स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीन॒: प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ । सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥
स॒द्यः । ह॒ । ज॒तः । वृ॒ष॒भः । क॒नीनः॑ । प्रऽभ॑र्तुम् । आ॒व॒त् । अन्ध॑सः । सु॒तस्य॑ । सा॒धोः । पि॒ब॒ । प्र॒ति॒ऽका॒मम् । यथा॑ । ते॒ । रस॑ऽआशिरः । प्र॒थ॒मम् । सो॒म्यस्य॑ ॥
वृषभः वृष्टिद्वारा अपां वर्षिता सद्यः तदानीमेव जातः उत्पन्नः कनीनः कमनीयः इन्द्रः सुतस्य अभिषुतस्य अन्धसः हविर्लक्षणस्य अन्नस्य सोमस्य प्रभर्तुं प्रकर्षेण भर्तारं संग्रहीतारं यजमानम् आवत् रक्षतु । ह प्रसिद्धौ । किंच तादृशस्त्वं प्रतिकामं कामे कामे सोमपानेच्छायां सत्यां ते तव यथा कामस्य पूर्तिर्भवति तथा साधोः रसात्मना संसिद्धं रसाशिरः गोपयोमिश्रणोपेतं सोम्यस्य सोममयं रसं प्रथमं सर्वेभ्यो देवेभ्यः पुरस्तात् पिब ॥ प्रतिकामम् । कामं कामं प्रति । वीप्सायामव्ययीभावः । समासस्वरः । यथा । अपादान्तत्वादेव लित्स्वरः । रसाशिरः । आङ्पूर्वात् श्रीणातेः क्विपि ‘अपस्पृधेथाम्' इत्यादिना आशिर” इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सोम्यस्य । सोमशब्दात् मयडर्थे ' मये च ' इति यप्रत्ययः ॥
“May the showerer (of rain), who, as soon as born, is the object of affection, protect the offerer of the effused libation; drink at will, Indra, before (the other gods), of the pure Soma mixed with milk.”
SOON as the young Bull sprang into existence he longed to taste the pressed-out Soma's liquor.
Drink thou thy fill, according to thy longing, first, of the goodly mixture blent with Soma.
Immediately on his birth the young bull showed favor to the ritual offering of the pressed stalk.
Drink—at pleasure, however your (pleasure) is—the first of the somian sap-mixture that brings success.
Sobald der Stier, der junge, war geboren, begehrt' den Trunk er des gepressten Krautes; So trinke denn, so wie es dein Begehr ist, zuerst vom schönen Saftgebräu des Soma.
Sobald als er geboren war, zog der junge Bulle die Darbringung des ausgepreßten Soma vor. Trink zuerst nach Wunsch, wie dein Wunsch ist, von dem vortrefflichen, milchgewürzten somischen Trank!
Едва лишь родившись, (совсем) молодой бык
Стал покровительствовать принесению выжатого сока сомы.
Пей первым по желанию, чтобы тебе (насытиться),
Превосходный смешанный с соком (напиток) из сомы!
यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् । तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥
यत् । जाय॑थाः । तत् । अहः॑ । अ॒स्य॒ । कामे॑ । अं॒शोः । पी॒यूष॑म् । अ॒पि॒बः॒ । गि॒रि॒ऽस्थाम् । तम् । ते॒ । मा॒ता । परि॑ । योषा॑ । जनि॑त्री । म॒हः । पि॒तुः । दमे॑ । आ । अ॒सि॒ञ्च॒त् । अग्रे॑ ॥
हे इन्द्र त्वं यत् यस्मिन्नहनि जायथाः अजायथाः तदहः तस्मिन्नेवाहनि अस्य सोमरस्य कामे पिपासायां सत्यां गिरिष्ठां गिरिस्थां पर्वतस्य उच्चस्थाने वर्तमानम् अंशोः सोमलताखण्डविशिष्टस्य ऋजीषस्य पीयूषम् अभिनवं रसम् अपिबः पीतवानसि । उत्पत्तिक्षणे एव सोमपाने कारणं दर्शयति । ते तव जनित्री माता योषा युवतिरदितिः महः महतः पितुः जनकस्य कश्यपस्य दमे सूतिकागृहे अग्रे स्तन्यदानात् प्राक् तं तादृशं सोमं परि आसिञ्चत् तवास्ये परितोऽक्षारयत् ॥ जायथाः । ‘जनी प्रादुर्भावे ' इत्यस्य लडि बहुलं छन्दसि ' इत्यडभावः । यद्वृत्तयोगादनिघातः । जनित्री । ‘जनिता मन्त्रे' इति निपातनात् णेर्लोपः ॥ ।
“On the day on which you were born, you did drink at will the mountain-abiding nectar of this Soma, for your youthful parent mother (Aditi), in the dwelling of your great sire (Kaśyapa), gave it to you before she gave the breast.”
