उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् । हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥
उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् । हरि॑ऽभ्याम् । यः । ते॒ । अ॒स्म॒ऽयुः ॥
हे इन्द्र नः अस्मदीयं सुतम् अभिषुतं गवाशिरं पयसा मिश्रितं सोमं प्रति उप आ गहि समीप आगच्छ । यतः हरिभ्याम् अश्वाभ्यां युक्तः ते तव रथः अस्मयुः अस्मान् कामयमानो वर्तते ॥ गवाशिरम् । आङ्पूर्वस्य श्रीणातेः क्विपि ‘ अपस्पृधेथामानृचुः° ' ( पा. सू. ६. १, ३६ ) इत्यादिनाशिर इत्यादेशः । बहुव्रीहौ पूर्वपदस्वरः ॥
“Come, Indra, to this our effused Soma mixed with milk and curds, with your horses (yoked to your car), which is favourably disposed to us.”
COME to the juice that we have pressed, to Sorna, Indra, bleat with milk:
Come, favouring us, thy Bay-drawn car!
Come up to our pressed soma mixed with milk, Indra,
you who, with your pair of fallow bays, are seeking us.
O Indra, komm zu unserm Saft, zum milchgemischten Somatrank Mit deinen Füchsen, uns geneigt.
Komm, Indra, mit dem Falbenpaar zu unserem ausgepreßten Soma, dem milchgemischten, der für dich ist, uns zugetan!
Приезжай к нам на выжатого
Сому, о Индра, смешанного с молоком,
(Сому,) который для тебя, (приезжай) на двух буланых конях (ты,) преданный нам!
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒:ष्ठां ग्राव॑भिः सु॒तम् । कु॒विन्न्व॑स्य तृ॒प्णव॑: ॥
तम् । इ॒न्द्र॒ । मद॒म् । आ । ग॑हि ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः । सु॒तम् । कु॒वित् । नु । अ॒स्य॒ । तृ॒ष्णवः॑ ॥
हे इन्द्र ग्रावभिः सुतम् अभिषुतं बर्हिःष्ठां बर्हिषि स्थितं मदम् । माद्यते अनेनेति मदः सोमः। तम् इमं सोमम् आ गहि आगच्छ । कुवित् प्रभूतं यथा भवति तथा अस्य सोमस्य पानेन नु क्षिप्रं तृप्णवः तृप्तो भव ॥ मदम् । ‘मदी हर्षे ' । ‘ मदोऽनुपसर्गे ' इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । बर्हिः ष्ठाम् । ष्ठा गतिनिवृत्तौ ' । क्विप् । संहितायां पूर्वपद
सकारस्य ‘ आदेशप्रत्यययोः' इति षत्वम् । ष्टुत्वम् । कृदुत्तरपदस्वरः । तृप्णवः । ‘ तृप प्रीणने । इत्यस्य लेट्यडागमः । कुविद्योगादनिघातः । क्षुभ्नादिषु ‘नृनमन तृप्नोति' इति पठितम् । तथापि सर्वविधीनां छन्दसि विकल्पितत्वादत्र णत्वप्रतिषेधो न भवति । प्रत्ययस्वरः ॥
“Come, Indra, to the exhilarating (Soma) expressed by the stones, poured upon the sacred grass; drink of it to satiety, for there is plural nty.”
Come, Indra, to this gladdening drink, placed on the grass, pressed out with stones:
Wilt thou not drink thy fill thereof?
Come, Indra, to the exhilarating drink, stationed on the ritual grass, pressed by stones.
Will you now indeed sate yourself on it?
Zum Rauschtrank komm, o Indra! her, dem steingepressten auf der Streu, Wirst du an ihm dich nun erfreun?
Komm, Indra, zu diesem Rauschtrank, der auf dem Barhis steht mit den Steinen ausgepreßt! Gewiß wirst du dich daran erlaben.
Приезжай, о Индра, на этот пьянящий напиток,
Стоящий на жертвенной соломе, выжатый давильными камнями!
Конечно, ты им насытишься!
