इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धा॒: शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः । सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भि॒: सुश्रु॑तो॒ भूत् ॥
इमाम् । ऊँ॒ इति॑ । सु । प्रऽभृ॑तिम् । सा॒तये॑ । धाः॒ । शश्व॑त्ऽशश्वत् । ऊ॒तिऽभिः॑ । याद॑मानः । सु॒तेऽसु॑ते । व॒वृ॒धे॒ । वर्ध॑नेभिः । यः । कर्म॑ऽभिः । म॒हत्ऽभिः॑ । सुऽश्रु॑तः । भूत् ॥
विश्वामित्र इन्द्रं स्तौति । हे इन्द्र ऊतिभिः । अवन्ति रक्षण्ति सर्वमित्य़ुतयो मरुतः । तैः शश्वच्छश्वत्सर्वदा यादमानः सङ्गतिं याचमानस्त्वं प्रभृतिम् । प्रकर्षेण भ्रियते धार्यते यज्ञार्थमिति प्रभृतिः सोमः स्तुतिर्वा । इमामिमं सोममिमां स्तुतिं वा सातयेऽस्माकं धनलाभार्थं सु धाः । सुष्थु सम्पादय । तथा स इन्द्रः सुते सुते सोमेऽभिषुते सति वर्धनेभिर्वधनकारिभिः सोमाज्यादिभिर्हविर्भिर्वावृधे । वर्धते । य इन्द्रो महद्भिः कर्मभिरसुरवधमेघभेदनादिलक्षणैर्व्यापारैः सुश्रुतो लोके प्रसिद्धो भुत् । स इन्द्र इति पुर्वेणान्वयः । प्रधृतिम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । धाः । दधातेश्छान्दसे लुङि रूपम् । निघातः । शश्वच्छश्वत् । नित्यवीप्सयोरिति द्विर्वचनम् । यादमानः । टुयाचृयाज्ञायां शानचि रूपम् । चकारस्य दकारश्छान्दसः । वावृधे । वृधु वर्धन इत्यस्माल्लिटि रूपम् । तुजादित्वादभ्यासस्य दीर्घः सुहितायाम् । निघातः । वर्धनेभि । वर्धतेर्ण्यन्तस्य नन्दादित्वाल्ल्युट् लित्स्वरः । सुश्रुतः श्रु श्रवण इत्यस्मात्कर्मणि क्तः । गतिरनन्तर इत् गतिस्वरः । भूत् । भवतेर्लुङि रूपं ॥ १ ॥
“Indra, who is constantly seeking (association) with your allies (the Maruts) accept this, our offering (made) for the grant (from you of riches); for you are one who grows with augmenting energies, through reiterated libations, and has been renowned for glorious deeds.”
WITH constant succours, fain thyself to share it, make this oblation which we bring effective.
Grown great through strengthening gifts at each libation, he hath become renowned by mighty exploits.
Set this offering here to be won, being ever newly united with help. At every pressing he is strengthened by strengthenings, he who has
become well famed through great deeds.
Lass dieses Lied und Opfer wohlgelingen, indem mit Hülfen fort und fort du herkommst; An Kraft erstarkte er bei jedem Trunke, er, der durch grosse Werke hochberühmt ward.
Dieser Darbbringung verhilf fein immer wieder im Verein mit deinen Hilfen zum Sieg. Bei jedem Soma hat er sich an den Stärkungen gestärkt, er der durch große Taten hochberühmt wurde.
Устрой получше это принесение (жертвы так), чтобы оно имело успех.
Снова и снова прибегая к поддержкам!
При каждом выжатом (соме) он крепнул благодаря подкреплениям,
(Тот,) кто стал столь знаменит (своими) великими деяниями.
