इन्द्र॑: पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् । ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ॥
इन्द्रः॑ । पूः॒ऽभित् । आ । अ॒ति॒र॒त् । दास॑म् । अ॒र्कैः । वि॒दत्ऽव॑सुः । दय॑मानः । वि । शत्रू॑न् । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒धा॒नः । भूरि॑ऽदात्रः । आ । अ॒पृ॒ण॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥
विश्वामित्रः स्तौति । पूर्र्भिदसुरपुरां भेत्ता अत एव विदद्वसुर्वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्युक्तः शत्रूनसुरान्वि दयमानो विशेषेण हिम्सन् । तथा च यास्कः । विदद्वसुर्दयमानो वि शत्रूनिति हिम्साकर्मा । नि. ४-१७ । इति । तादृश इन्द्रो दासं दस्यतेऽनेन तम इति दासो वासरः । तमर्कैरर्चनीयैः स्वतेजोभिरातिरत् । समन्ताव्दवर्धयत् इन्द्रस्य सूर्यात्मकत्वात् । तथा च स्मृतिः । चैत्रमासे तपेदिन्द्र इति । इक्ञ्च । ब्रह्मजूतो ब्रह्मणा स्तोत्रेणाकृष्टः । यद्वा ब्रह्मणा जगत्स्रष्ट्रा प्रेरितस्तन्वा स्वशरीरेण वावैधानो वर्धमानो भूरिदात्रः । दायते लूयतेऽनेन शत्रुशिर इति दात्रमायुधम् । बहुविधायुधोपेतः । तादृश इन्द्र उभे रोदसी द्यावापृथिव्यापपृणत् । सर्वतोऽतर्पयत् । पूर्भित् । भिदिर् विदारणे । क्विप् । अतिरत् तरतेर्व्यत्ययेन शः । ऋत इद्धातोरितित्वम् । निघातः । दासम् । करणे घञ् । ञित्स्वरः । विदद्वसुः । विदेरन्तर्भावितण्यर्थस्य शतर्यदादित्वाच्छपो लुकि सति प्रत्ययस्वरेण शतुरुदात्तत्वम् । बहुव्रीहौ पूर्वपदस्वरः । दयमानः । दय दानगति रक्षण हिंसाग्रहणेषु । आत्मनेपदी । लटः शानच् । न लोकाव्ययेति षष्ठी पतिषेधः । ववृधानः । वृधु वर्धने । कानचि रूपम् । सम्हितायामभ्यासस्य तुजादित्वाद्दीर्घः । भुरिदात्रः । दाप् लवने । करणे दाम्नीत्यादिना ष्ट्प्र्न्प्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः । अपृणत् । पृण प्रीण न इत्यस्य लङि तुदादित्वाच्छः । निघातः । रोदसी । रुदेरसुनि रूपम् । नित्स्वरः ॥ १ ॥
“Indra, the destroyer of cities, possessed of wealth manifesting (his greatness), merciless to his enemies has overspread the day with his radiance; attracted by prayer, increasing in bulk, and armed with many weapons, he has delighted both heaven and earth.”
FORT-RENDER, Lord of Wealth, dispelling foemen, Indra with lightnings hath o'ercome the Dasa.
Impelled by prayer and waxen great in body, he hath filled earth and heaven, the Bounteous Giver.
Indra, stronghold-splitter, overcame the Dāsa with his chants, finding goods, fragmenting his rivals.
Spurred on by the sacred formulation, grown strong in his body, he of abundant gifts filled both world-halves.
Den Dämon schlug mit Blitz der Burgzerstörer, den Feind zerstreuend, Gut erbeutend, Indra, Erregt durch Andacht und am Leibe, wachsend erfüllte er mit Gaben beide Welten.
Indra, der Burgenbrecher hat den Dasa mit Zaubergesängen überwunden, der Finder des Gutes, der die Feinde aufteilt. Durch das Kraftwort angefeuert, am Leibe erstarkt, erfüllte der Gabenreiche beide Welthälften.
Индра-проламыватель крепостей победил дасу песнопениями,
(Он,) находящий блага, рассеивающий врагов.
Вдохновленный молитвой, возросший телом
(Бог,) дающий много, заполнил оба мира.
