इन्द्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति । या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥
इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ । या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥
विश्वामित्रः स्तौति । हे इन्द्र हृदः हृदयात् वच्यमाना उच्यमाना स्तोमतष्टा स्तोमकारिभिः कृता मतिः स्तुतिः पतिं सर्वस्य जगतः स्वामिनं अच्छ अभिलक्ष्य आ जिगाति समन्तात् गच्छतु । या मदीया स्तुतिः जागृविः स्तुत्यस्य सर्वं जागरणं कुर्वाणा विदथे यज्ञे शस्यमाना भवति । हे इन्द्र ते त्वदर्थं यत् स्तोत्रं मत्तः जायते तत् विद्धि जानीहि । तस्य इति द्वितीयार्थे षष्ठी ॥ मतिः । ‘ मन्त्रे वृष ' इत्यादिना क्तिन्नुदात्त: । हृदः । हृदयशब्दस्य ‘ पद्दन्नोमास' ( पा. सू. ६, १. ६३ ) इत्यादिना हृदादेशः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । वच्यमाना । ‘ वच परिभाषणे ' इत्यस्य कर्मणि यक् । संप्रसारणवश्छान्दसः । प्रत्ययस्वरः ॥ स्तोमतष्टा । ‘ तक्षू त्वक्षू तनूकरणे' इत्यस्य कर्मणि निष्ठा । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । जिगाति । ‘ गा स्तुतौ छन्दसि' इति जुहोत्यादिः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्य इत्वम् । निघातः । जायते । ‘ जनी प्रादुर्भावे' इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । विद्धि । ‘ विद ज्ञाने' इत्यस्य लोटि हेः “ हुझल्भ्यो हेर्धिः' इति ध्यादेशः । वाक्यभेदादनिघातः ॥
“The praise that is prompted by the heart, and is uttered by the reciters of sacred hymns, proceeds to the presence of the lord, and is his awakener when repeated at the sacrifice; be cognizant Indra, of this praise, which is born for you.”
To Indra from the heart the hymn proceedeth, to him the Lord, recited, built with praises;
The wakening song sung forth in holy synod: that which is born for thee, O Indra, notice.
Thought goes toward Indra as her husband, curling herself out of my heart, crafted as praise,
she who is wakeful when recited at the rite. Indra—what is born for you, know that.
Zu Indra eilt das Lied zum Lob gedichtet, zu ihm, dem Herren, von Herzen ausgesprochen; Das früh erweckt beim Opferfest gesagt wird; für dich entspriesst es, wisse das, o Indra.
Zu Indra als ihrem Gatten kommt aus dem Herzen sich aufschwingend, zum Loblied geformt, die Dichtung, die frühwache, beim Opfer vorgetragen. Indra, nimm das Lied war, das für dich geboren wird!
К Индре как к (своему) мужу устремляется
Молитва, вырывающаяся из сердца, вытесанная в виде восхваления,
(Та,) что бодрствует, произносимая при обряде.
О Индра, знай то, что рождается для тебя!
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना । भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥
दि॒वः । चि॒त् । आ । पू॒र्व्या । जाय॑माना । वि । जागृ॑विः । वि॒दथे॑ शस्यमा॑ना । भ॒द्रा । व॒स्त्रा॒णि । अर्जु॑ना । वसा॑ना । सा । इ॒यम् । अ॒स्मे इति॑ । स॒न॒ऽजा । पित्र्या॑ । धीः ॥
हे इन्द्र दिवश्चित् द्योतमानात् सूर्यादपि पूर्व्या पूर्वे भवा उषःकालसंबन्धिनी आ जायमाना या स्तुतिलक्षणा वाक् विभवति सेयं वाक् विदथे यज्ञे शस्यमाना जागृविः स्तुत्यस्य तव जागरणं कुर्वाणा भद्रा कल्याणानि अर्जुना शुक्लवर्णानि वस्त्राणि योग्यतया तेजांसि वसाना अस्मे अस्माकं पित्र्या पितृक्रमागता अत एव सनजा पुरातनी सती धीः तव स्तुतिर्भवति ॥ दिवः । दिवेः क्विप् । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । अर्जुना । ‘ अर्जेर्णिलुक्च' ( उ. सू. ३. ३३८) इति उनन् । नित्स्वरः। सनजा। जनेः “ अन्येभ्योऽपि दृश्यते ' इति डः। प्रत्ययस्वरः । पित्र्या । पितृशब्दात्तत आगत इत्यर्थे ‘ पितुर्यच्च' इति यत्प्रत्ययः । ‘ रीङृतः ' (पा. सू. ७. ४. २७ ) इति रीङादेशः । यस्य” इति लोपः ।' यतोऽनावः' इत्याद्युदात्तत्वम् ॥
“That praise which is begotten before (the dawn) of day is the awakener of Indra, when repeated at the (morning) sacrifice; auspicious and clothed in white raiment is this our ancient and paternal hymn.”
