इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे । स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥
इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । सः । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥
इन्दौ स्रवति सोमरसे रमते क्रीडतीति इन्द्रः । यद्वा इदं सर्वं जगत् साक्षाद्दर्शयतीतीन्द्रः । तस्य संबुद्धिः । हे इन्द्र वृषभं कामानां वर्षकं त्वा त्वां सुते ग्रावभिरभिषुते सोमे वयं हवामहे सोमपानार्थमाह्वयामः । सः त्वं मध्वः मदकरम् अन्धसः अन्नलक्षणं सोमं पाहि पिब । इन्द्रशब्दं यास्को बहुधा निर्विवेच-’ इन्द्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयतीति वेरां धारयतीति वेन्दवे द्रवतीति वेन्दौ रमत इति वेन्द्धे भूतानीति वा । तद्यदेनं प्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वम् ' ( निरु. १०. ८ ) इति । यत्र यत्र योऽर्थोऽनुगुणस्तत्र सोऽर्थः स्वीकार्यः । ‘ इदंदर्शनादित्यौपमन्यवः' (निरु. १०. ८ )। इदं ब्रह्म साक्षात्पश्यतीतीन्द्रः । तथा चारण्यके श्रूयते-- स एतमेव पुरुषं ब्रह्मततममपश्यदिदमदर्शमितीँ३ । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा:' ( ऐ. आ. २. ४. ३ ) इति ॥ इन्द्र । ' इदि परमैश्वर्ये' इति धातुः । स्वमायया जगद्रूपत्वं परमैश्वर्यम् । अनेनाभिप्रायेण श्रूयते-- ‘ इन्द्रो मायाभिः पुरुरूप ईयते' ( ऋ. सं. ६. ४७. १८) इति । इन्दुशब्दे उपपदे रमतेः ‘ अन्येभ्योऽपि दृश्यते ' इति डः । पूर्वपदस्योकारलोपः । ‘ इदि परमैश्वर्ये 'इत्यस्मात् “ ऋज्रेन्द्राग्र° इत्यादिना रन्प्रत्ययान्तत्वेन निपातितः । एवमेतानि निर्वचनानि द्रष्टव्यानि । आमन्त्रिताद्युदात्तत्वम्। हवामहे । ह्वयतेः “ बहुलं छन्दसि ' इति संप्रसारणे लटि रूपम् । मध्वः । मधुशब्दः ‘फलिपाटि°! इत्यादिना उन्प्रत्ययान्तः। आगमानुशासनस्यानित्यवान्नुमभावः । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावः । यणादेशः । अन्धसः । ‘ अदेर्नुम् धश्च ' इत्यसुन् । नित्स्वरः ॥
“We invoke you, Indra, showerer (of benefits), to the effused libation; you drink of the exhilarating Soma.”
THEE, Indra, we invoke, the Bull, what time the Soma is expressed.
So drink thou of the savoury juice.
Indra! We invoke you as bull when the soma is pressed.
Drink of the honey, of the stalk.
᳓
Dich Indra rufen wir herbei, den Stier, wenn Soma wir gebraut; So trinke von dem süssen Kraut.
Indra! Dich, den Bullen, rufen wir zum ausgepreßten Soma, trink du vom süßen Trank!
О Индра, тебя, быка, мы
Зовем, (когда) выжат сома.
Испей сладкого напитка!
