आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिव॑: सोम॒पेय॑म् । प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ॥
आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् । प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥
हे इन्द्र वन्धुरेष्ठाः । वन्धुरशब्देन ईषाद्वयसंबन्धस्थानम् अभिधीयते । तेन तद्विशिष्टो रथो लक्ष्यते । तस्मिन् रथे तिष्ठंस्त्वम् अर्वाङ् अस्मदभिमुखः सन् आ अभिलक्ष्य उप याहि समीप अगच्छ। प्रदिवः प्रत्नं पूर्वक्रमागतं तवेत् तवैव संबन्धि सोमपेयं सोमपानं त्वम् अनु उद्दिश्य प्रिया तव प्रियतमौ सखाया समानख्यानावश्वौ बर्हिः उप बर्हिषः समीपे वि मुच विमुञ्च । हव्यवाहः । हव्यं वहन्तीति हव्यवाहः। इमे ऋत्विजः त्वां हवन्ते सोमपानार्थमाह्वयन्ति । तस्मात् आगच्छेति भावः ॥ वन्धुरेष्ठाः । तिष्ठतेर्विच् । तत्पुरुषे कृति वहुलम्' इति सप्तम्या अलुक् । प्रदिवः । सकारान्तमव्ययम् । सोमपेयम् ।' पा पाने ' इत्यस्य भावे ' अचो यत्' इति यत्प्रत्ययः । ‘ ईद्यति' इतीत्वम्। आर्धधातुकलक्षणो गुणः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदस्वरः । मुच । मुञ्चतेर्लोटि आगमानुशानस्यानित्यत्वान्नुमभावः ॥
“Descend to us riding in your car, for verily yours is this ancient libation; unharness your beloved and friendly (horses) near to the sacred grass, for these offerers of the oblation present it to you.”
MOUNTED upon thy chariot-seat approach us: thine is the Sorna-draught from days aforetime.
Loose for the sacred grass thy dear companions. These men who bring oblation call thee hither.
Here—drive right up nearby, stationed on the chariot seat. Just yours is the soma-drinking from olden days.
Your two dear comrades—unharness them at the ritual grass. These oblation-bearers are calling you.
Komm nah herbei auf hohem Wagen stehend, der Somatrunk, er ist ja dein von je her, Entlass das liebe Rossepaar zur Streu hin, dich rufen diese Männer opferbringend.
Komm näher heran auf dem Wagenstand stehend. Dir gehört von alters her der Somatrank. Spanne deine lieben Kameraden aus; zum Barhis rufen dich diese Opferdarbringer.
Приезжай сюда, стоя на месте возницы!
Ведь только твое от века питье сомы!
Двоих милых друзей распрягай! К жертвенной соломе
Зовут тебя эти возницы жертвы.
आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् । इ॒मा हि त्वा॑ म॒तय॒: स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ॥
आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् । इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥
हे इन्द्र पूर्वीः सर्वाः चर्षणीः प्रजाः अति आ याहि अतिक्रम्यागच्छ । द्वितीय आङ् पूरणः। अर्यः अस्माकं स्वामी त्वं नः आशिषः त्वमत्रागत्य सोमं पिबेत्येवमादिका अस्माकं प्रार्थनाः हरिभ्याम् अश्वाभ्यां युक्तः सन् उप आगच्छ । किंच ते तव सख्यं जुषाणाः सेवमानाः स्तोमतष्टाः स्तोमकारिभिः स्तोतृभिः कृताः इमाः मतयः स्तुतयः हवन्ते सोमपानार्थं त्वा त्वामाह्वयन्ति । हि प्रसिद्धौ । करणे कर्तृव्यापारः । काष्ठानि पचन्तीतिवत्॥ आ । संहितायाम् आङोऽनुनासिकश्छन्दसि' इत्यनुनासिकः । अर्यः। ‘ऋ गतौ ।' अर्यः स्वामिवैश्ययोः' इति निपातनात् यत्प्रत्ययः । ‘ यतोऽनावः' इत्याद्युदात्तत्वे प्राप्ते अर्यस्य स्वाम्याख्या चेत् ' ( फि. सू. १७ ) इत्यन्तोदात्तत्वम् । आशिषः । क्विपि ' शास इदङ्हलोः' इत्युपधाया इत्वम् । ‘ शासिवसिघसीनां च ' इति षत्वम् । स्तोमतष्टाः। ‘तक्षू त्वक्षू तनूकरणे' इत्यस्मात् कर्मणि क्तः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः॥
“Passing by multitudes, come hither, noble Indra, with your steeds, (to receive) our benedictions; for these praises, Indra, composed by the devout, invoke you propitiating your friendship.”