Born from the heaven e'en in the days aforetime, wakening, sting aloud in holy synod,
Auspicious, clad in white and shining raiment, this is the ancient hymn of our forefathers.
Being born of old from heaven itself, wakeful when being recited at the rite, clothing herself in auspicious, silvery garments, this one right here in us is the ancient-born, ancestral hymnic vision.
Vom Himmel her geboren schon vor Alters, wird früh erweckt beim Feste es gesprochen, In lichte weisse Kleider eingehüllet, dies unser altes Lied aus Väterzeiten.
Noch vor Tag geboren, frühwach, beim Opfer abwechselnd vorgetragen, in schöne, helle Gewänder gekleidet, ist dies unsere in alter Zeit entstandene väterliche Dichtung.
Рождающаяся еще раньше, чем день,
(Та,) что бодрствует, произносимая при обряде,
Облеченная в прекрасные светлые одежды, –
Такова эта рожденная для нас издревле, идущая от отцов поэтическая мысль.
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् । वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥
य॒मा । चि॒त् । अत्र॑ । यम॒ऽसूः । अ॒सू॒त॒ । जि॒ह्वाया॑ । अग्र॑म् । पत॑त् । आ । हि । अस्था॑त् । वपूं॑षि । जा॒ता । मि॒थु॒ना । स॒चे॒ते॒ इति॑ । त॒मः॒ऽहना॑ । तपु॑षः । बु॒ध्ने । आऽइ॑ता ॥
प्रसंगादुषःकालं प्रशंसति । यमसूः । यमौ यमलौ सूत इति यमसूरुषोभिमानिनी देवता । सा यमा यमलावश्विनौ अत्र उषःकाले असूत । अश्विनोस्तत्र शस्यमानत्वात्तावश्विनौ स्तोतुं मम जिह्वायाः अग्रं पतत् चञ्चलम् आ अस्थात् हि तिष्ठति खलु । तमोहना तमसो हन्तारौ तपुषः । तपस्यस्मिन् सूर्य इति तपुः दिवसः। तस्य बुध्ने मूले एता एतावागतौ मिथुना परस्परं संगतौ तावश्विनौ जाता उत्पन्नानि वपूंषि । उप्यन्ते निधीयन्ते इति वपूंषि उषःकाले क्रियमाणानि शस्त्रादीनि कर्माणि । सचेते संगच्छतः ॥ यमसूः। ‘षूङ् प्राणिगर्भविमोचने' इत्यस्य क्विप्। कृदुत्तरपदस्वरः। असूत । तस्यैव धातोर्लङि अदादित्वाच्छपो लुक् । निघातः । पतत् ।' पत्लृ गतौ ' । शतुर्लसार्वधातुकस्वरे धातुस्वरः । अस्थात् । ष्ठा गतिनिवृत्तौ' । लुङि रूपम् । हियोगादनिघातः । वपूंषि । ‘ डुवप् बीजसंताने' । ‘अर्तिपॄवपियजितनिधनितपिभ्यो नित्' इति उसिप्रत्ययः । ‘ निच्च ' इत्युक्तत्वादाद्युदात्तः । सचेते । षच समवाये' इत्यस्य लटि रूपम् । तपुषः । तप संतापे ' । ‘ अर्तिपॄवपि °' इत्यादिना उसिः । बुध्ने । बन्ध बन्धने' । ‘बन्धेर्ब्रधिबुधी च ' ( उ. सू. ३. २८५ ) इति नक्प्रत्ययः । ब्रधिबुधी एतावादेशौ धातोः । प्रत्ययस्वरः । एता । ‘ इण् गतौ' इत्यस्य कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः स्वरः ॥
“The parent of twins (the dawn), has brought forth the twin (Aśvins) on this occasion, (in the praise of whom) the tip of my tongue remains tremulous; they two, the dispersers of darkness, combine, assuming bodies as a pair (of twins) at the origin of the day.”
