अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः । जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥
अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः॑ । आ । हरि॑ऽभिः । सु॒तः । जु॒षा॒णः । इ॒न्द्र॒ । हरि॑ऽभिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि॑तम् । रथ॑म् ॥
हे इन्द्र हरिभिः। हरन्ति सोमरसानेभिः इति हरयो ग्रावाणः । तैः आ सुतः सर्वतोऽभिषुतः हर्यतः कमनीयः जुषाणः प्रीतिविषयः अयं सोमः ते तुभ्यम् अस्तु । त्वं हरिभिः अश्वैर्युक्तं हरितं हरिद्वर्णं रथम् आ तिष्ठ अधितिष्ठ । ततः नः अस्मानभिलक्ष्य आ गहि आगच्छ । हर्यतः । ‘ हर्य गतिकान्त्योः' इत्यस्मात् ' भृमृदृशि°' इत्यादिना अतच्प्रत्ययः । चित्त्वादन्तोदात्तः । हरितम् । ‘ हृञ् हरणे'। ‘ हृश्याभ्यामितन् ' ( उ. सू. ३. ३७३ ) इतीतन्प्रत्ययः । नित्त्वादाद्युदात्तः । रथम् । रमु क्रीडायाम् । ‘ हनिकुषिनी ' इत्यादिना क्थन्प्रत्ययः । कित्त्वादनुनासिकलोपः । नित्स्वरः ॥
“May this desirable and gratifying Soma expressed by the stones,by, Indra, for you ascend the verdant chariot, and with your tawny (steeds) come to us.”
May this delightsome Soma be expressed for thee by tawny stones.
Joying thereat, O Indra, with thy Bay Steeds come:. ascend thy golden-coloured car.
Let this be gladdening to you—the soma pressed here by the golden (stones).
Rejoicing, Indra, come here to us along with your golden (horses).
Mount the golden chariot.
Es sei dir dieser holde Saft von goldnen Steinen ausgepresst, Mit goldnen Rossen, Indra, komm uns lustig her, besteig den goldnen Wagen du.
Dieser Soma soll dir begehrenswert sein, der von den goldfarbigen Steinen ausgeschlagene. Indra! Komm gern mit den goldfarbigen Rossen her zu uns, besteige den goldigen Wagen.
Пусть пожелаешь ты этого
Сому, выжатого золотистыми (камнями)!
О Индра, наслаждаясь, приезжай к нам на (своих) золотистых конях!
Взойди на золотистую колесницу!
ह॒र्यन्नु॒षस॑मर्चय॒: सूर्यं॑ ह॒र्यन्न॑रोचयः । वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रिय॑: ॥
ह॒र्यन् । उ॒षस॑म् । अ॒र्च॒यः॒ । सूर्य॑म् । ह॒र्यन् । अ॒रो॒च॒यः॒ । वि॒द्वान् । चि॒कि॒त्वान् । ह॒रि॒ऽअ॒श्व॒ । व॒र्ध॒से॒ । इन्द्र॑ । विश्वा॑ । अ॒भि । श्रियः॑ ॥
हे इन्द्र हर्यन् सोमं कामयमानस्त्वम् उषसम् उषःकालम् अर्चयः पूजयसि । तथा हर्यन् उदिते सूर्ये सोमं कामयमानस्त्वं सूर्यम् अरोचयः दीपयसि । हे हर्यश्व इन्द्र “ विद्वान् एतत्सर्वं जानानः चिकित्वान् अस्मदभिलषितफलविषयज्ञानवांस्त्वं विश्वाः सर्वाः श्रियः नः संपदः अभि वर्धसे अभिमतफलप्रदानेनाभितो वर्धयसि । चिकित्वान् । ' कित ज्ञाने इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । वर्धसे । वृधु वर्धने' इत्यस्य अन्तर्भावितण्यर्थस्य लटि रूपम् । निघातः ॥
“Desiring (the Soma), you honour the dawn; desirng the Soma, yu have lighted up the sun; knowing and discriminating (all our wishes), lord of the tawny steeds, you augment upon us all (sorts of) prosperity.”
In love thou madest Usas glow, in love thou madest Surya shine.
Thou, Indra, knowing, thinking, Lord of Tawny Steeds, above all glories waxest great.
Being glad, you made the dawn beam; being glad, you made the
sun shine.
Knowing, observant, you wax strong over all the beauties, o Indra of the golden horses.
Du hast das Frühroth hold entflammt, den Soma hold in Glut gesetzt, Mit goldnen Rossen, Indra, weise voll Verstand erhebst du dich zu allem Glanz.
