वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च । इन्द्र॒ त्वा व॑र्तयामसि ॥
वार्त्र॑ऽहत्याय । शव॑से । पृ॒त॒ना॒ऽसह्या॑य । च॒ । इन्द्र॑ । त्वा॒ । व॒र॒या॒म॒सि॒ ॥
विश्वामित्रः स्तौति । हे इन्द्र वार्त्रहत्याय वृत्रहनननिमित्ताय शवसे बलाय अपि च पृतनाषाह्याय' परकीयसेनाभिभवाय त्वाम् आ सर्वतः वर्तयामसि प्रवर्तयामः ॥ वार्त्रहत्याय । वृत्रघ्नः कर्म इत्यर्थे ब्राह्मणादित्वात् ष्यञ् । 'हनस्तोऽचिण्णलोः ' ( पा. सू. ७. ३. ३२ ) इति तकारः । ञित्वादाद्युदात्तः । पृतनाषाह्याय । ‘षह मर्षणे ' इत्यस्माद्भावे ‘शकिसहोश्च ' इति यत् । संहितायां ‘सहेः पृतनर्ताभ्यां च ' (पा. सू. ८. ३. १०९ ) इति षत्वम् । दीर्घश्छान्दसः । वर्तयामसि । ‘वृतु वर्तने' इत्यस्य ण्यन्तस्य मसः ‘इदन्तो मसिः' इति मसि इत्यादेशः । निघातः ॥
“We excite you, Indra, to exert the strength that destroys Vṛtra, and overpowers hostile armies.”
O INDRA, for the strength that slays Vrtra and conquers in the fight,
We turn thee hitherward to us.
For Vr̥tra-smashing capacity and for victory in battle—
Indra—we turn you hither.
Wir wenden, Indra dich herbei zur Stärke, die den Vritra schlägt, Und zu der Feindbewältigung.
Indra! Wir bringen dich her zur Übermacht, die die Feinde erschlägt, und zum Sieg im Kampf.
Для силы, способной к убийству врагов,
И для победы в сражениях,
О Индра, мы привлекаем тебя (сюда).
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षु॑: शतक्रतो । इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घत॑: ॥
अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । उ॒त । चक्षुः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घतः॑ ॥
हे शतक्रतो । शतं क्रतवो यस्यासौ शतक्रतुः । हे इन्द्र वाघतः । वहन्ति यज्ञियां धुरमिति वाघतः स्तोतारः । ते तव सु अस्मदभिमतफलसंपादनेन शोभनं मनः अर्वाचीनम् अस्मदभिमुखं कृण्वन्तु कुर्वन्तु । उत अपि च चक्षुः त्वदीयं दर्शनम् अस्मास्वनुग्रहदृष्टिं कुर्वन्तु ॥ अर्वाचीनम् । ‘विभाषाञ्चेरदिक्स्त्रियाम्' इति खप्रत्ययः । खस्येनादेशः । चक्षुः । चक्षेः शिच्च ' इत्युसिप्रत्ययः । शिद्वद्भावात् ख्याञादेशाभावः । नित्' इत्यनुवृत्तेः आद्युदात्तश्च । कृण्वन्तु ।' कृवि हिंसाकरणयोः' इत्यस्य लोटि रूपम् । आमन्त्रितस्य अविद्यमानवत्वेन पादादित्वादनिघातः। प्रत्ययस्वरः । वाघतः । ‘वह प्रापणे । ‘संश्चद्वेहत्' इत्यादिना अतिप्रत्ययान्तत्वेन निपातनादुपधावृद्धिः । हकारस्य घत्वम् । प्रत्ययस्वरः ॥
“May your praisers, Indra, who is worshipped in a hundred rites, direct your mind and your eyes towards us.”
O Indra, Lord of Hundred Powers, may those who praise thee hitherward.
Direct thy spirit and thine eye.
Let the cantors make your mind inclined our way—
Indra of a hundred resolves—and your eye as well.
Die Beter mögen deinen Sinn, dein Auge schaffen nah herbei, O Indra, hundertwirkender.
Sinn und Auge von dir sollen die Priester fein herwärts richten, du ratreicher Indra.
О Индра, пусть жрецы сделают
Обращенными только сюда мысль твою,
А также взор, о стоумный!
