यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यून॒: स्थवि॑रस्य॒ घृष्वे॑: । अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥
यु॒ध्मस्य॑ । ते॒ । वृ॒ष॒भस्य॑ । स्व॒ऽराजः॑ । उ॒ग्रस्य॑ । यूनः॑ । स्थवि॑रस्य । घृष्वेः॑ । अजू॑र्यतः । व॒ज्रिणः॑ । वी॒र्या॑णि । इन्द्र॑ । श्रु॒तस्य॑ । म॒ह॒तः । म॒हानि॑ ॥
हे इन्द्र युध्मस्य योधनशीलस्य वृषभस्य अभिमतफलसेचकस्य स्वराजः धनाधिपतेः उग्रस्य समर्थस्य यूनः नित्यतरुणस्य स्थविरस्य चिरंतनस्य घृष्वेः शत्रूणां संघर्षकस्य अजूर्यतः जरारहितस्य वज्रिणः श्रुतस्य त्रिषु लोकेषु प्रसिद्धस्य अत एव महतः ते तव वीर्याणि महानि महान्ति खलु ॥ युध्मस्य ।' युध संप्रहारे । इषियुधीन्धिदसि° ' इत्यादिना मक्प्रत्ययः । यूनः । यौतेः ‘ कनिन्युवृषि° ' इत्यादिना कनिन् । ‘ श्वयुवमघोनामतद्धिते ' इति संप्रसारणम् । नित्स्वरः । स्थविरस्य । ' अजिरशिशिरशिथिल ' इत्यादिना किरन्प्रत्ययान्तो निपातितः । घृष्वेः । 'घृषु संघर्षे ' ।' कृविघृष्विच्छवि ' इत्यादिना क्विन्प्रत्ययान्तो निपात्यते । नित्त्वादाद्युदात्तः ॥
“Vast are the energies of you, Indra, the warrior, (the showerer of benefits), the lord of wealth, the fierce; who is (both) young and old; the overcomer of foes, the undecaying, the wielder of the thunderbolt, and who is mighty and renowned.”
OF thee, the Bull, the Warrior, Sovran Ruler, joyous and fierce, ancient and ever youthful,
The undecaying One who wields the thunder, renowned and great, great are the exploits, Indra.
Of you, the fighter, the bull, the sovereign king, the strong youth, stalwart, ardent,
of the unaging bearer of the mace—great are the manly deeds of you, o Indra, famous and great.
Dem Kämpfer dir, dem Stier, dem Selbstgebieter, dem jungen starken, dem gewalt'gen, wilden, Dem blitzenden, berühmten, der nicht altert, sind Heldenkräfte, gross dem grossen Indra.
Groß sind die Kräfte von dir, Indra, dem streitbaren Bullen, dem Selbstherrn, dem gewaltigen, jugendlichen, ausgewachsenen, kampflustigen, nicht alternden Keulenträger, dem berühmten, großen.
Велики силы мужества, о Индра, у тебя,
Воинственного быка, самодержца,
Грозного, юного, крепкого, пылкого,
Нестареющего, с ваджрой (в руке), знаменитого, великого.
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् । एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥
म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यया॑ । च॒ । जना॑न् ॥
हे महिष महनीय उग्र इन्द्र त्वं महानसि । धनस्पृत् धनानि दानभोगत्यागैः पारं नयंस्त्वं वृष्ण्येभिः वीर्यैः अन्यान् शत्रून् सहमानः अभिभवन् वर्तसे । तथा विश्वस्य सर्वस्य
“भुवनस्य एकः असहायः राजा सः त्वं योधय च सपत्नान् प्रहर । जनान् क्षयय च निवासय । बाधकान् हत्वा साधुजनान् स्वस्थाने स्थापयेत्यभिप्रायः ॥ महिष ।' मह पूजायाम् । ‘ अविमह्योष्टिषच् ' ( उ. सू. १. ४५ ) इति टिषच्प्रत्ययः । आमन्त्रितत्वान्निघातः । वृष्ण्येभिः । वृष्णि भवानि । ‘ भवे छन्दसि ' इति यत् । यतोऽनावः' इत्याद्युदात्तः । योधय । “ युध संप्रहारे ' इत्यस्य ण्यन्तस्य लोटि रूपम् । ‘ चादिषु च ' इति न निघातः । णित्स्वरः । क्षयय । ‘ क्षि निवासगत्योः' इत्यस्य ण्यन्तस्य लोटि रूपम् । अत्रापि पूर्ववदनिघातः ॥
“Adorable and powerful Indra, you are great and magnificent, overcoming adversaries by your prowess; you alone are lord of all the world; do you war (upon our enemies), and give safe dwellings to men.”