That day when thou wast born thou, fain to taste it, drankest the plant's milk which the mountains nourish.
That milk thy Mother first, the Dame who bare thee, poured for thee in thy mighty Father's dwelling.
When you were born, on that day in desire for it [=soma] you drank the mountain-abiding beestings of the plant.
Your mother, the young woman who gave you birth, poured it around for you in the house of your great father for the first time.
Am Tage schon, da du geboren, trankst du voll Gier des Krautes bergentsprungne Biestmilch, Die goss zuerst die Mutter, die dich zeugte, dir ein, die Frau im Haus' des grossen Vaters.
An dem Tage, da du geboren warst, trankst du im Verlangen darnach den auf dem Berge gewachsenen Rahm des Stengels. Ihn schenkte dir die Mutter, die junge Frau, die deine Erzieherin, zum ersten Mal im Hause des großen Vaters ein.
Когда ты родился, в тот день, желая его,
Ты пил молозиво стебля, находящегося на горе.
Твоя мать, юная женщина, родительница, налила
Тебе его в доме великого отца в (самом) начале.
उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूध॑: । प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥
उ॒प॒ऽस्थाय॑ । मा॒तर॑म् । अन्न॑म् । ऐ॒ट्ट॒ । ति॒ग्मम् । अ॒प॒श्य॒त् । अ॒भि । सोम॑म् । ऊधः॑ । प्र॒ऽय॒वय॑न् । अ॒च॒र॒त् । गृत्सः॑ । अ॒न्यान् । म॒हानि॑ । च॒क्रे॒ । पु॒रु॒धऽप्र॑तीकः ॥
स इन्द्रः मातरम् उपस्थाय प्रार्थयित्वा अन्नमैट्ट तामन्नमयाचत । ‘ईळिरध्येषणाकर्मा: ( निरु. ७. १५) इति यास्कः । ततस्तस्याः ऊधः ऊधसि क्षीररूपेण स्थितं तिग्मं दीप्तं सोमम् अभि अपश्यत् सर्वतोऽदर्शत्। गृत्सः । अभिकाङ्क्ष्यते सर्वैर्देवैः शत्रुहननार्थमिति गृत्स इन्द्रः। अन्यान् सपत्नान् प्रयवयन” स्वस्वस्थानात् प्रकर्षेणोच्चालयन् अचरत् सर्वत्र चरति । किंच पुरुधप्रतीकः तेजोयोगात् बहुधा विक्षिप्ताङ्ग सन् महानि महान्ति वृत्रहननादीनि कर्माणि चक्रे ॥ उपस्थाय । तिष्ठतेर्ल्यपि ' घुमास्था" ' इतीत्वे प्राप्ते न ल्यपि ' इति प्रतिषेधः । लित्स्वरः । ऐट्ट । ईळिर्याञ्चार्थः । तस्माल्लङि रूपम् । ‘आडजादीनाम् ' इत्याडागमः । ष्टुत्वम् । निघातः । तिग्मम् । तिज निशाने ' अस्मात् ‘युजिरुचितिजां कुश्च ' इति मक्प्रत्ययः कवर्गादेशश्च । प्रयवयन्।' यु मिश्रणामिश्रणयोः ' इत्यस्य ण्यन्तस्य शतरि रूपम् । लित्स्वरः । गृत्सः । ‘गृधु अभिकाङ्क्षायाम्'। ‘गृधिपण्योर्दकौ च ' इति सप्रत्ययो दकारश्चान्तादेशः । वृषादित्वात् आद्युदात्तः । पुरुधप्रतीकः । पुरुशब्दः' इह संख्यावाची । ‘संख्याया विधार्थे धा' इति धाप्रत्ययः । ह्रस्वछान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥
“Approaching his mother he asked for food, and beheld the acrid Soma upon her bosom; eager he proceeds, dislodging the adversaries (of the gods); and, putting forth manifold (energy), he performed great (deeds).”
Desiring food he came unto his Mother, and on her breast beheld the pungent Soma.
Wise, he moved on, keeping aloof the others, and wrought great exploits in his varied aspects.
On approaching his mother, he called for food; he looked upon the sharp soma as his udder.