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः । आ॒वृते॒ सोम॑पीतये ॥
इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छ॑ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः । आ॒ऽवृते॑ । सोम॑ऽपीतये ॥
हे इन्द्र इषिताः त्वदर्थं प्रेरिताः इत्था इत्थमनेन प्रकारेण उच्यमानाः मम गिरः स्तुतिलक्षणा वाचः इन्द्रं त्वाम् इतः अस्माद्देवयजनदेशात् अच्छागुः आभिमुख्येन गच्छन्तु । किमर्थम् । सोमपीतये सोमपानार्थम् आवृते त्वामावर्तयितुम् ॥ इत्था । इदंशब्दात् “ था हेतौ च छन्दसि ' इति व्यत्ययेन थाप्रत्ययः । इदमः ‘एतेतौ रथोः' इति इदित्यादेशः । प्रत्ययस्वरः । अच्छ। ‘अच्छ गत्यर्थवदेषु ' इति गतिसंज्ञा । अगुः । ‘ इण् गतौ ' इत्यस्य लुङि रूपम् । निघातः ॥
“May my praises, addressed from hence and in thi smanner, attain Indra, to bring him hither to drink the Soma.”
To Indra have my songs of praise gone forth, thus rapidly sent hence,
To turn him to the Soma-draught.
To Indra have my songs gone just so, sent from here,
to turn him hither for soma-drinking.
Zu ihm, dem Indra, eilen hin von hier entsandt die Lieder mein, Zu lenken ihn zum Somatrunk.
Zu Indra sind meine Reden ergangen, darum von hier entsandt, daß er zum Somatrunk einkehre.
Так направились к Индре мои
Хвалебные песни, посланные отсюда,
Чтобы он завернул на питье сомы.
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे । उ॒क्थेभि॑: कु॒विदा॒गम॑त् ॥
इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः॑ । इ॒ह । ह॒वा॒म॒हे॒ । उ॒क्थेभिः॑ । कु॒वित् । आ॒ऽगम॑त् ॥
स्तोमैः त्रिवृत्पञ्चदशादिस्तोमसाध्यैः स्तोत्रैः उक्थेभिः उक्थैः शस्त्रैश्च इह कर्मणि सोमस्य पीतये सोमपानार्थम् इन्द्रं हवामहे वयमाह्वयामः । कुवित् बहु बारमाहूतः स इन्द्रः आगमत् यज्ञं प्रत्यागच्छतु । आगमत् । गमेर्लेट्यडागमः । ‘ आगमा अनुदात्ताः' इत्यटोऽनुदात्तत्वात् धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः । कुविद्योगादनिघातः ॥
“We invoke Indra to this rite with prayers to drink the Soma; may he, repeatedly invoked, come hither.”
Hither with songs of praise we call Indra to drink the Soma juice:
Will he not come to us by lauds?
Indra we call here for soma-drinking with praises,
with hymns. Will he indeed come hither?
Zum Trunk des Soma rufen wir mit Lobgesang den Indra her, Mit Sprüchen; wird er kommen wol?
Den Indra rufen wir hierher zum Somatrunk mit Preisliedern, mit Lobgedichten. Gewiß wird er kommen.
Индру на питье сомы
Мы призываем здесь восхвалениями,
Гимнами. Ну, конечно, он придет!
इन्द्र॒ सोमा॑: सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो । ज॒ठरे॑ वाजिनीवसो ॥
इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥
हे शतक्रतो इन्द्र इमे सोमा: सुता: ग्रावभिस्त्वदर्थमभिषुताः। हे वाजिनीवसो अन्नधन। यद्वा । वाजोऽन्नमासु फलत्वेनास्तीति वाजिन्यः क्रिया: । तासां वासक हे इन्द्र तान् सोमरसान् जठरे दधिष्व धारय ॥ वाजिनीवसो । वाजशब्दात् मत्वर्थे ' अत इनिठनौ' इति इनिप्रत्ययः । ‘ ऋन्नेभ्यो ङीप्' इति ङीप् । तासां वसो । ' संबुद्धौ च ' इति गुणः । आमन्त्रितत्वादाष्टमिकमनुदात्तत्वम् ॥ ॥ ५ ॥
“Indra, these Soma are poured out; take them, Śatakratu, into your stomach; you who is rich in (abundant) food.”