Come our true Friend, passing by many people; come with thy two Bay Steeds to our devotions;
For these our hymns are calling thee, O Indra, hymns formed for praise, soliciting thy friendship.
Here—drive across the many settled domains—here, across the prayers of the stranger, right up to us, with your two fallow bays,
for these thoughts, crafted as praise, are calling you, Indra, taking
pleasure in your fellowship.
Komm her zu uns an vielem Volk vorüber zu unsern regen Bitten mit den Füchsen; Denn diese Lieder rufen dich, o Indra, zum Lob gedichtet, deine Freundschaft suchend.
Komm her an vielen Völkern vorbei, zu uns an den Bitten des anderen hohen Herrn vorbei mit den Falben! Denn diese zum Lobgedicht geformten Gedanken rufen dich, Indra, da sie deine Gesellschaft gern haben.
Приезжай, (минуя) многие народы,
(И) просьбы врага, к нам на двух буланых конях!
Ведь эти молитвы, вытесанные как восхваления,
Зовут тебя, о Индра, радуясь дружбе.
आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् । अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ॥
आ । नः॒ । य॒ज्ञम् । न॒मः॒ऽवृध॑म् । स॒ऽजोषाः॑ । इन्द्र॑ । दे॒व॒ । हरि॑ऽभिः । या॒हि॒ । तूय॑म् । अ॒हम् । हि । त्वा॒ । म॒तिऽभिः॑ । जोह॑वीमि । घृ॒तऽप्र॑याः । स॒ध॒ऽमादे॑ । मधू॑नाम् ॥
देव द्योतमान हे इन्द्र नः अस्माकं नमोवृधं नमसोऽन्नस्य वर्धकमिमं यज्ञं हरिभिः अश्वैः सजोषाः सहप्रीतिः त्वं तूयं क्षिप्रम् आ याहि । घृतप्रयाः । घृतसहितानि प्रयांस्यन्नरूपाणि हवींषि यस्य स तथोक्तः । तादृशः अहं मधूनां सोमानां सधमादे । सह माद्यन्ति यत्र सोमे इति सधमादः । तस्मिन् स्थाने मतिभिः स्तुतिभिः त्वा त्वां जोहवीमि हि भृशमाह्वयामि खलु ॥ जोहवीमि । यङ्लुकि ‘ अभ्यस्तस्य च ' इति संप्रसारणम् । गुणो यङलुकोः इत्यभ्यासस्य गुणः । ‘ यङो वा ' इतीडागमः । हियोगादनिघातः । ‘ अभ्यस्तानामादिः । इत्याद्युदात्तः । घृतप्रयाः । घृ क्षरणदीप्त्योः' इत्यस्मात् अञ्जिघृसिभ्यः क्तः' इति क्तप्रत्ययः । बहुव्रीहौ पूर्वपदस्वरः ॥
“Divine Indra, come quickly with your steeds, and well plural ased, to our food-augmenting sacrifice; offering (sacred) food with butter, I invoke you verily with praises in the chamber of the sweet libations.”
Pleased, with thy Bay Steeds, Indra, God, come quickly to this our sacrifice that heightens worship;
For with my thoughts, presenting oil to feed thee, I call thee to the feast of sweet libations.
Here—drive swiftly to our sacrifice, which has grown strong with reverence, o god Indra, together with your fallow bays,
for I keep calling you with my thoughts, (offering) a delightful dish of ghee, to the joint revelry of the honey drinks.
Komm Indra schnell vereint mit deinen Füchsen, zu unserm Opfer, das Verehrung fördert, Denn mit Gebeten ruf ich dich, versehn auch mit fetter Kost zum Mahl der süssen Tränke.
Zu unserem an Verbeugungen reichen Opfer komm schnell, Gott Indra, einträchtig mit den Falben, denn ich lade dich dringend mit Gedichten, mit Schmalzbeköstigung zu dem Gelage der Süßtränke.
На нашу жертву, возросшую от поклонения,
О Индра, о бог, единодушный с булаными конями, быстро приезжай –
Ведь я громко зову тебя молитвами
С жертвенной усладой из жира на совместное опьянение медовыми струями!
आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ । धा॒नाव॒दिन्द्र॒: सव॑नं जुषा॒णः सखा॒ सख्यु॑: शृणव॒द्वन्द॑नानि ॥
आ । च॒ । त्वाम् । ए॒ता । वृष॑णा । वहा॑तः । हरी॒ इति॑ । सखा॑या । सु॒ऽधुरा॑ । सु॒ऽअङ्गा॑ । धा॒नाऽव॑त् । इन्द्रः॑ । सव॑नम् । जु॒षा॒णः । सखा॑ । सख्युः॑ । शृ॒ण॒व॒त् । वन्द॑नानि ॥
हे इन्द्र वृषणा सेचनसमर्थौ सुधुरा शोभनया धुरान्वितौ स्वङ्गा शोभनावयवोपेतौ सखाया शोभनख्यानौ एता एतौ हरी त्वाम् आ वहात: यज्ञं प्रत्यागमनाय रथे त्वामावहतः । अथ धानावत् भृष्टयवोपेतं सवनं जुषाणः सेवमानः सखा सखिभूतः सः इन्द्रः सख्युः स्तोतुर्मम वन्दनानि स्तोत्राणि शृणवत् च शृणुयात् ॥ वहातः । वहेर्लेट्याडागमे रूपम् । ‘ चवायोगे प्रथमा' इति न निघातः । शृणवत् । ‘श्रु श्रवणे' इत्यस्य लेट्यडागमे रूपम् । निघातः॥
“May these two vigorous friendly burden-bearing and well-limbed steeds convey you hither, where, Indra, approving of the ceremony (in wihc the offering) is parched grain, may hear as a friend the praises of his friend (the worshipper).”
Yea, let thy two Bay Stallions bear thee hither, well limbed and good to draw, thy dear companions.
Pleased with the corn-blent offering which we bring thee, may Indra, Friend, hear his friend's adoration.
Here—if these bullish fallow bays will convey you, the two well-limbed comrades amenable to the chariot-pole—
taking pleasure in the pressing accompanied by the roasted grain, will Indra, as our comrade, hear the tributes of his comrade?
Wenn diese goldnen Hengste her dich fahren, gepaart an schöner Deichsel, schön an Gliedern, Dann höre, körnerreichen Trank geniessend, Indra der Freund des Freundes Lobgesänge.
Wenn dich diese beiden bullenstarken Falben herfahren, deine Kameraden, die jochfrommen, schöngliedrigen, so möge Indra an der Trankspende nebst gerösteten Gerstenkörnern sich erfreuen und als Freund des Freundes Lobreden anhören.
А привезут тебя эти два мужественных
Буланых коня, два друга, хорошо выезженных, с прекрасными членами,
То Индра, радуясь выжиманию с жареными ячменными зернами,
Как друг пусть слушает прославления друга.
कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् । कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षा॑: ॥
कु॒वित् । मा॒ । गो॒पाम् । कर॑से । जन॑स्य । कु॒वित् । राजा॑नम् । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । कु॒वित् । मा॒ । ऋषि॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । कु॒वित् । मे॒ । वस्वः॑ । अ॒मृत॑स्य । शिक्षाः॑ ॥
हे इन्द्र कुवित् अपि च मा मां जनस्य गोपां गोप्तारं करसे कुरु । तथा हे मघवन् धनवन् ऋजीषिन् सोमवन् हे इन्द्र मां राजानं सर्वस्य स्वामिनं कुरु । कुवित् च मा माम् ऋषिम् अतीन्द्रियार्थस्य द्रष्टारं कुरु । ‘ ऋषिर्दर्शनात् ' ( निरु. २. ११ ) इति यास्कः । तथा सुतस्य अभिषुतस्य सोमस्य पपिवांसं पातारं कुरु । अपि च मे मह्यम् अमृतस्य क्षयरहितं वस्वः वसु शिक्षाः प्रयच्छ ॥ करसे ।' कृञ् करणे'। लेट्यडागमे रूपम् । कुविद्योगादनिघातः । म ऋषिम् इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावो ह्रस्वश्च । पपिवांसम् । 'पा पाने ' इत्यस्य क्वसौ ‘वस्वेकाजाद्धसाम्' इतीडागमः । प्रत्ययस्वरः । शिक्षाः । शिक्षतिर्दानकर्मा । अस्मात् लेट्याडागमे रूपम् । कुविद्योगादनिघातः । आगमा अनुदात्ताः' इत्याटोऽनुदात्तत्वे धातुस्वरः ॥
“Possessor of wealth, accept of the spiritless Soma; make me the protector, or rather a monarch of men; make me verily a holy sage, a drinker of the libation; make me verily the possessor of imperishable wealth.”
