवैरयनैरवनैर्वा । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीशया मनस ईषया स्तुत्या प्रज्ञया वावनाय कुशिकस्य सूनुः । कुशिको राजा बभूव । नि. २-२५ ॥ इति ॥ रमध्वम् । रमु उपरमे । उपपूर्वाद्रमतेर्विभास्षाकर्मकात् । पा. १-३-८५ । इत्यात्मने पदम् । ऋतावरीः । ऋतशब्दान्मत्वर्थे छन्दसीवनिपाविति वनिप् । वनो र चेति ङीप् रेफश्चान्तादेशः । वा छन्दसीति सवर्णदीर्घः । आमन्त्रितस्य पादादित्वात्षाष्ठिकमाद्युदात्तत्वम् । एवैः । इण् गतौ । इण् शीङ्भ्यां वन् । आर्धधातुकलक्षणो गुणः । नित्स्वरः । बृहती मनीषा । उभयत्र तृतीयायाः पूर्वसवर्णदीर्घः । अवस्युः । अवो रक्षणमिच्छन् । सुप आत्मनः क्यच् । नः क्य इति नकारान्तस्य पदसञ्ज्ञाया नियमितत्वादत्र सकारस्य रुर्न भवति । क्याच्छन्दसीत्युप्रत्ययः । आह्वे । ह्वयतेर्लुङे सिच आत्मनेपदेष्वन्यतरस्याम् । पा. ३-१-५४ ॥ इत्यङादेशः । गुणः निघातः ॥ ५ ॥
“Viśvāmitra speaks: Rivers, charged with water, rest a moment from your course at my request, who go to gather the Soma; I, the son of Kuśika, desirous of protection, address with earnest prayer especially the river before me.”
Linger a little at my friendly bidding rest, Holy Ones, a moment in your journey.
With hymn sublime soliciting your favour Kusika's son hath called unto the River.
[Viśvāmitra:] Stop for my somian speech, truthful ones, for an instant, in your travels.
My lofty inspired thought (has gone) forth to the river: seeking help, have I, the son of Kuśika, called upon (you).
Ergötzet euch an meinem frommen Liede auf kurze Rast in eurem Lauf, o heil'ge; Zum Strome dringt des Herzens laute Bitte, verlangend rief ich euch, der Sohn des Kuçik.
Haltet meiner somagleichen Rede auf einen Augenblick in eurem Laufe still, ihr Immerfließenden! An den Fluß ergeht ein hohes Ansinnen. Schutzsuchend habe ich, des Kusika Sohn, gerufen.
Остановитесь на мгновение в (вашем) беге
Перед моей речью, проникнутой сомой, о следующие закону!
Высокая мысль о(бращена) к реке.
Жаждая помощи, воззвал я, сын Кушики.
Р е к и:
इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् । दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥
इन्द्रः॑ । अ॒स्मान् । अ॒र॒द॒त् । वज्र॑ऽबाहुः । अप॑ । अ॒ह॒न् । वृ॒त्रम् । प॒रि॒ऽधिम् । न॒दीना॑म् । दे॒वः॑ । अ॒न॒य॒त् । स॒वि॒ता । सु॒ऽपा॒णिः । तस्य॑ । व॒यम् । प्र॒ऽस॒वे । या॒मः॒ । उ॒र्वीः ॥
नद्यः प्रत्यूचुः । हे विश्वामित्र वज्रबाहुः । वज्रयुक्तो बाहुर्यस्यासौ वज्रबाहुः । तादृशो बलवानिन्द्रो नदीरस्मानरदत् । रदतिः खनतिकर्मा अखनत् । कथमखनत् । उच्यते । नदीनां शब्दकारिणीनामपां परिधिं परितो निहितमुदकमन्तः कृत्वा परितो वर्तमानमित्यर्थः । तादृशं वृत्रं वृणोत्याकाशमिति वृत्रो मेघः । तं मेघमपाहन् । जघान । तस्मिन्हत आपः पतिताः । ताभिर्गच्छन्तीभिर्वयं खाताः । एवं मेघहननद्वारेणाखनत् । न केवलमखनत् किं तर्हि सविता सर्वस्य जगतः प्रेरकः सुपाणिः शोभनहस्त उत्पत्तिस्थितिकर्तृत्वात्तादृशो देवो द्योतमान इन्द्रोऽस्माननयत् । मेघभेदनं कृत्वोदकप्रेरणेन समुद्रमपुरयत् । तस्य तादृशसामर्थ्योपेतस्येन्द्रस्य प्रसवेऽभ्यनुज्ञायां वर्तमाना उर्वीरुदकईः प्रभूता वयं यामः । गच्छामः । न तव वचनादुपरमामहे । उक्तार्धं यास्को ब्रवीति । इन्द्रो अस्मानरदद्वज्रबाहू रदतिः खनतिकर्मापाहन्वृत्रं परिधिं नदीनानुति व्याख्यातम् । देवोऽनयत्सविता सुपाणिः कल्याणपाणीः । पाणीः पणाय पूजाकर्मणः प्रगृह्य पाणी देवान्पूजयन्ति । तस्य वयं प्रसवे याम उर्वीरुर्व्यः । नि. २-२६ । इति । आरदत् । रदतेर्लङि रूपम् । वज्रबाहुः । बहुव्रीहौ पूर्वपदस्वरः । आहन् । हन्तेर्लङि रूपम् । निघातः । परिधिम् । डुधाञ् धारण पोषणयोरित्यस्मात्कर्मण्युपसर्गे घोः किरिति किप्रत्ययः । आतो लोपः । कृदुत्तरपदस्वरः । अनयत् । नयतेर्लङि रूपम् । सुपाणीः । पण व्यवहारे स्तुतौ च । अशिपणाय्यो रुडायलुकौ च । उ. ४-१३२ । इतीण् । आयलुक् । बहुव्रीहौ नञ्सुभ्यामिति स्वरः । प्रसवे । षू प्रेरणे । ॠदोरबिति भावेऽप्रत्ययः । थाथघञ्क्तेत्युत्तरपदान्तोदात्तत्वम् । यामः । या प्रापण इत्यस्य लटी रूपम् । निघातः । उर्वीः । उरुशब्दाद्वोतो गुणवचनादिति ङीष् । वा छन्दसीति सवर्नदीर्घः । प्रत्ययस्वरः ॥ ६ ॥
“The rivers speak; Indra, the wielder of the thunder-bolt, dug our channels when he slew Ahi the blocker-up of rivers; the divine and well-handed Savitā has led us (on our path), and obedient tohis commands we flow (as) ample (streams).”
Indra who wields the thunder dug our channels: he smote down Vrtra, him who stayed our currents.
Savitar, God, the lovely-handed, led us, and at his sending forth we flow expanded.
[Rivers:] Indra with the mace in his arms dug us channels: he smashed away Vr̥tra [/the obstacle] surrounding the rivers.
God Savitar of the lovely hands led (us): at his forward thrust we journey widely.
»Den Blitz im Arm brach Indra uns die Bahnen, erschlug den Vritra, der die Ströme einschloss; Schönleitend führte Savitar, der Gott, uns; auf seinen Antrieb gehn wir ausgebreitet.«
Indra, der Keulenträger, furchte uns das Bett; er verjagte den Vritra, der die Flüsse umschloß. Gott Savitri mit der schönen Hand leitete uns. Auf seinen Antrieb gehen wir breit dahin.
Индра с ваджрой в руке пробуравил (нам) русло.
Он разбил Вритру, запруду рек.
Прекраснорукий бог Савитар повел (нас).
По его побуждению мы движемся широко.
Вишвамитра:
प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् । वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥
प्र॒ऽवाच्य॑म् । श॒श्व॒धा । वी॒र्य॑म् । तत् । इन्द्र॑स्य । कर्म॑ । यत् । अहि॑म् । वि॒ऽवृ॒श्चत् । वि । वज्रे॑ण । प॒रि॒ऽषदः॑ । ज॒घा॒न॒ । आय॑न् । आपः॑ । अय॑नम् । इ॒च्छमा॑नाः ॥
योयमिन्द्रोऽहिं मेघं विवृश्चत् उदकप्रेरणार्थं जघानेति यत्कर्मछेदनरूपं तदिदं तस्येन्द्रस्य वीर्यं सामर्थ्यं शश्वधा सर्वदा प्रवाच्यम् । प्रकर्षेण वचनीयम् । तथा स इन्द्रः परिषदः परितः सीदत आसीनान् प्रतिबन्धकारिणोऽसुरान् वज्रेण वि जघान । अथायनं स्थानमिच्छमाना इच्छन्त्य आप आयन् । यान्ति ॥ प्रावाच्यम् । वच परिभाषण इत्यस्मादृहलोर्ण्यदिति । ण्यत् णित्त्वादुपधावृद्धिः । वचोऽशब्द सञ्ज्ञायाम् । पा.७-३-६७ । इति कुत्वाभावः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा वाचयतेरचो यत् । यतोऽनाव इति स्वरः । शश्वधा । शश्वच्छब्धात्स्वार्थे धा प्रत्ययस्तकारलोपश्च द्रष्टव्यः । विवृश्चत् । ओव्रश्चू छेदने । तुदादिः । लङि ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । सह सुपेत्यत्र सहेति योगविभागात्समासः । समासस्वरः । परिषदः । क्विप् । संहितायां सदेरप्रतेरिति षत्वम् । जघान । हन्तेर्लिटि णलि रूपम् । निघातः । आयन् । अय गतावित्यस्य लङि रूपम् । पादादित्वादनिघातः । इच्छमानाः । इषु इच्छायामित्यस्माद्व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरे कृते प्रत्ययस्वरः ॥ ७ ॥
“Viśvāmitra speaks: Ever is that heroic exploit of Indra to be celebrated when he cut Ahi to pieces, and with his thunderbolt destroyed the surrounding (obstructors of the rain), whence the waters proceed in the direction they desire.”
