आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये । हरि॑भ्यां याह्यद्रिवः ॥
आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒नः । सोम॑ऽपीतये । हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥
अद्रिवः वज्रिन् हे इन्द्र हुवानः होतृभिराहूयमानस्त्वं मद्र्यक् मदभिमुखः सन् नः अस्मदीये यज्ञे सोमपीतये सोमपानार्थं हरिभ्याम् अश्वाभ्यां सह तु क्षिप्रम् आ याहि ॥ तु । ‘ऋचि तुनुघ° ' इत्यादिना संहितायां दीर्घः । मद्र्यक् । मामञ्चतीति ‘ऋत्विग्दधृक्' इत्यादिना क्विन् । ' प्रत्ययोत्तरपदयोश्च' इत्यस्मच्छब्दस्यैकवचने मपर्यन्तस्य मादेशः । ‘विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ' इति टेः अद्रि इत्यादेशः । 'अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्यर्थम्' इति वचनात् अद्र्यादेशः अन्तोदात्तः । यणादेशे कृते ' उदात्तस्वरितयोर्यणः' ' इति यणः स्वरितत्वम् । ' क्विन्प्रत्ययस्य कुः ' इति कुत्वम् । सोमपीतये । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । अद्रिवः । ' मतुवसोः ० ' इति रुत्वम् । आमन्त्रितत्वान्निघातः । ।
“Indra, wielder of the thunderbolt, come to me with your horses, when invoked to drink the Soma at our (sacrifice).”
INVOKED to drink the Soma juice, come with thy Bay Steeds, Thunder-armed
Come, Indra, hitherward to me.
You, Indra, when you are called to drink our soma,
drive here toward me with your pair of fallow bays, o possessor of the (pressing) stone.
O komm doch, Indra, her zu mir, gerufen zu dem Somatrunk, Mit deinen Füchsen, Schleuderer.
Komm doch, Indra, gerufen zu mir her, um unseren Soma zu trinken, mit den Falben, du Herr der Preßsteine!
Приезжай к нам, о Индра, ко мне,
Когда тебя зовут на питье сомы,
На паре буланых коней, о повелитель давильных камней!
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् । अयु॑ज्रन्प्रा॒तरद्र॑यः ॥
स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् । अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥
हे इन्द्र नः अस्मदीये यज्ञे होता ऋत्विक् तवाह्वानार्थम् ऋत्वियः प्राप्तकालः सन् सत्तः निषण्णो वर्तते । तथा बर्हिरानुषक् अनुषक्तं परस्परसंबद्धं यथा भवति तथा तिस्तिरे हविःष्वासन्नेषु स्तीर्णमभूत् । तथा प्रातः प्रातःसवने सोमाभिषवार्थम् अद्रयः ग्रावाणः अयुज्रन् परस्परं संगता अभूवन् । तस्मात् सोमपानार्थं त्वमागच्छेति भावः ॥ सत्तः । षद्लृ विशरणादिषु इत्यस्मात् ' गत्यर्थाकर्मकश्लिष० ' ( पा. सूॄ ३. ४. ७२) इत्यादिना कर्तरि क्तः । सर्वविधीनां छन्दसि विकल्पितत्वादत्र निष्ठातकारस्य नत्वाभावः । ऋत्वियः । ऋतुशब्दात् ' छन्दसि घस् ' इति घस् प्रत्ययः । घस्येयादेशः । ' सिति ' इति पदसंज्ञायाम् ' ओर्गुणः ' इति भसंज्ञाधीनो गुणो न भवति । यणादेशः । प्रत्ययस्वरः । तिस्तिरे । ' स्तॄञ् आच्छादने ' इत्यस्य कर्मणि लिटि ' ऋत इद्धातोः ' इतीत्वम् । द्विर्वचने ' शर्पूर्वाः खयः ' इति तकारस्य शेषः । ' लिटस्तझयोरेशिरेच् ' इति तप्रत्ययस्य एश् इत्यादेशः । पादादित्वादनिघातः । प्रत्ययस्वरः । आनुषक् । ' षञ्ज संगे ' । क्विप् । ' अनिदिताम् ' इति नलोपः । आङन्वोरुपसगर्योः प्राक् प्रयोगः । गतिसमासः । कृदुत्तरपदस्वरः । अयुज्रन् । ' युजिर् योगे ' इत्यस्य लुङि च्लेः ' इरितो वा ' इत्यङादेशः । ' बहुलं छन्दसि ' इति रुडागमः । पादादित्वादनिघातः । अडागमस्वरः
“The invoking priest is seated at the proper season; the sacred grass woven together has been spread; the stones are plural ced in contact for the morning (libation).”
