तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥
तिष्ठ॑ । हरी॒ इति॑ । रथे॑ । आ । यु॒ज्यमा॑ना । या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ । पिबा॑सि । अन्धः॑ । अ॒भिऽसृ॑ष्टः । अ॒स्मे इति॑ । इन्द्र॑ । स्वाहा॑ । र॒रि॒म । ते॒ । मदा॑य ॥
विश्वामित्रः स्तौति । हे इन्द्र रथे स्यन्दने युज्यमाना संयुज्यमानौ हरी अश्वावभिलक्ष्य कञ्चित्कालमा तिष्ठ । तत्र दृष्टान्तः । यायुर्नेति । यथा वायू रथे नियुज्यमानानियुतो वडवा अभिलक्ष्य कञ्चित्कालं तिष्ठति तद्वत् । अथ रथारूधस्त्वं नोऽस्मानच्छाभिलक्ष्या याहि । शीघ्रमागच्छ । आगत्य चास्मे अस्माभिरभिसृष्टोऽनुज्ञातस्त्वमन्धः सोमलक्षणमन्नं पिबासि । पिब । स्वाहा । दत्तश्चायं सोमः । वयं ते तव मदाय हर्षाय स्वाहाकृतमिमं सोमं ररिम । ददाम । अत्र याहि वायुर्ननियुतो नो अच्छेत्यत्र रथेना याहीत्यर्थः । आपत्चित्पिप्युः स्तर्यो न गावः । ऋग्वे. ७-२३-४ । इत्यत्र तन्न तथेति पदकाले नोत्सृज्यते । तिष्ठ । तिष्ठतेर्लोटि रूपम् । तिष्ठादेशस्याद्युदात्तः । याहि । यातेर्लोटि रूपम् । हेर्ङित्वादन्तोदात्तः । वायुः । वा गतिगन्धनयोरित्यस्मात्कृवापेत्यादिना उण् । आतो युक् । प्रत्ययस्वरः । पिबासि । पातेर्लेट्याडागमः । आगमस्यानुदात्तत्वाद्धातुस्वरः । अन्धः । अद भक्षणे । अदेर्नुं धश्चेत्यसुन्नुमागमो धकारश्चान्तादेशः । अद्यते प्राणिभिस्त्वाद्वा स्वयमत्तीति । तथा च श्रुतिः । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते । तै. उ. २-२- । इति नित्स्वरः । अस्मे । सुपां सुलुगिति तृतीयायाः शे इत्यादेशः । ररिम । रातेर्लिटिरूपम् । वाक्यभेदादनिघतः । प्रत्ययस्वरः ॥ १ ॥
“Stay, Indra, having yoked the horses to the car, as Vāyu stops when he has put to his steds, and come to our presence; solicited by us to drink of the Soma, which with reverence we offer for your exhilaration.”
MOUNT the Bay Horses to thy chariot harnessed, and come to us like Vayu with his coursers.
Thou, hastening to us, shalt drink the Soma. Hail, Indra. We have poured it for thy rapture.
Mount the pair of fallow bays being yoked to the chariot. Drive, like the wind, to our teams [=poetic thoughts].
You will drink the stalk when you have surged to us. Indra, hail! We have given (it) to you for your exhilaration.
Besteig die Füchse, die den Wagen ziehen, komm zu uns wie der Wind mit seinen Rossen, Zu uns hinschiessend trinke dann den Soma, o Indra, Heil! wir spendeten zum Rausch dir.
Besteige das an den Wagen geschirrte Falbenpaar; komm zu uns, wie Vayu die Niyutgespanne besteigend! Im Galopp kommend sollst du bei uns den Trank trinken. Indra! Wohl bekomm´s! Wir haben ihn dir zum Rausche gespendet.
Садись, о Индра, на пару буланых коней, запрягаемых в колесницу!
Приезжай к нам, как Ваю, (погоняя свои) упряжки!
Помчавшись к нам, ты будешь пить сому.
О Индра, Свага! – мы дали тебе (питья) для опьянения.
उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि । द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ॥
उप॑ । अ॒जि॒रा । पु॒रु॒ऽहू॒ताय॑ । सप्ती॒ इति॑ । हरी॒ इति॑ । रथ॑स्य । धूः॒ऽसु । आ । यु॒न॒ज्मि॒ । द्र॒वत् । यथा॑ । सम्ऽभृ॑तम् । वि॒श्वतः॑ । चि॒त् । उप॑ । इ॒मम् । य॒ज्ञम् । आ । व॒हा॒तः॒ । इन्द्र॑म् ॥
हे इन्द्र पुरुहूताय पुरुभिर्बहुभिर्यजमानैर्यज्ञार्थमाहूताय तुभ्यमजिरा शीघ्रगमनशीलौ सप्ती सर्पणशीतौ हरी हरिनामकावश्वौ रथस्य धूर्षु युगप्रान्तेषूपा युनज्मि । अहं तथा योजयामि । द्रवत् स रथो यथा गच्छेत्तथेति शेषः । विश्वतश्चित् सर्वतः सम्भृतं अग्निर्यजुर्भिः सविता स्तोमैरित्यादियज्ञ सम्भारैः सम्पूर्णमिमं यज्ञं प्रतीन्द्रं त्वामुपा वहातः । तावश्वौ । सम्यगावहताम् । धूर्षु । धुर्वी हिंसर्धः । क्विप् । राल्लोप इति वकारलोपः व्रोरुपधाया इति दीर्घः । सावेकाच इति विघक्तेरुदात्तता । युनज्मि । युजिर् योगे । रुधादिः । लटि रूपम् । निघातः । द्रवत् । द्रु गतावित्यस्य छान्दसे लङि रुपम् । व्यत्ययेनान्तोदात्तत्वम् । वहातः । वहेर्लेट्याडागमे रूपं ॥ २ ॥
“I harness for you, who is invoked by many, the swift gliding horses to the shafts of the car, that they may bear Indra to this sacrifice that is prepared with all (that is required).”
For him, the God who is invoked by many, the two swift Bay Steeds to the pole I harness,
That they in fleet course may bring Indra hither, e'en to this sacrifice arranged completely.
The nimble span, the pair of fallow bays I yoke to the yoke-poles of the chariot for the much invoked one.
The two will bring Indra right here to this sacrifice assembled from every side, as if at a run.
Die schnellen Rosse schirr ich an, die hellen, dem vielgerufnen Indra an die Deichsel, Dass rasch sie ihn zu diesem Opfer fahren, das wir aus allem recht zusammenfügten.
Ich schirre dem Vielgerufenen das rasche Gespann, das Falbenpaar an die Joche des Wagens, auf daß sie Indra zu diesem vollständig zugerüsteten Opfer eilig heranfahren.
Для многопризываемого обоих быстрых
Буланых скакунов я впрягаю в оглобли колесницы,
Чтоб быстро они примчали Индру,
На эту жертву, полностью приготовленную.
उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः । ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥
उपो॒ इति॑ । न॒य॒स्व॒ । वृष॑णा । त॒पुः॒ऽपा । उ॒त । ई॒म् । अ॒व॒ । त्वम् । वृ॒ष॒भ॒ । स्व॒धा॒ऽवः॒ । ग्रसे॑ताम् । अश्वा॑ । वि । मु॒च॒ । इ॒ह । शोणा॑ । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒द्धि॒ । धा॒नाः ॥
वृषभ कामानां वर्षक स्वधावोऽन्नवन् हे इन्द्र वृषणा सेचनसमर्थौ त पुष्पा तापकेभ्यः शत्रुभ्यो रक्षकावश्वावुपो नयस्व । अस्मत्समीपं प्रापय । उत अपि च त्वमीमेनं यजमानमव । पालय । शोणा शोणवर्णौ तावश्वाविहास्मिन्देवयजने वि मुच । विमिक्तौ तावश्वौ ग्रसेताम् । विघसं भक्षयताम् । त्वं तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्धि । भक्षय । नयस्व । नयतेर्लोटि रूपम् । तपुष्पा । पा रक्षणे । आतोऽनुपसर्गे कः । सुपां सुलुगिति डादेशः । इसुसोः समर्थ्य इदि संहितायां विसर्जनीयस्य षत्वम् । कृदुत्तरपदप्रकृतिस्वरः । अव । अवतेर्लोटि रूपम् । स्वधावः । मतुवसोरिति नकारस्य रुत्वम् । निघातः । ग्रसेताम् । ग्रसु अदन इत्यस्य लोट्यातामि रुपम् । पादादित्वादनिघातः । आतामो लसार्वधातुकस्वरे धातुस्वरः । मुच । मुञ्चतेर्लोटि रूपम् । आगमानुशासनस्यानित्यत्वान्नुमभावः । सदृशीः । समान्सहब्द उपपदे दृशिर् प्रेक्षन इत्यस्मात्समानान्ययोश्चेति कञ्प्रत्ययः । समानस्य दृग्दृश्वतुष्विति सभावः । टिड्ढाणञ् इत्यादिना ङेप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । अद्भि । अद भक्षण इत्यस्य लोट्यदादित्वाच्छओप् लुक् । हुझल्भ्योहेर्धिरिति ध्यादेश । निघातः । धानाः । डुधाञ् धारनपोषणयोः । धापॄवस्यज्यतिभ्यो न इति नप्रत्ययः । प्रत्ययस्वरः ॥ ३ ॥
“Showerer (of benefits), giver of food, guide hither your vigorous horses, defending (us) against foes, and protect (your worshippers); here unharness the bay steeds, and give them fodder, and you eat daily suitable food.”
Bring the strong Steeds who drink the warm libation, and, Bull of Godlike nature, be thou gracious.
Let thy Steeds eat; set free thy Tawny Horses, and roasted grain like this consume thou daily.
Lead near the two bullish (stallions), protecting them from the scorching heat, and help them—you autonomous bull.
Let the two horses graze. Unhitch the two sorrels here. Every day eat roasted grains of the same appearance.
Die Hengste führe her, die Warmes trinken, erquicke sie, o Held, du selbstgewalt'ger, Lass essen sie und löse hier die rothen; den täglich gleichen Körnerbrei geniesse.
Lenk die beiden Hengste her, die vor Glut geschützten, und sorge für sie, du eigenmächtiger Bulle! Die beiden Rosse sollen fressen, spann hier die rötlichen aus, iß du Tag für Tag die gleichen Gerstenkörner!
Приведи двух жеребцов, охраняющих от (вражеского) огня (?),
А также помоги ты им, о бык самовластный!
Пусть кормятся оба коня! Распряги здесь (их) обоих, красных!
День за днем ешь такие же зерна!
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू । स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
ब्रह्म॑णा । ते॒ । ब्र॒ह्म॒ऽयुजा॑ । यु॒न॒ज्मि॒ । हरी॒ इति॑ । सखा॑या । स॒ध॒ऽमादे॑ । आ॒शू इति॑ । स्थि॒रम् । रथ॑म् । सु॒खम् । इ॒न्द्र॒ । अ॒धि॒ऽतिष्ठ॑न् । प्र॒ऽजा॒नन् । वि॒द्वाम् । उप॑ । या॒हि॒ । सोम॑म् ॥
चातुर्विंशिकेऽहनि माध्यन्दिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा त इत्यारम्भणीया । सुत्रितं च । ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुं नो लोकमनुनेशि विद्वान् । आ. ७-४ । इति ॥हे इन्द्र ब्रह्मयुजा ब्रह्मणा मन्त्रेण योक्तव्यौ सधमादे । माद्यन्ति योद्धारोऽत्रेति मादो युद्धम् । सहमादः सधमादः । तस्मिन्युद्धे सखाया समानपसिद्धी अत एवाशू क्षिप्रगमनोपेतौ ते तव हरी अश्वौ ब्रह्मणा स्तोत्रेण युनज्मि । रथे संयोजयामि । स्थिरं सुदृढं सुखं सुष्ठुद्वारं तादृशं रथमधितिष्ठन् आरूढस्त्वं सोमपानार्थमायाहि । प्रजानन्नित्याद्यगमत् । ब्रह्मयुजा । युजेरौणादिकः कर्मणि क्विप् । युनज्मि । युजेर्लिटिरूपम् । निघातः । सधमादे । मदी हर्षे । अधिकरणे घञ् । सध मादस्थयोश्छन्दसीति सहस्य सधादेशः । कृदुत्तरपदप्रकृतिस्वरः । रथम् । अधिशीङ् स्थासाम् कर्मेति कर्मसञ्ज्ञा । सुखम् । खनु विदारणे । अन्येभ्योऽपि दृश्यत इति डः । कृदुत्तरपदस्वरः ॥ ४ ॥
“I harness with prayer your horses, who are to be harnessed with prayer, who are allies and swift-paced in battle; arise, and all-knowing Indra, mounting on your firm and easy chariot, come to the libation.”
