शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टय॑: सोम॒पाः काम॒मव्य॑न् । यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥
शंसा॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् । यम् । सु॒ऽक्रतु॑म् । धि॒षणे॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥
हे होतः महां महान्तम् इन्द्रं शंस शस्त्रैः स्तुहि । यस्मिन् इन्द्रे रक्षितरि सति विश्वाः कृष्टयः सर्वे मनुष्याः सोमपाः यज्ञमनुष्ठाय सोमपाः सन्तः कामम् । काम्यते इति कामः स्वर्गादिः । तम् आ अव्यन् सर्वतः प्राप्नुवन्ति । धिषणे देवमनुष्यादीनां धारयित्र्यौ । यद्वा । प्रगल्भे समर्थे स्वाश्रितान् रक्षतुमिति धिषणे द्यावापृथिव्यौ । देवाः च सुक्रतुम् । क्रतुः कर्म जगत्पालनादि । शोभनः क्रतुर्यस्यासौ सुक्रतुः । तादृशं विभ्वतष्टं विभुना ब्रह्मणा तष्टं जगदाधिपत्ये स्थापितं महान्तं वृत्राणां पापरूपाणां घनं हन्तारं यम् इन्द्रं जनयन्त अजनयन् । शंस। ‘ शन्सु स्तुतौ ' इत्यस्य लोटि रूपम् । पादादित्वादनिघातः । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । अव्यन् । वी’ कान्तिगत्यादिषु'। लङि रूपम् । यदुवृत्तयोगादनिघातः । अट्स्वरः । सुक्रतुम् । क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तः । धिषणे ।' ञिधृषा प्रागल्भ्ये 'इत्यस्मात् ‘धृषेर्धिष च संज्ञायाम् ' इति क्युप्रत्ययः । धिष इत्यादेशः । प्रत्ययस्वरः । घनम् । हन्तेः पुंसि संज्ञायाम् । इति घः । हो हन्तेः' इति कुत्वम् । प्रत्ययस्वरः । जनयत । जनेर्ष्यन्तस्य लङि रूपम् । यद्वृत्तयोगादनिघातः ॥
“I glorify the mighty Indra, in whom all men, drinking the Soma, obtain their wishes; whom the powerful (heaven and earth) and the gods begot, the doer of great deeds, the slayer of the Vṛtras, who was fashioned by Vibhu (the creator).”
GREAT Indra will I laud, in whom all people who drink the Soma have attained their longing;
Whom, passing wise, Gods, Heaven and Earth, engendered, formed by a Master's hand, to crush the Vrtras.
I will proclaim great Indra, toward whom all the soma-drinking
communities have directed their desire,
the very resolute one, fashioned for distinction, whom the two Holy Places [=Heaven and Earth] and the gods begot as the bane of obstacles.
Den grossen Indra, welchem alle Stämme der Somatrinker Lieb' erwiesen, preis' ich; Den starken, den die Götter und die Welten zum kraftentstammten Feindzermalmer machten.
Preise den großen Indra, nach dem alle somatrinkenden Stämme ein Verlangen gehegt haben, den wohlbedenkenden, den die beiden Welten und die Götter als meisterlichen Hammer der Feinde erzeugten.
Я хочу прославлять великого Индру, к которому все
Народы, пьющие сому, обратили (свое) желание,
(Бога) с прекрасной силой духа, вытесанного мастером,
Кого две чаши мироздания (и) боги породили как молот против врагов.
यं नु नकि॒: पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् । इ॒नत॑म॒: सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्यो॑: ॥
यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् । इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥
पृतनासु । व्याप्रियन्तेऽत्र योद्धार इति पृतनाः संग्रामाः । तेषु स्वराजं हरिष्ठां हरिस्थां हरियुक्ते रथे वर्तमानं नृतमं बलस्य युद्धे नेतृतमं द्विता युद्धमासाद्य सेनां द्विधा कृत्वा वर्तमानं यम् इन्द्रं नकिः न कश्चिदपि तरति उत्तीर्य गच्छति। न कोऽप्यभ्यस्ति इत्यर्थः । नु प्रसिद्धौ । स इन्द्रः इनतमः अतिशयेन सेनास्वामी सत्वभिः परितः सीदद्भिर्मरुद्भिः सह यः यान् गच्छन् शूषैः । शोषयन्ति परबलानीति शूषाणि बलानि । तैः पृथुज्रयाः युद्धं प्रति तीव्रवेगः सन् दस्योः शत्रोः आयुः अन्नं प्राणं वा अमिनात् संग्रामेषु मिनाति हिनस्ति । ह प्रसिद्धौ । अत्र निरुक्तं-- ‘ पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः । प्रामापयदायुर्दस्योः' (निरु. ५. ९ ) इति ॥ तरति । ‘ तॄ प्लवनतरणयोः' इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यः । ‘ या प्रापणे'। औणादिकः कप्रत्ययः । आतो लोपः । प्रत्ययस्वरः ॥
“Whom, when borne by his steeds, foremost and eminent in battles, breaking in two the (hostile host), no one ever surpasses; supreme in a way, attended by his faithful Maruts, and hastening to combat, he has destroyed with foe-withering (energies) the existence of the Dasyu.”
