अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः । अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥
अ॒भि । तष्टा॑ऽइव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः॑ । न । वा॒जी । सु॒ऽधुरः॑ । जिहा॑नः । अ॒भि । प्रि॒याणि॑ । मर्मृ॑शत् । परा॑णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्ऽदृशे॑ । सु॒ऽमे॒धाः ॥
यजमानः स्तोतारं प्रति ब्रूते । हे स्तोतः मनीषाम् इन्द्रविषयां स्तुतिम् अभि दीधय सर्वतो दीप्तां कुरु । तत्र दृष्टान्तः । तष्टेव । यथा तष्टा तक्षणेन काष्ठं संस्करोति तद्वत् । सुधुरः शोभनया धुरान्वितः वाजी वेगवान् अत्यो न अश्व इव जिहानः कर्मणि प्रवर्तमानः पराणि उत्तमानि प्रियाणि इन्द्रस्य प्रियतमानि । यद्वा । पराणि उत्तरेष्वहःसु क्रियमाणानि कर्माणि अभि मर्मृशत् अत्यर्थमभिमृशन् 'सुमेधाः शोभनमेधावानहं कवीन् । ये पूर्वम् अनुष्ठितयज्ञाः 'देवभूयमगमन् ते कवयः । तान् संदृशे संद्रष्टुम् इच्छामि । उक्तार्थे ब्राह्मणम् -’ अभि तष्टेव दीधया मनीषामित्यच्छावाकोऽहरहः शंसत्यभिवत्तत्यै रूपमभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति कवीँरिच्छामि संदृशे सुमेधा इति ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति' (ऐ. ब्रा. ६. २० ) इति । तष्टेव । ‘तक्षू त्वक्षू तनूकरणे' इत्यस्य तृनि रूपम् । नित्स्वरः । दीधय । दीधीङ् दीप्तिदेवनयोः' इत्यस्यान्तर्भावितण्यर्थस्य लोटि शपो ' बहुलं छन्दसि । इति लुगभावः । व्यत्ययेन परस्मैपदम् । सुधुरः । ‘ आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तर पदाद्युदात्तत्वम् । जिहानः । ‘ ओहाङ् गतौ ' इत्यस्य शानचि' भृञामित्' इत्यभ्यासस्येत्वम् । चित्त्वादन्तोदात्तत्वे प्राप्ते ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । मर्मृशत् ।' मृश आमर्शने' इत्यस्य यङ्लुकि ‘ रुग्रिकौ च लुकि ' इत्यभ्यासस्य रुगागमः । तदन्ताच्छतरि रूपम् । नाभ्यस्ताच्छतुः' इति नुमभावः । अभ्यस्तस्वरः । संदृशे । ‘ दृशिर् प्रेक्षणे ' इत्यस्मात् तुमर्थे ' दृशे विख्ये च' इति केन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । समासे कृदुत्तरपदस्वरः। सुमेधाः । ‘ नित्यमसिच् प्रजामेधयोः' इत्यसिच्प्रत्ययः । चित्स्वरः ॥
“Repeat (to Indra) pious praise, as a carpenter (plural nes the wood), and engaging (zealously in sacred rites), as a quick horse bearing well his burden; endowed with intelligence, and refllecting upon the future acts acceptable (to Indra), I desire to behold the sages (whohave gone to heaven).”
HASTING like some strong courser good at drawing, a thought have I imagined like a workman.
Pondering what is dearest and most noble, I long to see the sages full of wisdom.
Like a craftsman I ponder my inspiration. Bending like a prizewinning steed amenable to the chariot-pole,
touching now on my own dear things, now on distant ones, I seek sage poets to see (these) whole—(though) I (too) have wisdom.
Wie ein Künstler habe ich das Lied ersonnen, wie ein schnelles Ross, das an starker Deichsel geht, erwägend, was das liebste und vorzüglichste sei, wünsche ich einsichtsvoll die Weisen zu sehen [um sie zu befragen].
Wie der Zimmermann sein Werk, so habe ich das Gedicht überlegt, wie ein preisgewinnender Renner, der gut eingefahren ist, einen Anlauf nehmend. An die vertrauten fernen Dinge im Geiste rührend wünsche ich, der Weise, daß die Seher zuschauen.