The Mother of the Twins hath borne Twin Children: my tongue's tip raised itself and rested silent.
Killing the darkness at the light's foundation, the Couple newly born attain their beauty.
She, as bearer of twins, bore her twins [=R̥c and Sāman?] just here. In soaring, (she) has mounted the tip of the tongue.
The pair, once born, accompany the wondrous forms (of Agni)—the two, smashing the darkness, have come here to the base of scorching (Agni).
Die Dämmerung gebar die Zwillingsbrüder; da stieg das Lied rasch auf der Zunge Spitze; Zu Glanz gelangten da die Zwillingssöhne, das Dunkel schlagend hin zum Grund der Lichtglut.
Auch Zwillinge hat da die Zwillingsmutter geboren - der fliegende Gedanke ist jetzt auf die Spitze der Zunge getreten. Als ein Paar geboren sind sie der Schönheit gesellt. Die beiden Dunkelvertreiber haben sich nach der Glut des Feuers eingestellt.
Родительница близнецов близнецов тут и произвела на свет:
Ведь летя она взобралась на кончик языка.
(Едва) родившись, (эта) пара оказалась связанной с прекрасными образами.
Прогоняя мрак, она на дне огня.
नकि॑रेषां निन्दि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः । इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥
नकिः॑ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये॑षु । ये । अ॒स्माक॑म् । पि॒तरः॑ । गोषु॑ । यो॒धाः । इन्द्रः॑ । ए॒षा॒म् । दृं॒हि॒ता । माहि॑नऽवान् । उत् । गो॒त्राणि॑ । स॒सृ॒जे॒ । दं॒सना॑ऽवान् ॥
हे इन्द्र सत्रे प्रवृत्तानाम् अस्माकं ये पितरः अङ्गिरसः गोषु पणिभिरपहृतेषु तन्निमित्तं योधाः योद्धारो वर्तन्ते तेषाम् एषां मर्त्येषु निन्दिता दूषकः नकिः न कश्चिदस्ति । कुत इत्यत आह । माहिनावान् महिमोपेतः दंसनावान् वृत्रहननादिकर्मवान् इन्द्रः एषाम् अङ्गिरसां दृंहिता दृंहितानि समृद्धानि गोत्राणि गवां वृन्दानि उत् ससृजे तेभ्योऽङ्गिरोभ्यो ददौ॥ निन्दिता ।' निदि कुत्सायाम्' इत्यस्य तृचि रूपम् । मर्त्येषु । वस्वादित्वात् स्वार्थिको यत् । यतोऽनावः' इत्याद्युदातत्वम् । योधाः । ‘युध संप्रहारे' इत्यस्य पचाद्यचि रूपम् । दृंहिता । ‘ दृह दृहि वृद्धौ' इत्यस्य निष्ठायां रूपम् । महिनावान् ।' महेरिनण्च' (उ. सू. २.२१४ ) इति इनण्प्रत्ययः। तदस्यास्ति' इति मतुप् । माहिनावानिति तस्य संज्ञा ।' मतौ बह्वचोऽनजिरादीनाम् ' ( पा. सू. ६. ३. ११९ ) इति संहितायां दीर्घः । गोत्राणि । गवां समूह इत्यर्थे ' खलगोरथात् ' इत्यनुवृत्तौ ' इनित्रकठ्यचश्च' ( पा. सू. ४. २. ५१ ) इति गोशब्दात् त्रप्रत्ययः । प्रत्ययस्वरः । ससृजे । “ सृज विसर्गे ' इत्यस्य लिटि रूपम् ॥
“There are no revilers among men of those who were our progenitors and combatants for (the recovery of) the cattle; for the mighty Indra, the achiever of great deeds, liberated for them the numerous herds.”