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत । पिबा वृ॑षस्व॒ तातृ॑पिम् ॥
इन्द्र॑ । क्र॒तु॒ऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ । पिब॑ । आ । वृ॒ष॒स्व॒ । ततृ॑पिम् ॥
हे इन्द्र क्रतुविदं क्रतोः प्रज्ञाया लम्भकं सुतम् अभिषुतमिमं सोमं हर्य पातुं कामयस्व । हे पुरुष्टुत पुरुभिर्बहुभिः स्तुतेन्द्र तातृपिं तर्पकमाप्यायनकारिणमिमं सोमं पिब । पीतमिमं सोमम् आ वृषस्व जठरे सिञ्च । यथा नाभेरधो न पतति तथा धारयेति भावः ॥ हर्य । ‘ हर्य गतिकान्त्योः ' इत्यस्य लोटि रूपम् । निघातः । पुरुष्टुत । ' स्तुतस्तोमयोश्छन्दसि ' इति संहितायां षत्वम् । वृषस्व । वृष सेचने ' इत्यस्य लोटि रूपम् । आङ उत्तरत्वात् निघातः । तातृपिम् ।' तृप प्रीणने' इत्यस्मात् ‘छन्दसि सदादिभ्यो दर्शनात् ' (पा. सू. ३. २. १७१. २) इति किन् । तस्य लिड्वद्भावात् द्विर्वचनादि । संहितायाम् ‘ अन्येषामपि ' इत्यभ्यासस्य दीर्घः । नित्त्वादाद्युदात्तः ॥
“Indra, the praised of many, accept the effused Soma, the conferrer of knowledge; drink, imbibe the satisfactory draught.”
Indra, whom many laud, accept the strength-conferring Soma juice:
Quaff, pour down drink that satisfies.
Indra! Enjoy the pressed soma that finds the will, you much-praised one. Drink it, drench yourself in it—the ever satisfying (soma).
᳓
Nimm Indra an den Somasaft, der Kraft gibt, viel gepriesener; Trink, schlucke den ergötzenden.
Indra! Nimm den ausgepreßten Soma, der guten Rat schafft, gern an, du Vielgepriesener! Trinke, gieß den Labenden in dich!
О Индра, прими благосклонно выжатого
Сому, создающего силу духа, о многовосхваленный!
Пей, вливай в себя насыщающего!
इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभि॑: । ति॒र स्त॑वान विश्पते ॥
इन्द्र॑ । प्र । नः॒ । धि॒तऽवा॑नम् । य॒ज्ञम् । विश्वे॑भिः । दे॒वेभिः॑ । ति॒र । स्त॒वा॒न॒ । वि॒श्प॒ते॒ ॥
हे स्तवान स्तोतृभिः स्तूयमान विश्पते विशां मरुतां पते हे इन्द्र विश्वेभिर्देवेभिः सर्वैः यजनीयैर्देवैः सहितस्त्वं धितावानम् । वन्यते संभज्यते इति वानं हविः । धितं निहितं हविर्यस्य तम् । संभृतहविष्कमित्यर्थः । अस्मदीयमिमं यज्ञं प्र तिर प्रकर्षेण वर्धय । हविःस्वीकरणेन संपूर्णं कुरु इति भावः ॥ नः । ' उपसर्गाद्बहुलम्' इति संहितायां णत्वम् । धितावानम् । ‘डुधाञ् धारणपोषणयोः' इत्यस्मान्निष्ठा । बहुव्रीहौ पूर्वपदस्वरः । तिर । तरतेर्व्यत्ययेन शः । प्रत्ययस्वरः । स्तवान ।' ष्टुञ् स्तुतौ '। 'सम्यानच् स्तुवः' इत्युपपदाभावेऽपि कर्मण्यानच्प्रत्ययः । आमन्त्रितत्वात् निघातः ॥
“Indra, lord of men, who is praised (by the devout) and aided by the gods, perfect this our sacrifice in which the oblation is offered (to you).”
Indra, with all the Gods promote our wealth-bestowing sacrifice,
Thou highly-lauded Lord of men.
Indra! Further our sacrifice, with its emplaced (fires?), along with all the gods,
o you who are praised as clanlord.
Mit allen Göttern fördere das gabenreiche Opfer uns, Gelobter Hausherr, Indra du.
Indra! Fördere mit allen Göttern unser Opfer, das das Erwartete bringt, du gepriesener Stammesfürst!
О Индра, содействуй нашей жертве,
Той, в которую вложено (возлияние),
Вместе со всеми богами, о прославленный!