इन्द्रा॑य॒ सोमा॑: प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॑: ॥
इन्द्रा॑य । सोमाः॑ । प्र॒ऽदिवः॑ । विदा॑नाः । ऋ॒भुः । येभिः॑ । वृष॑ऽपर्वा । विऽहा॑याः । प्र॒ऽय॒म्यमा॑नान् । प्रति॑ । सु । गृ॒भा॒य॒ । इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ ॥
माध्यन्दिने सवनेऽच्छावाकस्य प्रस्थितयाज्येन्द्राय सोमाः प्रदिव इत्येषा । सूत्रितं च । इन्द्राय सोमाः प्रदिवो विदाना आपूर्णो अस्य । आ. ५-५ । इति ॥हे इन्द्र इन्द्राय तुभ्यं सोमाः प्रदिवः प्रगतेषु पूर्वेश्वहःसु विदानाः । अस्मभिरम्भिताः । वृषपुर्वः । व्रुषाणः फलस्य वर्षकाः पर्वाणि कालावयवा वर्षाद्या यस्य स तथोक्तः । कालात्मक इत्यर्थः । अत एव विहायाः । विजहात्युत्सृजत्यर्थानर्थिभ्य इति विहाया महान् । तादृश इन्द्रो येभिर्यैर्दत्तैः सोमैरृभुर्दीप्तो वर्तते हे इन्द्र त्वं प्रयम्यमानान् प्रकर्षेण मन्त्रैरुपयम्यमानानिमान्सोमान् सु सुष्ठु प्रति गृभाय । प्रतिहृहाण । गृहीत्वा च वृषधूतस्य वृशभिर्ग्रावभिरभिषुतं वृष्णः स्वर्गादिफलवर्षकमिमं सोमं पिब ॥ प्रदिवः । दिवु क्रीडादौ । क्विप् । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । दिव् शब्दो दिवसवाची । कृदुत्तरपदस्वरः । विदानाः । विद्लृ लाभ इत्यस्य व्यत्ययेन शानच् । बहुलं छन्दसीति विकरणस्य लुक् । विहायाः । ओहाक् त्यागे । वहिहाधाञ्भ्यश्छन्दसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युगागमः । गातिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वम् । गृभाय । ग्रह उपादान इत्यस्य लोटि हौ श्नाप्रत्ययस्य छन्दसि शायजपीति शायजादेशः । हृग्रहोर्भ इति भत्वम् । अते हेरिति हेर्लुक् । निघातः ॥ २ ॥
“To Indra have libations been presented in the days of old, whereby he has become illustrious, the regulator of time, the granter of desires; accept, Indra, these prescribed (offerings), and drink of this auspicous (Soma), expressed by the stones.”
For Indra were the Somas erst- discovered, whereby he grew strong-jointed, vast, and skilful.
Indra , take quickly these presented juices: drink of the strong, that which the strong have shaken.
From olden days the soma drinks are known to Indra, because of which he, the craftsman, has bullish joints and extensive power.
Grasp at (the drinks) being offered; Indra, drink of the bull, rinsed
by bulls.
Dem Indra ist von je geweiht der Soma, durch den er kunstreich, gliederstark und gross wird, Ergreife, Indra, schnell den dargereichten, den starken trink, den Starke dir gekeltert.
Dem Indra sind seit lange die Somatränke bekannt, durch die er wie Ribhu starkgliederig ward, zu voller Kraft gelangt. Nimm die dargebotenen doch ja an; trink, Indra, von dem bullenstarken, von dem von Bullenstarken im Wasser Geschwenkten!
Индре соки сомы знакомы от века,
(Те,) благодаря которым он (стал) умелым, с мощными суставами, здоровым.
Прими же их, когда их настойчиво предлагают!
О Индра, пей быка, которого полоскали быки!
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे । यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥
पिब॑ । वर्ध॑स्व । तव॑ । घ॒ । सु॒तासः॑ । इन्द्र॑ । सोमा॑सः । प्र॒थ॒माः । उ॒त । इ॒मे । यथा॑ । अपि॑बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा॑न् । ए॒व । पा॒हि॒ । पन्यः॑ । अ॒द्य । नवी॑यान् ॥
माध्यन्दिने सवनेऽच्छावाकशस्त्रे यज्या पिबा वर्धस्वेत्येषा । सूत्रितं च । पिबा वर्धस्व तव घा सुतास इति याज्या । आ. ५-१६ । इति ॥हे इन्द्र इमं सोमं पिब । ततो वर्धस्व । शरीरेण पुष्टो भव । त्वदर्धं प्रथमाः पुरातना उत अपि चेमेऽभिनवा उभयविधाः सोमाः सुतासो घ । ग्रावभिरभिषुताः खलु । हे इन्द्र पूर्व्यान्पुरतनान्सोमान्यथा त्वमपिब एवैवमध्याधुना पन्यः स्तुत्योऽत एव नवीयानतिशयेनाभिनवस्त्वमिमानभिनवान्सोमान्पाहि । पिब ॥ पिब । पातेर्लोटि रूपम् । वर्धस्व । तिङ उत्तरत्वान्निघाताभावः । अपिबः । यथायोगादनिघातः । पाहि । पातेर्लोटि बहुलं छनसीति शपो लुक् । निघातः । पन्यः । पनतेः स्तुत्यर्थस्याघ्न्यादित्वाद्यत् । यस्योऽनाव इत्याद्युदात्तत्वम् । नवीयान् । नवशब्दादीयसुनि रूपम् । नित्स्वरः ॥ ३ ॥
“Drink, Indra, and thrive; yours are these (present) libations, as were the primitive libations; you who is adorable, drink today the recent libations, as you drank those of old.”