Not one is found among them, none of mortals, to blame our sires who fought to win the cattle.
Their strengthener was Indra the Majestic he spread their stalls of kine the Wonder-Worker.
There is no one among mortals who scorns them: our fathers, who were battlers for cows.
Indra with his great force (emptied out) the fastnesses for them, he with his wondrous power emptied out the cowpens.
Der Menschen keiner schmähet unsre Väter, sie, welche kämpften um Besitz der Kühe; Der ihnen Kraft gab, war der hohe Indra; der wunderthät'ge dehnte aus die Hürden.
Unter den Sterblichen ist keiner, der sie tadelt, unsere Väter, die um die Rinder zu Kämpfern wurden. Der großmächtige Indra hat ihre eingeschlossenen Kuhherden herausgelassen, der Meisterkünstler.
Никто среди смертных не осудит этих
Отцов наших, что сражались за коров.
Индра великолепный выпустил их
Крепко замкнутые стада, (он,) совершающий чудеса.
सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् । स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वै॒: सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ॥
सखा॑ । ह॒ । यत्र॑ । सखि॑ऽभिः । नव॑ऽग्वैः । अ॒भि॒ऽज्ञु । आ । सत्व॑ऽभिः । गाः । अ॒नु॒ऽग्मन् । स॒त्यम् । तत् । इन्द्रः॑ । द॒शऽभिः॑ । दश॑ऽग्वैः । सूर्य॑म् । वि॒वे॒द॒ । तम॑सि । क्षि॒यन्त॑म् ॥
सखिभिः समानख्यानैः सत्वभिः इन्द्रमभितः सीदद्भिः नवग्वैः । मेधातिथिप्रभृतयोऽङ्गिरसः केचिन्नव मासान् सत्रमनुष्ठाय फलं लेभिरे केचिद्दश मासाननुष्ठायेति । तत्र ये नव मासान् सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते नवग्वाः । तैः सत्वभिः अङ्गिरोभिः सखा समानख्यानः इन्द्रः यत्र यस्मिन् बिले पणिभिर्निरुद्धाः गाः अभिलक्ष्य अभिज्ञु अभिगतजानुकं यथा भवति तथा
“अनुग्मन् अनुगच्छन् इन्द्रः तत् तत्र बिले दशग्वैः। ये दश मासान् सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते दशग्वाः । दशभिः दशसंख्याकैरङ्गिरोभिः सहितः सन् तमसि बिलवर्तिन्यन्धकारे क्षियन्तं निवसन्तं सत्यं यथार्थप्रकाशं सूर्यं विवेद लेभे । ततो लब्धप्रकाशः स इन्द्रस्ता गा आनीयाङ्गिरोभ्यः प्रादादिति भावः । आहौ पूरणौ ॥ सखा । ' ख्या प्रकथने ' । ‘ समाने ख्यश्चोदात्तः' इति इण्प्रत्ययः । डिच्च । 'समानस्य छन्दसि' इति समानस्य सभावः । ‘उदात्त: इत्युक्तत्वेन सामर्थ्यादुपपदस्य इति गम्यते । आद्युदात्तः । नवग्वैः । गमेरौणादिको ड्वप्रत्ययः । बहुव्रीहौ पूर्वपदस्वरः । अभिज्ञु । ' प्रसंभ्यां जानुनोर्ज्ञुः ' इति विधीयमानो ज्ञुः अभेरुत्तरस्य व्यत्ययेन भवति । सत्वभिः । षद्लृ विशरणगत्यवसादनेषु ' इत्यस्मात् ‘प्र ईरसद्योस्तुट् च ' इति क्वनिष्प्रत्ययः । तुडागमः । नित्त्वादाद्युदात्तः । अनुग्मन् । गमेः शतरि ‘बहुलं छन्दसि ' इति
शपो लुकि कृते • गमहन ' इत्यादिना' उपधालोपः । प्रादिसमासः । शतृस्वरः । विवेद । ‘ विद ज्ञाने' इत्यस्मात् लिटि णलि रूपम् । क्षियन्तम् । ‘क्षि निवासगत्योः' इत्यस्य शतरि रूपम् ॥ ॥२५॥
“A friend, accompanied by the faithful friends who had celebrated the nine months rite, and tracking the cows upon their knees, and in like manner accompanied by those ten who had accomplished the ten months' rite, Indra made manifest the true (light of the sun) (theretofore) dweling in (the) darkness (of the cave).”