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् । इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥
म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मृता॑य । भूष॑न् । इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥
हे इन्द्र भूषन् त्वामलङ्कुर्वन्नहं मखस्य महनीयस्य स्तुत्यस्य तविषस्य बलवतस्ते तव जूतिं मनसा प्रेरितां वाचं स्तुतिलक्षणाममृतायान्नार्थं प्रेयर्मि । प्रकर्षेणोच्चारयामि । मानुषीणां क्षितीनां मनोर्जातानां मनुष्याणां उत अपि च दैवीनां देवसम्बन्धीनीनां विशां प्रजानां पुर्वयावाग्रतो गन्तात्वमसि ॥ मखस्य । मह पूजायाम् । नहेर्हलोपश्च । उ. ५-२३ । इति हलोप इत्यनुवृत्तौ महेश्चेति खप्रत्ययो हलोपश्च । मह्यते पूज्यते सर्वैरिति मुखः । खान्तस्याश्मादेः । फि. १-६ । इत्यन्तोदात्तत्वम् । यद्यपि मकारादिर्भवति तथापि वचनसामर्थ्याद्भवति । तविषस्य । तवतेष्टिषच् प्रत्ययः । चित्स्वरः । जूतिम् । ऊतियूतीत्यादिनाक्तिन उदात्तत्वम् । इयर्मि । अर्तिर्जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अभ्यासस्येतीयङादेशः । पादादित्वान्न निघातः । अभ्यस्तस्वरः । भूषन् । भूष आलङ्कार इत्यस्य शतरि रूपम् । शतुर्लसार्वधातुकस्वरे धातुस्वरः । असि । अस्तेर्लटि रूपम् । निघातः । मानुषीणाम् । मनोर्जातावित्यञ् । षुगागमः । टड्ढाणञिति ङेप् । ञित्त्वरः । दैवीनाम् । देवाद्यञञावित्यञ् । अत्रापि पूर्ववत् ङेप् । ञित्स्वरः । पुर्वयावा । या प्रापण इत्यस्मादतो मनिस्क्वनिब्वनिपश्चेति वनिप् । क्रुदुत्तरपदस्वरः ॥ २ ॥
“Decorating you, I address sincere prayers to you who are adorable and mighty, for the sake of (obtaining) food; you, Indra are the preceder of men the descendants of manu, and of the descendants of the gods.”
I stimulate thy zeal, the Strong, the Hero decking my song of praise forth; Immortal.
O Indra, thou art equally the Leader of heavenly hosts and human generations.
I rouse forth speech as a spur for you, the forceful combatant, exerting myself for the immortal one.
Indra, you travel at the forefront of the peoples stemming from Manu and of the divine clans.
Dir starkem Kämpfer reg' ich an den Eifer, bereitend dem Unsterblichen das Lobleid, Du Indra bist der Menschenstämme Führer und Führer auch der göttlichen Geschlechter.
Als Ansporn für dich, den Freigebigen, Starken lasse ich die Rede los, zum Empfang des Unsterblichen bereit. Indra, du bist der Anführer der menschlichen Völker und der göttlichen Stämme.
Как поощрение тебе, воинственному, мощному,
Я посылаю речь, радея о бессмертии.
О Индра, ты тот, кто идет впереди
Людских поселений, а также божественных племен.
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीति॒: प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः । अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥
इन्द्रः॑ । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीतिः । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीतिः । अह॒न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेनाः॑ । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥
शर्धनीतिः । नयनं नीतिः कर्म । शर्धं प्रवृद्धं नीतिः कर्म यस्य स तथोक्तः । स इन्द्रो वृत्रमसुरमवृणोत् । बलेनारुन्धत् । तथा वर्पणीतिर्युद्धे परप्रहाराणां निवारककर्मेन्द्रो मायिनाम् । द्वितीयार्थे षष्ठी । मायिनोऽसुरान् प्रामिनात् । प्रकर्षेणावधीत् । उशधक् शत्रुवधं कामयमान इन्द्रो वनेषु गूढचारिणमसुरं व्यंसं विगतांसं यथा भवति तथाहन् । जघान । अथ तस्मिन् रात्रिचरे गवामपहर्तरि हते सति राम्याणाम् । रमणं स्त्रीभिः सह क्रीडा रामः । तमर्हन्तिति रम्या रात्रयः । तासां रात्रीणामन्तःस्थिता धेना गा आविरकृणोत् । प्रकटा अकरोत् । रात्रीणामसुराक्रान्तत्वे तैत्तिरीयकम् । अहर्देवानामासीदात्रिरसुरानां तेऽसुरा यद्देवानां वित्तं वेद्यमासीत्तेन सह रात्रिं प्राविशन्निति ये दिवास्तोतारो राम्यास्तेषां वाचो धेना इति ॥ आवृणोत् । वृञ् वरण इत्यस्य लङि रूपं निघातः । शर्धनितिः । शर्धतिरुत्साहार्थः । अस्मात्कर्मणि घञ् । बहुव्रीहौ पुर्वपदस्वरः । अमिनात् । मीञ् हिंसायामित्यस्य लङि मीनातेर्निगम इति ह्रस्वः । निघातः । अहन् हन्तेर्लङि रूपम् । उशधक् । वश कानौ । पृषोदरादित्वाद्रूप सिद्धिः आविः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । धेनाः । धेट् पाने । धेट ई च उ. ३-११ । इति न प्रत्यय ईकारश्चान्तादेशः । गुणः । धयन्ति तामिति धेना वाक् । धेना जिगाति । ऋग्वे १-२-३ । इत्यत्र प्रत्ययस्वरेणान्तोदात्तः । अत्र व्यत्ययेनाद्युदात्तत्वम् । अकृणोत् । कृवि हिम्साकरनयोः । निघातः । राम्यानाम् । रमु क्रीडायाम् । राममर्हतीत्यर्थे छन्दसि चेति यप्रत्ययः । तस्य स्वरः । यद्वा रमेरन्तर्णीतण्यर्थादघ्न्यादयश्चेति यक्प्रत्ययः । प्ररमयति भुतानि नक्तञ्चारीण्युपरमयतीतराणीति यास्कः । नि. २-१८ । वर्णव्यत्ययः ॥ ३ ॥
“Indra, of glorious deeds, destroyed Vṛtra; resistless in combat, he has overcome the deceivers resolved to consume him; he slew the mutilated (demon lurking) in the woods, and made manifest the (stolen) kine (that had been hidden) in the night.”
Leading, his band Indra encompassed Vrtra; weak grew the wily leader of enchanters.
He who burns fierce in forests slaughtered Vyamsa, and made the Milch-kine of the nights apparent.
Indra obstructed the obstacle [/Vr̥tra] through control of his troop [=Maruts]; he beguiled (the wiles) of the wily ones through control of forms.
He smashed the one whose shoulders were spread [=cobra]. Burning at will in the woods, he brought to light the nourishing streams of the nights.
Mit seiner Schar umschloss den Vritra Indra, in Scheingestalt vertilgte er den list'gen; Viansa schlug er, brennend in den Wäldern und machte sichtbar dunkler Nächte Kühe.
Indra wehrte den Vritra ab durch das Mittel der Stärke; er vereitelte die Listen der Listigen durch das Mittel der Verwandlung. Er erschlug den Vyamsa in den Hölzern gierig brennend. Er machte die Stimmen der Nächte offenbar.
Индра зажал Вритру, пуская в ход силу.
Он перехитрил (хитрости) хитрецов, пуская в ход способности превращения.
Он убил Вьянсу, желая сжечь (все) в лесах.
Он сделал явными звуки (?) ночей.
इन्द्र॑: स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भि॒: पृत॑ना अभि॒ष्टिः । प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥
इन्द्रः॑ । स्वः॒ऽसा । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभिः॑ । पृत॑नाः । अ॒भि॒ष्टिः । प्र । अ॒रो॒च॒य॒त् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योतिः॑ । बृ॒ह॒ते । रणा॑य ॥
स्सर्षाः स्वर्गप्रद इन्द्रोऽहानि स्वतेजोभिर्जनयन्नुशिग्भिर्युद्धं कामयमानैरङ्गिरोभिः सह पृतनाः परकीयाः सेना अभिष्टिरभिभावुकः सन् जिगाय । शत्रूनजैषीत् । शत्रुवधानन्तरं मनवे मनुष्याय कर्मकर्त्रे यजमानया अह्नां केतुं प्रज्ञापकं सूर्यं प्रारोचयत् तथा च तमोरूपासुरवधात्प्रकर्षेणादीपयत् । ततो बृहते रणाय युद्धप्रकाशनाय ज्योतिः प्रकाशमविन्दत् अलभत ॥ स्वर्षाः । षणु दाने । क्विप् । जनसनख्हनां स्न्झलोरित्यात्वम् । सनोतेरन इति षत्वम् । अहरादीनां पत्यादिषूपसङ्ख्यानमिति विसर्जनीयस्य रुत्वम् । जिगाय जि जय इत्यस्य लिटि सन्लिटोर्जेरित्यभ्यासादुत्तरस्य कवर्गादेशः । लित्स्वरः पृतनाः पृङ् व्यायामे । कृपृभ्यां किदिति तनन्प्रत्ययः । व्याप्रियन्तेऽत्र योद्धार इति पृतना सेनाः । नित्त्वादाद्युदात्तः । अभिष्टिः । अभिगन्ता । इष गतौ । मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । स हि भावपरोऽपि भवितारं लक्षयति । तितुत्रतथेत्यादिनेट् प्रतिषेधः । शकन्ध्वादित्वात्पररूपत्वम् । कृदुत्तरपदस्वरः । अरोचयत् । रुच दीप्तावित्यस्य लङि रूपम् । मनवे । मन ज्ञाने । शॄ स्वृस्निहीत्यादिना उप्रत्ययः । निदनुवृत्तेराद्युदात्तः । अविन्दत् । विद्लृ लाभ इत्यस्य शे मुचादीनामिति नुम् । पादादित्वादनिघातः । रणाय । क्रियाग्रहणं कर्तव्यम् । म. १-४-३२ ॥ इति सम्प्रदानसञ्ज्ञा । रणतिः शब्दार्थः । वशिरण्योरुपसङ्ख्यानमित्यप्रत्ययः । रणन्ति शब्दं कुर्वन्ति परस्परं योद्धारोऽत्रेति रणः सङ्ग्रामः । प्रत्ययस्य पित्त्वादनुतात्तत्वे धातुस्वरः ॥ ४ ॥