Indra, these Somas are expressed. Take them within thy belly, Lord
Of Hundred Powers, thou Prince of Wealth.
Indra! Here are the pressed soma-drinks. Put them
into your belly, o you of a hundred resolves, you rich in prizewinners.
Gebraut sind, Indra, Tränke dir, die nimm, o hundertwirkender, O gabenreicher, in den Bauch.
Indra! Diese Somatränke sind ausgepreßt; nimm sie, du Ratreicher, in deinem Bauche auf, du Gewinnreicher!
О Индра, выжаты эти соки сомы.
Прими их к себе в утробу,
О стоумный, о богатый наградами!
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे । अधा॑ ते सु॒म्नमी॑महे ॥
वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । वाजे॑षु । द॒धृ॒षम् । क॒वे॒ । अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥
हे कवे क्रान्तदर्शिन्निन्द्र वाजेषु युद्धेषु दधृषं शत्रूणामभिभवितारम् अत एव धनंजयम् । धनं जयतीति धनंजयः । तादृशं त्वा त्वां विद्म हि जानीमः खलु । अध अनन्तरं ते तव सुम्नं धनम् ईमहे याचामहे ॥ विद्म । विदेर्लटि ‘ विदो लटो वा ' इति मसो मादेशः । पादादित्वात् अनिघातः । धनंजयम् । ‘ जि जये' इत्यस्मात् धने उपपदे संज्ञायां भृतॄवृजिधारिसहितपिदमः । इति खच्प्रत्ययः । ‘ अरुर्द्विषदजन्तस्य मुम्' इति पूर्वपदस्य मुमागमः । चित्त्वादन्तोदात्तः । दधृषम् । ‘ ञिधृषा प्रागल्भ्ये' इत्यस्य यङ्लुकि अभ्यासस्य रीगभावश्छान्दसः । तदन्तात् पचाद्यचि ‘यङोऽचि च' इति यङो लुक् । लघूपधगुणे प्राप्ते ‘न धातुलोपे° ' इति तस्य प्रतिषेधः । चित्त्वादन्तोदात्तः ॥
“Far-seeing Indra, we know you to be victorious and winner of wealth in battles; therefore we ask of you riches.”
We know thee winner of the spoil, and resolute in battles, Sage!
Therefore thy blessing we implore.
Because we know you as one winning the stakes, as one daring in prize-contests, you sage,
therefore we beg for your favor.
Wir wissen, dass du Beute machst, und, Weiser, kühn in Schlachten bist; Drum wünschen wir uns deine Gunst.
Denn wir kennen dich als Schätzeerbeuter, mutig in den Kämpfen, o Seher. Darum bitten wir um deine Huld.
Ведь мы знаем тебя как завоевателя наград,
Отважного в битвах за награду, о поэт.
Вот мы просим о твоей милости.
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब । आ॒गत्या॒ वृष॑भिः सु॒तम् ॥
इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ । आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥
हे इन्द्र गवाशिरं गव्यमिश्रणोपेतं तथा यवाशिरं यवमिश्रणोपेतं वृषभिः ग्रावभिः सुतम् अभिषुतं नः अस्मदीयम् इमं सोमं देवयजनम् आगत्य पिब ॥ गवाशिरं यवाशिरमित्यत्र आङ्पूर्वस्य श्रीणातेः क्विपि ‘ अपस्पृधेथामानृचुः' इत्यादिनाशिर इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥
“Having come (to our rite) drink, Indra, this our (libation), effused by the stones, and mixed with milk and curds, and with barley.”
Borne hither by thy Stallions, drink, Indra, this juice which we have pressed,
Mingled with barley and with milk.
Drink this (soma) of ours mixed with milk and mixed with grain, Indra, having come here to the (soma) pressed by the bullish (stones).
O Indra trinke diesen Trank, den wir mit Milch und Korn vermischt, Mit Hengsten komme her zum Saft.
Komm, Indra, trink diesen milchgemischten und gerstegemischten von uns, der von den Bullenstarken ausgepreßt ist!
Этого смешанного с молоком, о Индра,
И смешанного с ячменем пей у нас,
Как приедешь, (этого) выжатого быками!