Drink and wax great. Thine are the juices, Indra, both Somas of old time and these we bring thee.
Even as thou drankest, Indra, earlier Somas, so drink to-day, a new guest, meet for praises.
Drink, become strong. Yours are the pressed soma drinks, Indra—the first ones and these here.
Just as you drank the previous soma drinks, Indra, so take a drink
today, as the one to be admired anew.
Geniess, erstarke; dein ja sind die Säfte, und, Indra, diese ersten Somatränke; Wie Indra du vordem den Soma trankest, so trink ihn heut aufs neue, preisenswerther.
Trink, stärke dich! Dein sind die gepreßten Somatränke, Indra, die allerersten und auch diese. Wie du den früheren Soma getrunken hast, Indra, so trink als der Gefeierte heute aufs neue!
Пей! Подкрепляйся! Твои ведь выжатые
Соки (сомы), о Индра, первые и вот эти.
Как ты пил прежние соки сомы, о Индра,
Так же пей сегодня, о Индра, вызывая восхищение, обновленный!
म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शव॑: पत्यते धृ॒ष्ण्वोज॑: । नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ॥
म॒हान् । अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शी । उ॒ग्रम् । शवः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः॑ । न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । एन॑म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् ॥
योऽयमिन्द्रो महानतिशयितसामर्थ्यवान् वृजने बलोपलक्षिते युद्धेऽमत्रः शत्रूणामभिभवितात एव विरष्ठी विरपणिशीलो भुजास्फालनेन हुद्धार्थं शत्रूणामाह्वानकारी । यद्वा विविधं रपणं स्तुतिलक्षणं यस्येति । स सर्वैः स्तुत्य इत्यर्थः । तादृशस्येन्द्रस्योग्रमुद्गूर्णं शवो बलं धृष्णु धर्षनशीलमोजः पराक्रमलक्षणं तेजः पत्यते । सर्वत्र प्रसरति । एनमेतादृशमहिमोपेतमिन्द्रं पृथिवी विस्तीर्णा भूमिर्नविव्याच । नव्याप्नोति । अहशब्द एवार्थे । चनेत्यप्यर्थे । द्यौरपि न व्याप्नोतीत्यर्थः । यद्यदा सोमासः स्वाहा कृता सोमा हर्यश्वमिन्द्रममन्दन् । आमादयन् । तदा तमेनं द्यावापृथिव्यौ वा प्युं न शक्नुत इत्यर्त्थः ॥ आमन्तः । आम गत्यादिषु । अमिनक्षियजीत्यादिनात्रन्प्रत्ययः । नित्स्वरः । विरप्शी । रप लप व्यक्तायां वाचि । औणादिकः शप्रत्ययः । विविधं रपन्तीति विरप्याः स्तोतारः । तेऽस्य सन्तीत्यत इनिः । यद्वा विविधं रपणं विरप्यम् । तदस्यास्तीति । प्रत्ययस्वरः । पथते । व्यत्ययेन कर्तरि यक् । निघातः । धृश्णु । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुप्रत्ययः । रशाभ्यामिति णत्वम् । प्रत्ययस्वरः । विव्याच । व्यचेर्लिटि णलि लिट्यभ्यासस्योभयेषामित्यभ्यासस्य सम्प्रसारणम् । निघातः । चनेति निपातसमुदायश्चार्थे वर्तते । एवमादित्वादन्तोदात्तः । आमन्दन् । मदि स्तुत्यादिष्वित्यस्य लङे रूपम् । यद्योगादनिघातः ॥ ४ ॥
“The great Indra, the victorious in battle, the defier of foes; his fierce strength and resolute vigour are exerted; verily the earth does not contain him, neither (does the heaven), when the Soma libations exhilarate the lord of the tawny steeds.”
Great and impetuous, mighty-voiced in battle, surpassing power is his, and strength resistless.