“Indra, the giver of svarga, genitive rating the days, has subdued victorious with the eager (aṅgirasas) the hostile hosts, and illuminingfor man the banner of the days, he obtained light for the great conflict.”
Indra, light-winner, days' Creator, conquered, victorious, hostile bands with those who loved him.
For man the days' bright ensign he illumined, and found the light for his joy and gladness.
Indra, winning the sun, begetting the days, conquered in the battles along with the fire-priests, as superiority (itself).
He made shine for Manu the beacon of the days [=sun]; he found the light for lofty joy.
Die Tage zeugend und das Licht, besiegte die Feinde Indra hülfreich mit den Frommen, Entzündete dem Menschen Tageshellen und fand das Licht zu reichlichem Ergötzen.
Indra, der Sonnengewinner, der die Tage schuf, der Überlegene gewann mit den Usij die Schlachten. Er ließ für Manu das Wahrzeichen der Tage aufleuchten; er fand das Licht zu großer Freude.
Индра, захватчик солнца, порождающий дни,
С помощью Ушиджей выиграл сражения, (он,) превосходящий (всех).
Он сделал (так, что) знамя дней заблистало для человека.
Он нашел свет для высокой битвы.
इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ । अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ॥
इन्द्रः॑ । तुजः॑ । ब॒र्हणाः॑ । आ । वि॒वे॒श॒ । नृ॒ऽवत् । दधा॑नः । नर्या॑ । पु॒रूणि॑ । अचे॑तयत् । धियः॑ । इ॒माः । ज॒रि॒त्रे । प्र । इ॒मम् । वर्ण॑म् । अ॒ति॒र॒त् । शु॒क्रम् । आ॒सा॒म् ॥
स तादृश इन्द्रस्तुजो बाधिका बर्हणा युद्धोत्साहेन वर्धन् ानाः परकीयाः सेना नृवन्मनुष्यवदा विवेश । प्रकाशं लब्ध्वा प्राविशत् । किं कुर्वन् । पुरूणि बहूनि नर्या युद्धनयनकारिणां योग्यानि धनानि दधानः प्रयच्छन्नाविवेश । स इन्द्रो जिरित्रे स्तोत्र इमा दृश्यमान धिय उषसः । ध्यायन्त्यासु मनुश्या इशि । ता धियोऽचेतयत् । अज्ञापयत् । अथासामुषसामिमं शुक्रं वर्णं प्रकाशेन युक्तं प्रातिरत् । स्वतेजसा प्रकर्षेण वर्धयति । धीशब्दस्योषः परत्वे मन्त्रवर्णः । शुक्रवर्णामुदु नो यंसते धियम् । ऋग्वे. १-१४३-७ । इति । तुजः । तुज हिंसायाम् । क्विप् । धातुस्वरः । बर्हणाः । वृहि व्रुद्धौ । अस्माद्युच् । बहुलमिति कर्तरि युच् । व्यत्ययेनाद्युय्दात्तत्वम् । विवेश । विशेतेर्लिटि रूपम् । निघातः । नृवत् । नृशब्दात्तेन तुल्यमिति वतिप्रत्ययः । तस्य स्वरः । दधानः । दधातेः शानचि रूपम् । अभ्यस्तानामादिरित्याद्युदात्तत्वं नर्या । नरेषु साधूनीत्यर्थे तत्र साधुरिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अचेतयत् । चिती सञ्ज्ञान इत्यस्य ण्यन्तस्य लङि रुपम् । अडागमस्वरः । धियः । ध्यै चिन्तायाम् । अन्येभ्योऽपि दृश्यत इति क्विप् । दृशिग्रहणात्सम्प्रसारनम् । धातुस्वरः । इमाः । दश्च । पा. ७-२-१-९ । इति दकारस्य मकारः । एकादेशस्वरः । अतिरत् । तरतेर्व्यत्ययेन शः । निघातः । आसाम् । इदमोऽन्वादेशेऽशित्यशादेशोऽनुदात्तश्च । प्रत्ययः सुप्त्वादनुदात्तः । अतः सर्वानुदात्तः ॥ ५ ॥
“Indra entered the confiding hostile (hosts) like a man distributing many (gifts) to (his) leaders; he has animated these dawns for the worshipper, and heightened their bright radiance (by his own).”