Those who are yoked by prayer I harness, fleet friendly Bays who take their joy together.
Mounting thy firm and easy car, O Indra, wise and all-knowing come thou to the Soma.
With a sacred formulation I yoke for you the formulation-yoked pair of fallow bays, your swift comrades in joint revelry.
O Indra, mounting the sturdy, well-naved chariot, thinking ahead,
knowing, drive up to the soma.
Ich schirre dir durch Spruch die spruchgeschirrten das rasche Rossepaar beim Mahl, o Indra, Besteig den festen gutgeschmierten Wagen, des Weges kundig, komme her zum Soma.
Mit kräftigem Zuspruch schirre ich dir die beiden durch bloßen Zuspruch geschirrten Falben, deine Kameraden bei dem Somagelage, die Renner. Besteige den festen, leichten Wagen, o Indra, und komm des Weges kundig als Kenner zum Soma!
Священным словом я запрягаю для тебя запрягаемую (одним лиш священным словом)
Пару буланых коней, любителей совместных опьянений, быстрых;
Взойдя на прочную легкоходную колесницу, о Индра,
Предвосхищая как знаток, приезжай на сому!
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये । अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभि॑: कृणवाम॒ सोमै॑: ॥
मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये । अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥
हे इन्द्र वृषणा कामानां सेचकौ वीतपृष्ठा कमनीयपृष्ठभागौ ते तव हरी अन्ये अस्मदन्ये यजमानासो यजमाना मा नि रीरमन् । मा हर्षयन् । वयं तु सुतेभिरभिषुतैः सोमैस्ते तवारं पर्याप्तं कृणवाम । यथा तव तृप्तिर्भवति तथा कुर्म इत्यर्थः । त्वं तु अत्यायाहि शश्वतः । बहूनन्यानतिक्रम्य सोमपानार्थं शीघर्मागच्छ । वितपृष्ठा । वी कान्त्यादिषु । अस्मात्त्कप्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः । रीरमन् । रमु क्रीडायामित्यस्य ण्यन्तस्य लुङि चङि रूपम् । न माङ्योग इत्यडभावः । निघातः । अत्यायाहि । यातेर्लोटि रूपम् । गतिर्गताविति पूर्वस्य निघातः । कृणवाम । कृणोतेर्लोटि रूपम् । निघातः ॥ ५ ॥
“Let not other sacrifices attract your vigorous and smooth-backed steeds; disregarding others, come perpetually hither, that we may propitiate you sufficiently with effused Soma libations.”
No other worshippers must stay beside them thy Bays, thy vigorous and smooth-backed Coursers.
Pass by them all and hasten onward hither: with Soma pressed we will prepare to feast thee.
Let other sacrificers not stop your bullish, straight-backed fallow bays. Drive beyond them, each and every one. We will prepare properly for you with pressed soma drinks.
Nicht mögen andre Opfrer deine Hengste die höckerlosen, goldigen ergötzen; An allen geh vorüber, komm zu uns her, wir stehn bereit dir mit gepresstem Soma.