Him the broad earth hath never comprehended when Somas cheered the Lord of Tawny Coursers.
A great ample tankard at the (ritual) enclosure, he is master of powerful capacity, daring power.
The earth never encompasses him, when the soma drinks have
exhilarated the one with the fallow bays.
Gross, unermesslich, kräftig bei dem Opfer, besitzt er hohe Macht und kühne Stärke, Die Erde selbst umfasst ihn nimmer, wenn ihn, den Füchselenker, Somatrunk berauscht hat.
Ein großer Humpen, bei dem Opfer übervoll, besitzt er gewaltige Stärke, kühne Kraft. Nicht einmal die Erde umfaßte ihn, wann die Somatränke den Falbenfahrer berauscht haben.
Могучий сосуд, переполненный в (жертвенной) общине,
Он владеет грозной силой, дерзкой отвагой.
Сама земля не вмещала его,
Когда соки сомы опьяняли обладателя буланых коней.
म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न । इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गाव॒: प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ॥
म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या॑य । स॒म्ऽआच॑क्रे । वृ॒ष॒भः । काव्ये॑न । इन्द्रः॑ । भगः॑ । वा॒ज॒ऽदाः । अ॒स्य॒ । गावः॑ । प्र । ज॒य॒न्ते॒ । दक्षि॑णाः । अ॒स्य॒ । पू॒र्वीः ॥
महान्युद्धकर्मणि बलवानुग्रः शत्रूणां भयङ्कर इन्द्रो विर्याय विर्यकरनाय वावृधे । वर्धते । वृषभः फलस्याभिवर्षको भगः सर्वैर्भजनीयः स इन्द्रः काव्येन । कवयः स्तोतारः । तत्कर्म स्तोत्रम् । तेन स्तोत्रेण समाचक्रे । सङ्गच्छते । तादृशस्यास्येन्द्रस्य गावो वाजदाः क्षीरादिलक्षणान्नप्रदाः प्रजायन्ते । तथास्य पूर्वीर्बह्व्यस्ता गावो दक्षिणाः प्रजायन्ते । वावृधे । वर्धतेर्लिटि रूपम् । निघातः । वीर्याय । वीरे भवं वीर्यम् । भवे छन्दसीति यत् । वीरवीर्यौ चेत्यत्र यतोऽनाव इत्यस्यानित्यत्वस्य ज्ञापितत्वात्तित्स्वरितः । समाचक्रे । करोतेर्लिटि रूपम् । गतिर्गताविति पूर्वस्य गतेर्निघातः । काव्येन । कवेः कर्म काव्यम् । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादुपधावृद्धिः । ञित्स्वरः । वाजदाः । ददातेरातोऽनुपसर्गे कः जायन्ते । जनी प्रादुर्भाव इत्यस्य लटि रूपम् । दक्षिणाः । दक्षवृद्धावित्यस्मात् द्रुदक्षिभ्यामिनन्नितीनन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ५ ॥
“The mighty, fierce, auspicious Indra, the showerer (of benefits), augments (in power) as he is animated for heroic (acts) by praise; his cattle are genitive rated givers of food; many are his donations.”
Mighty and strong he waxed for hero exploit: the Bull was furnished a Sage's wisdom.
Indra is our kind Lord; his steers have vigour; his cows are many with abundant offspring.
Great, powerful, he is strengthened for the heroic deed. The bull has been perfected through poetic insight.
Indra is the apportioner. His cows are givers of prizes. His gift-cows propagate in abundance.
Der grosse mächt'ge wuchs zur Heldenstärke, mit Seherkraft vereinigte der Held sich; Gut schenket Indra, Labung seine Rinder, und reichlich pflanzen fort sich seine Kühe.
Groß, gewaltig ist er zu voller Manneskraft erwachsen; er hat mit Sehergabe die Kühe zusammengetrieben. Indra ist Bhaga, seine Kühe sind gewinngebend, seine vielen Belohnungen vermehren sich durch Nachwuchs.
Могучий, грозный окреп для героического подвига.
Бык собрался (духом) благодаря поэтической силе.
Индра – Бхага, его коровы дают награды,
Его воздаяния размножаются, многочисленные.