Как плотник, я задумал поэтическое произведение,
Как скакун, приносящий награды, хорошо выезженный, берущий разбег.
Касаясь (вещей) излюбленных, отдаленных,
Хочу, чтобы поэты (их) увидели, я мудрый.
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृत॑: सु॒कृत॑स्तक्षत॒ द्याम् । इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥
इ॒ना । उ॒त । पृ॒च्छ॒ । जनि॑म । क॒वी॒नाम् । म॒नः॒ऽधृतः॑ । सु॒ऽकृतः॑ । त॒क्ष॒त॒ । द्याम् । इ॒माः । ऊँ॒ इति॑ । ते॒ । प्र॒ऽन्यः॑ । वर्ध॑मानाः । मनः॑ऽवाताः । अध॑ । नु । धर्म॑णि । ग्म॒न् ॥
उत इत्यामन्त्रणे । हे इन्द्र कवीनां सुकृतकर्मणां देवभूयं गतानां जनिम जन्म । केन कर्मणा दिवं गताः कुतो वा तेषामुत्पत्तिः इत्येतमर्थम् इना ईश्वरान् गुरून् पृच्छ । ते कवयः मनोधृतः संयतमनस्का अतः एव सुकृतः शोभनकर्माणः सन्तः द्यां दिवं तक्षत अकुर्वन् । अध अथेदानीं धर्मणि अस्मिन् यज्ञे ते त्वदर्थं प्रण्यः प्रणीयमानाः मनोवाताः मनोवेगाः वर्धमानाः त्वां वर्धयन्त्यः इमाः अस्माभिः क्रियमाणाः स्तुतयः नु क्षिप्रं ग्मन् त्वां गच्छन्तु । उ सर्वत्र प्रसिद्ध्यर्थः ॥ पृच्छ ।' प्रच्छ ज्ञीप्सायाम्' इत्यस्य लोटि तुदादित्वात् शः । तस्य ङित्त्वात् ग्रहिज्यादिना संप्रसारणम् । निघातः । प्रण्यः । ‘ णीञ् प्रापणे ' इत्यस्मात् औणादिकः कर्मणि क्विप् । सर्वविधीनां छन्दसि विकल्पितत्वादियङादेशं बाधित्वा यणादेशः । ‘ उदात्तस्वरितयोः । इति स्वरितत्वम् । ग्मन् । गमेर्लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । झेर्ङित्वात् ‘गमहन° ' इत्यादिना उपधालोपः । निघातः ॥
“Ask of the lords (of earth, the holy teachers), the birth of those deified sages, who with well-governed minds, and diligent in sacred rites, fabricated the heavens; and may these propitiatory (praises), augmenting (your power) and rapid as the wind, reach you at this solemn rite.”
Ask of the sages' mighty generations firm-minded and devout they framed the heaven.
These are thy heart-sought strengthening directions, and they have come to be sky's upholders.
Ask also the powerful generations of the poets: they as good workers, holding their minds firm, crafted heaven for themselves.
These are the precedents for you, which keep growing stronger.
Sought by mind they have now come (to rest) on its [=mind’s] firm
foundation.
Und ich frage die mächtigen Geschlechter der Weisen : [Es folgt deren Antwort] „Die festgesinnten, schönwirkenden [Aditja's] schufen sich dem Himmel; das sind auch deine [des Sängers] Förderungen [Belehrungen], die grossen; holden Sinnes gingen sie [die Aditja's] dann an des Himmels Stütze, i
Frag auch die mächtigen Geschlechter der Seher! Ihr habt entschlossen, gut handelnd den Himmel gezimmert. Diese wachsende Vertraulichkeit, die im Geiste erstrebte, ist nunmehr in rechter Weise, dir gekommen.
Спроси же о могучих родах поэтов:
Поддерживая мысль, прекрасно действуя, они вытесали небо.
А эти твои указания, усиливающиеся,
Желанные мыслью, вот они двинулись, как положено.