Our priest is seated, true to time; the grass is regularly strewn;
The pressing-stones were set at morn.
Our Hotar was seated at his season; the ritual grass has been strewn in due order.
The pressing stones were yoked in the early morning.
Schon sitzet unser Priester da, gestreut ist nach dem Rang der Sitz; Früh sind die Steine angeschirrt.
Unser Hotri hat sich hingesetzt, die rechte Zeit einhaltend. Das Barhis ist richtig ausgelegt, die Steine sind am Morgen in Tätigkeit gesetzt.
Уселся хотар наш, соблюдающий время.
Разложена по порядку жертвенная солома.
Рано утром запряжены давильные камни.
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द । वी॒हि शू॑र पुरो॒ळाश॑म् ॥
इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒हः॒ । क्रि॒यन्ते॑ । आ । ब॒र्हिः । सी॒द॒ । वी॒हि । शू॒र॒ । पु॒रो॒ळाश॑म् ॥
ब्रह्मवाहः। ब्रह्माणि स्तोत्राणि स्तुत्यतया वहतीति ब्रह्मवाहा ब्रह्मणा स्तोत्रेण प्राप्यते इति वा । हे स्तुत्य इन्द्र तुभ्यम् इमा इमानि ब्रह्म ब्रह्माणि स्तोत्राणि अस्माभिः क्रियन्ते । अतः बर्हिः आ सीद स्तुत्यतया बर्हिषि यज्ञे उपविश । हे शूर समर्थेन्द्र अस्माभिर्दीयमानमिमं पुरोडाशं पुरोडाशाख्यं हविः वीहि भक्षय ॥ ब्रह्मवाहः । ' वह प्रापणे ' इत्यस्मात् ' वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन् । ' णित् ' इत्यनुवृत्तेरुपधावृद्धिः । आमन्त्रितत्वान्निघातः । क्रियन्ते । करोतेः कर्मणि यक् । रिङ् शयग्लिङ्क्षु ' इति रिङादेशः । प्रत्ययस्वरः । पादादित्वादनिघातः । बर्हिः । कालाध्वनोरत्यन्त- संयोगे द्वितीया । वीहि । वी कान्त्यादिषु । लोटि रूपम् । हेर्ङित्त्वादुदात्तः । पुरोळाशम् । दाशृ दाने ' इत्यस्मात् पुरस्पूर्वात् ' मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ' ( पा. सू ३.२. ७१) । पुरो दाशन्त एनमिति । निपातनाद्दकारस्य लकारः । कृदुत्तरपदस्वरः । ।
“Bearer of prayers, these prayers are offered (by us); sit down on the sacred grass; partake, hero, of the oblation.”
These prayers, O thou who hearest prayer are offered: seat thee on the grass.
Hero, enjoy the offered cake.
Here are the sacred formulations being made, o you whose vehicle is the formulation. Sit on the ritual grass;
seek after the offering cake, o champion.
Gebete sind, Erflehter, dir gebracht hier, setz dich auf die Streu; Den Opferkuchen iss, o Held.
Hier werden dir Erbauungen bereitet, der du die Erbauungen zu deinem Gefährt machst. Setz dich auf das Barhis, habe Lust zu dem Reiskuchen, o Held!
Совершаются эти заклинания,
О тот, кто ездит на заклинаниях. Садись на солому!
Прими с охотой жертвенную лепешку!
रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् । उ॒क्थेष्वि॑न्द्र गिर्वणः ॥
र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ह॒न् । उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
हे गिर्वणः गीर्भिः स्तुतिभिर्वननीय वृत्रहन् वृत्रस्य हन्तर्हे इन्द्र नः अस्माकं संबन्धिषु त्रिषु सवनेषु एषु क्रियमाणेषु स्तोमेषु स्तोत्रेषु उक्थेषु शस्त्रेषु च रारन्धि रमस्व ॥ रारन्धि । रमतेर्लोटि ‘बहुलं छन्दसि ' इति शपः श्लुः । 'छन्दस्युभयथा' इति हेरार्धधातुकत्वेनाडित्त्वात् ‘अङितश्च' इति हेर्धिः । सवनेषु । सूयते सोमो येष्विति अधिकरणे सुनोतेर्ल्युट् । लित्स्वरः । णः । नसो नकारस्य ‘नश्च धातुस्थोरुषुभ्यः' इति संहितायां णत्वम् ॥
“Slayer of Vṛtra, Indra, who is gratified by praise, be plural ased with these our praises and prayers at our (daily) sacrifices.”
O Vrtra-slayer, be thou pleased with these libations, with these hymns,
Song-loving Indra, with our lauds.
Take pleasure in our pressings, in these praises, o Vr̥tra-smasher,
in hymns, o Indra who longs for songs.
An unsern Säften labe dich, an diesen Liedern, Vritrafeind, An Sprüchen, Indra, liederfreut.
Ergötze dich an unseren Trankopfern, an diesen Lobgesängen, du Vritratöter, an den Liedern, du lobbegehrender Indra!
Радуйся нашим выжиманиям,
Этим восхвалениям, о убийца Вритры,
Гимнам, о Индра, жаждущий хвалебных песен!
म॒तय॑: सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् । इन्द्रं॑ व॒त्सं न मा॒तर॑: ॥
म॒तयः॑ । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑सः । पति॑म् । इन्द्र॑म् । व॒त्सम् । न । मा॒तरः॑ ॥
हे इन्द्र मतयः अस्माभिः क्रियमाणाः स्तुतयः उरुं महान्तं सोमपां सोमस्य पातारं शवसः बलस्य पतिम् इन्द्रं त्वां रिहन्ति लिहन्ति । तत्र दृष्टान्तः । वत्सं न । यथा वत्सं मातरः धेनवो लिहन्ति तद्वत्॥ मतयः । ‘मन ज्ञाने' इत्यस्मात् कर्मणि “ मन्त्रे वृष°' इत्यादिना क्तिन्नुदात्तः । उरुम् । ‘ऊर्णुञ् आच्छादने' इत्यस्मात् महत्यर्थे गम्यमाने ‘महति ह्रस्वश्च ' ( उ. सू. १. ३२) इति कुप्रत्ययो धातोर्ह्रस्वश्च । प्रत्ययस्वरः । रिहन्ति । ‘लिह आस्वादने' इत्यस्य लटि रूपम् । रलयोरभेदः । प्रत्ययस्वरः । शवसस्पतिमिति संहितायां • षष्ठ्याः पतिपुत्रपृष्ठ°' इत्यादिना ‘विसर्जनीयस्य सत्वम् । वत्सम् ।' वद व्यक्तायां -वाचि'। अस्मात् ' वृतॄवदिहनि ' इत्यादिना सप्रत्ययः । वदत्यभीक्ष्णं मातरमिति वत्सो गोबालः । प्रत्ययस्वरः ॥ ॥ ३ ॥
“Our praises caress the mighty Indra, the drinker of the Soma, as cows lick their calves.”
Our hymns caress the Lord of Strength, vast, drinker of the Soma's juice,
Indra, as mother-cows their calf.
Thoughts lick the broad, soma-drinking lord of strength,
Indra—like mothers a calf.
Den grossen Indra kosen hold Gebete, wie die Küh' ihr Kalb, Den Herrn der Kraft, der Soma trinkt.
Die Gedichte liebkosen den breiten Somatrinker, den Herrn der Stärke, den Indra, wie die Kutterkühe ihr Kalb.
Молитвы лижут пьющего сому
Широкого повелителя силы,
Индру, словно (коровы-) матери – теленка.