That hero deed of Indra must be lauded for ever that he rent Ahi in pieces.
He smote away the obstructors with his thunder, and eager for their course forth flowed the waters.
[Viśvāmitra:] This act of heroism is to be proclaimed ever anew, the deed of Indra when he hewed apart the serpent.
He smashed apart the enclosures with his mace. The waters went seeking a way to go.
Dies Heldenwerk ist immerdar zu preisen, das Indra that, als er zerhieb die Schlange; Mit seinem Blitze schlug er die Umlagrer, die Wasser gingen, die den Gang begehrten.
Diese Heldentat ist allezeit zu rühmen, das Werk des Indra, daß er den Drachen zerhieb. Mit der Keule zerschlug er die Schranken; es kamen die Gewässer einen Ausgang suchend.
Вечно достоин провозглашения тот подвиг,
Деяние Индры, что он разрубил змея.
Ваджрой он разбил ограды.
Двинулись воды, ища выхода.
Р е к и:
ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ । उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि क॑: पुरुष॒त्रा नम॑स्ते ॥
ए॒तत् । वचः॑ । ज॒रि॒तः॒ । मा । अपि॑ । मृ॒ष्ठाः॒ । आ । यत् । ते॒ । घोषा॑न् । उत्ऽत॑रा । यु॒गानि॑ । उ॒क्थेषु॑ । का॒रो॒ इति॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ । मा । नः॒ । नि । क॒रिति॑ कः । पु॒रु॒ष॒ऽत्रा । नमः॑ । ते॒ ॥
नद्यः प्रसङ्गादिन्द्रस्तोत्रं कृत्वा विश्वामित्रं प्रत्यूचुः । जरितः स्तोतर्हे विश्वामित्र ते त्वदीयं यत्संवादात्मकं वचस्त्वं नोऽभीत्या घोषानुद्घोषयन्वर्तसे तद्वचो मापि मृष्ठाः । मा विस्मार्षीः । किं कारणम् । उत्तरा युगान्युत्तरेषु याज्ञिकेषु युगेष्वहः सुक्थेषु कारो शस्त्रानां कर्तस्त्वं नोऽस्मान्प्रति जुषस्व संवादात्मकेन तेन वाक्येन प्रतिसेवस्व । इदानीं नोऽस्मान् पुरुपत्रा पुरुषेषु मानिकः । उक्तिप्रत्युक्तिरूपसंवादवाक्याध्यापनेन नितरां पुंवत् प्रागल्भ्यं मा कार्षीः । ते तुभ्यम् नमः ॥ मृष्ठाः । व्रश्चादिना षत्वम् । निघातः । घोषान् । घुषिर् संशब्दन इत्यस्य शतरि सर्वविधीनां छन्दसि विकल्पितत्वादतो गुण इति पररूपत्वाभावः । सवर्नदीर्घः । शतुर्लसार्वधातुकस्वरे कृते धातुस्वरः । युगानि । युजिर् योगे । उञ्छादिशु घञन्तत्वेन निपातनादगुणत्वम् । विशिष्टविषयं च निपातनमिष्यते । कालविशेषे रथाद्युपकरणे चेति तत्र पाठादेवान्तोदात्तत्वम् । कालाध्वनोरत्यन्त संयोग इति द्वितीया कारो । करोतेः कृवापाजिमीत्यादिना उण्प्रत्ययः । आमन्त्रितत्वान्निघातः । कः । करोतेर्लुङे च्लेर्मन्त्रे घसेत्यादिना लुक् । हल्ङ्यादिना सिचो लोपः । न माङ्योग इत्यडभावः । पुरुषत्रा । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलमिति सप्तम्यर्थे त्राप्रत्ययः । प्रत्ययस्वरः ॥ ८ ॥
“The rivers speak: Praiser of Indra, forget not this speech, nor the worlds that (you have addressed to us) for future ages (to reverence); celebrator (of holy rites), be favourable to us in solemn prayers; treat us not after the (arrogant fashion) of men; salutation be to you!”