Gern hast du die Morgenröte erstrahlen, gern die Sonne leuchten lassen. Mit Wissen und Bedacht wächst du goldrossiger Indra über alle Herrlichkeiten hinaus.
Желая, ты зажег утреннюю зарю,
Солнце ты зажег, желая.
Знаток проникновенный, о обладатель золотистых коней, ты растешь,
О Индра, надо всеми сокровищами.
द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् । अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ॥
द्याम् । इन्द्रः॑ । हरि॑ऽधायसम् । पृ॒थि॒वीम् । हरि॑ऽवर्पसम् । अधा॑रयत् । ह॒रितोः॑ । भूरि॑ । भोज॑नम् । ययोः॑ । अ॒न्तः । हरिः॒ । चर॑त् ॥
सोऽयम् इन्द्रो हरिधायसम् । हरितो हरितवर्णा धायसो धारका रश्मयो यस्याः सा । तां द्याम् अधारयत् । तथा हरिवर्पसम् ओषधिभिर्हरितवर्णां पृथिवीम् अधारयत् । हरितोः हरिद्वर्णयोः ययोः द्यावापृथिव्योर्मध्ये स्वकीययोरश्वयोः भूरि प्रभूतं भोजनम् । भुज्यत इति भोजनं यवसादि । लभ्यते । ययोश्च द्यावापृथिव्योः अन्तः मध्ये हरिः इन्द्रः चरेत् चरति । ते द्यावापृथिव्याविन्द्रः अधारयत्' इत्यर्थः ॥ हरिधायसम् ।' डुधाञ् धारणपोषणयोः ' इत्यस्मात् ' वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन् । ' णित् ' इत्यनुवृत्तेः अतो युक् । बहुव्रीहौ पूर्वपदस्वरः । पृथिवीम् । ‘ प्रथेः षिवन् संप्रसारणं च ' इति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्च' इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । हरिवर्पसम् । ‘वृङ् संभक्तौ ।' वृङ्शीभ्यां रूपस्वाङ्गयोः' इत्यसुन्प्रत्ययः पुगागमश्च । संभज्यते तदिति वर्पो रूपम् । बहुव्रीहौ पूर्वपदस्वरः । हरितोः । ‘ हृञ् हरणे' इत्यस्मात् “ हृसृरुहियुषिभ्य इतिः ' ( उ. सू: १. ९७ ) इति इतिप्रत्ययः । प्रत्ययस्वरः । भोजनम् । ‘ भुज पालनाभ्यवहारयोः' इत्यस्मात् “ कृत्यल्युटो बहुलम् ' इति कर्मणि ल्युट् । लित्स्वरः । अन्तः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । चरत् । चरतिर्गत्यर्थः । लेटि रूपम् । यद्वृत्तयोगादनिघातः ॥
“Indra has upheld the yellow-rayed heaven; the verdant tinted earth; there is abundant pasture (for his steeds) in the two azure spheres of heaven and earth, between which Hari travels.”
The heaven with streams of golden hue, earth with her tints of green and gold-
The golden Pair yield Indra plenteous nourishment: between them moves the golden One.
Heaven with its golden nourishment, Earth with its golden form did Indra
hold firm, (and there was) abundant feeding of the two golden ones [=Heaven and Earth], between which the golden one [=Sun] wanders.
Der Himmel, der die goldnen nährt, die Erde, golden anzuschaun; Viel Nahrung hielt er zwischen beiden goldenen, wo hin und her der goldne geht.
Den Himmel, der den Goldigen nährt, die Erde von goldigem Aussehen hat Indra gefestigt, die reiche Nahrung der beiden Goldfarbigen, zwischen denen der Goldige wandelt.
Индра поддержал небо,
Кормящее золотистого, землю с золотистым обликом,
(Он поддержал) обильную пищу (тех) обоих золотистых,
Между которыми бродит золотистый (бог).