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् । सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥
नि । सी॒म् । इत् । अत्र॑ । गुह्या॑ । दधा॑नाः । उ॒त । क्ष॒त्राय॑ । रोद॑सी॒ इति॑ । सम् । अ॒ञ्ज॒न् । सम् । मात्रा॑भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति॑ । अ॒न्तः । म॒ही । समृ॑ते॒ इति॒ सम्ऽऋ॑ते । धाय॑से । धुः ॥
अत्र भूलोके गुह्या गुह्यानि कर्माणि सीमित् सर्वत एव नि दधानाः कुर्वाणा एते कवयः उत अपि च क्षत्राय बलाय धनाय वा रोदसी द्यावापृथिव्यौ समञ्जन् । ओषधीभिः पृथिवीं देवैश्च दिवं संगतामकार्षुः। किंच ते मात्राभिः । मीयन्ते मान्तीति वा मात्राः शिलोच्चयाः। ताभिर्मात्राभिः सं ममिरे । ते रोदस्यावियत्तया परिच्छिन्ने चक्रुश्च । समृते परस्परं संगते उर्वी विस्तीर्णे मही महत्यौ ते द्यावापृथिव्यौ येमुः नियमितवन्तः । विष्टम्भकेनान्तरिक्षेण अन्तः उदयच्छन् । तथा धायसे तयोर्धारणार्थमन्तरिक्षं धुः व्यधुः ॥ इदवधारणार्थे । गुह्या । गुहायां भवानि । भवार्थे यत् ।' यतोऽनावः' इत्याद्युदात्तः । दधानाः । दधातेः शानचि रूपम् । अभ्यस्तस्वरः । अञ्जन् । ‘ अञ्जू व्यक्तिम्रक्षणगतिषु' इत्यस्य लङि श्नसोरल्लोपः । निघातः । मात्राभिः ।' मा माने ' ‘माङ् माने' वा । ‘हुयाम इत्यादिना त्रन्प्रत्ययः । नित्स्वरः । ममिरे । 'माङ् माने' इत्यस्य लिटि रूपम् । ‘चादिलोपे विभाषा ' इति न निघातः । येमुः । ‘ यम उपरमे ' इत्यस्य लिट्युसि रूपम् । तिङुत्तरत्वादनिघातः । धायसे । ‘ वहिहाधाञ्भ्यश्छन्दसि इत्यसुन् । नित्स्वरः । धुः । दधातेः लुङि रूपम् ॥
२॥
“Comprehending hidden (mysteries) here on earth, they have, through their power, made manifest (the things of) heaven and earth; they have set limits to themby their elements; they connected them both mutually united, wide-spread and vast, and fixed the intermediate (firmament) to sustain them.”
Assuming in this world mysterious natures, they decked the heaven and earth for high dominion,
Measured with measures, fixed their broad expanses, set the great worlds apart held firm for safety.
And, in depositing their own secret (tracks/names) in safety just here, they ornamented the two world-halves for their dominion. (When) they fully measured (them) with their measures, they held fast the two broad (worlds). They have put apart the two great ones,
which were fitted together, to give (us) nourishment.
Dort niederlegend das Geheimnissvolle, schmückten sie beide Welten zur Herrschaft aus, und massen sie mit Massen ab, dehnten sie weit aus, und stellten die beiden verbundenen geson- dert hin zur Labung.
Und sie salbten beide Rodasi zur Herrschaft, indem sie hier ihre geheimen Spuren hinterließen. Sie haben die beiden in ihren Maßen gleich gemacht und die Welten in Ordnung gehalten. Sie schieden die beiden Großen, die zusammengestoßen waren, damit sie die Herrschaft ausüben.
Оставляя здесь совсем в стороне тайные вещи,
Они помазали на власть оба мира.
Они измерили мерами, удержали в повиновении оба широких (мира).
Они разъяли оба великих слившихся (мира) для удовлетворения (людей).