प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नाप॑: समु॒द्रं र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्र॒: सद॑सो॒ वरी॑या॒न्यदीं॒ सोम॑: पृ॒णति॑ दु॒ग्धो अं॒शुः ॥
प्र । यत् । सिन्ध॑वः । प्र॒ऽस॒वम् । यथा॑ । आय॑न् । आपः॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । ज॒ग्मुः॒ । अतः॑ । चि॒त् । इन्द्रः॑ । सद॑सः । वरी॑यान् । यत् । ई॒म् । सोमः॑ । पृ॒णति॑ । दु॒ग्धः । अं॒शुः ॥
सिन्धवो नद्यो यथा प्रसवम् । प्रकर्षेण सूयत इति प्रसवः कामः । तमनुसृत्य यद्यदा प्रायन् प्रकृष्टमतिदूरं समुद्रं गच्छन्ति तदापो महान्तं समुद्रं रथ्येव रथिन इव जग्मुः । प्रीणनार्थं गच्छन्ति । तद्वत् अतश्चित्सदसोऽस्मादप्यन्तरिक्षादसाविन्द्रो वरीयान् । उरुतरः खलु । यदीं यमेनमिन्द्रं दुद्ग्धोऽभिषुतोऽंशुर्लताखण्दरूपोऽल्पः सोमः पृणति प्रीणयति । यथाल्पा नद्योऽल्पीयांसि च जलानि महान्तं समुद्रं प्रीणयन्ति तद्वदल्पतरोंऽशुभुतः सोमो वरीयांसमिन्द्रं प्रीणयति ॥ प्रसवम् । सवतेः कर्मण्यप् । थाथादिस्वरः । आयन् । अयतेर्लङि रुपम् । यद्योगादनिघातः । रध्येव । रथेस्येमे रथ्याः । रथाद्यदिति यत् । सुपां सुलुगिति सुपो डादेशः । तित्स्वरितः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरः । जग्मुः । गमेर्लिटि रूपम् । गमहनेत्यादिनोपधालोपः । निघातः । वरीयान् उरुशब्दादीयसुनि प्रियस्थिरेत्यादिना वरादेशः । नित्त्वादाद्युदात्तः । पृणति । पृण प्रीणने । तुदादिः । यद्योगादनिघातः । दुग्धः । दुहेः क्तः । एकाच इतीट् प्रतिशेधः । दादेर्धातोर्घ इति हकारस्य घत्वम् । झषस्तथोर्धोऽधः । प्रत्ययस्वरः ॥ ६ ॥
“As the rivers pursue their course, the waters rush to the ocean like the drivers of cars (to a goal), so the vast Indra (hastens) from his dwelling (in the firmament), when the humble Som alibation propitiates him.”
As floods according to their stream flow onward, so to the sea, as borne on cars, the waters.
Vaster is Indra even than his dwelling, what time the stalk milked out, the Soma, fills him.
When the rivers set forth like a shot, their waters went to the sea like (two) charioteers.
But Indra is wider even than that seat [=sea], when soma, the milked plant, fills him.
Als wie zum Sturze vor die Ströme eilten, so rollten Rädern gleich zum Meer die Wasser; Und dann wird Indra breiter als sein Sitz noch, wenn ihn der Soma, der gemelkte Saft füllt.
Als die Ströme sich gleichsam in Galopp setzten, da kamen die Wasser zum Meere wie auf einer Fahrstraße. Noch breiter als dieser Sitz ist Indra, wenn ihn der Soma, der ausgemolkene Stengel anfüllt.
Когда реки, словно по побуждению, двинулись вперед,
Воды устремились в океан, будто (погоняемые) колесничим.
Еще шире, чем это сидение, сам Индра,
Когда его наполняет сома, выдоенный стебель.