Clever, he took care to keep away the others; of manifold countenances, he performed great things himself.
Hineilend bat die Mutter er um Speise, den scharfen Soma sah er da, das Euter; Verscheuchend andre, eilte er begierig, und grosse Werke that der vielgestalt'ge.
Vor seine Mutter tretend rief er nach Speise; er schaute nach dem scharfen Soma als dem Euter. Die anderen pflegte der Kluge fernzuhalten. Große Taten vollbrachte er, der vielerlei Gesichter trägt.
Держась возле матери, он попросил еды.
Он смотрел на острого сому как на (материнскую) грудь.
Ловкий, он бродил, отгоняя других.
Великие (дела) совершил многоликий.
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः । त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥
उ॒ग्रः । तु॒रा॒षाट् । अ॒भिभू॑तिऽओजाः । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः । त्वष्टा॑रम् । इन्द्रः॑ । ज॒नुषा॑ । अ॒भि॒ऽभूय॑ । आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒ब॒त् । च॒मूषु॑ ॥
यः एषः इन्द्रः उग्रः शत्रूणां भयंकरः तुराषाट् त्वरया शत्रूणामभिभविता अत एव अभिभूत्योजाः शत्रूणामभिभवनपराक्रमोपेतः सन् तन्वम् आत्मीयं शरीरं यथावशं यथाकामं नानाविधरूपोपेतं चक्रे । तथा च मन्त्रवर्णः- रूपंरूपं मघवा बोभवति' ( ऋ. सं. ३. ५३, ८) इति । सः इन्द्रः जनुषा जन्मना सामर्थ्येन त्वष्टारं त्वष्टृनामकमसुरम् अभिभूय चमूषु चमसेषु स्थितम् आमुष्य चोरयित्वा सोममपिबत् ।' त्वष्टा हतपुत्रो वीन्द्रम्' इत्यादि ‘प्रासहा सोममपिबत् ' ( तै. सं. २. ४. १२. १ ) इति तैत्तिरीयकम् ॥ तुराषाट् । ‘ञित्वरा संभ्रमे ' । क्विप् । ‘ज्वरत्वर' ' इत्यादिना ऊठ् । सहेः “ छन्दसि सहः' इति ण्विः । ‘कर्तृकरणे कृता बहुलम्' इति समासः । तत्पुरुषे कृति बहुलम्' इति तृतीयायाः अलुक् । ‘सहेः साडः सः ' इति षत्वम् । कृदुत्तरपदस्वरः। यथावशम् । वशं काममनतिक्रम्य इत्यव्ययीभावसमासः । समासस्वरः । आमुष्य । ‘मुष स्तेये ' । ल्यप् । चमूषु ।' चमु अदने '। ‘कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' इत्यूप्रत्ययः । प्रत्ययस्वरः ॥
“Fierce, rapid in assault, of overpowering strength he made his form obedient to his will; having overcome Tvaṣṭā by his innate (vigour), and carried off the Soma, he draink it (deposited) in the ladles.”
Fierce, quickly conquering, of surpassing vigour, he framed his body even as he listed.
E'en from his birth-time Indra conquered Tvastar, bore off the Soma and in beakers drank it.
Strong, overcoming the powerful, of overwhelming strength—he made his body as he wished.
Having overwhelmed Tvaṣṭar at his birth, Indra, having stolen the soma, drank it in the cups.
᳓
Schnellsiegend, mächtig, übergross an Stärke gestaltete den Leib er ganz nach Wunsch sich, Den Tvaschtar schon als Kind besiegend, trank er, den Soma raubend, Indra aus den Bechern.
Gewaltig, die Mächtigen bezwingend, von überlegener Stärke, hat er nach Belieben seinen Leib gewandelt. Von Natur dem Tvastri überlegen raubte Indra den Soma und trank ihn aus den Gefäßen.
Грозный, одолевающий (даже) могучих, с силой превосходства,
Он создавал себе тело, как хотел.
По природе (своей) подчинив (себе) Тваштара,
Похитив сому, Индра пил (его) из чаш.
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं षुघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेशु व्रुत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिम्सन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं सम्यग्देतारं ता मूतये रक्षणाय वयमाह्वयेवा । शुनम् । तुओश्वि गैत्वृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृशादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु । अद भक्षणे । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञितम् । जि जये । क्विप् ॥ ५ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in the fight where spoil is gathered;
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute, Den starken, der zur Hülfe hört in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!