Never forget this word of thine, O singer, which future generations shall reecho.
In hymns, O bard, show us thy loving kindness. Humble us not mid men. To thee be honour!
[Rivers:] This speech, singer—do not forget it—so that later generations will hear it from you.
Favor us in return in your hymns, bard: don’t put us down among men. Homage to you.
»Vergiss, o Sänger, nimmer dieses Wortes, lass horchen drauf die spätesten Geschlechter; Sei liebreich uns, o Dichter, bei den Sprüchen, versäum' uns nicht bei Menschen, dir sei Ehrfurcht.«
Dieses Wort solltest du, o Sänger, nicht vergessen, das künftige Geschlechter von dir hören mögen. Sei uns, o Dichter, in deinen Liedern gefällig, setz uns nicht bei den Menschen herab! Ehre sei dir!
Не забывай этой речи, о певец,
Чтобы услышали от тебя будущие поколения!
Будь к нам любезен в гимнах, о восхвалитель!
Не унизь нас среди людей! Поклон тебе!
Вишвамитра:
ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न । नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभि॑: ॥
ओ इति॑ । सु । स्व॒सा॒रः॒ । का॒रवे॑ । शृ॒णो॒त॒ । य॒यौ । वः॒ । दू॒रात् । अन॑सा । रथे॑न । नि । सु । न॒म॒ध्व॒म् । भव॑त । सु॒ऽपा॒राः । अ॒धः॒ऽअ॒क्षाः । सि॒न्ध॒वः॒ । स्रो॒त्याभिः॑ ॥
विश्वामित्रो नदीः प्रत्युवाच । स्वसारो भगिन्यः सिन्धवो हे नद्यः कारवेस्तोत्रं कुर्वाणस्य मम वचनं सु सुष्ठु ओ शृणोत । शृणुतैव । अनसा शकटेन रथेन च सह दूराद्विप्रकृष्टाद्देशाद्वो युष्मान्ययौ । प्राप्तोऽस्मि यूयं सु सुष्थु नि नमध्वम् । आत्मना स्वयं प्राह्वा भवत । तथा सुपाराः । रथादीनां तीरात्सुखेनावरोहणारोहणे यथा स्यातां तथा शोभनरोधसश्च भवत । किञ्च यूयं स्तोत्याभिः स्रवणशीलाभिरद्भिरधो अक्षा रथाङ्गस्याक्षस्याधस्ताद्भवत । यदापोऽक्षसाधस्ताद्भवन्ति तदा रथादीनि नेतुं शक्यन्ते । तस्मात्तत्परिमाणोदका भवतेत्यर्थाभिप्रायः ॥ ओ इति प्रगृह्यसञ्ज्ञा । शृणोत । श्रु श्रवण इत्यस्य लोटि त प्रत्ययस्य तप्तनप्तनथानाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । ययौ । या प्रापण इत्यस्य भूतमात्रे लिट्युत्तमे णल्यात औणल इत्यौकारः । एकादेशस्वरः । वः । युश्मच्छब्दस्य द्वितीयाया बहुवचनस्य वस्नसाविति वसादेशः । षू । निपातस्येति संहितायां दीर्घः । नमध्वम् । णमु प्रह्वत्वे शब्दे चेत्यस्य कर्मकर्तरि न दुह्स्नु नमां यक्चिणाविति प्रतिषेधाद्यगभावः । अधो अक्षाः । अधरशब्दस्य पूर्वार्धरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययोऽधादेशश्च । अक्षशब्दोऽशू व्याप्तवित्यस्मादशेर्देवने । उ. ३-६५ । इति सप्रत्ययान्तः । कृदुत्तरपदप्रकृतिस्वरः । सिन्धवः । आमन्त्रितत्वान्निघातः । स्रोत्याभिः । स्रोतः शब्दात्स्रोतसो विभाषा ड्यडौड्यौ । पा. ४-४-११३ । इति ड्य प्रत्ययः । डित्त्वाट्टिलोपः । प्रत्ययस्वरः ॥ ९ ॥
“Viśvāmitra speaks: Listen, sister (streams), kindly to him who praises you; who has come from afar with a waggon and chariot; bow down lowly; become easily fordable; remain, rivers, lower than the axle (of the wheel) with your currents.”