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे । इन्द्रा॑भिमाति॒षाह्ये॑ ॥
नामा॑नि । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । विश्वा॑भिः । गीः॒ऽभिः । ई॒म॒हे॒ । इन्द्र॑ । अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥
शतक्रतो हे इन्द्र अभिमातिषाह्ये । मातिर्मानो गर्वः । अभितो मानो येषां तेऽभिमातयः शत्रवः । तेषां सहनमेव सह्यम् । तस्मिन् युद्धे अस्माकमुपस्थिते सति ते तव नामानि शक्रवज्रहस्तादीनि नामधेयानि यद्वा तदुपलक्षितानि बलानि विश्वाभिर्गीभिः सर्वाभिः स्तुतिलक्षणाभिर्वाग्भिः ईमहे वयं याचामहे ॥ ईमहे । ई कान्त्यादिषु । व्यत्ययेनात्मनेपदम् । अदादित्वाच्छपो लुक् । निघातः ॥
“We recite, Indra, who is worshipped in a hundred rites, (your many) names in all our hymns for strength to resist our foes.”
O Indra, Lord of Hundred Powers, with all our songs we invocate
Thy names for triumph over foes.
We implore your names with all our songs—
Indra of a hundred resolves—in vanquishing hostility.
᳓
Wir rufen deine Namen an durch jedes Lied, viel wirkender, Zur Feindbesiegung Indra dich.
Wir beschwören mit allen Lobesworten deine Namen, du ratreicher Indra, wenn es gilt, der Anschläge Meister zu werden.
Имена твои, о стоумный,
Мы произносим с мольбою во всех песнях,
О Индра, чтобы одолеть преследователей.
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि । इन्द्र॑स्य चर्षणी॒धृत॑: ॥
पु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभिः । श॒तेन॑ । म॒ह॒या॒म॒सि॒ । इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृतः॑ ॥
हे इन्द्र पुरुष्टुतस्य पुरुभिः बहुभिः स्तोतृभिः स्तुतस्य शतेन अपरिमितसंख्याकैः धामभिः तेजोभिः युक्तस्य चर्षणीधृतः चर्षणीनां मनुष्याणां कर्मानुष्ठातॄणामभिमतफलसंपादनेन धारकस्य इन्द्रस्य। यद्वा । आकृषन्ति सर्वमनेन इति चर्षणि बलम् । तद्धारकस्य तव महयामसि महयामः स्तोत्रं कुर्मः ॥ पुरुष्टुतस्य । ‘ष्टुञ् स्तुतौ ' । कर्मणि क्तः । थाथादिस्वरः । संहितायां ' स्तुतस्तोमयोश्छन्दसि' इति षत्वम् । महयामसि । ‘मह पूजायाम् ' इत्यस्य लटि इदन्तो मसिः । निघातः । चर्षणीधृतः । 'कृष आकर्षणे '। ‘कृषेरादेश्च चः' (उ. सू. २. २६१ ) इत्यनिप्रत्ययः । ककारस्य चकारादेशः । यद्वा ‘कृष विलेखने ' । कर्षन्तीति चर्षणयो मनुष्याः । ‘धृ धारणे' । क्विप् । कृदुत्तरपदस्वरः ॥
“We repeat the praise of the many-lauded Indra the supporter of man, invested with a hundred glories.”
We strive for glory through the powers immense of him whom many praise,
Of Indra who supports mankind.
We magnify (him) through the hundred embodiments of the
much-praised one,
of Indra, the supporter of the settled domains.
᳓
Mit hundert Liedern rühmen wir, wie das der vielgepriesene, Der Volkbeschützer Indra will.
Mit den hundert Eigenschaften des vielgepriesenen, völkererhaltenden Indra verherrlichen wir ihn.
За сотню проявлений
Многопрославленного Индры,
Поддерживающего народы, мы возвеличиваем (его).
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे । भरे॑षु॒ वाज॑सातये ॥
इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । पु॒रु॒ऽहू॒तम् । उप॑ । ब्रु॒वे॒ । भरे॑षु । वाज॑ऽसातये ॥
हे इन्द्र वृत्राय हन्तवे वृत्रनामकमसुरं हन्तुं भरेषु युद्धेषु वाजसातये अन्नोपलक्षितधनलाभाय च पुरुहूतं पुरुभिराहूतम् इन्द्रं बलवन्तं त्वाम् उप ब्रुवे सोमपानार्थं विश्वामित्रोऽहमाह्वयामि । वृत्राय । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानम् । हन्तवे । हन्तेस्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः ॥ ब्रुवे । ‘ब्रूञ् व्यक्तायां वाचि' इत्यस्य लट्युत्तम इटि रूपम् । निघातः । वाजसातये । सननं सातिः । वाजस्य सातिर्वाजसातिः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरः ॥ ॥ २१ ॥
“I invoke you, Indra, who is invoked of many for the slaying of Vṛtra, and the granting of food (as the spoil) of battle.”
