आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥
आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि॑ऽभिः । या॒हि । म॒यूर॑रोमऽभिः । मा । त्वा॒ । के । चि॒त् । नि । य॒म॒न् । विम् । न । पा॒शिनः॑ । अति॑ । धन्व॑ऽइव । तान् । इ॒हि॒ ॥
हे इन्द्र मन्द्रैः मादयितृभिः मयूररोमभिः मयूररोमसदृशरोमयुक्तैः हरिभिः अश्वैरुपेतस्त्वम् आ याहि यज्ञं प्रत्यागच्छ । के चित् अपि जनाः त्वा त्वां मा नि यमन् मा नियच्छन्तु । गमनप्रतिबन्धं मा कुर्वन्तु इत्यभिप्रायः । प्रतिबन्धे दृष्टान्तः । विं न । यथा पाशिनः पाशहस्ता व्याधाः विं गच्छन्तं पक्षिणं नियच्छन्ति तद्वत् मा नियच्छन्तु । किंच धन्वेव । यथा पान्था धन्व मरुदेशं शीघ्रम् अति गच्छन्ति तद्वद्गमनप्रतिबन्धकानतीत्य शीघ्रम् इहि आगच्छ॥ मन्द्रैः । मदि स्तुत्यादिषु इत्यस्य ‘स्फायितञ्चि° ' इत्यादिना रक्प्रत्ययः । इदित्त्वान्नुम् । प्रत्ययस्वरः । मयूररोमभिः । मयूररोमवद्रोमाणि येषामिति ‘ सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्च' (पा.सू. २. २. २४. १२) इति समासः उत्तरपदलोपश्च । मयूरशब्दः ‘मीनातेरूरन्' (उ. सू. १. ६७) इत्यूरन्प्रत्ययान्तः । मीनाति सर्पानिति मयूरो बर्ही । नित्त्वादाद्युदात्तत्वे प्राप्ते ‘ मादीनाम् । (फि. सू. ५३ ) इति सूत्रेण मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । यमन् । ‘यम उपरमे इत्यस्य लेट्यडागमे रूपम् । इहि । इण् गतौ ' इत्यस्य लोटि रूपम् ॥
“Come,Indra, with your exulting peacock-haired steeds; let no person ns detain you, as (fowlers) throwing snares catch a bird;pass them by (quickly) as (travellers cross) a desert.”
COME hither, Indra, with Bay Steeds, joyous, with tails like peacocks' plumes.
Let no men cheek thy course as fowlers stay the bird: pass o'er them as o'er desert lands.
Drive here, Indra, with your gladdening fallow bays, whose hair is (like) peacocks’.
Let no one hold you down, as men using snares do a bird. Go across them, as if across wasteland.
Komm Indra mit den Füchsen her, den muntern, mit dem Pfauenschweif; Nicht fang dich jemand wie den Vogel in dem Netz, geh wie durch flaches Land hindurch.
Komm, Indra, mit den erfreulichen Falben, den pfauenschweifhaarigen! Nicht sollen dich irgendwelche Leute festhalten wie die Schlingensteller den Vogel. Geh an ihnen vorbei wie an einem wüsten Land.
Приезжай, о Индра, на резвых
Буланых конях, чей волос, как павлиний (хвост)!
Пусть никакие (люди) не удержат тебя, словно ловчие - птицу!
Пройди сквозь них, как через пустыню!
वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः । स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इन्द्रो॑ दृ॒ळ्हा चि॑दारु॒जः ॥
वृ॒त्र॒ऽखा॒दः । व॒ल॒म्ऽरु॒जः । पु॒राम् । द॒र्मः । अ॒पाम् । अ॒जः । स्थाता॑ । रथ॑स्य । हर्योः॑ । अ॒भि॒ऽस्व॒रे । इन्द्रः॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जः ॥
सोयमिन्द्रो वृत्रखादः । वृत्रं खादति हिनस्तीति वृत्रखादः ।
वलंरुजः । वृणोत्याकाशमिति वलो मेघः । तस्य भञ्जकः । तथा च मन्त्रवर्णः । बिभेद वलम् । ऋग्वे. ३-३४-१० । इति ।
ततो ऽपामजो मेघभेदन-द्वारा ऽपां प्रेरकः
पुरां शत्रुसम्बन्धिनां पुराणां दर्मो दारकः ।
तथा हर्योर् अश्वयोर् अभिस्वरे ऽस्मद्-आभिमुख्येन प्रेरणे निमित्तभूते सति रथस्य स्थाता रथम् अधिष्ठाता ।
तथा दृळ्हा चित् दृढानामति बलवतां शत्रूणामप्य् आरजः समन्ताद् भञ्जको भवति ।
वृत्रखादः । खादृ भक्षण इत्यस्मात्कर्मण्यण् । कृदुत्तरपदस्वरः ।
वलंरुजः । रुजो भङ्गे । कर्मण्य्पुपदे मूलविभुजादित्वात्कप्रत्ययः । तत्पुरुषे कृति बहुलमिति द्वितीयायां अलुक् । थाथादिस्वरः ।
आरुजः । रुजो भङ्ग इत्यास्मादिगुणफदलक्षण कः । समासे थाथादिस्वरः ॥ २ ॥
“The evourer of Vṛtra, the fracturer of the cloud, the sender of the waters, the demolisher of cities, Indra, the destroyer of powerful enemies, has mounted his chariot to urge his horses to our presence.”
He who slew Vrtra, burst the cloud, brake the strongholds and drave the floods,
Indra who mounts his chariot at his Bay Steeds' cry, shatters e'en things that stand most firm.
Gnawer of Vr̥tra, breaker of Vala, splitter of strongholds, driver of waters,
mounter of the chariot, caller of the two fallow bays—Indra is the one who breaks apart even the fastnesses.
Der Vritra schlägt, den Vala tilgt, der Burgen bricht, die Wasser treibt, Den Wagen lenkt dicht hinter seinem Füchsepaar zerbrechend Indra, was da fest.
Indra ist der Vritrafresser, der Valabrecher, Burgenzerstörer, Treiber der Gewässer, Lenker des Wagens, Zurufer der Falben, der Erbrecher auch der Festen.
Пожиратель Вритры, проламыватель Валы,
Взрыватель крепостей, побудитель вод,
Возница колесницы, погонщик пары буланых коней –
Индра проломил даже твердыни.
ग॒म्भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं॑ पुष्यसि॒ गा इ॑व । प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ॥
ग॒म्भी॒रान् । उ॒द॒धीन्ऽइ॑व । क्रतु॑म् । पु॒ष्य॒सि॒ । गाःऽइ॑व । प्र । सु॒ऽगो॒पाः । यव॑सम् । धे॒नवः॑ । य॒था॒ । ह्र॒दम् । कु॒ल्याःऽइ॑व । आ॒श॒त॒ ॥
हे इन्द्र त्वं गम्भीरान् महावकाशान् उदधीन् समुद्रान्” उदकैर्यथा पोषयसि तद्वत् क्रतुं यज्ञस्य कर्तारमिमं यजमानमभिमतफलप्रदानेन पुष्यसि पोषयसि । अत्र दृष्टान्तः। यथा सुगोपाः समीचीनो गोपालः यवसेन गाः पोषयति तद्वत् । यथा धेनवः यवसं तृणादिकं प्राप्नुवन्ति तद्वत् त्वं सोमान् प्राप्नोषि । ते च सोमाः कुल्याइव कृत्रिमसरितः ह्रदं महाजलाशयं यथा प्राप्नुवन्ति तद्वत् त्वाम् प्र आशत व्याप्नुवन्ति ॥ गम्भीरान् । 'गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च इत्यस्मात् ' गभीरगम्भीरौ ' (उ. सू. ४. ४७५ ) इत्यनेन सूत्रेण इरच्प्रत्ययः । नुमागमोपधाह्रस्वभकाराः सर्वे निपात्यन्ते । चित्त्वादन्तोदात्तः । उदधीनिव। उदकशब्दे उपपदे दधातेरधिकरणेऽर्थे ‘ कर्मण्यधिकरणे च ' इति किप्रत्ययः । उदकशब्दस्य ‘ पेषंवासवाहनधिषु च ' (पा. सू. ६.३.५८) इत्युदभावः । कृत्स्वरः । इवेन विभक्त्यलोपः । पुष्यसि ।' पुष पुष्टी ' इत्यस्यान्तर्णीतण्यर्थस्य लटि रूपम् । निघातः । सुगोपाः । गोपायतेः क्विपि रूपम् । यथा । ‘ यथेति पादान्ते' (फि. सू. ८५ ) इति निघातः । आशत । अशू व्याप्तौ ' इत्यस्माल्लङि • बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः
“You cherish the celebrator of the pious rite as you fill the deep seas (with water); or as a careful herdsman (cherishes) the cows; (you imbibe the Soma) as cows (obtain) fodder, (and the Soma juices) flow into you as rivulets flow into a lake.”
Like pools of water deep and full, like kine thou cherishest thy might;
Like the milch-cows that go well-guarded to the mead, like water-brooks that reach the lake.
Your resolve, deep like pools—you foster it, like cows.
As milk-cows with a good herdsman reach pasturage, as brooks reach a lake, (so your resolves) have reached fulfillment.
Wie tiefe Seen nimmst du auf den Krafttrunk wie der Rinder Schar; Wie gutbewachte Kühe zu der Weide hin, wie Bäche eilen in den Teich.
Du hegest Weisheit, tief wie die Meere, viel wie die Kühe. Wie die Milchkühe, die einen guten Hirten haben, zur Weide, wie Kanäle in den See sind sie zu dir gekommen.
Словно глубокие колодцы,
Ты лелеешь силу духа, словно коров.
Как дойные коровы с хорошим пастухом (идут) на пастбище,
Как ручьи (впадают) в озеро, (так) достигли (тебя соки сомы).
आ न॒स्तुजं॑ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते । वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ॥
आ । नः॒ । तुज॑म् । र॒यिम् । भ॒र॒ । अंश॑म् । न । प्र॒ति॒ऽजा॒न॒ते । वृ॒क्षम् । प॒क्वम् । फल॑म् । अ॒ङ्कीऽइ॑व । धू॒नु॒हि॒ । इन्द्र॑ । स॒म्ऽपार॑णम् । वसु॑ ॥
हे इन्द्र नः अस्माकं तुजं शत्रूणां बाधकं रयिं धनेनोपलक्षितं पुत्रम् आ भर संपादय । तत्र दृष्टान्तः। अंशं न । यथा पिता प्रतिजानते व्यवहारज्ञाय पुत्राय स्वकीयस्य धनस्य भागं ददाति तद्वत् । किंच पक्वं फलं प्रति वृक्षम् अङ्कीव अङ्कुशी यथा धूनोति तथा त्वं संपारणम् अस्मदिच्छायाः सम्यक् पूरकं वसु धनं धूनुहि चालय । प्रयच्छेत्यर्थः ॥ प्रतिजानते । ‘ज्ञा अवबोधने ' इत्यस्य शतरि रूपम् । प्रादिसमासः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । धूनुहि । ‘धूञ् कम्पने' इत्यस्य लोटि रूपम्। संपारणम् ।' पॄ पालनपूरणयोः' इत्यस्य ण्यन्तस्य करणे ल्युट् । समासे कृत्स्वरः ॥
“Grant us riches, securing (us against foes), (as a father bestows) his portion on (a son) arrived at maturity; send down upon us, Indra, wealth adequate (to our desires), as a crookbringd down the ripe fruit from a tree.”