List quickly, Sisters, to the bard who cometh to you from far away with car and wagon.
Bow lowly down; be easy to be traversed stay, Rivers, with your floods below our axles.
[Viśvāmitra:] Listen well to the bard, sisters. He has driven to you from afar with his wagon and chariot.
Bow down; become easy to cross, staying below his axle(s) with your currents, you rivers.
So hört denn recht, o Schwestern, auf den Dichter; ich naht' von fern euch mit beladnem Wagen; Neigt nieder euch, seid leicht mir zu durchfahren, nicht flutend bis zur Achse, o ihr Ströme.
Schenket doch, ihr Schwestern, dem Dichter Gehör! Er ist mit Wagentroß und Streitwagen zu euch aus der Ferne gekommen. Beuget euch fein nieder, seid leicht zu durchschreiten, bleibet mit eurer Strömung unter den Wagenachsen, ihr Flüsse!
О сестры, прислушайтесь внимательно к восхвалителю!
Он приехал к вам издалека с обозом (и) колесницей.
Склонитесь хорошенько, станьте доступными для переправы.
О реки, (не доходите) до оси с (вашими) потоками.
Р е к и:
आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न । नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥
आ । ते॒ । का॒रो॒ इति॑ । शृ॒ण॒वा॒म॒ । वचां॑सि । य॒याथ॑ । दू॒रात् । अन॑सा । रथे॑न । नि । ते॒ । नं॒सै॒ । पी॒प्या॒नाऽइ॑व । योषा॑ । मर्या॑यऽइव । क॒न्या॑ । श॒श्व॒चै । त॒ इति॑ ते ॥
नद्यः पूर्वं विश्वामित्रवाक्यं प्रत्याख्यायानयर्चा तस्य वाक्यमाशुश्रुवुः । कारो स्तोत्रं कुर्वाण हे विशावित्र ते तव वचांसीमानि वाक्यान्या शृणवाम । षृणुमः । तव समीहितं प्रयोजन कुर्म इत्यर्थः । अनसा शकटेन रथेन च सह ययाथ । यतो दूरादागतोऽसि । वयं च ते त्वदर्थं नि नंस्यै । नीचैर्नमाम । प्रत्येकविवक्षयात्रैकवचनम् । रथेन गन्तुं गाधोदका भवामेत्यर्थः । तत्र दृष्टान्तः । पीप्यानेव योषा । पीप्याना पुत्रं स्तनं पाययन्ती योशा माता यथा प्रह्वीभवति । दृष्टान्तान्तरम् । यथा कन्या युवतिर्मर्यायेव मनुश्याय पित्रे भ्रात्रे वा शश्वचै परिषजनाय नम्रा भवति तद्वत्ते त्वदर्थं प्रह्वीभवादुः । ते इति पुनरुक्तिरादरार्थम् । एतामृचं यास्क एवं व्याचष्टे । आशृणवाम ते कारो वचनानि याहि दूरादनसा च रथेन च निनमाम ते पाययामानेव योषा पुत्रं मर्यायेव कन्या परिष्वजनाय निनमा इति वा । नि. २-२७ ॥ इति । कारो । सम्बुद्धौ शाकल्यस्येतौ । पा. १-१-१६ । इति प्रगृह्यसञ्ज्ञा । शृणवाम । श्रु श्रवण इत्यस्य लोट्याडुत्तमस्य पिच्चेत्याडागमः । पित्त्वाद्गुनः । निघातः । ययाथ । या प्रापण इत्यस्य भुतमात्रे लिटि थल्येकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । लित्स्वरः । अनसा । सहार्थे तृतीया । नंस्यै । णमु प्रह्वत्व इत्यस्य लेट्युत्तमे लेटि सिब्बहुलमिति सिप् । वैतोऽन्यत्रेत्यैकारादेशः । निघातः । पीप्यानेव । पीङ् पान इत्यस्यान्तर्भावितण्यर्थस्य लिटि कानचि रूपम् । चित्स्वरः । योषा । यु मिश्रणे । वृतॄवदिहनीत्यादिना । उ. ३-६२ । सप्रत्ययः । यौतीति योषा । वृषादित्वादाद्युदात्तः । शश्वचै । श्वन्ज परिष्वङ्ग इत्यस्मात्सम्पदादिलक्षणो भावे क्विप् । पृषोदरादित्वादिष्टरूपसिद्धिरन्तोदात्तश्च ॥ १० ॥
“The rivers speak: Hymner, we hear your words, that you have come from afar with a wagon and chariot; we bow down before you; like a woman nursing (her child), like a maiden bending to embrace a man, (so will we do) for you.”