स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तः । अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्व॑: पुनन्ति॒ धार॑या प॒वित्रै॑: ॥
स॒मु॒द्रेण॑ । सिन्ध॑वः । याद॑मानाः । इन्द्रा॑य । सोम॑म् । सुषु॑तम् । भर॑न्तः । अं॒शुम् । दु॒ह॒न्ति॒ । ह॒स्तिनः॑ । भ॒रित्रैः॑ । मध्वः॑ । पु॒न॒न्ति॒ । धार॑या । प॒वित्रैः॑ ॥
समुद्रेण । सहिता नद्यादिरूपेणापोऽभिद्रवन्त्येनमिति समुद्रः । तेन यादमानास्तेन सह सङ्गतिं याचमानाः सिन्दह्वो नद्यो यथा तं पूरयन्ति तद्वद्धस्तिनो हस्तवन्तोऽध्वर्व्यादय इन्द्राय तुभ्यं सुषुतं सुष्ठ्वभिषुतं सोमं भरन्त । सम्पादयन्तोंशुं दुहन्ति । लताखण्डमभिषुण्वन्ति । तथा तेऽध्वर्व्यादयः स्रवतो रसस्य धारया पवित्रैः पावनैर्भरित्रैः । कर्मकरणार्थं पदार्थान्बिभ्रतिति भरित्रा बाहवः । तैर्मध्वो माधुर्योपेतान्सोमान्पुनन्ति । शोधयन्ति । समुद्रेण समुत्पूर्वाद्द्रवतेरन्येभ्योऽपि दृश्यत इति डः । डित्त्वाट्टिलोपः । यद्वा । उन्दी क्लेदने । सम्पूर्वस्य स्फायुतञ्चीत्यादिना रक् । कित्त्वादुपधालोपः । उभयत्र प्रत्ययस्वरः । सुपा सहैकादेशे कृत एकादेश उदात्त एव । यादनाना । टु याचृ याज्ञायाम् । शानच् । व्यत्ययेन चकारस्य दकारः । शानचो लसार्वधातुकस्वरे धातुस्वरः । दुहन्ति । दुह प्रपूरण इत्यस्य लटिरूपम् । भरित्रैः । डुभृञ् धारण पोषणयोरित्यस्मादशित्रादिभ्य इत्रोत्रावितीत्रप्रत्ययः । प्रत्ययस्वरः । पुनन्ति । पूञ् पवन इत्यस्य लटि रूपम् । ॥ ७ ॥
“As the rivers are solicitious (to mix) with the ocean, so (are the priests) bearing the efficient libation to Indra; holding in their hands they milk the Soma, and purify the sweet Soma (as they fall) indrops through the purifying filters.”
Eager to mingle with the sea, the rivers carry the well-pressed Soma juice to Indra.
They drain the stalk out with their arms, quick-banded, and cleanse it with a stream of mead and filters.
The rivers, uniting with the sea, are carrying well-pressed soma to Indra,
(while) those who possess hands [=human priests] milk the plant with (the tools) they use for carrying [=those same hands]; they purify it
in a stream of honey with purifying filters.
Die Ströme gehen mit dem Schwall der Wogen dem Indra bringend schön gebrauten Soma; Mit Hand und Armen melken Kraut die Priester und läutern es mit süssem Strom und Seihen.
Indem sie dem Indra den wohlausgepreßten Soma bringen, wie die Flüsse ihr Wasser, wenn sie sich mit dem Meere vereinigen, melken die behändeten Priester mit den Armen den Stengel; sie läutern die Güsse des Süßtrankes im Gusse durch die Seihen.
(Как) реки, сливающиеся с океаном, (несут воду),
Несущие для Индры прекрасно выжатого сому
(Жрецы) с (умелыми) руками выжимают пальцами стебель.
Они очищают сладкие (соки) – струей через цедилки.
ह्र॒दा इ॑व कु॒क्षय॑: सोम॒धाना॒: समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ । अन्ना॒ यदिन्द्र॑: प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ॥
ह्र॒दाःऽइ॑व । कु॒क्षयः॑ । सो॒म॒ऽधानाः॑ । सम् । ई॒म् इति॑ । वि॒व्या॒च॒ । सव॑ना । पु॒रूणि॑ । अन्ना॑ । यत् । इन्द्रः॑ । प्र॒थ॒मा । वि । आश॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒वृ॒णी॒त॒ । सोम॑म् ॥
इन्द्रस्य कुक्षय उदराणि सोमधानाः । सोमो निधीयते येष्विति सोमधानाः । तत्र दृष्ताण्तः । ह्रदा इव । यथा ह्रदा जलाधारा भवन्ति तद्वत् । ईं सोऽयमिन्द्रः पुरूणि सवना त्रीणि सवनानि सं विव्याच । सम्यक् व्याप्नोति । इन्द्रः प्रथमा प्रथमान्यन्ना भक्षणीयानि सोमादीन्यनानि यद्यस्माद्व्याश विशेषेण जघास ततो वृत्रं जघन्वान्वृत्रस्य हन्तेन्द्रः सोमं माध्यन्दिन सवने देवेभ्योऽव्णीत । समभजत । कुक्षयः । कुष निश्क्र्षे । प्लुशिकुषिशुषिभ्यः क्सिः । उ. ३-१५५ । कुष्यत इति कुक्षिः । प्रत्ययस्वरः । सोमधानाः । दधातेरधिकरणे ल्युट् । लित्स्वरः । विव्याच । व्यचेर्लिटि रूपम् । अन्नाः । अद भक्षणे । अद्यत इत्यन्नम् । आश । अश भोजन इत्यस्य लिटि णलि रूपम् । अत आदेरित्यभ्यासस्य दीर्घः । यद्योगादनिघातः । लित्स्वरः । वैत्रम् । न लोकाव्ययेति षष्ठीप्रतिषेधः । जघन्वान् । हन्तेः क्वसाविडभावे रूपम् । प्रत्ययस्वरः । अवृणीत । वृङ् सम्भक्तावित्यस्य लङि रूपं ॥ ८ ॥
“The stomach of Indra (is) as capacious (a receptacle) of Soma, as a lake, for he has partaken of it at many sacrifices; and inasmuch as he has eaten the first (sacrificial) viands, he has been the slayer of Vṛtra, and has shared the Soma (with the gods).”