इन्द्र॒ सोमा॑: सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते । क्षयं॑ च॒न्द्रास॒ इन्द॑वः ॥
इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तव॑ । प्र । य॒न्ति॒ । स॒त्ऽप॒ते॒ । क्षय॑म् । च॒न्द्रासः॑ । इन्द॑वः ॥
हे सत्पते इन्द्र चन्द्रासः आह्लादयितारः इन्दवः दीप्ताः सुताः अभिषुताः इमे अस्माभिर्दत्ताः सोमाः तव क्षयम् । क्षियन्ति निवसन्त्यन्नादीनि अत्रेति क्षयो जठरम्। प्र यन्ति प्रकर्षेण गच्छन्ति । तान् धारयेति भावः ॥ क्षयम् । ‘ क्षि निवासगत्योः' इत्यस्मादधिकरणे घप्रत्ययः । प्रत्ययस्वरेण अन्तोदात्तत्वे प्राप्ते ‘ क्षयो निवासे' इत्याद्युदात्तत्वम् । चन्द्रासः । ‘ चदि आह्लादने दीप्तौ च । अस्मात् ‘स्फायितञ्चि°' इत्यादिना रक्प्रत्ययः । ‘ आज्जसेरसक्' इत्यसुक् । प्रत्ययस्वरः । इन्दवः । ‘ उन्देरिच्चादेः' ( उ. सू. १. १२ ) इति उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तः ॥
“Indra, lord of the virtuous, these effused Soma juices, exhilarating and brilliant, proceed to your abode.”
Lord of the brave, to thee proceed these drops of Soma juice expressed,
The bright drops to thy dwelling-place.
Indra! These pressed soma drinks of yours go forth, o master of settlements,
to your dwelling place—the glimmering drops.
Gebraut sind diese Säfte dir, es schreiten, Indra, starker Herr, Die Tropfen hell zu deinem Sitz.
Indra! Diese ausgepreßten Somatränke begeben sich in deine Wohnung, die schimmernden Säfte, du rechtmäßiger Herr.
О Индра, эти выжатые соки сомы
Движутся вперед к твоему жилищу,
О господин сущего, сверкающие капли.
द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् । तव॑ द्यु॒क्षास॒ इन्द॑वः ॥
द॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ । द्यु॒क्षासः॑ । इन्द॑वः ॥
हे इन्द्र वरेण्यं सर्वैर्वरणीयं सुतम् अभिषुतं सोमं जठरे दधिष्व धारय । इन्दवः दीप्ता इमे सोमाः तव द्युक्षासः । दिवि क्षियन्ति निवसन्तीति द्युक्षासः । अतस्त्वं स्वभूतान् तान् धारयेति भावः ॥ दधिष्व । दधातेर्लोटि रूपम् । ‘ आगमा अनुदात्ताः' इतीटोऽनुदात्तत्वात् प्रत्ययस्वरः । वरेण्यम् । वृङ् संभक्तौ '। 'वृङ एण्यः ' इति एण्यप्रत्ययः । वृषादित्वादाद्युदात्तः । द्युक्षासः । क्षियतेः। ‘ अन्येभ्योऽपि दृश्यते ' इति डप्रत्ययः । कृदुत्तरपदस्वरः ॥ ॥१॥
“Receive, Indra, into your stomach this excellent effused libation, these bright (drops) abide with you in heaven.”
Within thy belly, Indra, take juice, Soma the most excellent: Thine are the drops celestial.
Put into your belly the pressed soma worthy to be chosen, Indra.
Yours are the heaven-ruling drops.
Nimm auf in deinen Bauch den Saft, den lieben Soma, Indra du, Die Himmelstropfen, sie sind dein.
Nimm den ausgepreßten, vorzüglichen Soma in deinem Bauch auf, Indra; dein sind die himmlischen Säfte.
Прими к себе в утробу выжатого
Сому, о Индра, отличного.
Капли (сомы), живущие на небе, – твои!