Nicht sollen andere Opferer deine falben Hengste, die geradrückigen, anhalten. Fahr an allen vorüber, wir wollen es dir mit dem ausgepreßten Soma recht machen.
Да не остановят другие жертвователи
Пару твоих буланых жеребцов с прямыми спинами!
Проезжай мимо всех них! Мы хотим
Удовлетворить тебя выжатыми соками сомы.
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि । अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥
तव॑ । अ॒यम् । सोमः॑ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्ऽत॒मम् । सु॒ऽमनाः॑ । अ॒स्य । पा॒हि॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि । आ । नि॒ऽसद्य॑ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे॑ । इन्दु॑म् । इ॒न्द्र॒ ॥
तवायं सोम इति माध्यन्दिने सवने नेष्टुः प्रस्थितयाज्या । सूत्रितं च । तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्रदिवः । आ. ५-५ । इति ॥हे इन्द्र अयं सोमस्तव त्वदर्थमभिषुतः । त्वमर्वाङ् सोमाभिमुख्येनैहि । आयाहि । आगत्य च सुमानाः शोभनमनस्को भूत्वा शश्वत्तमं भूयांसमस्येमं सोमः पाहि । पिब । बर्हिषि प्रवृद्धेऽस्मिन्यज्ञे निशद्योपविश्येन्दुं क्लेदनशीलमिमिं सोमं जठर आ दधिष्व । धारय । यथा नाभेरधस्तान्न गच्छति तथा धारय । अङ्गिरोभिरागहि यज्ञियेभिः । ऋग्वे. १०-१४-५ । इत्यत्र न यज्ञविशेशणं बर्हिर्भिन्नरूपं वा तदित्यतो नोत्सृह्यते । इहि इण् गतौ । अस्य लोटि रूपम् । निघातः । शश्वतमम् । उञ्छादित्वादन्तोदात्तत्वम् । पाहि । पा पान इत्यस्य लोटि रूपम् । बहुलं छन्दसीति शपो लुक् । निघातः । निषद्य । सदेर्ल्यपि सदेरप्रतेरिति षत्वम् । लित्स्वर्तः । दधिश्व । इन्दुम् । उन्दी क्लेदने । उन्भेरिच्चादेरित्युप्रत्ययः । धातोरादेरिकारादेशः । निदित्यनुवृत्तेराद्युदात्तः ॥ ६ ॥
“This soma libation is for you; come down, and well disposed, drink of it unceasingly; seated on the grass at this sacrifice, take Indra, this (libation) into your belly.”
Thine is this Sorna: hasten to approach it. Drink thou thereof, benevolent, and cease not.
Sit on the sacred grass at this our worship, and take these drops into thy belly, Indra.
Yours is this soma here. Come here, nearby. Well-disposed, drink of it each time anew.
At just this sacrifice, having sat down on the ritual grass, put just this drop into your belly, Indra.
Der Soma hier ist dein, o komme nah her, mit lust'gem Sinne trinke fort und fort ihn; Bei diesem Opfer sitzend auf der Streu hier nimm diesen Indu, Indra, in den Bauch auf.
Für dich ist dieser Soma, komm heran, zum soundsovielten Male trink wohlgemut von diesem! Setz dich zu diesem Opfer auf das Barhis und nimm den Saft in deinem Bauch auf, Indra!
Твой этот сома. Ты приезжай к нам!
Благожелательный, пей его в который раз!
Сев на солому на этом жертвоприношении,
Прими в (свою) утробу этот сок, о Индра!