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः । म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥
आ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रियः॑ । वसा॑नः । च॒र॒ति॒ । स्वऽरो॑चिः । म॒हत् । तत् । वृष्णः॑ । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑पः । अ॒मृता॑नि । त॒स्थौ॒ ॥
विश्वे सर्वे कवयो रथम् आतिष्ठन्तम् इन्द्रं परि अभूषन् । परितोऽलमकुर्वन् । स्वरोचिः । स्वमेव रोचिर्यस्यासौ स्वरोचिः । स्वप्रभयैव दीप्यमान इत्यर्थः । अत एव श्रियः दीप्तीः वसानः आच्छादयन् सोऽयमिन्द्रः चरति सर्वत्र वर्तते । वृष्णः कामानां वर्षितुः असुरस्य । अस्यति प्रेरयति सर्वानन्तर्यामितयेत्यसुरः । तस्येन्द्रस्य तत् तादृशमनुभूतपूर्वं नाम । नमयति सर्वान् अनेन शत्रूनिति नाम कर्म । यद्वा नम्यते सर्वैर्नमस्क्रियते इति नाम इन्द्रस्य शरीरं कर्म वा। महत् आश्चर्योपेतं वर्तते । तथा विश्वरूपः नानाविधरूपतां भजमानः स इन्द्रो वरुणात्मना अमृतानि जलानि आ तस्थौ अधितिष्ठति ॥ विश्वे । जसः शी। अभूषन् । ‘ भूष अलंकारे' ' इत्यस्य लङि रूपम् । वसानः । वस आच्छादने ' इत्यस्य शानचि रूपम्। तस्य लसार्वधातुकस्वरे थातुस्वरः। नाम। ‘ णमु प्रह्वत्वे 'इत्यस्मात् 'नामन्सीमन” ' इत्यादिना मनिन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । विश्वरूप इति तस्य संज्ञा । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । अमृतानि । ‘ कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । तस्थौ । तिष्ठतेर्लिटि णलि रूपम् ॥
“They all ornamented (Indra) standing (in his car) and, clothed in beauty, he proceeds self-radiant; wonderful are the acts of that showerer (of benefits), the influencer (of consciences), who omniform, presides over the ambrosial (waters).”
Even as he mounted up they all adorned him: self-luminous he travels clothed in splendour.
That is the Bull's, the Asura's mighty figure: he, omniform, hath reached the eternal waters.
As he was mounting they all tended to him. Donning beauties, he roams about with his own light.
Great is that name of the bull, the lord. Possessing all forms
[/Viśvarūpa], he mounted the immortal (things/worlds).
Sie alle schmückten den, der nun emporstieg [die Sonne]; in Glanz gekleidet wandert er selbstleuchtend, das ist des himmlischen Stieres grosses Wesen; der allgestaltige stieg empor zur Welt der Unsterblichen.
Alle umringten ihn, als er den Wagen bestieg. Seine Herrlichkeiten anlegend wandelt der Selbsterleuchtende. Dies ist der große Name des Bullen Asura: als Visvarupa Allgestaltig hat er unsterbliche Namen angenommen.
Все окружили его, восходящего (на колесницу).
Облачаясь в великолепие, он странствует, обладая собственным блеском.
Вот великое имя быка Асуры:
Имея все облики, он достиг бессмертных (сущностей).
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुध॑: सन्ति पू॒र्वीः । दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥
असू॑त । पूर्वः॑ । वृ॒ष॒भः । ज्याया॑न् । इ॒माः । अ॒स्य॒ । शु॒रुधः॑ । स॒न्ति॒ । पू॒र्वीः । दिवः॑ । न॒पा॒ता॒ । वि॒दथ॑स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒ऽदिवः॑ । द॒धा॒थे॒ इति॑ ॥
वृषभः कामानां वर्षकः पूर्वः चिरन्तनोऽत एव ज्यायान् इन्द्रः असूत । अपः ससर्ज । पूर्वीः बह्व्यः इमाः अनेन सृष्टा आपः अस्य शुरुधः । शुचः पिपासाया रोधयित्र्यः सन्ति भवन्ति । दिवो नपाता दिवो न पातयितारौ हे राजानौ इन्द्रावरुणौ प्रदिवः प्रकर्षेण द्योतमानस्य विदथस्य यज्ञकारिणः स्तोतुः धीभिः स्तुतिभिः क्षत्रं धनं दधाथे अस्मभ्यं दातुं धारयेथे ॥ असूत । पूङ् प्राणिगर्भविमोचने ' इत्यस्य लङि रूपम् । अडागमस्वरः । ज्यायान् । प्रशस्यशब्दात् ईयसुनि ‘ज्य च ' ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । ‘ ज्यादादीयसः' ( पा. सू. ६. ४. १६० ) इति ईयसः आदेः ईकारस्य' आकारादेशः । नित्त्वादाद्युदात्तः । शुरुधः । पृषोदरादिः । नपाता । ‘ नभ्राण्नपात्' इति निपातनात् नञः प्रकृतिभावः । आमन्त्रितत्वात निघातः । धीभिः । ‘ सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । राजाना । आमन्त्रितत्वात निघातः । दधाथे । दधातेर्लटि रूपम् । निघातः ॥ ॥ २३ ॥
“The showerer (of benefits), the preceder and elder (of the gods), genitive rated (the waters); they are the abundant allayers of his thirst; sovereign Indra and Varuṇa, grandsons of heaven, you possess the wealth (that is to be acquired) by the rites of the splendid sacrifice.”
