च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत । वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥
च॒र्ष॒णि॒ऽधृत॑म् । म॒घऽवा॑नम् । उ॒क्थ्य॑म् । इन्द्र॑म् । गिरः॑ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व॒वृ॒ध॒नम् । पु॒रु॒ऽहू॒तम् । सु॒वृ॒क्तिऽभिः॑ । अम॑र्त्यम् । जर॑माणम् । दि॒वेऽदि॑वे ॥
बृहतीः प्रभूताः गिरः अस्मदीयाः स्तुतिलक्षणा वाचः चर्षणीधृतं चर्षणीनां मनुष्याणामभिमतफलप्रदानेन धारकं पोषकम् । यद्वा । आकृषन्त्यनेन सर्वमिति चर्षणि बलं तद्धारकम् । मघवानं धनवन्तम् उक्थ्यम् उक्थैः शस्त्रैः शंसनीयं वावृधानं बलधनादिसंपत्त्या प्रतिक्षणं वर्धमानं पुरुहूतं स्तोतृभिर्बहुवारमाहूतम् अमर्त्यं मरणधर्मरहितं सुवृक्तिभिः शोभनस्तुतिवाक्यैः दिवेदिवे प्रत्यहं जरमाणं स्तूयमानं तमिमम् इन्द्रम् अभ्यनूषत अभितः सर्वतः स्तुवन्तु ॥ बृहतीः। ‘ वा छन्दसि' इति सवर्णदीर्घः । अनूषत । ‘णू स्तवने'। अस्माल्लुङि सिच् । धातोः कुटादित्वात् सिचो ङित्त्वेन गुणाभावः । सुवृक्तिभिः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा । सुवृक्तय इति स्तुतिकरणभूताः ऋचो वृक्तिशब्देनोच्यन्ते । ‘ क्तिच्क्तौ च ' इति क्तिच् । कृत्स्वरेणान्तोदात्तः । दिवेदिवे । ' नित्यवीप्सयोः' इति द्विर्वचनम् । परस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः ॥
“Let abundant praises celebrate Indra, the stay of man, the possessor of opulence, the adorable, prospering with increase, the invoked of many, the immortal, who is daily to be propitiated with sacred hymns.”
HIGH hymns have sounded forth the praise of Maghavan, supporter of mankind, of Indra meet for lauds;
Him who hath waxen great, invoked with beauteous songs, Immortal One, whose praise each day is sung aloud.
The bounteous supporter of the settled domains, worthy of hymns—to Indra have the lofty songs roared—
the much-invoked one, having grown strong through well-turned
(hymns), immortal, awakening every day.
Dem Menschenhort, dem mächtigen, zu preisenden, dem Indra jauchzen laute Lobgesänge zu; Dem mächtigen, durch Lieder vielgerufenen, unsterblichen, der Tag für Tag sich gerne naht.
Nach dem völkerregierenden, gabenreichen, preisenswerten Indra haben die hohen Lobreden geschrieen, nach dem Vielgerufenen, von den Lobliedern erbauten Unsterblichen, der Tag für Tag wachgerufen wird.
Поддерживающего народы, щедрого, достойного гимнов
Индру приветствовали высокие хвалебные песни,
(Его) растущего, многопризываемого в прекрасных гимнах,
Бессмертного, бодрствующего день за днем.