Forward to fiercely falling blows pressed Indra, herolike doing many hero exploits.
These holy songs he taught the bard who gaised him, and widely spread these Dawns' resplendent colour.
Indra “got into” mighty thrusts, manfully assuming his many manly (powers).
He made these insights perceptible to the singer; he extended this bright hue of theirs [=insights].
Es nahm sich Indra ungestüme Kräfte, erringend mannhaft viele Mannesstärke, Dem Sänger zeigt' er diese Andachtlieder und machte hell der dunklen Nächte Farbe.
Indra geriet in Ungeduld, in Eifer, der wie ein Mann viele Mannestaten vollbringt. Er gab dem Sänger diese Gedanken ein und erhöhte deren reine Form.
Индра предался насилиям (и) разрушениям,
Подобно мужу, совершающему многие мужественные деяния.
Он внушил певцу эти поэтические мысли,
Он улучшил этот их чистый облик.
म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ । वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥
म॒हः । म॒हानि॑ । प॒न॒य॒न्ति॒ । अ॒स्य॒ । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । वृ॒जने॑न । वृ॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभिः॑ । दस्यू॑ँन् । अ॒भिभू॑तिऽओजाः ॥
महो महतोऽस्यैतादृशसामर्थ्यस्येन्द्रस्य महानि महनीयानि पुरूणि बहूनि सुकृता सुश्ठु कृतानि कर्म वृत्रहननादीनि कर्माणि पनयन्ति । स्तुवन्ति । इन्द्रस्य कर्म सुकृता पुरूणीत्येतत्पदकदम्बकमत्रार्थभेदात्पदकालेनोत्सृज्यते तादृश इन्द्रो वृजनेन । वर्ज्यन्ते शत्रवोऽनेनेति वृजनं बलम् । तेन बलेन वृजिनान्पापरूपानसुरान् सं पिपेष । सम्यक् चूर्णीचकार । तथाभिभुत्योजाः । अभिभूतिः शत्रुविषयोऽभिभवः । ततौजो बलमस्येत्यभिभूत्योजाः । शत्रूणां पराभवे समर्थः । तादृश इन्द्रो दस्यूनुपक्षपयितॄनसुरान्मायाभिः कपटैः सं पिपेष । पनयन्ति । पनतेः स्तुत्यर्थस्य गुपुधूपविच्छिपणिपनिभ्य इत्यायप्रत्ययः । ह्रस्वश्छान्दसः । निघातः । वृजनेन । व्रुजी वर्जने । कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युरिति क्युप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः । व्रुजिनान् । वृजी वर्जने । व्रुजेः किच्च । उ. २-४७ । इति निच् प्रत्ययः । व्रुजिनं पापम् । तद्वन्तः । अर्श आदित्वादच् । एकादेशस्वरः । पिपेष । पिश्लृ सञ्चूर्नन इत्यस्य लिटि णलि रूपम् । निघातः । अभिभूत्योजो यस्येति सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरिति समासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ६ ॥
“They celebrate many great and glorious exploits of this mighty Indra; he crushed the strong by his strength, and, of overpowering prowess, he overcame the dasyus by delusions.”
They laud the mighty acts of him the Mighty, the many glorious deeds performed by Indra.
He in his strength, with all-surpassing prowess, through wondrous arts crushed the malignant Dasyus.
They admire the great things of him, the great one: many are the well-done deeds of Indra.
He utterly crushed the bent ones with his band; with his tricks (he crushed) the Dasyus, (though) he had overwhelming strength.
Man staunet an die vielen grossen Thaten des grossen Indra, die er schön vollbrachte; Mit seiner Schar zermalmte er die Schlechten, mit Zauberkraft die Feinde übermächtig.