Like lakes appear his flanks filled full with Soma: yea, he contains libations in abundance.
When Indra had consumed the first sweet viands, he, after slaying Vrtra, claimed the Soma.
His cheeks are like lakes holding soma; he entirely encompasses many pressings.
When Indra devoured the first foods, having smashed Vr̥tra he chose the soma.
Sein Bauch voll Soma gleicht dem Meeresbecken, und in sich fasst er viel Gebräu der Säfte; Als Indra nach Genuss der ersten Speisen den Vritra schlug, da wählt' er sich den Soma.
Wie Seen sind deine somafassenden Seiten; er nimmt auf einmal viele Trankspenden in sich auf. Als Indra die ersten Speisen verzehrte, da erwählte er, der den Vritra erschlug, für sich den Soma.
Как озера, его бока – вместилища сомы.
Он вобрал (в свою утробу) многие выжиманья.
Когда Индра поглотил первые кушанья,
Убив Вритру, он выбрал себе сому.
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥
आ । तु । भ॒र॒ । माकिः॑ । ए॒तत् । परि॑ । स्था॒त् । वि॒द्म । हि । त्वा॒ । वसु॑ऽपतिम् । वसू॑नाम् । इन्द्र॑ । यत् । ते॒ । माहि॑नम् । दत्र॑म् । अस्ति॑ । अ॒स्मभ्य॑म् । तत् । ह॒रि॒ऽअ॒श्व॒ । प्र । य॒न्धि॒ ॥
हे इन्द्र तु क्षिप्रं धनमा भर । एतत्त्वय दीयमानं धनं माकिः को वा परि ष्ठात् । प्रतिबध्य तिष्ठेत् । त्वा त्वां वसूनां धनानां वसुपतिमुत्तमस्य धनस्य स्वामिनम् विद्म हि । जानीमः खलु । ते तव माहिनं महनीयं यद्दत्रं धनमस्ति हे यर्यश्व दद्धनमस्मभ्यं प्र यन्धि । प्रयच्छ । तु । ऋचि तुनुघेत्यादिना संहितायां दीर्घः । भर । भरतेर्लोटि रूपम् । माकिः । विपातः । स्थात् । तिष्ठतेश्छान्दसे लुङिरूपम् । उपसर्गात्सुनोतीत्यादिना संहितायां षत्वम् । निघातः । विद्म वेत्तेर्लटि विदो लटो वेति मसो मादेशः । प्रत्ययस्वरः । सम्हितायां द्व्यचोऽतस्तिङ इति दीर्घः । वसुपतिम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः । माहिनम् । महेरिनण् चेतीनण्प्रत्ययः । णित्त्वादुपधावृद्धिः । ग्रामादित्वादाद्युदात्तः । यन्धि । यमु उपरमे । लोटि बहुलं छन्दसीति शपो लुक् । सेर्हिः । तस्य वा छन्दसीति पित्त्वस्य विकल्पितत्वादत्राङित्त्वादङितश्चेति हेर्ध्यादेशः निघातः ॥ ९ ॥
“Quickly, Indra, bring (wealth); let no one impede you, for we know you to be the lord of wealth, of all treasures; and since, Indra, your greatness is munificence, therefore, lord of the tawny steeds, grant us (riches).”
Then bring thou hither, and let none prevent it:
we know thee well, the Lord of wealth and treasure.