Bring thou us wealth with power to strike, our share, 'gainst him who calls it his.
Shake, Indra, as with hooks, the tree for ripened fruit, for wealth to satisfy our wish.
Bring here to us thrusting wealth, like a share to the one who
acknowledges it.
As a man with a crook shakes a tree for ripe fruit, o Indra, shake (us) goods that will get (us) across.
530 III.46–47
Uns bringe raschen Reichthum her, wie Erbtheil dem, der sein ihn nennt, Und schüttle, Indra, kräft'ges Gut uns, wie vom Baum der Haken reife Frucht, herab.
Bring uns schleunigen Reichtum wie dem, der seine Einwilligung gibt, seinen Anteil! Schüttle, Indra, aus der Not helfendes Gut herab wie einer mit dem Haken die reife Frucht vom Baum schüttelt!
Принеси нам потомство, богатство,
Как (дают) долю соглашающемуся.
Стряхни, как спелый плод крюком с дерева,
О Индра, спасительное богатство!
स्व॒युरि॑न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टि॒: स्वय॑शस्तरः । स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥
स्व॒ऽयुः । इ॒न्द्र॒ । स्व॒ऽराट् । अ॒सि॒ । स्मत्ऽदि॑ष्टिः । स्वय॑शःऽतरः । सः । व॒वृ॒धा॒नः । ओज॑सा । पु॒रु॒ऽस्तु॒त॒ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥
हे इन्द्र स्वयुः धनवानसि । तथा स्वराट् स्वर्गस्य राजा असि । स्मद्दिष्टिः भद्रवाक्यः स्वयशस्तरः अतिशयेन प्रभूतकीर्तिरसि । हे पुरुष्टुत बहुभिराहूतेन्द्र सः त्वम् ओजसा बलेन वावृधानः वर्धमानः सन् नः अस्मदर्थं सुश्रवस्तमः अतिशयेन शोभनान्नोपेतः भव ॥ स्वयुः । स्वशब्दात् मत्वर्थीयो युः । स्वराट् ।' राजृ दीप्तौ ' । क्विप् । व्रश्चादिना षत्वम् । स्मद्दिष्टिः । स्मत् सुमदित्यर्थे। उकालोपश्छान्दसः। बहुव्रीहौ पूर्वपदस्वरः । पुरुष्टुत । संहितायां स्तुतस्तोमयोश्छन्दसि इति षत्वम् । भव । भवतेर्लोटि रूपम् । ‘ द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । सुश्रवस्तमः । श्रवःशब्दोऽसुन्नन्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । तदन्तादतिशायने तमप् । तस्य पित्त्वादनुदात्तत्वे बहुव्रीहिस्वरः ॥ ॥ ९ ॥
“You are possessed of opulence, Indra; you are the lord of heaven, auspicious and renowned; may you who is adored of many, increasing in vigour, be to us a most (bountiful bestower) of food.”
Indra, self-ruling Lord art thou, good Leader, of most glorious fame.
So, waxen in thy strength, O thou whom many praise, be thou most swift to hear our call.
Self-seeking, you are self-ruling, and, along with (the gifts you) allot, exceptionally self-glorious, o Indra.
Having increased in strength, much-praised one, become the one who most receives our praises.
Selbsteigner Herr bist Indra, du, gut lenkend und von eigner Pracht; An Kraft gewachsen, o du vielgepriesener, sehr gern erhörend sei du uns.
Indra, du bist dein eigener selbständiger Herr, gleichmäßig zuteilend, gar selbstherrlich. An Stärke gewachsen, du Vielgepriesener, sei uns der beste Erhörer!
О Индра, ты самосущий, ты самодержец,
Со (своим) наставлением, со своим самым ярким блеском.
Возрастая силой, о многопрославленный,
Буть тем, кто к нам лучше всех прислушивается!