गिर्व॑णः पा॒हि न॑: सु॒तं मधो॒र्धारा॑भिरज्यसे । इन्द्र॒ त्वादा॑त॒मिद्यश॑: ॥
गिर्व॑णः । पा॒हि । नः॒ । सु॒तम् । मधोः॑ । धारा॑भिः । अ॒ज्य॒से॒ । इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ ॥
गिर्वणः गीर्भिर्वननीय । तथा च यास्कः-’ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' ( निरु. ६. १४ ) इति । तादृशेन्द्र नः अस्मदीयं सुतम् अभिषुतमिमं सोमं पाहि पिब । यतः मधोः मदकरस्य सोमस्य धाराभिः अज्यसे सिच्यसे हे इन्द्र त्वादातमित् त्वया शोधितं विशदीकृतमेव यशः अन्नमस्मासु भवति ॥ गिर्वणः । वन संभक्तौ' इत्यस्मादसुन् । गिर उपधाया दीर्घाभावश्छान्दसः। ‘आमन्त्रितस्य' इति षाष्ठिकमाद्युदात्तत्वम् । पाहि ।' पा पाने ' इत्यस्माल्लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । प्रत्ययस्वरः । त्वादातम् । दैप् शोधने'। सत्यपि पकारे ‘नानुबन्धकृतमनेजन्तत्वम् ' ( परिभा, ७ ) इत्येजन्त एवायम् । ततः ‘ आदेचः° ' इत्यात्वम् । अस्मात् कर्मणि क्तः।' दाधा घ्वदाप्' इत्यत्र अदाप् इति प्रतिषेधेन घुसंज्ञाया अभावात् ‘ दो दद्धोः' इति ददादेशो न भवति । त्वेति युष्मच्छब्दस्य तृतीया ।' कर्तृकरणे कृता बहुलम् ' इति समासः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । यशः । ‘अशू व्याप्तौ ।' अशेर्युट् च ' इत्यसुन् । तस्संनियोगेन धातोः युडागमः । नित्त्वादाद्युदात्तः ॥
“Indra, who is glorified with praise, drink this our libation, for you are sprinkled with the drops of the exhilarating (draught); the (sacrificial) food is verily purified by you.”
Drink our libation, Lord of hymns: with streams of meath thou art bedewed
Our glory, Indra, is thy gift.
O you longing for songs, drink our pressed (soma). With streams of honey are you anointed.
Indra! Just by you is glory given.
Den Liedern hold geniess den Trank, du wirst mit süssem Strom gesalbt; Von dir ist, Indra, Glück geschenkt.
Trink unseren Saft, du Lobbegehrender! Mit den Strömen des Metes wirst du gesalbt. Von dir, Indra, wird die Auszeichnung verliehen.
О жаждущий хвалебных песен, пей нашего выжатого (сому)!
Тебя мажут потоками меда.
О Индра, только данное тобою – честь!
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता । पी॒त्वी सोम॑स्य वावृधे ॥
अ॒भि । द्यु॒म्नानि॑ । व॒निनः॑ । इन्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता । पी॒त्वी । सोम॑स्य । व॒वृ॒धे॒ ॥
वनिनः । वनं देवताविषयं संभजनमस्यास्तीति वनी । तस्य देवान् संभजमानस्य यजमानस्य द्युम्नानि द्योतमानानि अक्षिता क्षयरहितानि संपूर्णानि सोमादीनि हवींषि इन्द्रम् अभि अभितः सचन्ते समवयन्ति । तेषु मध्ये सोमस्य पीत्वी सोमं पीत्वा वावृधे स इन्द्रो वर्धते ॥ वनिनः । ‘ अत इनिठनौ ' इतीनिप्रत्ययः । तस्य स्वरः । सचन्ते । ‘ षच समवाये' इत्यस्य लटि रूपम् । अक्षिता । ‘ क्षि क्षये' इत्यस्य निष्ठा । अत्र ण्यदर्थः' इति दीर्घाभावः । तस्मादेव ‘क्षियो दीर्घात् ' इति निष्ठानत्वाभावः। नञा समासे तस्य स्वरः । पीत्वी । पा पाने' इत्यस्मात् क्त्वाप्रत्ययस्य ‘ स्नात्व्यादयश्च' इति निपातनात् त्वी इत्यादेशः । प्रत्ययस्वरः। ‘घुमास्थागापा' इत्यादिना ईत्वम्॥
“The brilliant and imperishable (Soma), offered by the worshipper, encompasses Indra; having drunk of the libation, he increases (in vigour).”