Sie schlagen seine, des Großen, große Taten hoch an; des Indra viele Werke sind wohl getan. Mit seiner Umschlingung zermalmte er die Ränkevollen mit seinen Listen die Dasyu's, an Kraft überlegen.
Восхищаются великими деяниями этого великого
Индры, прекрасно совершенными, многими.
В (своих) объятьях он раздавил обманщиков,
Чудесными превращениями – дасью, превосходя (их) силой.
यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्य॒: सत्प॑तिश्चर्षणि॒प्राः । वि॒वस्व॑त॒: सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभि॑: क॒वयो॑ गृणन्ति ॥
यु॒धा । इन्द्रः॑ । म॒ह्ना । वरि॑वः । च॒का॒र॒ । दे॒वेभ्यः॑ । सत्ऽप॑तिः । च॒र्ष॒णि॒ऽप्राः । वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्राः॑ । उ॒क्थेभिः॑ । क॒वयः॑ । गृ॒ण॒न्ति॒ ॥
सत्पतिः सतां देवानां पतिश्चर्षणिप्राश्चर्षणीनां मनुष्याणामपेक्षितफलप्रदानेन कामपुरकः स इन्द्रो मह्ना महता युधा युद्धेन वरिवः । भृशं व्रियतेऽर्थिभिरिति वरिवो धनम् । तादृशं धनं युद्धेन लब्ध्वा देवेभ्यो देवनशीलेभ्यः स्तोतृभ्यश्चकार । दत्तवान् । विप्रा मेधाविनः कवयः स्तोतारो विवस्वतो विशेषेणाग्निहोत्रादिकर्मार्थे वसतो यजमानस्य सदने गृहेऽस्येन्दस्य तानि व्रुत्रहननबहुप्रदानानि कर्माण्य्क्थेभिः स्तोत्रैर्गृणन्ति । स्तुवन्ति ॥ युधा । युध सम्प्रहारे । भावे सम्पदादिलक्षणः क्विप् । सावेकाच इति विभक्तेरुदात्तता । वरिवः । वृञ् वरण इत्यस्य यङ् लुकि ऋतश्चेत्यभ्यासस्य रिगागमः । तदन्तादसुन् । बाहुलकाट्टिलोपः । नित्स्वरः । चकार । करोतेर्लिटि रूपम् । निघातः । सत्पतिः । अस्तेः शरति रूपं सदिति । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । चर्षणिप्राः । प्रा पुरणे । विच् । विवस्वतः । विपूर्वाद्वस निवास इत्यस्मात्सम्पदादिलक्षणणो भावे क्विप् । तदस्यास्त्यस्मिन्निति मतुप् । मादुपधाया इति तस्य वत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गृणन्ति । गृ शब्द इत्यस्य लिटि रूपम् । निघातः ॥ ७ ॥
“Lord of the virtuous, fulfiller of the wishes of men, he gave to the gods the wealth (that had been won) in fierce battle, and therefore far-seeing sages glorify those his exploits with praises in the dwelling of the worshipper.”
Lord of the brave, Indra who rules the people gave freedom to the Gods by might and battle.
Wise singers glorify with chanted praises these his achievements in Vivasvan's dwelling.
Through combat Indra with his greatness created a wide realm for the gods, he the master of settlements, filling the bordered domains. At the seat of Vivasvant [=ritual ground] these (deeds) of his do the inspired poets, the sage poets sing with their hymns.
Durch Kampf schuf Indra freie Bahn gewaltig den Göttern er, der Held, der Völkersegner; Im Sitz des Morgenfeuers preisen Dichter mit Liedern weise diese seine Thaten.
Durch Kampf hat Indra mit Macht den Göttern Freiheit verschafft, der wahre Gebieter, der die Länder erfüllt. Am Sitze des Opferers preisen beredte Seher das alles von ihm mit Lobliedern.
Борьбою, мощью создал Индра широкий простор
Богам, (он,) истинный господин, насыщающий народы.
В сидении жертвователя эти его (подвиги)
Воспевают в гимнах вдохновенные поэты.