For Vrtra's slaughter I address Indra whom many invocate,
To win us booty in the wars.
Indra, much invoked, I call toward me to slay Vr̥tra,
to win spoils in raids.
Den vielgerufnen sprech ich an, dass Indra tödte unsern Feind, Und Beute schaffe in der Schlacht.
Dem vielgerufenen Indra rede ich zu, daß er den Vritra erschlage, daß er in den Kämpfen den Preis gewinne.
К Индре, много (раз) призванному, я обращаюсь,
Чтобы он убил Вритру,
Чтобы он добыл награду в битвах.
वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो । इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥
वाजे॑षु । स॒स॒हिः । भ॒व॒ । त्वाम् । ई॒म॒हे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । वृ॒त्राय॑ । हन्त॑वे ॥
शतक्रतो हे इन्द्र वाजेषु संग्रामेषु सासहिः शत्रूणामभिभविता भव । वृत्राय 'हन्तवे वृत्रं हन्तुं त्वामीमहे प्रार्थयामहे ॥ सासहिः । ‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ' इति किप्रत्ययः । तस्य स्वरः । वृत्राय । कर्मणः संप्रदानम् । हन्तवे । तुमर्थे तवेन्प्रत्ययः ॥
“Be victorious, Indra, in battles; we solicit you, object of many rites, to destroy Vṛtra.”
In battles be victorious. We seek thee, Lord of Hundred Powers,
Indra, that Vrtra may be slain.
Be victorious when the prize (is set). We implore you,
Indra of a hundred resolves, to slay Vr̥tra.
Sei Sieger in den Kämpfen du, den Feind zu tödten flehn wir dich, O Indra, hundertwirkender,
Sei siegreich in den Preiskämpfen; wir beschwören dich, ratreicher Indra, den Vritra zu erschlagen.
Будь победителем в битвах за награду!
Мы взываем к тебе, о стоумный
Индра, чтобы ты убил Вритру.
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रव॑स्सु च । इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥
द्यु॒म्नेषु॑ । पृ॒त॒नाज्ये॑ । पृ॒त्सु॒तूर्षु॑ । श्रवः॑ऽसु । च॒ । इन्द्र॑ । साक्ष्व॑ । अ॒भिऽमा॑तिषु ॥
द्युम्नेषु द्योतमानेषु धनेषु प्राप्तव्येष्वभिमानिनो ये सपत्नाः पृतनाज्ये । पृतनानामजनं गमनं यस्मिन्निति पृतनाज्यं संग्रामः । तस्मिन् संग्रामे च पृत्सुतूर्षु पृतनासु तरणशीलेषु शूरेषु श्रवःसु बलेषु च येऽभिमानिनः सपत्नाः सन्ति तान् हे इन्द्र साक्ष्व अभिभव । तथा अभिमातिषु सर्वतो गर्वयुक्तेषु शत्रुषु पुरुषेषु ये सपत्नाः तांश्चाभिभव ॥ पृतनाज्ये । अज गतिक्षेपणयोः' इत्यस्य ण्यन्तस्य ‘अचो यत्' । पृतनानामाज्यं पृतनाज्यम् । एकादेशस्वरः। पृत्सुतूर्षु । पृतनाशब्दस्य सौ परतः ‘मांस्पृत्स्नूनामुपसंख्यानम् ' इति पृदादेशः ।' ञित्वरा संभ्रमे ' । ताच्छीलिकः क्विप् । ज्वरत्वर' इत्यादिना ऊठ्। तत्पुरुषे कृति बहुलम्' इति पूर्वपदस्य सप्तम्या अलुक् । कृदुत्तरपदस्वरः । साक्ष्व । ‘षह मर्षणे ' इत्यस्य लोटि ' बहुलं छन्दसि ' इति शपो लुक् । ढत्वकत्वे । दीर्घश्छान्दसः ॥
“Overcome, Indra, those who are adverse to us in riches, in battle, in hostile hosts, in strength.”