Where as a Friend with friendly men, Navagvas, with heroes, on his knees he sought the cattle.
There, verily with ten Dasagvas Indra found the Sun lying hidden in the darkness.
When the comrade with his comrades the Navagvas, the warriors, from their crouch followed after the cows—
this is the real truth—Indra with the ten Daśagvas found the sun, which was dwelling in darkness.
Wo dort als Freund er mit den neun Genossen, den tapfern kniend nach den Kühen suchte, Mit den zehn Zehnern fand da Indra wahrlich die Sonne auf, die in dem Dunkel ruhte.
Während der Freund mit den Freunden, den Navagva´s, als seinen Streitern, in die Kniee sich legend den Rindern nachging, fand Indra - das ist wahr - mit den zehn Dasgva´s die Sonne, die im Dunkel weilte.
А когда друг с друзьями Навагва,
С воинами, выбрасывая вперед колени, устремились в поисках коров,
Тогда, поистине, Индра с десятью Дашагва
Нашел солнце, пребывавшее во мраке.
इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥
इन्द्रः॑ । मधु॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । प॒त्ऽवत् । वि॒वे॒द॒ । श॒फऽव॑त् । नमे॑ । गोः । गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । हस्ते॑ । द॒धे॒ । दक्षि॑णे । दक्षि॑णऽवान् ॥
इन्द्रः उस्रियायां क्षीरदध्यादिक्रमेणोत्स्राविण्यां भोगवत्यां गवि संभृतं संपादितं मधु क्षीरादि विवेद अज्ञासीत् । ततस्तदर्थं पद्वत् पादयुक्तं शफवत् खुरोपेतं गोधनं विवेद लेभे । कथं लब्धवानिति तदुच्यते । नमे गोः । गोरिति द्वितीयार्थे षष्ठी । पणिनामकैरसुरैरपहृतां गां नमे आनीतामकरोत् । तथा दक्षिणावान् औदार्यवान् समर्थः स इन्द्रः गुहा गुहायां हितं गुह्यं प्रच्छन्नम् अत एव अप्सु अन्तरिक्षे 'गूळ्हं गूढचारिणं मायिनमसुरं दक्षिणे हस्ते दधे दधार अग्रहीत् इत्यर्थः । द्वितीयाष्टके ‘श्रुधी हवम् ' इस्यस्मिन् वर्गे गुहा हितम्' इत्येतत् सम्यगभ्यधायि (ऋ. सं. २. ११. ५ ) ॥ उस्रियायाम् । प्रक्रिया सम्यक् पूर्वमेवावादि । विवेद । • विद ज्ञाने' ‘ विद्लृ लाभे' । एतयोर्लिटि रूपम् । शफवत् । शफोऽस्यास्तीति मतुप् । ‘ ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । नमे । ' णमु प्रह्वत्वे ' इत्यस्य लिटि रूपम् । द्विर्वचनस्य छन्दसि विकल्पितत्वादत्र द्विर्वचनाभावः । वाक्यभेदादनिघातः । गुह्यम् । ‘गुहू संवरणे' इत्यस्मात् ‘ शंसिगुहिदुहिभ्यो वेति वक्तव्यम्' इति क्यप् । कित्त्वादगुणः। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः। दधे । दधातेर्लिटि रूपम् । दक्षिणावान् । ' दक्ष वृद्धौ '। 'द्रुदक्षिभ्यामिनन्' इति इनन्प्रत्ययः । तदस्यास्तीति मतुप् । संहितायाम् अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घः । नित्स्वरः ॥
“Indra discovered the sweet milk secreted in the cow, and thereupon, brought forth (from their concealment) the herd (of cattle) having feet and having hoofs; munificent (in gifts), he held in his right hand that which had been hidden in the cavern, which was concealed in the waters.”