First the more ancient Bull engendered offspring; these are his many draughts that lent him vigour.
From days of old ye Kings, two Sons of Heaven, by hymns of sacrifice have won dominion.
The earlier older bull gave birth. Here are his many proliferating riches. You two sons of heaven, with your insights you established your
dominion over the (cosmic) division, you kings, from olden days.
Geboren ward der erste Held, der ältere [Varuna]; hier sind seine vielen Stärkungen [kräftige Gaben], des Himmels beide Söhne [Mitra -Varuna] nahmen nach den Absichten der Götter- gemeinde als Könige von Alters her die Herrschaft ein."
Der ältere Bulle gebar als erster; diese seine Erfolge sind zahlreich. Ihr beiden Enkel des Himmels, ihr Könige, übet im Geiste der Weisheit von jeher die Herrschaft aus.
Он первым стал рожать, (этот) бык, (что) старше (других).
Много есть этих его богатств.
О двое отпрысков неба, два царя, силой молитв
Во время обряда от века вы пользуетесь властью.
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथ॒: सदां॑सि । अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥
त्रीणि॑ । रा॒जा॒ना॒ । वि॒दथे॑ । पु॒रूणि॑ । परि॑ । विश्वा॑नि । भू॒ष॒थः॒ । सदां॑सि । अप॑श्यम् । अत्र॑ । मन॑सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि॑ । वा॒युऽके॑शान् ॥
हे राजानौ इन्द्रावरुणौ विदथे अस्मिन् यज्ञे विश्वानि व्याप्तानि पुरूणि यजनीयैः सोमादिभिः पूर्णानि त्रीणि सदांसि सवनानि परि भूषथः सर्वतोऽलंकुरुथः । हे इन्द्र त्वं जगन्वान् यज्ञे प्रति गतवानसि । अपि संभावनायाम् । यतोऽहम् अत्र व्रते यज्ञे वायुकेशान् वायुवत् चञ्चलरश्मीन् गन्धर्वान् सोमरक्षकान् स्वानभ्राजादीन् मनसा अपश्यम् । ते च स्वानभ्राजादयः तैत्तिरीयके स्पष्टमभिहिताः-’ स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वं मा वो दभन्' ( तै. सं. १. २. ७) इति ॥ भूषथः । ‘ भूष अलंकारे' इत्यस्य लटि रूपम् । अपश्यम् ।' दृशिर् प्रेक्षणे ' इत्यस्य लङि रूपम् । पादादित्वादनिघातः । जगन्वान् । गमेः क्वसौ ' विभाषा गमहनविदविशाम्' इति इटो विकल्पितत्वादत्र इडभावः । ‘ मो नो धातोः ' ‘ म्वोश्च' इति मकारस्य नकारः । प्रत्ययस्वरः । गन्धर्वान् । ‘ धृञ् धारणे' इत्यस्य गोशब्दे उपपदे ‘ गवि गन् धृञो वः' इति वप्रत्ययः । तत्संनियोगेन गोशब्दस्य गनादेशः । प्रत्ययस्वरः ॥
“Royal Indra and Varuṇa, embellish the three universal sacrifices (and make them) full (of all requisites) for this celebration; you have gone to the rite, for I have beheld in my mind, at this solemnity, the gandharvas with hair (waving) in the wind.”
Three seats ye Sovrans, in the Holy synod, many, yea, all, ye honour with your presence.
There saw I, going thither in the spirit, Gandharvas in their course with wind-blown tresses.
O kings, you two tended to the three, to the many, to all the seats in the (cosmic) division.