In splendid combats of the hosts, in glories where the fight is won.
Indra, be victor over foes.
Amid brilliant outbursts on the battle-drive, amid claims to fame that bring success in battles,
Indra, be victorious at the hostilities.
Um Beute in der Heeresschlacht, um Gut in Kämpfen mit dem Feind; Besieg die Gegner Indra du.
Bei den Glanztaten in der Schlacht und bei den in den Schlachten siegreichen Ruhmestaten sei du, Indra, siegreich über die Anschläge!
В блистательных делах, в состязании с врагами,
И в делах славы, связанных с победами в битвах,
О Индра, одерживай верх над преследователями!
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम् । इन्द्र॒ सोमं॑ शतक्रतो ॥
शु॒ष्मिन्ऽत॑मम् । न । ऊ॒तये॑ । द्यु॒म्निन॑म् । पा॒हि॒ । जागृ॑विम् । इन्द्र॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥
शतक्रतो हे इन्द्र शुष्मिन्तमं बलवतां मध्येऽतिशयेन बलवन्तं द्युम्निनं दीप्तिमन्तम् । यद्वा शुष्मिन्तमं शत्रूणां शोषकतमं द्युम्निनं यशस्विनम्। जागृविं जागरणशीलम् । पीतः सोमो जागृविः स्वप्ननिवारक इति । तादृशं नः अस्माकं संबन्धिनं सोमम् ऊतये अस्माकं रक्षणाय पाहि अत्रागत्य पिब ॥ शुष्मिन्तमम् । तमपः पित्वादनुदात्तत्वे प्रत्ययस्वरः । पाहि । पातेर्लोटि • बहुलं छन्दसि ' इति शपो लुक् । निघातः । जागृविः । क्विन्प्रत्ययान्तः । नित्त्वादाद्युदात्तः ॥
“Drink, Indra, object of many rites, for our preservation, the most invigorating, fame-conferring, sleep-dispelling, Soma.”
Drink thou the Soma for our help, bright, vigilant, exceeding strong,
O Indra, Lord of Hundred Powers.
Drink the most unbridled, brilliant, wakeful soma—
Indra of a hundred resolves—to aid us.
Den Soma trink zur Hülfe uns, den stärksten, muntern, glänzenden, O Indra, hundertwirkender.
Trink unseren feurigsten, glänzenden, wachhaltenden Soma zum Beistand, du ratreicher Indra!
Чтобы поддержать (нас), пей нашего
Самого буйного, блистательного,
Бодрящего сому, о Индра стоумный!
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥
इ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ । इन्द्र॑ । तानि॑ । ते॒ । आ । वृ॒णे॒ ॥
शतक्रतो हे इन्द्र ते तव संबन्धिषु पञ्चसु जनेषु गन्धर्वाः पितरो देवा असुरा रक्षांसि इत्येषु या यानि इन्द्रियाणि रूपग्रहणादिसामर्थ्यानि स्थितानि ते त्वदीयानि तानि इन्द्रियाण्यहम् आ वृणे संभजे । यद्वा पञ्चजनेषु निषादपञ्चमेषु चतुर्षु जनेषु यानीन्द्रियाणि सामर्थ्यानि तानि त्वदीयान्यहमावृणे ॥ इन्द्रियाणि । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा' इति धच्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वृणे । ‘वृङ् संभक्तौ ' इत्यस्य लटि रूपम् । निघातः ॥
इन्द्रियाणीति। हे शकक्रतो पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिवर्णेषु यानि ते तवानुग्रहादिन्द्रियाणि सामर्थ्यानि सन्ति, हे इन्द्र तानि सर्वाणि ते तवानुग्रहादावृणे समन्ताद्गृह्णामि।
“Indra, object of many rites, I regard the organs of sense, that exist in the five races (of beings dependent) on you as yours.”
O Satakratu, powers which thou mid the Five Races hast displayed-
These, Indra, do I claim of thee.
O Śatakratu, the strength of thine
That is in the five folks,
That do I choose of thee.
Your Indrian powers that are among the five peoples—
Indra of a hundred resolves—those I want for myself.
Die Indrakräfte wünsch' ich her, die, Indra, hundertwirkender, Du bei den fünf Geschlechtern zeigst.