Indra found meath collected in the milch-cow, by foot and hoof, in the cow's place of pasture.
That which lay secret, hidden in the waters, he held in his right hand, the rich rewarder.
Indra found the concentrated honey in the ruddy one, found the footed and the hooved in the “bend of the cow.”
What was placed in hiding, fit to be hidden, hidden in the waters he took in his right hand—he of right generous gifts.
Das in der Kuh gehäufte Süss fand Indra, mit Fuss und Huf begabte Heerd' auf Triften; Was heimlich, was verhüllt in Flut geborgen, das nahm er in die rechte Hand, der starke.
Indra hat den in der Kuh aufgespeicherten Honig, alles was Füße und Klauen hat, in ... der Kuh gefunden. Den im Versteck Befindlichen, Versteckten, im Wasser Verborgenen nahm er in die rechte Hand, er der recht Belohnende.
Индра нашел мед, сосредоточенный в корове – утренней заре,
По четверти, по восьмой – во владении (?) коровы.
Что было спрятано, что должно быть спрятано, упрятано в водах,
Он взял в правую руку, (этот бог) со щедрой правой (рукой).
ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ । इ॒मा गिर॑: सोमपाः सोमवृद्ध जु॒षस्वे॑न्द्र पुरु॒तम॑स्य का॒रोः ॥
ज्योतिः॑ । वृ॒णी॒त॒ । तम॑सः । वि॒ऽजा॒नन् । आ॒रे । स्य॒म॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ । इ॒माः । गिरः॑ । सो॒म॒ऽपाः॒ । सो॒म॒ऽवृ॒द्ध॒ । जु॒षस्व॑ । इ॒न्द्र॒ । पु॒रु॒ऽतम॑स्य । का॒रोः ॥
तमसः रात्रेः सकाशात् पविजानन् विशेषेण जानन्” प्रादुर्भवन् सूर्यात्मक इन्द्रः ज्योतिवृणीत । जगद्यवहारनिर्वाहकं प्रकाशं समभक्त । यद्वा तमसस्तमोरूपात् वृत्रादेः विजानन् प्रादुर्भवन् । वृत्रं हत्वा प्रकाशमवृणीत । वयं दुरितात् पापात् आरे दूरे पापवर्जिताः सन्तः अभीके भयरहिते स्थाने स्याम भवेम । सोमपाः सोमस्य पातः अत एव सोमवृद्ध सोमपानेषु वृद्ध हे इन्द्र पुरुतमस्य । पुरून् बहून्' शत्रून् तामयति ग्लापयतीति पुरुतमः । तादृशस्य तव कारोः स्तोत्रं कुर्वाणस्य ऋत्विजः इमाः स्तुतिलक्षणाः गिरः वाचः जुषस्व सेवस्व ॥ वृणीत । ‘वृङ् संभक्तौ ' इत्यस्य लङि रूपम् । विजानन् । 'ज्ञा अवबोधने । विशेषेण ज्ञानं प्रकाशः । प्रत्ययस्वरः । अभीके । न विद्यते भीर्यस्मिन् । ततः शेषाद्विभाषा ' (पा. सू. ५. ४. १५४) इति कप्प्रत्ययः। ‘नञ्सुभ्याम् ' इत्यन्तोदात्तत्वे प्राप्ते ‘कपि पूर्वम् ' (पा. सू. ६. २. १७३ ) इति पूर्वस्यान्तोदात्तत्वम् । पुरुतमस्य । ‘ तमु ग्लाने ' इत्यस्मात् ण्यन्तात् पचाद्यचि • परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् ॥
“The discriminating (Indra) has separated the light from the darkness; may we, removed afar from evil, be ever in security; Indra, drinker of the Soma, who is nurished by Soma, be plural ased with these praises of your worshipper who is the discomfiter of his foes.”
He took the light, discerning it from darkness: may we be far removed from all misfortune.
These songs, O Soma-drinker, cheered by Soma, Indra, accept from thy most zealous poet.
He should choose light, distinguishing it from darkness. May we be at a distance from difficulty in a close encounter.
Indra, you drinker of soma, increased by soma, enjoy these hymns of the bard, the latest of many.