Having come here with my mind, I saw even the wind-haired
Gandharvas under your commandment.
ihr beiden Könige, ihr schmücktet aus die drei zahl- reichen Göttergemeinden [vkläthä zu lesen, vergleiche 492, 2; 659, 9, nämlich die drei im Himmel, in der Luft und auf der Erde] und alle ihre Sitze. Ich sah dort im Geiste hinwandernd die Gandharven mit windflatternden Haaren bei ihrem Werke.
Die drei, die vielen, alle Sitze schließest ihr beiden Könige in eurer Weisheit ein. Ich sah, im Geiste dorthin gegangen, auch die Gandharven, deren Haare der Wind sind, in eurem Dienste.
Три (сиденья), о двое царей, во время жертвенной раздачи, многие –
Все сиденья вы окружаете.
Я видел там, мыслью отправившись в путешествие,
Самих гандхарвов с волосами-ветром в (вашем) услужении.
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः । अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥
तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः । अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥
ये यजमानाः वृषभस्य अभिमतफलप्रदस्य अस्य इन्द्रस्यार्थं धेनोः गोः नामभिः विश्वायुर्विश्वव्यचा इत्यादिभिरुपलक्षितां गां सक्म्यं संभजनार्हं तत्क्षीरादिकं हविः नु क्षिप्रम् आ ममिरे आदुहन्ति । धातूनामनेकार्थत्वात् । तेन च हविषा यज्ञमनुष्ठाय देवभूयं प्राप्तास्ते कवयः अन्यदन्यत् नूतनम् असुर्यम् असुराणां बलं वसानाः आच्छादयन्तः अत एव मायिनः मायया स्वीकृतकामरूपाः । यद्वा मायिनः प्रज्ञावन्तः सन्तः अस्मिन् इन्द्रे रूपं स्वं स्वं रूपं नि ममिरे इयत्तया परिच्छिद्य निदधुः ॥ इत् पूरण:। ममिरे । माङ् माने ' । लिटि रूपम् । निघातः । सक्म्यम् । ‘ युजिरुचितिजां कुश्च ' ( उ. सू. १. १४३ ) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् सचतेः मक्प्रत्ययः कुत्वं च । सचनं सक्मः । तत्र भवः इत्यर्थे ' भवे छन्दसि ' इति यत् ।' यतोऽनावः ' इत्याद्युदात्तः । गोः । एकादेशस्वरः । असुर्यम् । असुरस्य स्वमित्यर्थे ' असुरस्य स्वम् ' ( पा. सू.. ४. ४. १२३ ) इति यत् । तित्स्वरितः । रूपम् । ‘ रूप रूपक्रियायाम् । ण्यन्तः । खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः ' ( उ. सू.३. ३०८ ) इति पप्रत्ययान्तत्वेन निपातनात् पकारलोपोऽगुणत्वं च। रूपयति रूप्यते वेति रूपम् । प्रत्ययस्वरः ॥
“Those who, for (the sake of) the showerer (of benefits), milk the agreeable (produce) of the cow, (who is known) by (many) names, they invested with the diversified strength (of the asuras) and practising delusive art have deposited their own nature in him.”
That same companionship of her, the Milch-cow, here with the strong Bull's divers forms they stablished.
Enduing still some new celestial figure, the skilful workers shaped a form around him.
This [=undifferentiated creation] was just his—(he who is both) bull (and) milk-cow; (then) with (individual) names they meted out the
“fellowship of the cow” [=the joint creation of bull and milk-cow].
Donning one lordly power after another, the masters of artifice
parceled out (individual) form in it.
Sie [die Aditja's] bildeten da nun dieses samenreichen Stieres [Agni] Eigenart durch die Wesenheiten des Rindes (?); in andre und andre Göttergestalt sich kleidend, legten die weisen [Aditja's] ihre Gestalt in ihn hinein.
Dies ist das Werk dessen, der Stier und Kuh ist. Sie haben den Gesellen der Kuh mit Namen ausgestattet. Indem sie immer andere asurische Gestalt anlegten, haben die Zauberkundigen ihre Gestalt ihm angepasst.
Вот оно (творение) этого быка (и) коровы (одновременно).
Именами они измерили особенность, присущую корове.
Примеряя то одно, то другое качество Асуры,
(Эти) кудесники, меряя, придали ему облик.