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोम॑: कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् । तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥
स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः॑ । कृ॒ताः । धा॒नाः । अत्त॑वे । ते॒ । हरि॑ऽभ्याम् । तत्ऽओ॑कसे । पु॒रु॒ऽशाका॑य । वृष्णे॑ । म॒रुत्व॑ते । तुभ्य॑म् । रा॒ता । ह॒वींषि॑ ॥
हे इन्द्र ते तवोपवेशनार्थं बर्हिः स्तीर्णं विस्तृतम् । तथा सोमश्च त्वदर्थं सुतः । अभिशुतः । ते तव हरिभ्यामत्तवे भक्षणार्थम् धाना भृष्टयवाः कृताः । सम्पादिताः । तदोकसे । तद्बर्हिरोको निलयो यस्य तस्मै । पुरुशाकाय बहुभिः स्तुत्याय यद्वा बहुसहायाय वृष्णे कामानां वर्षित्रे मरुत्वते मरुतो देववितः । तद्वते । एवं भूताय तुभ्यं हवींषि सोमाज्यादीनि राता । अस्माभिर्दत्तानि । तानि सेवस्वेति भावः । स्तीर्णम् । स्तृञ् आच्छादन इत्यस्य ऋत इद्धातोरितीत्वम् । रदाभ्यामिति निष्थानत्वम् । प्रत्ययस्वरः । अत्तवे । अद भक्षण इत्यस्मात्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । तदोकसे । बहुव्रीहौ पूर्वपदस्वरः । पुरुशाकाय । शच व्यक्तायां वाचित्यस्मात्कर्मणि घञ् । चजोः कु घिण्यतोरिति कुत्वम् । कृदुत्तरपदस्वरः । मरुत्वते । तसौ मत्वर्थ इति भसञ्ज्ञायां तकारस्य जश्त्वाभावः । प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः । राता । रा दान इत्यस्मात्कर्मणि क्तः । प्रत्ययस्वरः ॥ ७ ॥
“The sacred grass is strewn for you; the Soma, Indra, is poured forth; the grain wherewith to feed your horses is prepared; the oblations are offered to you abiding on the sacred grass, who is praised of many, and is the showerer (of benefits), attended by the Maruts.”
The grass is strewn for thee, pressed is the Soma; the grain is ready for thy Bays to feed on.
To thee who lovest them, the very mighty, strong, girt by Maruts, are these gifts presented.
The ritual grass has been strewn for you, the soma pressed, o Indra. The roasted grains have been prepared for your fallow bays to eat.
To the bull of many talents who is accustomed to it, to you
accompanied by the Maruts are the oblations given.
Gestreut ist Streu, gepresst der Soma, Indra, gekocht der Brei zur Speise deinen Füchsen; Dir, der es wünscht, dem kraftbegabten Stiere, Marut-umscharten sind gereicht die Speisen.
Das Barhis ist für dich ausgelegt, der Soma ist gepreßt, o Indra, die Gerstenkörner sind für deine Falben zum Essen bereitet. Wie du es gewohnt bist, sind dir, dem vielvermögenden Bullen in Begleitung der Marut die Opfergaben gespendet.
Расстелена для тебя солома, выжат сома, о Индра,
Приготовлены зерна, чтоб кормилась пара твоих буланых коней.
Для тебя, находящего в этом удовольствие, быка,
Который может многое, (бога,) сопровождаемого Марутами, пожертвованы возлияния.
इ॒मं नर॒: पर्व॑ता॒स्तुभ्य॒माप॒: समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् । तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
इ॒मम् । नरः॑ । पर्व॑ताः । तुभ्य॑म् । आपः॑ । सम् । इ॒न्द्र॒ । गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् । तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ । स्वाः ॥
हे इन्द्र नरः कर्मणां नेतारोऽध्वय्वादयः पर्वता ग्रावाण आपश्चैते सर्व सम्भूय तुभ्यं त्वदर्थमिमं सोमं गोभिः पयोभिर्मधुमन्तं माधुर्योपेतं समक्रन् । सम्यगकार्षुः । ऋष्व दर्शनीय हे इन्द्र सुमन्सः शोभनमनस्को विद्वान्कर्माभिज्ञः स्वाः स्वकीयाः पथ्या वैदिके पथि कर्मणि साधुभूताः स्तुतीरनु प्रजानन् त्वं तस्य पाहि । इममभिषुतं सोमं पिब । अक्रन् । करोतेर्लुङि रूपम् । निघातः । आगत्य । गमेर्ल्यपि रूपम् । लित्स्वरः । पाहि । पातेर्लोटि रूपं ॥ ८ ॥
“The leaders (of the ceremony) have prepared for you, Indra, this (libation), sweetened with milk, the stones, the water; beautiful Indra, who is favourably disposed, and who is wise, knowing well (the worship) that is according to your peculiar paths, come and drink of this libation.”