That splendid gift which is thine own, O Indra, vouchsafe to us, Lord of the Tawny Coursers.
Bring it to us, let none intercept it;
For we know thee as wealth lord of riches;
That mighty gift of thine, O Indra,
Vouchsafe it us, O lord of the bay steeds [3].
Bring it here. Let no one contain it. For we know you as the goods-lord of goods.
Indra, the great giving that is yours—offer it to us, o possessor of the fallow bays.
So bring doch her, lass niemand es verhindern, da wir dich kennen als den Herrn der Güter; Welch' herrliches Geschenk du hast, o Indra, das reich uns dar, o Lenker goldner Rosse.
Bring doch mit! Keiner soll dir dabei im Wege stehen! Wir kennen dich ja als den Herrn der Güter. Gewähre uns, o Falbenlenker, deine großmächtige Gabe, die du, Indra, hast!
Принеси же (богатства)! Да не станет никто поперек пути!
Ведь знаем мы тебя как господина добра.
О Индра, (тот) великий дар, который у тебя есть,
Пожалуй его нам, о обладатель буланых коней!
अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरे॑: । अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ॥
अ॒स्मे इति॑ । प्र । य॒न्धि॒ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । इन्द्र॑ । रा॒यः । वि॒श्वऽवा॑रस्य । भूरेः॑ । अ॒स्मे इति॑ । श॒तम् । श॒रदः॑ । जी॒वसे॑ । धाः॒ । अ॒स्मे इति॑ । वी॒रान् । शश्व॑तः । इ॒न्द्र॒ । शि॒प्रि॒न् ॥
जातकर्मण्यंसाभिमर्शनेऽस्मे प्रयन्धीत्येषा । आ. गृ. १-१५ । यद्यपि सा निर्दहेदिति वचनेन शंसने निषिद्धा तथाप्यभिमर्शनस्य शंसने चोदितत्वान्नोक्त दोषः ॥मघवन्भनवन्नृजीषिन् गतसारसोमवन् हे इन्द्र विश्ववारस्य । विश्वैः सर्वैः सम्भजनीयतया वरणं यस्य तत् । भूरेर्भूरि बहु रायो धनम् । द्वितीयार्थे षष्ठी । अस्मे अस्मभ्यं प्र यन्धि । प्रयच्छ । किञ्च अस्मे अस्माकं जीवसे जीवनाय शतं शरदः सम्वत्सरान्धाः । देहि । शिप्रिन् शोभनहनो हे इन्द्र अस्मे अस्माकं शश्वतः । थश्वदिति बहुनाम । बहूईन्वीरान्पुत्रान्देहि । जीवसे । जीव प्राणधारन इत्यस्य तुमर्थेऽसेप्रत्ययः । प्रत्ययस्वरः । शश्वतः । टुओश्वि गतिवृद्ध्योः । अस्मात्संश्चद्वेहदित्यादिना अतिप्रत्यान्तत्वेन निपातनादिष्टरूपसिद्धिः ॥ १० ॥
“Opulent Indra, receiver of the spiritless Soma, give to us riches in universally desired quantity; grant us to live a hundred years; bestow upon us, Indra wiht the handsome chin, numerous posterity.”
O Indra, Maghavan, impetuous mover, grant us abundant wealth that brings all blessings.
Give us a hundred autumns for our lifetime: give us, O fair-checked Indra, store of heroes.
Offer us (a portion) of abundant, all-desirable wealth, o bounteous Indra of the silvery drink.
Provide a hundred autumns for us to live; (provide) for us ever new
heroes, o Indra of the lips.
᳓
Uns reiche dar, vordringender, gewalt'ger, viel Gut, o Indra, reich an allen Gaben; Gib, dass wir hundert Herbste noch erleben, und viele Söhne uns, behelmter Indra.
Schenk uns, du gabenreicher trestersomatrinkender Indra, von deinem allbegehrten vielen Reichtum! Gewähre uns hundert Herbste zum Leben, uns vollzählige Söhne, o Indra mit der Trinkerlippe.
Нам пожалуй, о щедрый пьющий выжимки
Индра, из (твоего) богатства, заключающего в себе все желанное, обильного!
Нам положи сотню осеней для жизни,
Нам – непрерывную череду мужей, о Индра прекрасногубый!
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तधा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृध्योरित्यस्य निश्ठायां यस्य विभाशेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ११ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat; the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Indra, Maghavan, auspicious, best Hero in the fight where spoil is gathered,
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute; Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!