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् । आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥
तत् । इत् । नु । अ॒स्य॒ । स॒वि॒तुः । नकिः॑ । मे॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् । आ । सु॒ऽस्तु॒ती । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अपि॑ऽइव । योषा॑ । जनि॑मानि । व॒व्रे॒ ॥
तत् तस्मात् सवितुः सर्वस्य जगतोऽन्तर्यामितया प्रेरयितुः अस्य इन्द्रस्य मे मम हिरण्ययीं सुवर्णमयीम् अमतिं दीप्तिं नकिः को वा परिच्छिनत्ति खलु । यां मदीयां दीप्तिम् अशिश्रेत् य आश्रयति सः सुष्टुती शोभनया स्तुत्या स्तुतः सन् विश्वमिन्वे सर्वस्य संतर्पयित्र्यौ रोदसी द्यावापृथिव्यौ आ वव्रे स्वकीयतया सर्वतो वृणुते । तत्र दृष्टान्तः । अपीव योषा जनिमानि । यथा योषा स्त्री जनिमानि जातानि अपत्यानि वृणोति तद्वत् । नुः पूरणः॥ नकिः । निपातः । हिरण्ययीम् । हिरण्यस्य विकारार्थे ' मयड्वैतयोः । ( पा. सू. ४. ३. १४३ ) इति मयट्। ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि ' इति निपातनात् मयटो मकारलोपः । टित्त्वात् ' टिड्ढाणञ्° ' इति ङीप् । प्रत्ययस्वरः । अमतिम् । अम गत्यादिषु । अमेरतिः इति अतिप्रत्ययः । प्रत्ययस्वरः । अशिश्रेत् । श्रयतेर्लङि ‘ बहुलं छन्दसि' इति शपः श्लुः । यद्वृत्तयोगादनिघातः । सुष्टुती । ‘ सुपां सुलुक्' इति तृतीयायाः सवर्णदीर्घः । विश्वमिन्वे । ‘ इवि व्याप्तिप्रीणनयोः' इत्यस्मात् कर्मणि अण् । इदित्वात् नुम् । ‘ तत्पुरुषे कृति बहुलम् ' इति द्वितीयाया अलुक्। कृदुत्तरपदस्वरः । योषा । यौतेर्मिश्रीभावकर्मणः । वृतॄवदिहनिकमिकषियुमुचिभ्यः सः' इति सप्रत्ययः । ग्रामादित्वात् आद्युदात्तः । जनिमानि ।' जनी प्रादुर्भावे । हृजनिभ्यामिमनिन् ' इति इमनिन्प्रत्ययो भूतकाले । नित्त्वादाद्युदात्तः । वव्रे । ‘वृञ् वरणे' इत्यस्य लिटि रूपम् ॥
“No one (distinguishes) my golden lustre from that of this Savitā, in which (lustre) he has taken refuge; gratified by pious praise, he cherishes the all-fostering heaven and earth as a woman cherishes her offspring.”
Let no one here debar me from enjoying the golden light which Savitar diffuses.
He covers both all-fostering worlds with praises even as a woman cherishes her children.
This [=creation] was just his, the impeller’s, (it was) nothing of mine— the golden emblem that he fixed firm.
But it is through (my) good praise hymn that the two world-halves set everything in motion here. He has swaddled the generations, like a
young woman her children.
Dies Wesen nun dieses Savitar niemand nennt es mir (?), den goldenen Schimmer, den er verbreitete; ganz hüllte er ein die hochgelobten alldurchdringenden Welten, wie die Mutter ihre Kinder.
Dieses Werk von ihm, dem Savitri, kann mir keiner - wenn er sein goldenes Bildnis aufgerichtet hat. Mit schönem Loblied bringe ich die beiden alles hervorbringenden Rodasi her. Wie eine Frau ihre Kinder bedecken sie schützend die Geschöpfe.
Вот оно (творение) этого Савитара – никто мне (не разъяснит его) –
Золотистый образ, который он воздвиг.
С помощью прекрасной молитвы (он) по (родил) оба мира, все побуждающие к жизни.
Он укрыл существа, как женщина (- детей).