Yea, we will listen to thy words, O singer. With wain and car from far away thou comest.
Low, like a nursing mother, will I bend me, and yield me as a maiden to her lover.
[Rivers:] We will listen to your words, bard. You have driven from afar with wagon and chariot.
I [=one river] will bow down to you like a young woman swollen (with milk, to her infant), (while) I [=other river] will bend to you like a maiden to her cavalier.
»Wir wollen achten deiner Wort', o Dichter, du kamst von ferne mit beladnem Wagen; Dir neig' ich mich wie eine üpp'ge Buhle, wie ihrem Mann die Braut ergeb' ich dir mich.«
Wir wollen deinen Worten Gehör schenken, o Dichter. Du bist mit Wagentroß und Streitwagen aus der Ferne gekommen. Ich will mich dir neigen wie die milchgeschwellte Frau zu ihrem Kinde, während ich dir nachgeben will, wie das Mädchen ihrem Liebsten.
Мы послушаемся, о восхвалитель, твоих слов.
Ты приехал издалека с обозом (и) колесницей.
Я хочу склониться к тебе, как женщина, набухшая от молока (- к младенцу),
Я хочу уступить тебе, как девушка – молодому мужчине.
Вишвамитра:
यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः । अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥
यत् । अ॒ङ्ग । त्वा॒ । भ॒र॒ताः । स॒म्ऽतरे॑युः । ग॒व्यन् । ग्रामः॑ । इ॒षि॒तः । इन्द्र॑ऽजूतः । अर्षा॑त् । अह॑ । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । आ । वः॒ । वृ॒णे॒ । सु॒ऽम॒तिम् । य॒ज्ञिया॑नाम् ॥
विश्वामित्रो नदीः प्रत्युवाच । अङ्गेत्यामन्त्रणे । हे नद्यो यद्यस्माद्युष्माभिरुत्तितीर्षोर्ममोत्तरणमभ्यनुज्ञातं तस्माद्भरता भरतकुलजा मदीयाः सर्वे त्वा परस्परमेकतामापन्नां नदीं त्वां सन्तरेयुः । स्म्यगुत्तीर्णा भवेयुः । तदेव विशिनष्टि । गव्यन् गा उदकानि तरीतुमिच्छन्निषितस्त्वयाभ्यनुज्ञात इन्द्रजूतो युश्माकं प्रवर्तकेनेन्द्रेण च प्रेरितो ग्रामो भरतानां सङ्घोऽर्षात् । सन्तरेत् । यतः सर्गतक्तो गमनाय प्रवृत्तः प्रसवस्तेषामुद्योगोऽह पूर्वं युष्माभिरनुज्ञातः । अहं तु यज्ञयानां यज्ञार्हाणां वो युश्माकं सुमतिं शोभनां स्तुतिमावृणे । सर्वतः सम्भजे । भरताः । भरतशब्दादुत्सादित्वादञ् । तस्य यञञोश्चेति लुक् । अतच् प्रत्ययस्वरः । सन्तरेयुः । तरतेर्लिङि जुसि रूपम् । झेर्लसार्वधातुकस्वरे धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । गव्यन् । गा आत्मन इच्छन् । सुपः क्यच् । एकादेशस्वरः । ग्रामः । ग्रसतेरा च । उ. १-१४२ । इति मन्प्रत्यय आकारादेशश्च । नित्स्वरः । इन्द्रजूतः । जू इति सौत्रो धातुर्गत्यर्थः । श्र्युकः कितीति निश्ठायामिट् प्रतिषेधः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । अर्षात् । ऋ गतावित्यस्य लेटि तिपि सिब्बहुलमिति सिप् । लेटोऽडागमः । एकाच इतीट् प्रतिषेधः । गुणः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः वृणे । वृङ् सम्भक्तावित्यस्य लटि रूपम् । यज्ञियानां यज्ञ्र्त्विग्भ्यां घखञाविति घप्रत्ययः । प्रत्ययस्वरः ॥ ११ ॥
“Viśvāmitra speaks: (Since), rivers, (you have allowed me to cross), so may the Bharatas pass over (your united stream); may the troop desiring to cross the water, permitted (by you), and impelled by Indra, pass; then let the course appinted for your going (be resumed); I have recourse to the favour of you who are worthy of adoration.”
Soon as the Bharatas have fared across thee, the warrior band, urged on and sped by Indra,
Then let your streams flow on in rapid motion. I crave your favour who deserve our worship.