Wilt thou not make me guardian of the people, make me, impetuous Maghavan, their ruler?
Make me a Rsi having drunk of Soma? Wilt thou not give me wealth that lasts for ever?
Will you indeed make me your herdsman of the people; will you indeed (make me) king, you bounteous possessor of the silvery drink?
Will you indeed (make) me a seer, (for) I have drunk of the pressed
drink; will you indeed do your best for immortal goods for me?
Wirst du mich nicht zum Herrn des Volkes machen? zum Könige, o eilender, gewalt'ger? Zum Seher mich, der ich vom Saft getrunken? und Gut mir schenken, welches nimmer schwindet?
Gewiß wirst du mich zum Hirten des Volks machen, gewiß zu einem König, du gabenreicher Trestersomatrinker, gewiß mich zu einem Rishi, da ich Soma getrunken habe. Gewiß wirst du mir unsterbliches Gut zudenken.
Конечно, ты сделаешь меня пастухом народа,
Конечно, царем, о щедрый, пьющий выжимки (сомы),
Конечно, риши – меня, напившегося сомы.
Конечно, ты сделаешь меня причастным к бессмертному благу.
आ त्वा॑ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि॑न्द्र सध॒मादो॑ वहन्तु । प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याता॒: सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥
आ । त्वा॒ । बृ॒हन्तः॑ । हर॑यः । यु॒जा॒नाः । अ॒र्वाक् । इ॒न्द्र॒ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ । प्र । ये । द्वि॒ता । दि॒वः । ऋ॒ञ्जन्ति॑ । आताः॑ । सुऽस॑म्मृष्टासः । वृ॒ष॒भस्य॑ । मू॒राः ॥
हे इन्द्र त्वा त्वां बृहन्तः महान्तः युजानाः रथे युज्यमानाः हरयः अश्वाः सधमादः सह मादयन्तः सन्तः अर्वाक् अस्मदभिमुखम् आ वहन्तु । वृषभस्य कामानां वर्षितुरिन्द्रस्य मूराः शत्रूणां मारकाः सुसंमृष्टासः इन्द्रस्य हस्ताभ्यां पृष्ठभागे सुष्ठु संस्पृष्टाः दिवः नभसः सकाशादागच्छन्तः ये अश्वाः आताः । आभिमुख्येन गम्यन्ते प्राणिभिस्तत्तत्कार्यं प्रति इत्याताः दिशः । सर्वा दिशः द्विता । द्विधा यथा भवति तथा प्र ऋञ्जन्ति प्रकर्षेण साधयन्ति ॥ युजानाः । ‘युजिर् योगे' । 'युजिबुधिदृशः किच्च' ( उ. सू. २. २४७ ) इत्यानच् । चित्त्वादन्तोदात्तः । सधमादः । मदी हर्षे ' इत्यस्माप्प्यन्तात् क्विप् । कृदुत्तरपदस्वरः । द्विता । द्विशब्दात् “ संख्याया विधार्थे धा' इति धाप्रत्ययः । धकारस्य तकारश्छान्दसः । प्रत्ययस्वरः । दिवः । ‘ ऊडिदम् ' इति विभक्तेरुदात्तत्वम् । आताः । ‘ अत सातत्यगमने' इत्यस्मात् कर्मणि घञ् । व्यत्ययेनाद्युदात्तः ॥
“May your mighty horses, Indra, harnessed (in your car), and alike exhilaarated (by Soma), bring you our presence, for they are the destroyers (of the foes) of the showerer (of benefits), and kindly rubbed by his hand they traverse, going quickly, the regions of the sky, making them as it were twofold.”
Yoked to thy chariot, led thy tall Bays, Indra, companions of thy banquet, bear thee hither,
Who from of old press to heaven's farthest limits, the Bull's impetuous and well-groomed Horses.
Here—let the lofty fallow bays, on being yoked, joint revelers, convey you nearby, Indra,
(the horses) that once again stretch forth the doorposts of heaven, the well-curried dumb (beasts) of the bull [=Indra].
Her mögen dich die hohen angeschirrten Goldfüchse, deine Tischgenossen fahren, Die gradhin dringen nach des Himmels Enden, des Helden Indra rasche, schöngeputzte.
Die angeschirrten, hohen Falben sollen dich herwärts fahren, Indra, deine Zechgenossen, die schöngestriegelten des Bullen Indra, die abermals die verschlossenen Tore des Himmels aufstoßen.
