इन्द्र॒: स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् । ओरु॒व्यचा॑: पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॒॑: काम॑मृध्याः ॥
इन्द्रः॑ । स्वाहा॑ । पि॒ब॒तु॒ । यस्य॑ । सोमः॑ । आ॒ऽगत्य॑ । तुम्रः॑ । वृ॒ष॒भः । म॒रुत्वा॑न् । आ । उ॒रु॒ऽव्यचाः॑ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः॑ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः॑ । काम॑म् । ऋ॒ध्याः॒ ॥
अयम् इन्द्रः स्वाहा स्वाहाकृतमिमं सोमं पिबतु । यस्य इन्द्रस्यायं सोमः स इन्द्रो यज्ञं प्रति आगत्य तुम्रः कर्मविघ्नकारिणां हिंसकः वृषभः यष्टॄणामभिमतफलवर्षकः मरुत्वान् मरुद्भिस्तद्वान् उरुव्यचाः प्रभूतव्याप्तिः सन् एभिः अस्माभिर्दत्तैः अन्नैः सोमादिलक्षणैर्हविर्भिः आ पृणतां समन्तात् पूरयतु । ततः अस्य इन्द्रस्य संबन्धिनः तन्वः शरीरस्य कामं पुष्ट्यादि
लक्षणविषयमभिलाषं हविः अस्माभिर्दत्तम् आ ऋध्याः सर्वतः पूरयतु ॥ तुम्रः । तुमिराहननार्थः । उरुव्यचाः । व्यचेरसुन् । ‘ व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र ‘ अनसि' इति पर्युदासात् ङित्त्वाभावः । कृदुत्तरस्वरः । ऋध्याः । ऋध्नोतेः आशीर्लिंङि रूपम् ॥
“May Indra drink the libation; he of whom is the Soma, having come to the sacrifice; he who is the repeller (of adversaries), the showerer (of benefits), the lord of the Maruts; may he, the wide-pervading, be plural ased with these (sacrificial) viands; may the oblation be adequate to the wants of his body.”
LET Indra drink, All-hail! for his is Soma,-the mighty Bull come, girt by Maruts, hither.
Far-reaching, let him fill him with these viands, and let our offering sate his body's longing.
At “Svāhā!” let Indra drink, to whom the soma belongs. On coming here, bulging, bullish, accompanied by the Maruts,
let him, though (already) of broad extent, become filled with these foods. Might the oblation bring to fulfillment the desire of his body.
Es trinke Indra, Herr des Soma's, Heil ihm! der feiste Stier, der herkam mit den Maruts; Der umfangreiche fülle sich mit Speisen; giess ein den Trank und still die Lust des Leibes.
Unter Svaharuf soll Indra trinken, dem der Soma gehört, wenn der starke Bulle von den Marut begleitet gekommen ist. Da er reichlich Raum hat, soll er sich mit diesen Speisen füllen. Die Opferspende möge dem Verlangen seines Leibes genügen.
Пусть пьет Индра: Свага!, тот, кому принадлежит сома,
Придя с Марутами, (он,) мощный бык!
(Бог,) способный много вместить, пусть наполнит он себя этими кушаньями!
Пусть возлияние удовлетворит желание его тела!
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिव॑: श्रु॒ष्टिमाव॑: । इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॑: ॥
आ । ते॒ । स॒प॒र्यू इति॑ । ज॒वसे॑ । यु॒न॒ज्मि॒ । ययोः॑ । अनु॑ । प्र॒ऽदिवः॑ । श्रु॒ष्टिम् । आवः॑ । इ॒ह । त्वा॒ । धे॒युः॒ । हर॑यः । सु॒ऽशि॒प्र॒ । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ ॥
हे इन्द्र ते तव जवसे यज्ञं प्रत्यागमनाय सपर्यू परिचारकौ हरी आ युनज्मि रथे योजयामि । प्रदिवः पुरातनस्त्वं ययोः अश्वयोः श्रुष्टिं वेगम् । श्रुष्टीति क्षिप्रनाम इति यास्कः । तम् अनु आवः अनुगच्छसि । हे सुशिप्र शोभनहनो इन्द्र हरयः रथे योजितास्तेऽश्वाः इह कर्मणि त्वा त्वां धेयुः यज्ञं प्रति धारयन्तु । तत आगतस्त्वं सुषुतस्य सुष्ठ्वभिषुतं चारोः कमनीयम् अस्य इमं सोमं तु क्षिप्रं पिब । सपर्यू। सपरशब्दः कण्ड्वादिः। तदन्तात् औणादिकः कुप्रत्ययः । आवः । अव रक्षणादिषु । छान्दसे लङि रूपम् । यद्वृत्तयोगात् अनिघातः। धेयुः । दधातेराशीर्लिङि किदाशिषि' इति यासुट् । ‘ एर्लिङि' ( पा. सू. ६. ४. ६७ ) इत्येकादेशः । निघातः । पिब । पादादित्वादनिघातः । सुषुतस्य । “ षुञ् अभिषवे' कर्मणि क्तः। ‘ गतिरनन्तरः' इति गतिस्वरः ।' उपसर्गात्सुनोति' इत्यादिना संहितायां षत्वम् ॥
“I yoke (to your car), to bring you quickly, your two docile horses, whose speed you have of old employed; may your horses, handsome Indra, bring you hither, and drink promptly of this well-effused agreeable libation.”