[Viśvāmitra:] When the Bharatas should really have crossed you entirely—the horde seeking cattle, propelled, sped by Indra— then certainly your forward thrust, launched in a surge, will rush
(again). I wish for the favor of you who deserve the sacrifice.
Wenn nun das Heer der Bharater voll Kampflust beeilt von Indra schnell dich hat durchschritten, Dann schiesse vor die pfeilgeschwinde Strömung, um diese Gnade fleh' ich euch, ihr hehren.
Wenn die Bharata´s dich wirklich überschritten haben werden, der auf Rinderbeute ausziehende Heerbann, zur Eile getrieben, von Indra angefeuert, dann soll euer Galopp pfeilschnell dahinschießen. Die Gunst erbitte ich von euch, den Verehrungswürdigen.
Когда же, вправду, через тебя переправятся Бхараты,
Отряд, ищущий коров, посланный (и) вдохновленный Индрой,
Пусть (снова) ринется (твое) течение, устремленное в (едином) порыве!
Я хочу милости от вас, достойных жертв.
अता॑रिषुर्भर॒ता ग॒व्यव॒: समभ॑क्त॒ विप्र॑: सुम॒तिं न॒दीना॑म् । प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणा॑: पृ॒णध्वं॑ या॒त शीभ॑म् ॥
अता॑रिषुः । भ॒र॒ताः । ग॒व्यवः॑ । सम् । अभ॑क्त । विप्रः॑ । सु॒ऽम॒तिम् । न॒दीना॑म् । प्र । पि॒न्व॒ध्व॒म् । इ॒षय॑न्तीः । सु॒ऽराधा॑ । आ । व॒क्षणाः॑ । पृ॒णध्व॑म् । या॒त । शीभ॑म् ॥
गव्यवो गा आत्मन इच्छन्तो भरता भरतकुलजाः सर्वेऽतारिषुः । तां नदीं समतरन् । विप्रो मेधावी विश्वामित्रो नदीनां सुमतिं शोभनां स्तुतिं समभक्त । समभजत । यूयं तु यथा पूर्वमिषयन्तीः कुल्यादिद्वारान्नं कुर्वाणा अत एव सुराधाः शोभनधनोपेता यूयं वक्षणाः कृत्रिमसरितः कुल्याः प्र पिन्वध्वम् । प्रकर्षेण तर्पयत । आ पृणध्वम् । ताः सर्वतः पूरयत च । शीभं शीघ्रं यात । गच्छत च ॥ अतारिषुः । तॄ प्लवनतरणयोरित्यस्य लुङे सिचि वृद्धिः परस्मैपदेष्विति वृद्धिः । अडागमस्वरः । गव्यवः । सुपः क्यच् । क्याच्छन्दसीत्युप्रत्ययः । तस्य स्वरः । अभक्त । भज सेवायामित्यस्य लुङे सिचो झलो झलीति लोपः । सादादित्वादनिघातः । पिन्वध्वम् । पिविसेचन इत्यस्य लोटि रूपम् । निघातः । इषयन्तीः । इषं कुर्वत्यः । तत्करोतीति णिच् । णाविष्ठवत्प्रातिपदिकस्येतीष्थवद्भावाट्टेरिति टिलोपः । वा छन्दसीति सवर्णदीर्घः । प्रत्ययस्वरः । पृणध्वम् । पृण प्रीणने । लोटि रूपम् । व्य्व्त्ययेनात्मनेपदम् । व्याक्यभेदादनिघातः । यात । या प्रापण इत्यस्य लोटि रूपम् । आत्रापि न निघातः । शीभम् । शीघृ कत्थने । श्लाघ्यतेऽनेन तद्वानिति करणे घञ् । ञित्स्वरः ॥ १२ ॥
“The Bharatās seeking cattle passed over; the sage enjoyed the favour of the rivers; streams dispensing food, productive of wealth, spread abundance, fill (your beds), flow swiftly.”
The warrior host, the Bharatas, fared over the singer won the favour of the Rivers.
Swell with your billows, hasting, pouring riches. Fill full your channels, and roll swiftly onward.
[Viśvāmitra:] The cattle-seeking Bharatas have entirely crossed; the poet has shared in the favor of the rivers.
Swell forth, nurturing, very generous; fill your bellies; drive quickly.
Die Bharater voll Kampflust sind hinüber, der Ströme Gunst gewann für sich den Sänger; Nun schwellet an, nun wachset schnell vollendend, die Bäuche füllet, eilet schnellen Ganges.