Пусть твои мощные запряженные буланые кони,
О Индра, участники совместных опьянений, привезут тебя сюда,
(Те,) что всегда нападают на врата неба,
(Они,) прекрасно вычищенные скребницей, ... быка (-Индры).
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ । यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥
इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ । आ । यम् । ते॒ । श्ये॒नः । उ॒श॒ते । ज॒भार॑ । यस्य॑ । मदे॑ । च्या॒वय॑सि । प्र । कृ॒ष्टीः । यस्य॑ । मदे॑ । अप॑ । गो॒त्रा । व॒वर्थ॑ ॥
हे इन्द्र वृषधूतस्य ग्रावभिरभिषुतं वृष्णः अभिमतफलसेचकं सोमं पिब । श्येनः शंसनीयगतिः छन्दरूपः सुपर्णः उशते सोमं कामयमानाय ते तुभ्यं यं सोमम् आ जभार आजहार । यस्य सोमस्य मदे हर्षे संजाते सति कृष्टीः । आकर्षन्ति वशीकुर्वन्ति कर्मणा सर्वान् इति कृष्टयो मनुष्याः । तान् सपत्नभूतान मनुष्यान् प्र च्यावयसि प्रकर्षेण पातयसि । यस्य सोमस्य मदे संजाते सति गोत्रा । गामुदकं रश्मिभिरावृतं वर्षावृतुषु त्रायन्ते पालयन्तीति गोत्रा मेघाः । तान् अप ववर्थ अपावृणोषि ॥ वृषधूतस्य । ‘ धूञ् कम्पने ' इत्यस्य निष्ठायां ' यस्य विभाषा 'इतीट्प्रतिषेधः । ‘ तृतीया कर्मणि' इति पूर्वपदस्वरः । श्येनः । ‘ श्यैङ् गतौ ।' शास्त्याहृञविभ्य इनच् ' ( उ. सू. २. २०४ ) इतीनच्प्रत्ययः । श्यायते इति श्येनः । चित्त्वादन्तोदात्तः । जभार । हरतेर्लिटि णलि रूपम् । “ हृग्रहोर्भश्छन्दसि ' इति भकारः । यद्वृत्तयोगादनिघातः । लित्व््रः । मदे। 'मदी हर्षे '। ‘ मदोऽनुपसर्गे 'इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गोत्रा । ‘ त्रैङ् पालने ' इत्यस्य ‘ आतोऽनुपसर्गे कः' इति कः । सुपो डादेशः । एकादेशस्वरः । ववर्थ । ‘ वृञ् वरणे ' इत्यस्य” लिटि थलि • ऋतो भारद्वाजस्य ' इतीट्प्रतिषेधः । गुणः । लित्स्वरः ॥
“Drink, Indra, of the bountiful (libation) expressed by the beneficent (stones); that which the falcon has borne to you desiring it, in whose exhilaration you cast down (opposing) men, in whose exhilaration you have set open the clouds.”
Drink of the strong pressed out by strong ones, Indra, that which the Falcon brought thee when thou longedst;
In whose wild joy thou stirrest up the people, in whose wild joy thou didst unbar the cow-stalls.
Indra, drink of the bullish (soma), rinsed by the bulls [=priests], which the falcon brought here to you, who wanted it,
in whose exhilaration you rouse the communities, in whose exhilaration you opened up the cowpens.
Vom starken trink, den, Indra, starke brauten, den dir der Adler brachte, dem begier'gen, In dessen Rausch die Völker du erschütterst, in dessen Rausch die Ställe du erschlossest.
Indra! Trink von dem Bullen Soma, der von Bullenstarken im Wasser geschwenkt ist, den dir, dem verlangenden, der Adler gebracht hat, in dessen Rausch du die Völker in Bewegung bringst, in dessen Rausch du die Kuhherden aufgedeckt hast.
О Индра, пей быка (-сому), выполосканного быками,
Которого орел принес тебе, жаждущему,
В опьянении которым ты сотрясаешь народы,
В опьянении которым ты открыл загоны для коров.
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवन्द्रं निरतिशयैश्चर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धानानां शत्रुसम्बन्दिह्नां सञ्जितं सम्यग्जेतारं त्वामूतये रक्षनाय वयमाह्वयेम । शुनम् । टु ओश्वि गतिवृद्ध्योरित्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसिति सम्प्रसारेणे कृते श;ओ लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ८ ॥
“We invoke for our protection the opulent Indra distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Indra, Makhavan, auspicious, best Hero in the fight where spoil is gathered;
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute, Den starken, der erhört zur Hülf in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!