This the sweet draught, with cows, the men, the mountains, the waters, Indra, have for thee made ready.
Come, drink thereof, Sublime One, friendly-minded, foreseeing, knowing well the ways thou goest.
This (soma) have the men, the mountains, and the waters jointly with the cows made honeyed for you.
Having come here along your own paths, well-disposed, drink of it,
lofty one, thinking ahead, knowing.
Den süssen Trank hier machten dir die Männer, die Steine, Wasser, Indra, sammt den Kühen; O komm und trink ihn wohlgemuth, erbab'ner, der du Bescheid weisst, kennend deine Pfade.
Diesen Soma haben die Männer, die Berge, die Wasser zusammen mit den Kühen für dich, Indra, zu einem süßen Trank bereitet. Komm, du Recke, und trinke wohlgemut davon, wegekundig, deine gewohnten Straßen kennend!
Мужи, горы, воды для тебя, о Индра,
Сделали этого (сому) сладким, (смешанным) с коровьим (молоком).
Приехав, благожелательно испей его, о выдающийся,
Предвосхищая как знаток, следуя своим путем!
याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ । तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥
यान् । आ । अभ॑जः । म॒रुतः॑ । इ॒न्द्र॒ । सोमे॑ । ये । त्वाम् । अव॑र्धन् । अभ॑वन् । ग॒णः । ते॒ । तेभिः॑ । ए॒तम् । स॒ऽजोषाः॑ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया॑ । सोम॑म् । इ॒न्द्र॒ ॥
हे इन्द्र यान्मरुतः सोमे सोमपानविशय आभजः समभावयः ये च मरुतस्त्वामवर्धन् युद्धे प्रोत्साहोत्पादनेनावर्धयन् ये च मरुतस्ते तव गणोऽभवन् सहाया अभूवन्नित्यर्थः । हे इन्द्र एवं विधैस्तेभिस्तैर्मरुद्भिः सजोषाः सङ्गतः सन् एतमभिषुतं सोमं वावशानः कामयमानस्त्वमग्नेराहुत्यधिकरणभूतस्याहवनीयस्य ज्वालारुपाया जुह्वयेमं पिब । अभजः । भज सेवायामित्यस्य लङि रुपम् । यद्वृत्तयोगादनिघातः । अवर्धन् । वृधु वर्धन इत्यस्य ण्यन्तस्य लङि रुपम् । छन्दस्युभयथेति झेरार्धधातुकत्वाण्णेरनिटिति णिलोपः । अत्रापि यद्योगादनिघातः । अभवन् । वाक्यभेदादनिघातः । वावशानः । वह्स कान्तावित्यस्य यङ् लुकि चानशि रूपम् । चित्स्वरः । पिब । पा पाने । निघातः ॥ ९ ॥
“Associated, Indra, with those Maruts with whom you have shared in the libation, who encouraged you (in battle), and are your attendant troop, drink, desirous of the Soma, along with them, with the tongue of Agni.”
The Maruts, they with whom thou sharedst Soma, Indra, who made thee strong and were thine army,-
With these accordant, eagerly desirous drink thou this Soma with the tongue of Agni.
The Maruts to whom you gave a share in soma, who strengthened you and became your flock—
joined in pleasure with them, eagerly desirous, drink the soma with the tongue of Agni, Indra.
Mit denen, Indra, du den Soma theiltest, die dich erfreuten, deine Marutscharen, Mit denen trink vereinigt diesen Soma, o Indra lustig mit des Agni Zunge.
Die Marut, die du am Soma teilnehmen ließest, o Indra, die dich stärkten und dein Gefolge wurden, mit denen zusammen trinke verlangend durch die Zunge des Agni diesen Soma, Indra!