Aus Dunkel schuf er Licht, es sicher scheidend, wir mögen fern von allem Unglück bleiben; Die Lieder hier, o somastarker Trinker, nimm, Indra, an des eifervollsten Dichters.
Das Licht zog er dem Dunkel vor, da er den Unterschied kennt. Möchten wir im entscheidenden Augenblick dem Mißgeschick fern bleiben! Erfreue dich an diesen Lobreden des Dichters, der der erste unter den Vielen ist, du Somatrinker, somagestärkter Indra!
Он выбрал свет по сравнению с тьмой, зная разницу.
Да будем мы далеко от беды в решающую минуту!
Наслаждайся этими песнями поэта, первого из многих,
О пьющий сому, растущий от сомы Индра!
ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरे॑: । भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥
ज्योतिः॑ । य॒ज्ञाय॑ । रोद॑सी॒ इति॑ । अनु॑ । स्या॒त् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तस्य॑ । भूरेः॑ । भूरि॑ । चि॒त् । हि । तु॒ज॒तः । मर्त्य॑स्य । सु॒ऽपा॒रासः॑ । व॒स॒वः॒ । ब॒र्हणा॑ऽवत् ॥
हे इन्द्र ज्योतिः जगत्प्रकाशकः सूर्यः यज्ञाय अग्निहोत्रादिकर्मकरणाय रोदसी द्यावापृथिव्यौ अनु ष्यात् अनुभवतु प्रकाशयतु । वयं भूरेः प्रभूतस्य दुरितस्य पापस्य आरे दूरे स्याम भवेम । हे वसवः सर्वस्य वासयितार इन्द्रादयः सुपारासः सुपाराः शोभनपाराः स्तुत्याभिमुखीकर्तुं शक्या यूयं भूरि चित् अतिप्रभूतं बर्हणावत् समृद्धियुक्तं धनं तुजतः भूरिप्रदस्य मर्त्यस्य प्रयच्छथ । अत्र योग्यक्रियाध्याहारः ॥ स्यात् । अस्तेर्लिङि रूपम् । संहितायाम् अनोरुत्तरस्यास्तेः ' उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ' ( पा. सू. ८. ३. ८७ ) इति षत्वम् । निघातः । तुजतः ।' तुजि पिजि लजि हिंसादाननिकेतनेषु' । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । बर्हणावत् । ‘ बृहि वृद्धौ ' इत्यस्य भावे औणादिको युप्रत्ययः । प्रत्ययस्वरः ॥
“May light be spread throughout heaven and earth for (the promotion of the) sacrifice; may we be far removed from exceeding ill; Vasus, who are to be rendered present (by pious praise), bestow increasing affluence upon the men who is liberal of gifts.”
Let there be light through both the worlds for worship: may we be far from most overwhelming evil.
Great woe comes even from the hostile mortal, piled up; but good at rescue are the Vasus.
Light for the sacrifice should suffuse the two world-halves. May we be at a distance from abundant difficulty,
for also in abundance are those who grant good passage to the mightily thrusting mortal, o good ones.
Dem Opfer werde Licht in beiden Welten, wir mögen fern von vielem Unglück bleiben; Denn ihr, o Gute, fahret oft und kräftig den eifervollen Sterblichen hinüber.
Licht werde dem Opfer in beiden Welten! Wir möchten dem großen Mißgeschick fern bleiben. Ihr Götter führet ja den Sterblichen zu gutem Ende, wenn er auch vielmals ungeduldig ist in seinem Eifer.
Да будет свет жертве в обоих мирах!
Да будем мы далеко от большой беды!
Даже для смертного, совсем не дающего покоя,
Грубого, (будьте) спасителями, о Васу!
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाअजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धं यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारम् त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमानां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रु सम्बन्धिनां सञ्जितं समग्जेतारं त्वामुतये रक्षणाय वयमाह्वयेम ॥ शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः यजादित्वात्सम्प्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेत्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रुपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । वृणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । आद भक्षणे । सम्पुर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । क्रुदुत्तरपदस्वरः । घ्नन्तम् । हन हिम्सागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ९ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in the fight where spoil is gathered,
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute; Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях
Убивающего врагов, завоевывающего награды!