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ । ए॒ष रा॑रन्तु ते हृ॒दि ॥
तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ । ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥
हे इन्द्र तुभ्येत् तुभ्यमेव पीतये पानार्थं स्वे स्वकीये ओक्ये स्थाने जठरेऽभिषुतमिमं सोमं चोदामि प्रेरयामि । एषः पीतः सोमः ते तव हृदि हृदये ररन्तु अत्यर्थं रमताम् ॥ तुभ्य । युष्मच्छब्दस्य चतुर्थ्येकवचने ' तुभ्यमह्यौ ' इति तुभ्यादेशः । ‘सुपां सुलुक्° ' इति सुपो लुक्। ' ङयि च ' इत्याद्युदात्तः । ओक्ये । वस्वादित्वात् स्वार्थको यत्प्रत्ययः । तित्स्वरितः । चोदामि ।' चुद प्रेरणे । ण्यन्तस्य लटि रूपम् । ‘ बहुलमन्यत्रापि ' इति णेर्लुक् । निघातः । ररन्तु। रमु क्रीडायाम्' इत्यस्य यङ्लुकि लोटि सर्वविधीनां छन्दसि विकल्पितत्वात् अत्राभ्यासस्य नुमभावः । संहितायाम् ' अन्येषामपि ' इत्यभ्यासस्य दीर्घः । निघातः । हृदि । हृदयशब्दस्य पद्दन्नोमास्हृत् ' इत्यादिना हृदादेशः । ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥
“I offer to you, Indra, this Soma for your drinking, to be taken into its proper receptacle;may it delight your heart.”
Indra, for thee, in thine own place, I urge the Soma for thy draught:
Deep in thy heart let it remain,
Just to you, Indra, in my own house, do I impel the soma for drinking. Let it find pleasure in your heart.
Dir Indra, schaff' im eignen Haus den Soma ich zum Trunk herbei, Er mög' ergötzen dir das Herz.
Dir, Indra, rede ich zu, in der eigenen Häuslichkeit den Soma zu trinken. Er soll gern in deinem Herzen weilen.
Это тебя я поощряю, о Индра,
Чтобы ты пил сому в своем доме.
Этот (сома) да возрадуется в твоем сердце!
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे । कु॒शि॒कासो॑ अव॒स्यव॑: ॥
त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ । कु॒शि॒कासः॑ । अ॒व॒स्यवः॑ ॥
हे इन्द्र अवस्यवः त्वत्तो रक्षणमिच्छन्तः कुशिकासः कुशिकगोत्रोत्पन्ना वयं सुतस्य ग्रावभिषुतस्य सोमस्य पीतये पानार्थं प्रत्नं पुरातनं त्वां हवामहे स्तुतिलक्षणाभिर्गीभिः आह्वयामः ॥ पीतये । 'स्थागापापचो भावे ' इति क्तिन् । ' हिष्ठवत्सरतिशत्थान्तानाम् ' (फि. सू. ७ ) इत्यन्तोदात्तत्वम् । हवामहे । ह्वयतेर्लटि ‘ बहुलं छन्दसि ' इति संप्रसारणे रूपम् । अवस्यवः । अव इच्छन्तीत्यर्थे सुपः क्यच् । ‘ क्याच्छन्दसि ' इत्युप्रत्ययः । कुशिकासो अवस्यवः इत्यत्र संहितायाम् ' अव्यादवद्यात् ' (पा. सू. ६. १. ११६) इत्यादिना एङः प्रकृतिभावः ॥ ॥ ६ ॥
“Descendants of Kuśa, desirous of protection, we invoke you, Indra, who is of old, to drink of the libation.”
We call on thee, the Ancient One, Indra, to drink the Soma juice,
We Kusikas who seek thine aid.
You, Indra, do we call to drink the pressed drink, as of old—
we, the Kuśikas, seeking your favor.
Dich Indra, rufen wir herbei, den alten zu des Saftes Trunk, Wir hülfsbegier'gen Kuçiker.
Dich, Indra, laden in alter Weise wir Kusika´s, um deine Gunst bittend, zum Trunk des Soma.
Тебя, древнего, мы призываем,
О Индра, на питье сомы,
(Мы,) люди из рода Кушики, ищущие помощи.