Whom, most heroic, borne by Tawny Coursers, verily none subdueth in the battle;
Who, reaching far, most vigorous, hath shortened the Dasyu's life with Warriors bold of spirit.
The most manly sovereign king, mounted on fallow bays, whom now as before no one overcomes in battles,
who along with his warriors is strongest through our fortifying (hymns). He in his broad expansion curtailed the lifetime of the Dasyu.
Den Selbstgebieter, den in Schlachten niemand fürwahr besiegt, den stärksten Rosselenker, Den kräftigsten, der mit den kühnen Streitern auf weiter Flur des Dämons Alter kürzte.
Den Selbstherrn und mannhaften Falbenlenker, den keiner jemals in den Kämpfen überwindet; der der höchste Gebieter ist, der mit seinen mutigen Streitern in breitem Ansturm das Leben des Dasyu verkürzte;
Самодержец, которого никто никогда не покоряет
В боях, самый мужественный, правящий булаными конями,
Кто самый могучий со (своими) отважными воинами
Широко продвигающийся, он уменьшил срок жизни дасью.
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् । भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारु॑: सु॒हवो॑ वयो॒धाः ॥
स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शी॒ इति॑ । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् । भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥
य इन्द्रः सहावा बलवान् पृत्सु संग्रामेषु तरणिः । शत्रूनुत्तीर्य वर्तते इति तरणिः । तत्र दृष्टान्तः अर्वा न । यथार्वा बलवानश्वः शत्रुबलं तरति तथा रोदसी द्यावापृथिव्यौ व्यानशिः व्याप्नुवन् मेहनावान् । मिह्यते सिच्यते दीयतेऽर्थिभ्य इति मेहनं धनम् । तद्वान्भवति । तादृश इन्द्रः कारे । क्रियते इति कारो यज्ञादिः । तस्मिन् यज्ञे भगो न पूषा देव इव हव्यः हवनीयः मतीनां स्तोतॄणां स्तुतीनां वा पितेव पालयिता चारुः कमनीयः सुहवः सुष्ट्वाह्वानोपेतः वयोधाः अन्नस्य दाता' भवति ॥ सहावा । सहोऽस्यास्तीति मतुबर्थे ‘छन्दसीवनिपौ' इति वनिप् । ‘अन्येषामपि दृश्यते ' इति संहितायां दीर्घः । पृत्सु । पृतनाशब्दस्य सौ परतः । मांस्पृत्स्नूनामुपसंख्यानम् ' इति पृदादेशः । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । व्यानशिः । ‘ अशू व्याप्तौ' इत्यस्मात् छन्दसि सदादित्वात् किप्रत्ययः । तस्य लिड्वद्भावः । अत आदेः' इत्यभ्यासस्य दीर्घे कृते ‘ अश्नोतेश्च ' इति नुडागमः । प्रादिसमासः । कारे । करोतेः कर्मणि घञ् । कर्षात्वतो घञोऽन्त उदात्तः' इत्यन्तोदात्तत्वम् । हव्यः । जुहोतेः “ अचो यत्'।' यतोऽनावः' इत्याद्युदात्तत्वम् । सुहवः । ह्वयतेः ‘ भावेऽनुपसर्गस्य' (पा. सू. ३. ३.७५ ) इत्यप्प्रत्ययः । संप्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् ॥
“Vigorous, rushing through (hostile hosts), like a war-horse, he has pervaded heaven and earth, sending down rain; he is to be worshipped with oblations at the solemn (rite) like Bhaga; he is as the father of those who adore (him); he is beautiful, worthy of invocation, the bestower of food.”
Victor in fight, swift mover like a warhorse, pervading both worlds, rainer down of blessings,
To be invoked in war like Bhaga, Father, as 'twere, of hymns, fair, prompt to hear, strength-giver.