स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे । न स्तो॒तारं॑ नि॒दे क॑रः ॥
सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे । न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥
हे इन्द्र सः तथाविधस्त्वं महे महते राधसे धनाय अन्धसः अस्माभिर्दीयमानस्य सोमस्य पानेन तन्वा शरीरेण सह मन्दस्व हृष्टो भव । हिः अत्र समुच्चयार्थः । किंच त्वं स्तोतारं मां निदे निन्दायै विषयभूतं न करः मा कार्षीः ॥ मन्दस्व । मदि स्तुत्यादिषु इत्यस्य लोटि रूपम् । ' हि च ' इति निघातप्रतिषेधेन भवितव्यमिति चेन्न । तत्र ‘अप्रातिलोम्ये' इति वर्तते । अत्र हेः समुच्चयार्थवान्निघातः । तन्वा । ‘उदात्तस्वरितयोः' इति स्वरितत्वम् । महे । तकारलोपश्छन्दसः । ‘बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । निदे। ‘णिदि कुत्सायाम्' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । ‘सावेकाचः । इति विभक्तेरुदात्तत्वम् । करः । करोतेर्लुङि च्लेः ' कृमृदृरुहिभ्यश्छन्दसि ' इत्यङादेशः । निघातः ॥
“Be exhilarated bodily (by drinking) of the libation which we offer for the sake of ample wealth; expose not your adorer to reproach.”
Delight thee with the juice we pour for thine own great munificence:
Yield not thy singer to reproach.
Find exhilaration from the stalk, then, to show great generosity with your own person.
You will not put your praiser to scorn.
Erfreu dich denn am Somakraut zu grosser Gab' aus eigner Lust; Nicht gib den Sänger bin dem Hass.
So berausche dich denn in eigner Person am Tranke zu großer Freigebigkeit! Setz den Sänger nicht dem Tadel aus!
Так опьяняйся же телом
От напитка – для великого дарения!
Не выдай хуле восхвалителя!
व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे । उ॒त त्वम॑स्म॒युर्व॑सो ॥
व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । ह॒विष्म॑न्तः । ज॒रा॒म॒हे॒ । उ॒त । त्वम् । अ॒स्म॒ऽयुः । व॒सो॒ इति॑ ॥
हे इन्द्र त्वायवः यज्ञार्थं त्वामात्मन इच्छन्तस्त्वत्कामाः सन्तः हविष्मन्तः संभृतहविष्काः वयं जरामहे त्वां स्तुमः । हे वसो सर्वस्य वासक इन्द्र उत त्वम् अपि अस्मयुः हविःस्वीकरणर्थम् अस्मानात्मन इच्छन् भव ॥ त्वायवः । त्वामिच्छन्तीत्यर्थे सुप आत्मनः क्यच् '। ' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । ‘क्याच्छन्दसि इत्युप्रत्ययः । त्वद्यव इति प्राप्तौ ' युष्मदस्मदोरनादेशे' इत्यविभक्तावपि हलादौ व्यत्ययेनात्वम् । प्रत्ययस्वरः । हविष्मन्तः । ‘तसौ मत्वर्थे ' इति भसंज्ञायां सकारस्य रुत्वाभावः । ‘स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषानाश्रयणात् मतुप उदात्तताभावः । इसिप्रत्ययस्वरः । जरामहे । ‘जरतिः स्तुतिकर्मा ' इति यारकः । अस्मयुः । अरमानिच्छतीत्यर्थे सुपः क्यच् । तस्मादु प्रत्ययः । पूर्वपदान्तलोपश्छन्दसः । प्रत्ययस्वरः ॥
“Devoted, Indra, to you and offering oblations, we glorify you giver of dwellings; do you be favourably disposed to us.”
We, Indra, dearly loving thee, bearing oblation, sing thee hymns
Thou, Vasu, dearly lovest us.
Offering our oblations, we sing, seeking you, o Indra,
and you are seeking us, you good one.
Wir, die dich lieben, nahen dir, o Indra, jetzt mit Opferguss; Auch du, o Guter, liebst ja uns.