To Indra go the treasures of the worshipper, which never fail:
He drinks the Soma and is strong
The imperishable heavenly effusions of the wooden (vessel) attend on Indra.
Having drunk of the soma, he is grown strong.
Zu Indra dringen Gaben hin des Spenders, unvergängliche; Nach Somatränken wirst du stark.
Dem Indra kommen die unversieglichen Herrlichkeiten des Holzgefäßes zu. Wenn er Soma getrunken hat, ward er stark.
К Индре устремляются непреходящие
Озарения деревянного (сосуда).
Он возрос, выпив сому.
अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् । इ॒मा जु॑षस्व नो॒ गिर॑: ॥
अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । प॒रा॒ऽवतः॑ । च॒ । वृ॒त्र॒ह॒न् । इ॒माः । जु॒ष॒स्व॒ । नः॒ । गिरः॑ ॥
हे वृत्रहन् इन्द्र अर्वावतः अर्वाचीनात् समीपाद्देशात् परावतः अतिदूराद्देशात् वा नः अस्मानभिलक्ष्य आ गहि आगच्छ । आगत्य च नः अस्मदीयाः इमाः स्तुतिलक्षणाः गिरः वाचः जुषस्व सेवस्व ॥ परावतः ।' उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । प्रत्ययस्वरः ॥
“Slayer of Vṛtra, whether from nigh or from afar, come to us, accept these our praises.”
From far away, from near at hand, O Vrtra-slayer, come to us:
Accept the songs we sing to thee.
From nearby come here to us, and from afar, Vr̥tra-smasher.
Enjoy these songs of ours.
Komm aus der Nähe her zu uns und aus der Ferne, Vritrafeind; Nimm diese unsre Lieder an.
Komm zu uns aus der Nähe und aus der Ferne, du Vritratöter! Erfreue dich an diesen Lobensworten von uns!
Изблизи к нам приходи
И издалека, о убийца Вритры!
Наслаждайся этими нашими хвалебными песнями!
यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ । इन्द्रे॒ह तत॒ आ ग॑हि ॥
यत् । अ॒न्त॒रा । प॒रा॒वत॑म् । अ॒र्वा॒वत॑म् । च॒ । हू॒यसे॑ । इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥
हे इन्द्र यत् यस्मिन् परावतम् अतिविप्रकृष्टस्य देशस्य अर्वावतं अतिसंनिकृष्टस्य देशस्य च अन्तरा तयोर्मध्यदेशे हूयसे सम्यगिज्यसे ततः तस्माद्देशात् इह अस्मिन् यज्ञे आ गहि सोमपानार्थमागच्छ ॥ परावतम् अर्वावतम् । अन्तरान्तरेण युक्ते' (पा. सू. २. ३. ४ ) इति द्वितीया । ततः । पञ्चम्यास्तसिल्। लित्व््रः ॥ ॥ २ ॥
“Whether you are called from nigh or from afar, or from mid-space, come hither, Indra, from thence.”
When from the space between the near and far thou art invoked by us,
Thence, Indra. come thou hitherward.
If you are invoked between the far and the nearby,
Indra, come here from there.
᳓
Wenn zwischen Näh' und Ferne du, o Indra angerufen wirst, So komm von dort hieher zu uns.
Wenn du unterwegs in die Ferne und Nähe gerufen wirst, so komm von dort her, Indra!
Если посередине между далью
И близью зовут (тебя),
О Индра, приходи оттуда сюда!