स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः । स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥
स॒त्रा॒ऽसहम् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒वांस॑म् । स्वः॑ । अ॒पः । च॒ । दे॒वीः । स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥
धीरणासो धिया स्तुत्या रणयन्तः स्तोतारः सत्रासाहं महतो वृत्रादेरभिभवितारमत एव वरेण्यं सर्वैर्वरणीयं सहोदां दुर्बलस्यार्थिनो बलप्रदं देविर्देवनशिला अपः स्वश्च स्वर्लोकं च ससवांसम् भजमानमिन्दर्मनु मदन्ति । हृष्यन्ति । हर्षमनु स्वयम् हृष्यन्तीत्यर्थः । य इन्द्रः पृथिवीमुत अपि च च्यां द्युलोकमिमामिममन्तरिक्षलोकम् । चैतांस्त्रिल्लोकान् ससान तत्तल्लोकवासिभ्यो ददौ । तमनुमदन्तीत्यन्वयः । सत्रासाहम् । षह मर्षने । छन्दसि सह इति ण्विः । णित्वा दुपधावृद्धिः । ससवांसम् । षण सम्भक्तावित्यस्य क्वसाविडभावे नकारलोपे रूपं प्रत्ययस्वरः । ससान । षणु दान इत्यस्य लिति रुपम् । लित्स्वरः । मदन्ती । मदि स्तुत्याद्श्वित्यस्य व्यत्ययेन परस्मैपदम् । निघातः । धीरनासः । रणतीति रणा वाक् । धिया स्तुत्या रणा येशां ते धीरणाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ८ ॥
“Devout worshippers propitiate Indra, the victorious, the excellent, the bestower of strength, the enjoyer of heaven and the divine waters, and who was the giver of the earth and heaven and this (firmament to their inhabitants).”
Excellent, Conqueror, the victory-giver, the winner of the light and Godlike Waters,
He who hath won this broad earth and this heaven, -in Indra they rejoice who love devotions.
Him, victorious in every way, worthy to be chosen, granting victorious might, having won the sun and the divine waters,
him, who won the earth and this heaven—Indra do they celebrate, those who take joy in his insight.
Der immer siegt und Sieg verleiht, dem lieben, der Licht gewann und göttliche Gewässer, Die Erde auch gewann und diesen Himmel, dem Indra jubelt zu, wer Andacht liebet.
Dem vollständigen Sieger, dem vorzüglichen Siegverleiher, der die Sonne und die göttlichen Wasser gewonnnen hat, der die Erde und diesen Himmel gewonnen hat, dem Indra jubeln die Liederfrohen Beifall zu.
Всегда побеждающего, избранного, дающего силу,
Захватившего солнце и эти божественные воды,
(Того,) кто захватил землю и это небо, –
Индру радостно приветствуют (те,) кому поэтическая мысль – наслаждение.
स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेन्द्र॑: ससान पुरु॒भोज॑सं॒ गाम् । हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥
स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । स॒सा॒न॒ । इन्द्रः॑ । स॒सा॒न॒ । पु॒रु॒ऽभोज॑सम् । गाम् । हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सा॒न॒ । ह॒त्वी । दस्यू॑न् । प्र । अय॑म् । वर्ण॑म् । आ॒व॒त् ॥
पुर्वमन्ते प्रतिपादितः स इन्द्रोऽद्यानश्वान् ससान । युद्धार्थं मरुद्भ्यो ददौ । उत अपि च सूर्यं जगत्प्रकाशकमादित्यं ससान । प्राणिनां व्यवहारनिर्वाहय तेभ्यो ददौ । तथा पुरुभोजसम् । पुरुभिः सर्वैर्जनईः क्षीरादिद्वारेणोपभुज्यत इति पुरुभोजाः । क्षीरादिरूपबहुविधान्नोपेतां गामग्निहोत्रादिसिद्ध्यर्थं ससान । तेभ्यो ददौ । उत अपि च हिरण्ययं सुवर्नमयं भोगं धनम् । भुज्यतेऽस्मिन्निति भोगो गृहं वा । ससान । अर्थिभ्यो ददौ । ततो दस्यून् बाधकानसुरान् हत्वी हत्वार्यमुत्तमं वर्नं त्रैवर्णिकं प्रावत् । यथा कर्मविघ्नो नभवेत्तथापालयत् । ससान । षणु दान इत्यस्य लिति णलि रूपम् । लित्स्वरः । हिरण्ययम् । हिरण्यशब्दाद्विकार्थे मयड्वैतयोः । पा. ४-३-१४३ । इति विहितस्य छन्दसि विशय ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसिति निपातनान्मयटो मकारलोपः । प्रत्ययस्वरः । हत्वी । हन्तेःक्त्वार्थे स्नात्व्यादयश्चेति निपातितः । प्रत्ययस्वरः । आवत् । अवतेर्लङि रूपं ॥ ९ ॥
“He gave horses, he gave also the sun, and Indra gave also the many-nourishing cow; he gave golden treasure, and having destroyed the dasyus, he protected the ārya tribe.”