Маруты, которых, о Индра, ты наделил долей в соме,
Которые подкрепили тебя, стали твоей свитой, –
С ними вместе полный желания пей
Этого сому с помощью языка Агни!
इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र । अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥
इन्द्र॑ । पिब॑ । स्व॒धया॑ । चि॒त् । सु॒तस्य॑ । अ॒ग्नेः । वा॒ । पा॒हि॒ । जि॒ह्वया॑ । य॒ज॒त्र॒ । अ॒ध्व॒र्योः । वा॒ । प्रऽय॑तम् । श॒क्र॒ । हस्ता॑त् । होतुः॑ । वा॒ । य॒ज्ञम् । ह॒विषः॑ । जु॒ष॒स्व॒ ॥
हे इन्द्र स्वधया स्वमात्मानं दधाति पोषयतीति स्वधा बलम् । तेन चिद्विकल्पार्थः । बलादपहृत्य सुतस्य सुमतमभिषुतं हुतं वा पिब । यजत्र यष्टव्येन्द्राग्नेर्ज्वालारुपया जिह्वाया वाहुतं सोमं पाहि । पिब । हे शक्र समर्थेन्द्र अध्वर्योर्हस्ताद्वा प्रयतं दातुमुपक्रान्तं सोम पिब । अथवा होतुर्यज्ञं यजनीयं वषट्कारोप्तं हविषो भागं जुषस्व । सेवस्व । सर्वथापि त्वमत्रागत्यास्माभिर्दीयमानं सोमं पिबेति भावः । पिब । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । अध्वर्योः । अध्वरं कामयतिति क्यच् । कव्यध्वरेत्यकारलोपः । प्रत्ययस्वरः । तत एकादेशस्वरः । प्रयतम् । यम उपरम इत्यस्य कर्मणि निष्हा । शक्र । शक्लृ शक्तौ । स्फायितञ्चीत्यादिना रक् । हस्तात् । असिहसीत्यादिना तन् । नित्स्वरः । होतुः । जुहोतेस्ताच्छीलिकस्तृन् । नित्स्वरः । जुशस्व । जुषी प्रीतिसेनयोरित्यस्य लोटि रूपम् । निघातः ॥ १० ॥
“Adorable Indra, drink of the effused libation, either by your own effort, or through the tongue of Agni; drink it, Śakra, offered by the hand of the adhvaryu, or accept the presentation of the oblation (from the hand) of the Hotā.”
Drink, Indra, of the juice by thine own nature, or by the tongue of Agni, O thou Holy.
Accept the sacrificial gift, O Sakra, from the Adhvaryu's hand or from the Hotar's.
Indra, drink of the pressed (soma) just by your own power or take a drink with the tongue of Agni, o you who deserve the sacrifice.
Either from the hand of the Adhvaryu or from the oblation of the
Hotar enjoy the offered sacrifice, able one.
O Indra, trink auf eigne Hand vom Safte, o hehrer, oder mit des Agni Zunge; Geniess, o Starker, das gereichte Opfer aus Dieners Hand und aus dem Guss des Priesters.
Indra! Trink nach eignem Ermessen vom Soma oder trink mit der Zunge des Agni, du Opferwürdiger, oder aus der Hand des Adhvaryu den dargebotenen, du Mächtiger, oder erfreue dich an dem Weihspruch des Hotri zur Opferspende!
О Индра, пей выжатого (сому) по своему собственному усмотрению,
Или пей с помощью языка Агни, о достойный жертв,
Или предложенного из руки адхварью, о могучий,
Или наслаждайся жертвой хотара, (его) возлиянием!
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । आस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं सूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मह्गवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशययेन नेतारम् त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु व्रुत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नण्तं हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शओप् लुकि कृते च लिङि रुपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्षने । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ११ ॥
“We invoke for our protection the opulent Indra distinguished in this combat; the leader in the food bestowing (strife), hearing (our praises), terrible in battles the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in the fight where spoil is gathered,
The Strong, who listens, who.gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute; Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного – для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!