Great art thou, Mighty Lord, through manly vigour, O fierce One, gathering spoil, subduing others,
Thyself alone the universe's Sovran: so send forth men to combat and to rest them.
You are great, you buffalo, with your bullish powers—winning the spoils, you strong one, overwhelming the others.
As sole king of all creation, cause the peoples to fight and to dwell in peace.
Ein grosser Stier bist du an Stiereskräften, erbeutend Gut, o Held, besiegend alle, Allein'ger König du des ganzen Weltalls, darum zu Kampf und Frieden führ die Menschen.
Groß bist du Büffel an Stierkräften, ein Schätzegewinner, du Gewaltiger, der die anderen bezwingt. Als der alleinige König der ganzen Welt führe du die Völker zum Kampf und laß sie in Frieden wohnen!
Ты велик, о буйвол, (своими) бычьими силами,
Захватывающий награды, о грозный, осиливающий других.
Единственный царь всего света,
Веди народы на битву и рассели их в мире!
प्र मात्रा॑भी रिरिचे॒ रोच॑मान॒: प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः । प्र म॒ज्मना॑ दि॒व इन्द्र॑: पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ॥
प्र । मात्रा॑भिः । रि॒रि॒चे॒ । रोच॑मानः । प्र । दे॒वेभिः॑ । वि॒श्वतः । अप्र॑तिऽइतः । प्र । म॒ज्मना॑ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । प्र । उ॒रोः । म॒हः । अ॒न्तरि॑क्षात् । ऋ॒जी॒षी ॥
रोचमानः दीप्यमानः विश्वतः सर्वैः अप्रतीतः एतावदस्य सामर्थ्यमित्यपरिच्छिद्यमानः ऋजीषी सोमवान् इन्द्रः मात्राभिः। मीयन्ते परिच्छिद्यन्ते इति मात्राः शिलोच्चयाः। तेभ्योऽपि प्र रिरिचे प्रकर्षेण महत्तयातिरिक्तोऽभूत् । तथा देवेभिः देवेभ्योऽपि मज्मना । मज्जयति शत्रून् दुःखसागरे इति मज्म बलम् । तेन बलेन प्र रिरिचे । तथा दिवः पृथिव्याः द्यावापृथिवीभ्यां च प्र रिरिचे। तथा उरोः विस्तीर्णात् महः महतः अन्तरिक्षात् अपि प्र रिरिचे ॥ मात्राभिः। ‘ माङ माने शब्दे च ' इत्यस्मात् ‘हुयामाश्रुभसिभ्यस्त्रन' इति त्रन्प्रत्ययः । नित्त्वादाद्युदात्तः । ‘ ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति संहितायां दीर्घः । रोचमानः। ‘ रुच दीप्तौ ' इत्यस्मात् शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः । अप्रतीतः । ‘ इण् गतौ ' । कर्मणि क्तः । प्रादिसमासः । नञा समासे तस्य स्वरः । मज्मना । ‘ टुमस्जो शुद्धौ ' । औणादिको मनिच्प्रत्ययः । ‘ झलां जश् झशि इति जश्त्वम् । चित्त्वादन्तोदात्तः । पृथिव्याः । उदात्तयणो हत्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ॥
“The resplendent and every way unlimited Indra, drinking the spiritless Soma, far surpasses the elements, (far exceeds) the gods in power; he is more vast than heaven and earth, or the widespread spacious firmament.”