Die auf Rinderbeute ausziehenden Bharata´s sind hinübergesetzt; der Redekundige ist der Gunst der Flüsse teilhaft geworden. Schwellet an, erlabend, gabenreich! Füllet eure Euter an, gehet schnell!
Бхараты, ищущие коров, переправились.
Вдохновенный вкусил милость рек.
Набухайте, освежая, принося прекрасные дары!
Наполняйте себе утробу! Быстро двигайтесь!
उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत । मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥
उत् । वः॒ । ऊ॒र्मिः । शम्याः॑ । ह॒न्तु॒ । आपः॑ । योक्त्रा॑णि । मु॒ञ्च॒त॒ । मा । अदुः॑ऽकृतौ । विऽए॑नसा । अ॒घ्न्यौ । शून॑म् । आ । अ॒र॒ता॒म् ॥
पूर्वमुत्तितीषुर्विश्वामित्रो नदीरुक्त्वाधुनोत्तितीर्षुः पुनराह । हे नद्यो वो युष्माक् ऊर्मिः तरंगः शम्या युगकीला युग्यकण्ठपार्श्वादिसंलग्ना रज्जव उदूर्ध्वं यथा भवंति तथा हंतु । गच्छतु । स तरंगो रज्जूनामधो गच्छत्वित्यभिप्रायः। तथा हे आपो यूयं योक्त्राणि ता रज्जूर्मुंचत । यथा न स्पृशंति तथा यांत्वित्यभिप्रायः । व्येनसा विगतपापे अत एवादुष्कृतौ कल्याणकर्मकारिण्यौ अघ्न्यावघ्न्ये न केनापि तिरस्करणीये विपाट्छुतुद्र्यौ शूनं समृद्धिं मारतां । आगच्छतां। एवं विश्वामित्रो नदीः स्तुत्वा ताभिरनुज्ञातोऽतरदिति ॥ ऊर्मिः। ऋ गतौ। अर्तेरूच्चेति मिप्रत्ययः । ऊरित्ययमादेशो धातोः । ऋच्छतीत्यूर्मिः । प्रत्ययस्वरः । शम्याः । शमु उपशमे ॥ पोरदुपधादिति यत्प्रत्ययः। यतोऽनाव इत्याद्युदात्तत्वं । हंतु । हन हिंसागत्योरित्यस्य लोटि रूपं । निघातः । योक्त्राणि । युजिर योगे । करणे दाम्नीशसयुयुजेत्यादिना द्रन्प्रत्ययः । नित्स्वरः । मुंचत । मुच्लृ मोक्षणे । निघातः । अदुष्कृतौ । इसुसोः सामर्थ्य इति विसर्जनीयस्य षत्वं । व्येनसा । बहुव्रीहौ पूर्वपदस्वरः। सुपो डादेशः । अघ्न्यौ । हन हिंसागत्योरित्यस्य नञ्पूर्वस्याघ्न्यादयश्चेति निपातनाद्यक्। कित्त्वादुपधालोपः । हो हंतेरिति घत्वं । सर्वविधीनां छंदसि विकल्पितत्वादत्रौङः शीभावाभावः। एकादेशस्वरः। शूनं। श्वयतेर्नपुंसके भावे क्त इति क्तः । यजादित्वात्संप्रसारणं । हल इति दीर्घत्वं । ओदितश्चेति निष्ठानत्वं । निष्ठा च द्व्यजनादित्याद्युदात्तः । अरतां । ऋ गतावित्यस्य लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । ऋदृशोऽङि गुणः । न माङ्योग इत्यडभावः । निघातः ॥ ॥१४॥
“Let your waves (rivers) so flow that the pin of the yoke may be above (their) waters; leave the traces full, and may (the two streams), exempt from misfortune or defect, and uncensured, exhibit no (present) increase.”
So let your wave bear up the pins, and ye, O Waters, spare the thongs;
And never may the pair of Bulls, harmless and sinless, waste away.
Let your wave push up the yoke-pins; o waters, let loose the
yoking cords.
Let the two inviolable (oxen), doing no ill, without offense, not come to naught.
Die Zapfen schlag' die Well' empor, o Wasser löst die Bänder ab, nicht schädigt das unschuldige, das fehlerlose Stierepaar.
Eure Welle soll die Jochzapfen emporheben, ihr Gewässer, gebet die Stränge frei! Nicht sollen die schuldlosen Rinder, die nichts Übles tun, in Verlust geraten!
Да вскинет кверху волна ваши шпеньки (у ярма)!
О воды, отпустите постромки!
Да не провалятся двое быков,
Не сотворивших зла, безгрешных!