Deine Kraftäußerungen, die unter den fünf Völkern bekannt sind, die erbitte ich mir von dir, ratreicher Indra.
Те доблести Индры, о стоумный,
Которые у тебя среди пяти народов,
О Индра, – я выбираю их себе.
अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् । उत्ते॒ शुष्मं॑ तिरामसि ॥
अग॑न् । इ॒न्द्र॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । द॒धि॒ष्व॒ । दु॒स्तर॑म् । उत् । ते॒ । शुष्म॑म् । ति॒रा॒म॒सि॒ ॥
हे इन्द्र वृत्रहन्” बृहत् महत् श्रवः सोमलक्षणमस्माभिर्दीयमानमन्नम् अगन् त्वां गच्छतु । त्वं दुष्टरं दुस्तरं शत्रुभिः तरितुम्' अशक्यं द्युम्नं धनं दधिष्व अस्मभ्यं प्रयच्छ । वयं तु ते त्वदीयं शुष्मं बलम् उत्कृष्टं तिरामसि सोमाज्यादिभिर्वर्धयामः ॥ अगन् । गमेर्लङि ‘ बहुलं छन्दसि' इति शपो लुक् । हल्ङ्यादिना तिलोपः । ‘मो नो धातोः '। अडागमस्वरः । दधिष्व । दधातेर्लोटि ‘छन्दस्युभयथा ' इति थास आर्धधातुकत्वादिडागमः । निघातः । दुस्तरम् । तरतेः कृच्छ्रार्थे खल् । सुषामादित्वात् संहितायां षत्वम् । लित्स्वरः । तिरामसि । इदन्तो मसिः । निघातः ॥
“May the abundant (sacrificial) food (we offer) reach you, Indra; grant us wealth that may not easily be surpassed; we augment your vigour (by our offerings).”
Indra, great glory hast thou gained. Win splendid fame which none may mar
We make thy might perpetual.
You have come, Indra, to lofty fame. Establish for yourself brilliance difficult to surpass.
We exalt your unbridled power.
Du, Indra kamst zu hohem Ruhm, nimm an die schwer bezwungne Kraft, Wir steigern höher deinen Muth.
Du, Indra, bist zu hohem Ruhme gelangt; erreiche unübertroffenen Glanz! Wir erhöhen deinen Kampfesmut.
Ты на пути к высокой славе, о Индра.
Достигни непреодолимого блеска!
Мы возвышаем твое неистовство.
अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वत॑: । उ॒ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥
अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒ऽवतः॑ । ऊँ॒ इति॑ । लो॒कः । यः । ते॒ । अ॒द्रि॒ऽवः॒ । इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥
शक्र बलवन् हे इन्द्र अर्वावतः अर्वाचीनात् समीपाद्देशात् अथो अपि च परावतः अतिदूराद्देशात् नः अस्मानभिलक्ष्य आ गहि आगच्छ । अद्रिवः । अत्ति भक्षयति शत्रूनिति अद्रिर्वज्रः । तद्वन् हे इन्द्र ते तव यः उ लोकः उत्तमो लोकोऽस्ति ततः तस्मादपि लोकात् इह अस्मिन् देवयजने देशे सोमपानार्थम् आ गहि आगच्छ । गहि । गमेर्लोटि रूपम् । परावतः ।' उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । प्रत्ययस्वरः । अद्रिवः । ‘मतुवसो रुः० । इति रुः । ततः । पञ्चम्यास्तसिल्' इति तसिल् । लित्स्वरः ॥ ॥ २२ ॥
“COme to us Śakra, whether from afar or nigh; whatever, Indra, wielder of the thunderbolt, be your region, come from thence hither.”
Come to us either from anear, Or, Sakra, come from far away.
Indra, wherever be thy home, come to us thence, O Thunder-armed.
From nearby come here to us—also, able one, from afar.
The broad space that is yours—Indra possessor of the stone—from that come here.
Komm aus der Nähe zu uns her, und, starker, aus der Ferne auch, Welch' Ort dir ist, o Schleuderer, von dem, o Indra, komme her.
Komm zu uns aus der Nähe und aus der Ferne, du Mächtiger! Welches deine Welt ist, von der komm hierher, Indra, Herr des Preßsteins!
Изблизи к нам приходи,
А также издалека, о могучий!
Тот мир, что твой, о повелитель давильных камней, -
О Индра, приходи сюда из него!