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वत॑: । वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ॥
श॒तऽक्र॑तुम् । अ॒र्ण॒वम् । शा॒किन॑म् । नर॑म् । गिरः॑ । मे॒ । इन्द्र॑म् । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ । वा॒ज॒ऽसनि॑म् । पूः॒ऽभिद॑म् । तूर्णि॑म् । अ॒प्ऽतुर॑म् । धा॒म॒ऽसाच॑म् । अ॒भि॒ऽसाच॑म् । स्वः॒ऽविद॑म् ॥
मे मदीयाः गिरः स्तुतिलक्षणा वाचः शतक्रतुम् । शतं क्रतवो यज्ञा यस्य तम् । अर्णवं पर्जन्यात्मना उदकवन्तं शाकिनम् । शक्नोत्येभिरिन्द्र इति शाकाः सहायभूता मरुतः । तद्वन्तं नरं सर्वस्य जगतो नेतारं वाजसनिं वाजस्यान्नस्य दातारं पूर्भिदं शत्रुपुरां भेत्तारं तूर्णिं युद्धं प्रति शीघ्रं गन्तारम् अप्तुरं मेघभेदनद्वारा अपां प्रेरकं धामसाचं तेजो भजमानम् । यद्वा धनं धाम । तदर्थिभिः सह योजयितारम् । अभिषाचं शत्रूणामभिभवितारं स्वर्विदं स्वर्गस्य लम्भकं तमिमम् इन्द्रं विश्वतः सर्वतः उप यन्ति उपगच्छन्तु ॥ अर्णवम् । अर्णोऽस्यास्तीति मत्वर्थे ‘ अर्णसः सलोपश्च' इति वप्रत्ययः सकारलोपश्च । प्रत्ययस्वरः । नरम् । नयतेर्डिच्च' इति ऋप्रत्ययः । अमः सुप्त्वादनुदात्तत्वे प्रत्ययस्वरः । यन्ति । ‘ इण गतौ ' इत्यस्य लटि • इणो यण् इति यण् । निघातः । वाजसनिम् ।' षणु दाने '। खनिकष्यज्यसिवसि" ' इत्यादिना इप्रत्ययः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । तूर्णिम् । ‘ञित्वरा संभ्रमे '। वहिश्रि° ' इत्यादिना निप्रत्ययः । ज्वरत्वर° ' इत्यादिना ऊठ्। ‘ नित्' इत्यतिदेशादाद्युदात्तः । अप्तुरम् । ‘ तुर त्वरणे'। क्विप् । कृदुत्तरपदस्वरः । अभिषाचम् । षच समवाये । ण्यन्तस्य क्विप् ॥
“My praises constantly propitiate Indra, the object of many rites, the sender of rain, attended by the Maruts, the leader (of all), the giver of food, the destroyer of cities, the swift (in combat), the prompt (dispenser) of waters, the distributor of riches, the subduer of foes, the conferrer of heaven.”
To Indra from all sides go forth my songs of praise, the Lord of Hundred Powers, strong, Hero, like the sea,
Swift, winner of the booty, breaker-down of forts, faithful and ever-glorious, finder of the light.
The superior man with a hundred resolves, a flood of powers—my songs approach Indra from all sides—
winning spoils, splitting strongholds, swift at crossing the waters,
attending to the ordinances, attending closely, finding the sun.
Dem hundertkräft'gen, wildbewegten, starken Mann, dem Indra eilen allseits meine Lieder zu; Der emsig, schnell ist, Kraft verleiht und Burgen bricht, zum Sitze eilt, zu Hülfe kommt und Glanz verschafft.
Zu dem Ratreichen, wie zu dem Meere, zu dem machtvollen Herren, zu Indra kommen allenthalben meine Lobreden zu dem Gewinner des Siegespreises, dem Burgenbrecher, der eilig die Gewässer überschreitet, der dem Gesetz folgt, dem Begleiter, dem Sonnenfinder.
К стоумному, (как реки -) к океану, к могущественному мужу
Индре мои хвалебные песни приближаются со всех сторон.
К захватывающему добычу, раскалывающему крепости, быстро переправляющемуся через воды,
Следующему установлениям, расположенному (к нам), находящему солнце.
आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हस॒: स्तुभ॒ इन्द्रो॑ दुवस्यति । वि॒वस्व॑त॒: सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥
आ॒ऽक॒रे । वसोः॑ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः॑ । स्तुभः॑ । इन्द्रः॑ । दु॒व॒स्य॒ति॒ । वि॒वस्व॑तः । सद॑ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒ऽसह॑म् । अ॒भि॒मा॒ति॒ऽहन॑म् । स्तु॒हि॒ ॥