Wir sind wach, o Indra, mit Opferspenden dir zugetan und du bist uns zugetan, o Guter.
Мы, о Индра, преданные тебе,
Бодрствуем с жертвенными возлияниями.
А ты (будь) предан нам, о Васу!
मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि । इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥
मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । आ॒र्वाङ् । या॒हि॒ । इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥
हे हरिप्रिय हरी अश्वौ प्रियौ यस्य तादृश हे इन्द्र अस्मत् अस्मत्तः आरे दूरे रथे योजितावश्वौ मा वि मुमुचः मा विमोचय । ताभ्यामुपेत एव अर्वाङ् अस्मदाभि मुख्येन याहि आगच्छ। हे स्वधावः सोमलक्षणान्नवन’“इन्द्र इह अस्मिन् देवयजने मत्स्व सोमं पीत्वा हृष्टो भव ॥ अस्मत् । अस्मच्छब्दस्य पञ्चमीबहुवचनस्य ‘पञ्चम्या अत् ' (पा. सू. ७. १. ३१ ) इत्यदादेशः । मुमुचः ।' मुच्लृ मोक्षणे ' इत्यस्य ण्यन्तस्य छान्दसे लुङि चङि रूपम् । अभ्यासस्य दीर्घाभावश्छान्दसः । ‘न माङयोगे' इत्यडभावः । निघातः । हरिप्रिय । आमन्त्रितस्य पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । मत्स्व । मदि स्तुत्यादिषु इत्यस्य लोटि ' बहुलं छन्दसि ' इति विकरणस्य लुक् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ॥
“Lover of horses, Indra, loosen not your steeds while far from us, but come (with them) to our presence; enjoyer of the offering, be exhilarated at this sacrifice.”
O thou to whom thy Bays are dear, loose not thy Horses far from us:
Here glad thee, Indra, Lord divine.
Do not unharness at a distance from us; drive nearby, you who are dear to your fallow bays.
O autonomous Indra, become exhilarated here.
Nicht kehre ein von uns entfernt; komm her, der du den Soma liebst; Hier freu dich, Indra, herrlicher.
Spann nicht weit von uns aus, komm herwärts du Falbenfreund! Berausche dich hier, o eigenmächtiger Indra!
Далеко от нас не распрягай (коней,)
О (бог,) любящий буланых коней! Сюда приезжай!
О Индра самовластный, опьяняйся здесь!
अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑ । घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥
अर्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥
हे इन्द्र घृतस्नू श्रमजनितजलप्रस्रवणयुक्तौ केशिना केशिनौ स्कन्धप्रदेशे लम्बमान केशयुक्तौ हरी आसदे आसदनीय बर्हिः अभिलक्ष्य सुखे सुखकरे रथे अर्वाञ्चम् अस्मदभिमुखं त्वा त्वां वहताम् ॥ अर्वाञ्चम् । अञ्चतेः क्विनि उगिदचाम् ' इति नुम् । वहताम् ॥ वहेर्लोटि रूपम् । तसो लसार्वधातुकस्वरे कृते धातुस्वरः। आसदे। सदेः कृत्यार्थे केन्प्रत्ययः। नित्स्वरः कृदुत्तरपदप्रकृतिस्वरः ॥ ॥ ४ ॥
“May your long-maned and sleek-coated steeds bring you down in your easy chariot to sit upon the sacred grass.”
May long-maned Coursers, dropping oil, bring thee on swift car hitherward,
Indra, to seat thee on the grass.
Let the two hairy(-maned horses) convey you nearby in a well-naved chariot, Indra,
the two with ghee on their backs—(for you) to sit on the ritual grass.
Lass, Indra, dich die mähnigen, die fettbedeckten, fahren her, Auf raschem Wagen zu der Streu.
Dich sollen auf leichtem Wagen die beiden Mähnigen herwärts fahren, Indra, die Schmalzrückigen, daß du dich auf das Barhis setzest!
На легкоходной колеснице пусть привезут
Тебя сюда, о Индра, двое гривастых
(Коней) со спинами, (помазанными) жиром, – чтобы ты сел на солому!