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् । गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिन॑: कृ॒तानि॑ ॥
यु॒वम् । प्र॒त्नस्य॑ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी॑ । स्व॒स्तिः । परि॑ । नः॒ । स्या॒त॒म् । गो॒पाजि॑ह्वस्य । त॒स्थुषः॑ । विऽरू॑पा । विश्वे॑ । प॒श्य॒न्ति॒ । मा॒यिनः॑ । कृ॒तानि॑ ॥
हे इन्द्रावरुणौ युवं युवां प्रत्नस्य स्तोतुः महः तादृशं श्रेयः साधथः साधयथः । कीदृशं तदित्यत आह । यद्दैवी स्वस्तिः यदिदं देवसंबन्धि श्रेयः स्वराज्यलक्षणम् । किंच युवां नः अस्मान् परि परितः स्यातं रक्षको भवेतम् । विश्वे सर्वे मायिनः देवाः गोपाजिह्वस्य । गोप्त्री जिह्वा मा बिभीतेत्येतादृशी वाग्यस्य स तथोक्तः । तस्थुषः स्थिरतरस्येन्द्रस्य विरूपा नानाविधानि वृत्रहननादीनि कृतानि कर्माणि पश्यन्ति । एवमिन्द्रस्य विश्वरूपत्वमुक्तम् ॥ युवम् । युष्मच्छब्दस्य द्विवचने ‘युवावौ द्विवचने' ( पा. सू. ७. २. ९२ ) इति युवादेशः । ‘ ङेप्रथमयोरम्' (पा. सू. ७. १. २८) इति सुपः अमादेशः । साधथः । ‘ साध संसिद्धौ ' इत्यस्य ण्यन्तस्य लटि रूपम् । ‘ बहुलमन्यत्रापि°' इति णेर्लुक् । निघातः । दैवी । ' देवाद्यञञौ ' इति अञ्प्रत्ययः । ञित्स्वरः ॥ स्यातम् । अस्तेर्लिङि रूपम् । गोपजिह्वस्य । ‘गुपू रक्षणे' इत्यस्य आयप्रत्ययान्तस्य क्विपि अतोलोपयलोपयोः कृतयो रूपं गोपा इति । बहुव्रीहौ पूर्वपदस्वरः । तस्थुषः । ष्ठा गतिनिवृत्तौ ' इत्यस्य क्वसौ ‘वस्वेकाजाद्धसाम्' इति प्राप्तस्य इटः ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' इति संप्रसारणस्य बलीयस्त्वान्निवृत्तिः । ‘ वसोः संप्रसारणम्' । प्रत्ययस्वरः । पश्यन्ति । ' दृशिर् प्रेक्षणे ' । निघातः ॥
“You two secure the great felicity of the ancient (worshipper), that which is happiness in heaven; do you (therefore) be even about us; all those who exercise illusion, contemplate the manifold expoits of the everlasting and blandly-speaking Indra.”
Fulfil, ye twain, his work, the Great, the Ancient: as heavenly blessing keep your guard around us.
All the wise Gods behold his varied actions who stands erect, whose voice is like a herdsman's.
You two assure success to (that creation) of the age-old great one, (the creation) that is the divine blessing. May you two enfold us.
All masters of artifice look upon the deeds of him whose tongue is a herdsman, who surmounts the various forms.
Lasset ihr beide [Mitra -Varuna] gelingen das Werk des uralten erhabenen [Agni], seid um uns als göttlicher Segen (?), alle weisen [Götter] beschauen die vielgestaltigen Werke dessen [Agni], der aufrecht steht, und dessen Zunge behütet (?).
Ihr beide führet das Werk des Großen, Uralten aus. Als göttliches Heil möget ihr um uns sein, als die verschiedengestalteten Hüter des Lebendigen, des Unbeweglichen. Alle sehen die Werke des Zauberkundigen.
Вы оба приводите к цели (творение) древнего, великого.
Пусть окружите вы нас как божественное счастье!
Все видят разнообразные творения
(Этого) обладателя языков-защитников, пребывающего (с нами), волшебного.
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रो पलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिम्सन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्जेतारं त्वामुतये रक्षणाय वयमाह्वयेम ॥ शुनं ॥ टुओश्वि गतिव्रुद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे क्रुते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकत्यात्वम् । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ १० ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Indra, Maghavan, auspicious, best Hero in the fight where spoil is gathered,
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
ist aus 264,22
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного – для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!