जरिता शत्रूणां जरयिता इन्द्रः आकरे । आकीर्यते युद्धार्थं धनमत्रेत्याकरो युद्धम् । तस्मिन् वसोः धनस्य स्थानभूते युद्धे पनस्यते सर्वैः स्तूयते । यद्वा वसोः । वसत्याभिमुख्येन तिष्ठतीति वसुः शत्रुः तस्य जरयितेति योजनीयम् । स इन्द्रः अनेहसः अपापाः स्तुभः स्तुतीः दुवस्यति परिचरति । तासां फलं प्रयच्छन् पूजयतीत्यर्थः । किंच स इन्द्रः विवस्वतः विशेषेण अग्निहोत्रार्थं वसतो हविष्मतो वा यजमानस्य सदने गृहे आ पिप्रिये हि सोमपानादिना अत्यन्तं प्रीतो भवति खलु । सत्रासाहं शत्रूणामेव हन्तारं यद्वा मरुद्भिः सह शत्रूणामभिभवितारम् अत एव अभिमातिहनं शत्रूणां हन्तारमिन्द्रं स्तुहि हे विश्वामित्रेति ॥ आकरे। ‘कॄ विक्षेपे ' । अधिकरणे • ऋदोरप्' इत्यप् । थाथादिस्वरेणान्तोदात्तः । जरिता । ' जॄष् वयोहानौ ' इत्यस्यान्तर्भावितण्यर्थस्य तृचि रूपम् । चित्त्वादन्तोदात्तः । पनस्यते । पनस्यतिः स्तुतिकर्मा । तस्य कर्मणि लटि रूपम् । निघातः । अनेहसः । हन्तेर्नञि उपपदे ' नञि हन एह च' ( उ. सू . ४. ६६३ ) इस्यसिप्रत्ययः एह इत्ययं चादेशो धातोः । ‘ नञ्सुभ्याम् ' इति स्वरेणान्तोदात्तः । स्तुभः । स्तोभतिः अर्चतिकर्मा । क्विप् । दुवस्यति । दुवः परिचरणमात्मन इच्छतीत्यर्थे क्यच् । निघातः । पिप्रिये । ‘ प्रीङ् तर्पणे ' । लिटि रूपम्। हियोगादनिघातः ॥
“Indra, the enfeebler (of adversaries), is praised as a mine of wealth; he is propitiated by righteous commendations; he is gratified in the dwelling of the offerer of oblations; glorify Indra, the conqueror, the destroyer of his enemies.”
Where battle's spoil is piled the singer winneth praise, for Indra taketh care of matchless worshippers.
He in Vivasvan's dwelling findeth his delight: praise thou the ever-conquering slayer of the foe.
The singer seeks admiration from him who distributes goods: Indra gives a friendly reception to his faultless rhythms,
for at the seat of Vivasvant [=ritual ground] he finds pleasure. Praise him, victorious in every way, the smasher of hostility.
Beim Gutvertheiler ist der Sänger gern gesehn, die fehlerlosen Lieder sind dem Indra lieb; Denn in dem Sitze des Vivasvat weilt er gern, den steten Sieger preise, der den Feind erschlägt.
Bei dem Spender des Gutes steht der Sänger in Ehren. Indra bevorzugt die fehlerlosen Gesänge, denn am Sitze des Vivasvat wird er freundlich gestimmt. Preise den vollständigen Sieger, der die Nachsteller erschlägt!
У того, кто осыпает добром, ценится певец:
Индра награждает безупречные распевы.
Ведь ему нравится на месте жреца:
Славь того, кто побеждает всегда, кто убивает преследователя!
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाध॑: । सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥
नृ॒णाम् । ऊँ॒ इति॑ । त्वा॒ । नृऽत॑मम् । गीः॒ऽभिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒ऽबाधः॑ । सम् । सह॑से । पु॒रु॒ऽमा॒यः । जि॒ही॒ते॒ । नमः॑ । अ॒स्य॒ । प्र॒ऽदिवः॑ । एकः॑ । ई॒शे॒ ॥
हे इन्द्र सबाधः । रक्षोघ्नमन्त्रोच्चारणेन तद्विषयबाधया सह वर्तन्त इति सबाधः ऋत्विजः । नृणां नृतमं मनुष्याणामतिशयेन स्वस्वकर्मणि नेतारं वीरं सामर्थ्योपेतं त्वा त्वां गीर्भिः स्तुतिसाधनभूतैर्वाक्यैः उक्थैः शस्त्रैश्च अभि आभिमुख्येन प्र अर्चत प्रकर्षेणार्चन्ति । पुरुमायः वृत्रहननादिबहुकर्मा स इन्द्रः सहसे बलाय सं जिहीते गमनोद्यमं करोति । किंच प्रदिवः पुरातनः एकः असहायः स इन्द्रः नमः नमसः अस्य हविर्लक्षणस्यान्नस्य ईशे इष्टे । यद्वा अस्य सर्वस्य जगत ईष्टे । तस्मै इन्द्राय नमः ॥ नृणाम् । नामन्यतरस्याम् ' इति विभक्तेरुदात्तत्वम् । अर्चत । अर्चतेर्लटि झेस्तादेशः ‘ तिङां तिङो भवन्ति' इति वचनात् । सबाधः । ‘ बाधृ विलोडने '। क्विप् । ‘ वोपसर्जनस्य ' इति सहस्य सत्वम् । कृदुत्तरपदस्वरः । पुरुमायः । ‘ अन्तोदात्तप्रकरणे त्रिचक्रादीनामुपसंख्यानम् ' इत्यन्तोदात्तत्वम् । ईशे । ‘ ईश ऐश्वर्ये ' इत्यस्य लटि • लोपस्त आत्मनेपदेषु' इति तलोपः । निघातः ॥
“The priests glorify you, heroic leader of men, with praises and with prayers; Indra, the author of many delusions, exerts himself for (the acquisition of) strength; he from of old is the lord of this (oblation).”