Victorious in battles like an overtaking steed, traversing the two
world-halves, streaming abundance.
Like Bhaga at the decisive moment, he is to be invoked with thoughts; like a father, he is dear, easy to invoke, conferring vigor.
In Schlachten siegreich, wie ein schneller Renner, durchdringt er reich an Gaben beide Welten, Im Klang der Lieder Bhaga gleich zu rufen, der liebem Vater gleich erhört und Kraft gibt.
In den Kämpfen sieghaft wie ein durchhaltender Renner, beide Welten durchdringend, gern schenkend, in Gebeten zu rufen wie Bhaga im Kampfspiel, wie der Vater liebwert, leicht zu errufen, kraftverleihend.
Осиливающий в сражениях, как рвущийся вперед скакун,
Пронизывающий оба мира, щедро дарящий,
Тот, кого нужно призывать как Бхагу при ратном подвиге в молитвах,
Милый, как отец, легко призываемый, наделяющий телесной силой...
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् । क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ॥
ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् । क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥
स इन्द्रः दिवः द्युलोकस्य रजसः अन्तरिक्षस्य च धर्ता धारकः पृष्टः सर्वत्र वर्तमानः रथो न तदीयो रथ इव ऊर्ध्वः वायुः ऊर्ध्वगन्ता वसुभिः सहायतया निवसद्भिः मरुद्भिः नियुत्वान् सहायवान् । यद्वा नेत्ययमुत्तरेणापि संबध्यते । यथा वायुर्नियुत्वान् नियुन्नामक वडवाभिः तद्वान् एवमिन्द्रो वसुभिर्मरुद्भिः सहायवान् । तथा क्षपां वस्ता रात्रिमाच्छादयन् सूर्यस्य जगत्प्रकाशकस्यादित्यस्य जनिता जनयिता भागं भजनीयं वाजं कर्मफलरूपमन्नं विभक्ता साधु विभागकर्ता भवति । तत्र दृष्टान्तः । धिषणेव । यथा आढ्यानां वाक् अस्येदमिति विभागं करोति तद्वत् ॥ रजसः । रञ्ज रागे' इत्यस्मात् ‘भूरञ्जिभ्यां कित्' ( उ. सू. ४. ६५६ ) इत्यसुन् । कित्त्वान्नलोपः । रज्यते प्रकाशेनेति रजोऽन्तरिक्षम् । नित्त्वादाद्युदात्तः । वस्ता । ‘ वस आच्छादने ' इत्यस्य तृचि रूपम् । जनिता । जनयतेस्तृचि ‘ जनिता मन्त्रे' इति निपातनात् णिलोपः ॥ चित्त्वादन्तोदात्तः । विभक्ता । ‘ भज सेवायाम् ' इत्यस्य साधुकारिष्यर्थे तृन् । ' एकाच उपदेशे°: इतीट्प्रतिषेधः । ‘ तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् ॥
“The upholder of heaven and of the firmament, the wind, like a chariot traversing the upper (region) accompanied by the Vasus; the clother of the night (with gloom), the parent of the sun, the distributor of the portion (allotted to the pious), like the words (of the wealthy appropriating to all) the food.”
Supporting heaven, the high back of the region, his car is Vayu with his team of Vasus.
Illumining the nights, the Sun's creator, like Dhisana he deals forth strength and riches.
As supporter of heaven, of the dusky realm, he is inquired after; erect like a chariot, he is (like) Vāyu teamed with goods. Illuminator of the nights, generator of the sun, he distributes the share, like the Holy Place [=ritual ground] the prize.
Des Himmelsraums begehrter hoher Träger, wie Vāju's Wagen mit den Vasu's fahrend, Der Nächt' Erheller und der Sonne Zeuger, der Gut vertheilet wie die Schüssel Speise.
Der Träger des Himmels, des Luftraums, gesucht, aufrecht stehend, der wie der Wagenheld Vayu mit den Göttern die Niyut als Gespann hat, der Erheller der Nächte, der Erzeuger der Sonne, der den Anteil austeilt wie Dhisana den Gewinn.
Поддерживатель неба, пространства, (тот,) о ком спрашивают, прямой,
Как колесница Ваю, с упряжками из богатств,
Осветитель ночей, родитель солнца,
Наделитель долей, как Дхишана – наградой...
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेशु व्रुत्राणि व्रुत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं शनानां शत्रुसम्बन्धिनां सञ्जितं सम्यग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । घृञ् भरणे । घः । व्रुषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षने । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄनामायूंशीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ५ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in the fight where spoil is gathered;
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers treasure.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute, Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!