He gained possession of the Sun and Horses, Indra obtained the Cow who feedeth many.
Treasure of gold he won; he smote the Dasyus, and gave protection to the Aryan colour.
He won the steeds and the sun he won; Indra won the cow of many benefits,
and the benefit of gold he won. Having smashed the Dasyus, he aided the Ārya hue.
Die Rosse auch gewann er und die Sonne, Indra gewann die Kuh, die viele nähret, Gewann Besitz an Gold und half dem Stamme der Arjer, als Dämonen er getödtet.
Er hat die Rennpferde und die Sonne gewonnen, Indra hat die Viele speisende Kuh gewonnen, und er hat den Besitz von Gold gewonnen. Indem er die Dasyu's erschlug, half er der arischen Rasse weiter.
Он захватил скакунов, и солнце он захватил,
Индра захватил корову, обильную питанием,
И власть над золотом он захватил.
Убив дасью, он поддержал арийскую расу.
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् । बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥
इन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । व॒न॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् । बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥
तादृश इन्द्र ओषधीः पक्वफलसंयुक्तास्तृणगुल्मादिका असनोत् । प्राणिनामुपभोगार्थं प्रादात् । तथाहानि दिवसांश्चायुप्परिक्लृप्त्यर्थं प्रायच्छत् । किञ्च वनस्पतीन्यज्ञार्थं खदिरपलाशादिलक्षणान् व्रुक्षानसनोत् । तथान्तरिक्षं सञ्चारार्थं प्रादात् । तथा वलम् । संव्रियतेऽनेनाकाशमिति वलो मेघः । तं मेघं बिभेद । उदकप्रेरणार्थमभिन्दत् । विवाचो विरुद्धवाचः प्रतिकूलानसुरान् नुनुदे । प्राणिनां रक्षार्थं तान् बबाधे । अथानन्तरमभिक्रतूनाम् । क्रतुः कर्म । अभि आभिमुख्येन युद्धार्थं कर्म येशां तेऽभिक्रतवो बलीयांसः शत्रवः । तेशामपि दमितोपशमयिताभवत् । एवं हितकरणाहितपरिहाराभ्यां सर्वाः प्रजाः पालयतिस्मेति भावः । असनोत् । षणु दान इत्यस्य लङि रुपम् । वनस्पतीन् । पारस्करप्रभृतित्वात् सुडागमः । वनशब्दो नब्विषयस्येत्याद्युदात्तः । पतिशब्दः प्रत्ययस्वरेणाद्युदात्तः । उभे वनस्पत्यादिशु युगपदित्युभयपदप्रकृतिस्वरत्वम् । बिभेद । भिदिर् विदारन इत्यस्य लिटि रूपम् । वाक्यभेदादनिघातः । प्रत्ययस्वरः । दमिता । दमु उपशम इत्यस्य तृचि रुपं चित्स्वरः अभिक्रतूनाम् । बहुव्रीहौ पूर्वपदस्वरः ॥ १० ॥
“Indra bestowed plural nts and days, he gave trees and the firmament,he divided the cloud, he scattered opponents, he was the tamer of adversaries.”
He took the plants and days for his possession; he gained the forest trees and air's mid-region.
Vala he cleft, and chased away opponents: thus was he tamer of the overweening.
Indra won the plants, the days; the trees he won, the midspace. He split Vala; he expelled the challengers. Then he became the subduer of those who set their wills against him.
Indra gewann die Pflanzen und die Tage, gewann die weite Luft, des Waldes Bäume, Zerschlug den Vala, stiess herab die Streiter, da war Besieger er der Uebermüth'gen.
Indra gewann die Pflanzen, die Tage; die Bäume gewann er, die Luft. Er spaltete den Vala, vertrieb die Streitenden und ward so der Bezwinger der sich Auflehnenden.
Индра захватил растения, дни;
Большие лесные деревья он захватил, воздушное пространство.
Он расколол Валу, оттолкнул спорщиков,
И стал он тогда укротителем заносчивых.
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भर सङ्रामः । तस्मिन्सङ्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं आत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमानां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्रामेशु वृत्राणि वृत्रो पलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्जेतारं त्वामूतये रक्षनाय वयमाह्वयेम । शुनम् । टुओश्वि गतिव्रुद्ध्योरित्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भते । भृञ् भरणे । घः । व्रुषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् जनसनेत्यादिनानुनासिकत्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । क्विप् ॥ ११ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in the fight where spoil is gathered,
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers treasures.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heile, den männlichsten in diesem Kampf um Beute; Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного – для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!