I yoke thy pair of trusty Steeds for swiftness, whose faithful service from of old thou lovest.
Here, fair of cheek! let thy Bay Coursers place thee: drink of this lovely welleffused libation.
I yoke for you these two obliging (horses) for speed, whose obedience you favored from olden days.
Here should the fallow bays deposit you, you of good lips. Drink of this pleasing well-pressed (soma).
Ich schirr dir an zu schneller Fahrt die treuen, an deren Dienst du Lust gehabt von jeher, Dich Schlürfer mögen her die Füchse fahren, so trinke denn von diesem schöngepressten.
Ich schirre dir die beiden willfährigen Rosse zu raschem Laufe an, deren Folgsamkeit du von jeher liebtest. Hierher mögen dich die Falben bringen, du Schönlippiger. Trink doch von diesem gutgepreßten angenehmen Soma!
Я запрягаю тебе двоих преданных (коней) для быстрого бега,
В которых от века ты поддерживал послушание.
Сюда пусть доставят тебя кони, о прекрасногубый!
Пей же этого прекрасно выжатого, милого (тебе сому)!
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः । म॒न्दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥
गोभिः॑ । मि॒मि॒क्षुम् । द॒धि॒रे॒ । सु॒ऽपा॒रम् । इन्द्र॑म् । ज्यैष्ठ्या॑य । धाय॑से । गृ॒णा॒नाः । म॒न्दा॒नः । सोम॑म् । प॒पि॒ऽवान् । ऋ॒जी॒षि॒न् । सम् । अ॒स्मभ्य॑म् । पु॒रु॒धा । गाः । इ॒ष॒ण्य॒ ॥
गृणानाः स्तोत्रं कुर्वाणा ऋत्विजः मिमिक्षुं स्तोतॄणामभिमतफलं वर्षितुमिच्छन्तं सुपारं शोभनपारम् । स्तुतिभिरभिमुखीकर्तुं शक्यमित्यर्थः । तादृशम् इन्द्रं ज्यैठ्याय धनादिसंपत्त्या श्रेष्ठत्वाय धायसे चिरकालमायुर्धारणाय च गोभिः गोमिश्रितैः सोमैः दधिरे धारयन्ति । शेषः प्रत्यक्षः । हे ऋजीषिन् सोमवन्निन्द् स त्वं मन्दानः मोदमानः सोमं पपिवान् सोमस्य पाता सन् स्तोतृभ्यः अस्मभ्यं पुरुधा बहुधा गाः अग्निहोत्रादिकर्मसिद्ध्यर्थं धेनूः सम् इषण्य सम्यक् प्रेरय ॥ गोभिः । ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वे प्राप्ते नः गोश्वन्साववर्ण° ' इति प्रतिषेधः । मिमिक्षुम् । मिह सेचने ' इत्यस्य सनि ' एकाचः° ' ( पा. सू. ७. २. १० ) इतीट्प्रतिषेधे ‘ हलन्ताच्च ' इति किद्वद्भावः । ‘ सनाशंसभिक्ष उः । प्रत्ययस्वरः । ज्यैष्ठ्याय । ज्येष्ठस्य भाव इत्यर्थे ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तः । गृणानाः । ‘ गॄ शब्दे' । क्र्यादित्वात् श्ना । चित्त्वादन्तोदात्तः । मन्दानः । मदि स्तुत्यादिषु इत्यस्य शानचि ‘बहुलं छन्दसि ' इति शपो लुक् । पुरुधा । पुरुशब्दः इह संख्यावाची । ‘ संख्याया विधार्थे धा' इति धाप्रत्ययः । इषण्य । ‘ इष गतौ । इषणमिच्छतीति छन्दसि परेच्छायां क्यच् । तदन्तादन्तर्भावितण्यर्थाल्लोटि रूपम् ॥
“His adorers support with cattle, Indra, who is willing to bestow upon them their desires, and ready to come to the sacrifice, for the sake of obtaining eminent prosperity and prolonged life; acceptor of the spiritless Soma, who are the drinker of the Soma, and are exhilarated (by the draught), grant to us freely cattle in abundance.”
With milk they made Indra their good Preserver, lauding for help and rule the bounteous rainer.