He hath surpassed all measure in his brightness, yea, and the Gods, for none may be his equal.
Impetuous Indra in his might cxccedcth wide vast mid-air and heaven and earth together.
He projects in his dimensions, while shining; he projects on all sides, unopposable by the gods;
Indra projects with his greatness beyond heaven, beyond earth;
projects beyond the great broad atmosphere—he who possesses the
silvery drink.
Er ragte vor der glänzende an Umfang, er überall von Göttern unerreichbar, Hervor an Grösse über Erd' und Himmel und grosse weite Luft der mächt'ge Indra.
Mit seinen Maßen ragt der Glänzende über die Götter insgesamt hinaus, der Unwiderstehliche, Indra an Größe über Himmel und Erde hinaus, über den weiten Luftraum hinaus, der Trestersomatrinker.
(Своими) размерами он превосходит богов,
Сверкающий, неодолимый во всем,
Индра пре (восходит) величием небо (и) землю,
Пре (восходит) широкое, великое воздушное пространство, (он,) пьющий выжимки (сомы).
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् । इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तास॑: समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ॥
उ॒रुम् । ग॒भी॒रम् । ज॒नुषा॑ । अ॒भि । उ॒ग्रम् । वि॒श्वऽव्य॑चसम् । अ॒व॒तम् । म॒ती॒नाम् । इन्द्र॑म् । सोमा॑सः । प्र॒ऽदिवि॑ । सु॒तासः॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । आ । वि॒श॒न्ति॒ ॥
उरुं महान्तम् अत एव गभीरं महावकाशं जनुषा जन्मना स्वभावत एव उग्रं शत्रूणां भयंकरम् । गभीरत्वमेवोच्यते । विश्वव्यचसं विश्वव्याप्तं मतीनां स्तुतीनां स्तोतॄणां वा अवतं रक्षकं तादृशम् इन्द्रं प्रदिवि पूर्वेष्वहःसु सुतासः ग्रावभिरभिषुताः सोमासः सोमाः अभि आभिमुख्येन आ विशन्ति । तत्र दृष्टान्तः समुद्रं न । यथा स्रवतः स्रवन्त्यो नद्यः समुद्रम् आविशन्ति तद्वत् ॥ जनुषा ‘जनी प्रादुर्भावे' इत्यस्मात् ‘जनेरुसिः' इत्युसिप्रत्ययः । विश्वव्यचसम् । ‘ व्यच व्याजीकरणे ' इत्यस्मादसुन् । 'व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र 'अनसि' इति पर्युदासात् ङित्त्वाभावः । विश्वव्यचा इतीन्द्रस्य नाम । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदस्यान्तोदात्तत्वम् । अवतम् । अव रक्षणादिषु । औणादिकोऽतच्प्रत्ययः । चित्त्वादन्तोदात्तः ॥
“The Soma daily poured out enter into the vast and profund Indra, fierce from his birth, all-pervading, the protector of the pious (worshipper), as rivers flow into the sea.”
To Indra, even as rivers to the ocean, flow forth from days of old the Soma juices;
To him wide deep and mighty from his birth-time, the well of holy thoughts, aIl-comprehending.
Him—broad, deep, over(whelmingly) strong (even) at birth,
encompassing all, a well of thoughts—
Indra—do the pressed soma drinks enter early in the day, like streams the sea.
In Indra gehen, wie ins Meer die Ströme, den breiten, tiefen, von Geburt gewalt'gen, Den allumfahnden Brunnen der Gebete, von je her ein gepresste Somatränke.
In den breiten, tiefen, von Geburt gewaltigen, den allfassenden Brunnen der Gedanken, in den Indra gingen schon vorzeiten die ausgepreßten Somatränke ein wie die Flüsse ins Meer.
В (этот) широкий, глубокий, от рождения грозный,
Всеобъемлющий источник поэтических мыслей –
В Индру от века входят выжатые
Соки сомы, словно реки – в океан.
यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या । तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥
यम् । सोम॑म् । इ॒न्द्र॒ । पृ॒थि॒वीद्यावा॑ । गर्भ॑म् । न । मा॒ता । बि॒भृ॒तः । त्वा॒ऽया । तम् । ते॒ । हि॒न्व॒न्ति॒ । तम् । ऊँ॒ इति॑ । ते॒ । मृ॒ज॒न्ति॒ । अ॒ध्व॒र्यवः॑ । वृ॒ष॒भ॒ । पात॒वै । ऊँ॒ इति॑ ॥
हे इन्द्र पृथिवीद्यावा द्यावापृथिव्यौ त्वाया त्वत्कामनया यं सोमं बिभृतः अन्तर्धारयतः । अत्र दृष्टान्तः गर्भं न । यथा माता गर्भं बिभर्ति तद्वत् । हे वृषभ कामानां वर्षक हे इन्द्र अध्वर्यवः अध्वरं यजमानायेच्छन्तः ते त्वदर्थं तं सोमं हिन्वन्ति प्रेरयन्ति । किंच ते तव पातवै पानाय तं सोमं मृजन्ति शोधयन्ति । उ प्रसिद्धौ ॥ पृथिवीद्यावा । ‘ दिवो छावा' इति द्यावादेशः । आद्युदात्तः । ‘ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ' इत्यत्र पर्युदासात् “ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरः । कृतसमासस्य विपर्यासश्छान्दसः । बिभृतः । ‘ डुभृञ् धारणपोषणयोः' इत्यस्माल्लटि ( भृञामित्' इत्यभ्यासस्येत्वम् । यद्वृत्तयोगादनिघातः । अजादिप्रत्ययपरत्वाभावादत्र ‘ अभ्यस्तानामादिः' इति स्वरो न भवति । प्रत्ययस्वरः । त्वाया । त्वामिच्छतीत्यर्थे ' सुप आत्मनः क्यच् । पूर्वपदकारस्याकारश्छान्दसः । ‘ अ प्रत्ययात्' इति भावेऽप्रत्ययः । ‘ सुपां सुलुक् ' इति तृतीयायाः सवर्णदीर्घः । एकादेशस्वरः । अध्वर्यवः । अध्वरमिच्छन्तः । सुपः क्यच् । 'कव्यध्वरपृतनस्यर्चि लोपः' इत्यकारलोपः। ‘ क्याच्छन्दसि' इत्युप्रत्ययः । प्रत्ययस्वरः । पातवै । ‘ पा पाने '। तुमर्थे तवैप्रत्ययः । ‘ अन्तश्च तवै युगपत्' इति धात्वन्तस्य प्रत्ययस्य चोदात्तत्वम् ।' उञः' इति प्रगृह्यसंज्ञा ॥ ॥ १० ॥
“Which Soma, Indra, the heaven and earth, containing for you, as a mother contains the embryo; showerer (of benefits), the priests pour it out for you they purify it for your drinking.”
The Soma, Indra, which the earth and heaven bear for thee as a mother bears her infant,
This they send forth to thee, this, vigorous Hero! Adhvaryus purify for thee to drink of.
The soma that Heaven and Earth bear, like a mother an embryo, with longing for you, Indra,
that do the Adhvaryus impel to you, that do they groom, o bull, for you to drink.
Dem Soma, den, o Indra, Erd' und Himmel, dich liebend, tragen, wie das Kind die Mutter, Den senden dir, den schmücken dir zum Trunke, o starker Held des Opferdiensts Gehülfen.
Den Soma, den dir zulieb, Indra, Himmel und Erde tragen wie die Mutter die Leibesfrucht, den lassen sie für dich laufen, den machen die Adhvaryu´s sauber für dich zum Trinken, du Bulle.
Сому, которого, о Индра, земля и небо,
Любя тебя, вынашивают, словно мать – зародыша,
Его поторапливают и очищают для тебя
Адхварью, о бык, чтобы ты пил.