Thee, valorous, most heroic of the heroes, shall the priests glorify with songg and praises.
Full of all wondrous power he goes to conquest: worship is his, sole Lord from days aforetime.
You [=Indra], the most manly of men—you [=singers], recite to the hero forcefully with songs, with hymns.
Possessing many magical powers, he compacts himself together for
might. Reverence is his. From olden days he alone is lord.
Besinget nun den männlichsten der Männer, mit Spruch und Lied den Helden recht bestürmend; Es rüstet sich zum Sieg der Zauberreiche; Verehrung ihm; von jeher herrscht allein er.
Dich, den mannhaftesten der Männer, mit Reden, mit Liedern - besinget inbrünstig den Helden! Er rührt sich zum Siege, der Verwandlungsreiche. Ehre sei ihm, er allein ist von jeher der Herr!
Тебя, самого мужественного из мужей, в песнях, в гимнах –
Воспевайте героя неустанно!
Обладатель многих чар снаряжается для силы.
Поклон тому, (кто) один властвует от века!
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति । इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षन्ति जी॒रयो॒ वना॑नि ॥
पू॒र्वीः । अ॒स्य॒ । निः॒ऽसि॑धः॑ । मर्त्ये॑षु । पु॒रु । वसू॑नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ । इन्द्रा॑य । द्यावः॑ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः॑ । वना॑नि ॥
मर्त्येषु मनुष्येषु अस्य इन्द्रस्य निष्षिधः अनुशासनानि पूर्वीः हितोपदेशादिभिः प्रभूतानि नानाप्रकाराणि भवन्ति । इन्द्रस्य शासितृत्वे मन्त्रः-’ उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ' ( ऋ. सं. १. १०. ५) इति । तथा शासकाय तस्मै इन्द्राय पृथिवी पुरु पुरूणि बहूनि वसूनि धनानि बिभर्ति अन्तर्धारयति । किंच द्यावः द्युलोकाः ओषधीः ओषधयः उत अपि च आपः जलानि जीरयः । जीर्यन्त इति जीरयो मनुष्याः । वनानि वृक्षाश्च एते सर्वे इन्द्रस्याज्ञया तदुपभोगयोग्यं रयिं धनं रक्षन्ति ॥ निष्षिधः । ‘ षिधु गत्याम् ' । क्विप् । संहितायां निसः सकारेण इणो व्यवधानं छान्दसत्वात् अनादृत्य १ उपसर्गात्सुनोति° ' इत्यादिना षत्वम् । निसः सकारस्य ‘ ष्टुना ष्टुः' इति षत्वम् ॥ ॥ १५ ॥
“Many are his prohibitions (against evil enjoined) to men; many are the treasures that the earth enshrines; for Indra the heavens, the plural nts, the waters, men and priests, preserve their riches.”
Abundant are the gifts he gives to mortals: for him the earth bears a rich store of treasures.
The heavens, the growing plants, the living waters, the forest trees preserve their wealth for Indra.
Many are the tributes to him among mortals; many goods does the earth bear (for him).
For Indra the heavens, the plants, and the waters guard their wealth, and the lively (streams) and woods.
Der Gaben viele hat er für die Menschen, und viele Güter trägt die weite Erde; Dem Indra hegen Himmel, Kräuter, Wasser, die raschen Ströme und die Wälder Reichthum.
Reichlichen Tribut schuldet man ihm bei den Sterblichen; viele Güter trägt die Erde für ihn. Für Indra bewahren die Himmel, die Pflanzen und die Gewässer, die Flüsse, die Wälder, ihren Reichtum.
Много воздаяний ему среди смертных.
Много благ несет (ему) земля.
Для Индры небеса, растения и воды
Хранят богатство, (а также) реки, леса.
तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ । बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥
तुभ्य॑म् । ब्रह्मा॑णि । गिरः॑ । इ॒न्द्र॒ । तुभ्य॑म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒ऽवः॒ । जु॒षस्व॑ । बो॒धि । आ॒पिः । अव॑सः । नूत॑नस्य । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ । वयः॑ । धाः॒ ॥
हे हरिवः अश्ववन् इन्द्र तुभ्यं त्वदर्थं ब्रह्माणि स्तोत्राणि तथा तुभ्यं गिरः शस्त्राणि च सत्रा सत्यमेव दधिरे ऋत्विजो धारयन्ति । तानि जुषस्व सेवस्व । हे वसो सर्वस्य वासयितः सखे सखिभूत हे इन्द्र आपिः व्याप्तस्त्वं नूतनस्य नवतरम् अवसः अन्नलक्षणं हविः बोधि त्वदर्थं दीयमानं जानीहि । अतस्त्वं जरितृभ्यः स्तोतृभ्योऽस्मभ्यं वयः अन्नं धाः देहि ॥ तुभ्यम् । ‘ ङयि च ' इत्याद्युदात्तत्वम् । जुषस्व । जुषी प्रीतिसेवनयोः' इत्यस्य लोटि रूपम् । वाक्यभेदात् अनिघातः । बोधि । ‘ बुध अवगमने ' इत्यस्य लोटि वा छन्दसि ' इति हेर्विकल्पेन ङित्त्वादत्र पित्त्वात् गुणः । ‘ हुझल्भ्यो हेर्धिः' इति ध्यादेशः । ङित्त्वादन्तोदात्त: ॥।
“To you, Indra, (the pious) address prayers, and praises, and sacrifices; accept them, lord of horses; give all things, partake of this present oblation, and grant food to the worshippers.”
To thee, O Indra, Lord of Bays, for ever are offered prayers and songs: accept them gladly.
As Kinsman think thou of some fresh assistance; good Friend, give strength and life to those who praise thee.
For you the sacred formulations, for you the songs altogether have been established, o Indra of the fallow bays. Enjoy them!
Become a friend of help right now; o comrade, o good one, establish vigor for the singers.
Dir wurden Bitten, dir, o Indra, Lieder vereint gebracht, nimm an sie, Herr der Füchse; Auf neue Hülfe denke als Verwandter; o holder Freund, verleih den Sängern Labung.
Für dich sind die erbaulichen Reden, für dich, Indra, die Lobesworte allesamt bestimmt, o Falbenherr. Freue dich daran! Sei du der gute Freund neuester Hilfe! Guter Freund verleih den Sängern Kraft!
Для тебя священные речи, хвалебные песни, о Индра, для тебя
Раз и навсегда установлены. Наслаждайся (ими), о хозяин буланых коней!
Будь союзником, (настройся) на помощь сейчас!
О друг, о Васу, надели певцов жизненной силой!
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः ॥
इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम॑म् । यथा॑ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ । तव॑ । प्रऽनी॑ती । तव॑ । शू॒र॒ । शर्म॑न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः ॥
हे मरुत्वः मरुद्भिस् तद्वन् हे इन्द्र त्वम् इह अस्मदीये यज्ञे आगत्य सोमं पाहि पिब । यथा त्वं पूर्वं शार्याते शर्यातेः पुत्रे तस्मिन् राजनि यज्ञं कुर्वाणे सुतस्य अभिषुतं सोमम् अपिबः तथा अत्रापि पिबेत्यर्थः । इन्द्रः शार्यातस्य यज्ञे सोमरसानपिबदित्येषोऽर्थः कौषीतके स्पष्टमुक्तः । तथा मन्त्रवर्णश्च -- आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे' (ऋ. सं. १. ५१. १२) इति । हे शूर इन्द्र तव संबन्धिनि शर्मन् शर्मणि निर्बाधस्थाने स्थिताः सुयज्ञाः सुष्ठुकृतयज्ञाः कवयः मेधाविनो यजमानाः प्रणीती तव हविषां प्रणयनेन प्रापणेन आ समन्तात् विवासन्ति त्वामेव परिचरन्ति । विवासतिः परिचरणकर्मा ॥
शार्याते । शर्यातेरयमित्यर्थे ‘ तस्येदं ' इत्यण्प्रत्ययः ।
अपिबः । यथायोगादनिघातः । अडागमस्वरः । प्रणीती । नयतेर्भावे क्तिन् । तादौ च निति कृति° ' इति गतेः प्रकृतिस्वरत्वम्। ‘ सुपां सुलुक्° ' इति तृतीयाया: सवर्णदीर्घः । ‘ उपसर्गादसमासेऽपि' इति णत्वम् ॥
“Indra, accompanied, by the Maruts, drink the Soma at this ceremony as you have drunk of this libation of the son of Śāryāti; your far-reaching and devout worshippers, being in security, adore you through their offerings.”