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् । हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरि॑म् ॥
ज॒ज्ञा॒नः । हरि॑तः । वृषा॑ । विश्व॑म् । आ । भा॒ति॒ । रो॒च॒नम् । हरि॑ऽअश्वः । हरि॑तम् । ध॒त्ते॒ । आयु॑धम् । आ । वज्र॑म् । बा॒ह्वोः । हरि॑म् ॥
वृषा कामानां वर्षकः हरितः हरिद्वर्णोपेतः जज्ञानः जात इन्द्रः विश्वं सर्वं रोचनं दीप्यमानं लोकम् आ भाति सर्वतः प्रकाशयति । तथा हर्यश्वः इन्द्रः हरितं हरिद्वर्णोपेतम् आयुधं धत्ते बाह्वोर्धत्ते । तथा हरिं शत्रूणां प्राणापहारकं वज्रं बाह्वोः आ धत्ते ॥ जज्ञानः । ‘ जनी प्रादुर्भावे' इत्यस्य लिटः कानच् । ' गमहन° ' इत्यादिना उपधालोपः । चित्त्वादन्तोदात्तः । भाति । ‘भा दीप्तौ ' इत्यस्य अन्तर्भावितण्यर्थस्य लटि रूपम् । रोचनम् । “ रुच दीप्तौ ' इत्यस्मात् ‘ अनुदात्तेतश्च हलादेः' इति युच् । चित्त्वादन्तोदात्तः । बाह्वोः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥
“The azure-coloured showerer (of benefits), illumes, as soon as born, the whole luminous region; the lord of the tawny steeds holds in his hands the yellow weapon, the destroying thunderbolt.”
When born to life the golden Bull illumines all the realm of light.
He takes his golden weapon, Lord of Tawny Steeds, the golden thunder in his arms.
Once born, the golden bull radiates through the whole luminous realm. Having golden horses, he takes the golden weapon, the golden mace into his two arms.
Geboren strahlt der goldne Stier, den ganzen Weltraum Agni an; Die goldne Waffe nimmt, der goldne Rosse hat, den goldnen Blitz in seinen Arm.
Sobald der goldige Bulle geboren ist, erleuchtet er den ganzen Lichtraum. Der Goldrossige nimmt die goldige Waffe in die Arme, die goldige Keule.
Родившись, золотистый бык
Освещает все сверкающее пространство.
Обладатель золотистых коней берет в руки
Оружие – золотистую ваджру.
इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तम् । अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥
इन्द्रः॑ । ह॒र्यन्त॑म् । अर्जु॑नम् । वज्र॑म् । शु॒क्रैः । अ॒भिऽवृ॑तम् । अप॑ । अ॒वृ॒णो॒त् । हरि॑ऽभिः । अद्रि॑ऽभिः । सु॒तम् । उत् । गाः । हरि॑ऽभिः । आ॒ज॒त॒ ॥
सोऽयम् इन्द्रः हर्यन्तं कमनीयम् अर्जुनं शुभ्रम् । शुभ्रत्वमुपपादयति । शुक्रैः शुभ्रैः क्षीरादिभिः अभिवृतं व्याप्तं वज्रं वेगवन्तं हरिभिः । हरन्त्येभिः सोमरसान् इति हरयः । तैः अद्रिभिः ग्रावभिः सुतम् अभिषुतं सोमम् अपावृणोत् आवरणरहितमकरोत् । तथा च मन्त्रवर्णः ---- ‘ पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् । अविन्दत् ' (ऋ. सं. १. २३. १४ ) इति । तथा गाः पणिभिरपहृता गाः हरिभिः अश्वैरुपेतः स इन्द्रः उत् आजत बिलात् निरगमयत् ॥ अर्जुनम् । ‘ अर्ज षर्ज अर्जने' इत्यस्मात् ' अर्जेर्णिलुक् च ' इत्युनन् । नित्स्वरः । अभिवृतम् ।' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । आजत । ‘ अज गतिक्षेपणयोः ' । लङि व्यत्ययेनात्मनेपदम् । निघातः ॥ ॥ ८ ॥
“Indra has uncovered the desirable white-coloured, fast-flowing Soma, effused by the expressing stones, and overlaid with the shining (milk and other liquids), in like manner as when, borne by his tawny steeds, he rescued the cattle.”
The bright, the well-loved thunderbolt, girt with the bright, Indra disclosed,
Disclosed the Soma juice pressed out by tawny stones, with tawny steeds drave forth the kine.
Indra (uncovered) the silvery mace glad (in its work), decked out with gleaming (flames?),
uncovered the soma pressed with golden stones; he drove out the cows with the golden ones.
Indra den hellen, holden Blitz, den rings von Licht umgebenen, Den Saft, gepresst von goldnen Steinen, schloss er auf und Kühe durch die goldenen.
Indra hat die verlangende, glänzende, in helle Farben gekleidete Keule, den mit goldfarbigen Steinen ausgeschlagenen Soma aufgedeckt. Er trieb mit den goldfarbigen Rossen die Kühe heraus.
Желающую (добычи), сверкающую ваджру,
Покрытую светлыми (украшениями),
Нашел Индра (-сому), выжатого золотистыми камнями.
Он выгнал коров с помощью золотистых (коней).