Impetuous God, when thou hast drunk the Soma, enraptured send us cattle in abundance.
While being hymned, (the horses? priests?) have established (the soma) desirous of mixture with cows [=milk], to nourish Indra, the deliverer, for preeminence.
Becoming invigorated once having drunk the soma, you of the silvery drink, drive together cows in quantity for us.
Der reichlich Kühe schenkt und hilft, den Indra, ersahn die Sänger sich zum Schutz der Herrschaft; Den Soma trink erfreut, o eifervoller, dann treib herbei uns Kühe stets aufs neue.
Sie haben den Soma, der der Mischung mit Milch bedarf, wohlbekömmlich gemacht, den Indra preisend, daß er die Oberhoheit ausübe. Wenn du Soma getrunken hast und berauscht bist, du Trestersomatrinker, so erstrebe für uns Kühe in Menge!
Они получили (сому), смешанного с молоком, прекрасно перевозящего (через опасности),
Воспевая Индру, чтобы он применил высшую власть.
Опьянившись, выпив сому, о пьющий выжимки (сомы),
Сгони для нас коров во многих местах!
इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाह॑: कुशि॒कासो॑ अक्रन् ॥
इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ । स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥
हे इन्द्र इमं धनादिविषयं काममस्मदीयमभिलाषं गोभिरग्निहोत्रादिकर्मसाधनभुतैर्गवादिभिर्वाहनसाधनभूतैरश्वैश्च चन्द्रवता दीप्तियुक्तेन राधसा धनेन च मन्दय । एतानि दत्त्वेममभिलाषं पूरय । किञ्च । एतैरस्मान्पप्रथः । प्रथितांश्च कुरु । पश्चात्स्वर्यवः स्वर्गाअदिसुखमात्मन इच्छन्तो विप्राः कर्मकुशलाः कुशिकासः कुशिका मतिभिर्मननीयैर्मन्त्रैर्वाहः स्तोत्रमिन्द्राय तुभ्यमक्रन् । अकार्षुः । मन्दय । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । गोभिः । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेत्यादिना प्रतिषेधः । प्रकृतिस्वरः । पप्रथः । प्रथप्रख्याने । क्विप् । डन्दस्युभयथेति तस्य सार्वधातुकत्वात् शप् । तस्य बहुलं छन्दसिति श्लुः । धातुस्वरः । अक्रन् । करोतेर्लुङि मन्त्रे घसह्वरेत्यादिना लुक् । निघातः ॥ ४ ॥
“Gratify this our desire (of wealth) with cows, with horses, with shining treasure, and make us renowned; the wise Kuśikas, desirous of heaven, offer praise of you, Indra, with pious (prayers).”
With kine and horses satisfy this longing with very splendid bounty still extend it.
Seeking the light, with hymns to thee, O Indra, the Kusikas have brought their gift, the singers.
Invigorate this desire with cows, with horses, with recompense in gold, and you will (further) spread it out.
Seeking the sun, the inspired poets, the Kuśikas, have made with their thoughts a (ritual) conveyance for you, for Indra.
᳓
Befried'ge diesen Wunsch durch Ross und Rinder, und mach ihn weit durch glänzende Geschenke; Nach Glück verlangend brachten mit Gebeten dem Indra Gaben Kuçiker, die Sänger.
Dieses Verlangen stille mit Rindern, mit Rossen, mit blinkender Ehrengabe und dehn es noch aus! Nach dem Sonnenlicht verlangend haben die beredten Kusika´s mit Gedichten dir, dem Indra, ein Fahrzeug bereitet.
Порадуй это желание коровами, конями,
Подношением, состоящим из золота, и (еще) распространи (его)!
Стремясь к солнечному свету, вдохновенные люди из рода Кушики
(Своими) молитвами тебе, Индре, создали средство для езды.
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
हे इन्द्र वाजसौत । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं सूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयम् । यज्ञार्थमाह्वयेम । तथा शृन्वन्तमस्माभिः क्रियमानाम् स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेषु व्रुत्राणि सम्यग्जेतारं त्वामुतये रक्षणाय वयमाह्वयेम । शुनम् । टुओत्वि गतिवृद्ध्योरित्यस्य निष्थायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसिति सम्प्रसारणे कृते शपो लुकि क्रुते च लिङि रूपम् । निघातः । भरे । भृञ् भरणे । घः । वृणादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसेनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः । समत्सु अद भक्षने । सम्पुर्वात् क्विप् । सम्भक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ५ ॥
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Call we on Maghavan, auspicious Indra, best Hero in the fight where spoil is gathered;
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers riches.
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.534 III.51
᳓
Den mächt'gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute; Den starken, der erhört zur Hülf' in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего нас, грозного – для поддержки в сражениях
Убивающего врагов, завоевывающего награды!