Here, Indra, drink thou Soma with the Maruts, as thou didst drink the juice beside Saryata.
Under thy guidance, in thy keeping, Hero, the singers serve, skilled in fair sacrifices.
O Indra with the Maruts drink here the Soma,
As thou didst drink the pressed drink with Çaryata
Under thy guidance, in thy protection, O hero,
The singers skilled in sacrifice are fain to serve.
O Indra along with the Maruts, drink the soma here, as you drank of the pressed (soma) beside Śāryāta.
With your guidance, in your shelter, o champion, the wise poets of
good sacrifices seek their win.
Hier trinke Soma mit den Maruts, Indra, wie bei Çarjata du den Saft getrunken; In deiner Huld, o Held, in deinem Schutze erfreuen sich die opferreichen Weisen.
Indra, Marutbegleiteter, trink hier den Soma, wie du bei Saryata vom Safte trankst! Unter deiner Führung, in deinem Schutze, du Held, laden die Weisen mit schönem Opfer ein.
О Индра, сопровождаемый Марутами, пей здесь сому,
Как пил ты выжатого у Шарьяты.
Под твоим предводительством, под твоей защитой, о герой,
Поэты с прекрасными жертвами стремятся к завоеванию.
स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं न॑: । जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥
सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम॑म् । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । सु॒तम् । नः॒ । जा॒तम् । यत् । त्वा॒ । परि॑ । दे॒वाः । अभू॑षन् । म॒हे । भरा॑य । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥
हे इन्द्र वावशानः सोमं कामयमानः सः तादृशस्त्वं सखिभिः समानख्यानैः मरुद्भिः सह नः अस्मत्संबन्धिनि इह अस्मिन् यज्ञे सुतम् अभिषुतं सोमं पाहि पिब । हे पुरुहूत पुरूभिः बहुभिः आहूतेन्द्र जातं सोमपानेन प्रबलं संपन्नं यत् यं त्वां विश्वे सर्वे देवाः महे महते भराय । ह्रियन्ते योधानामायूंष्यत्रेति भरः संग्रामः । तस्मै संग्रामाय परि अभूषन् सर्वतोऽलमकुर्वन्॥ वावशानः । वशेर्यङ्लुकि चानशि रूपम् । चित्त्वादन्तोदात्तः । अभूषन् ।' भूष अलंकारे । भूवादिः । लङि रूपम् । यद्योगादनिघातः । भराय । “ हृञ् हरणे' । अधिकरणे घः । ‘ हृग्रहोर्भश्छन्दसि' इति हकारस्थ भकारः । वृषादित्वादाद्युदात्तः ॥
“Do you, Indra, who is gratified by the Soma, drink the Soma that has been effused by us, together with your friends, the Maruts, at this ceremony; you who is invoked of many, and whom all the gods equipped as soon as born for the great battle (with the asuras).”
So eagerly desirous drink the Soma, our juice, O Indra, with thy friends the Maruts,
Since at thy birth all Deities adorned thee for the great fight, O thou invoked of many.
Eagerly desirous, here drink the soma pressed by us, o Indra, with the Maruts as your comrades—
as when all the gods busied themselves around you, just born, for great plunder, o much-invoked one.
So trink, o Indra, lustig hier den Soma, hier unsern Trank vereinigt mit den Maruts; Als du geboren, schmückten alle Götter zum grossen Kampf dich aus, o vielgerufner.
Trink hier voll Verlangen den Soma, den von uns ausgepreßten mit den Marut, deinen Freunden, o Indra, wie damals als dich, den eben geborenen, alle Götter zum großen Kampfe umringten, du Vielgerufener.
Полный желания, пей здесь сому,
Выжатого нами, о Индра, вместе с друзьями Марутами,
(Как в те времена,) когда тебя, едва родившегося, окружили
Все боги, о многопризываемый, для великого сражения!
अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः । तेभि॑: सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुष॒: स्वे स॒धस्थे॑ ॥
अ॒प्ऽतूर्ये॑ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम॑न्दन् । इन्द्र॑म् । अनु॑ । दाति॑ऽवाराः । तेभिः॑ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒ऽखा॒दः । सु॒तम् । सोम॑म् । दा॒शुषः॑ । स्वे । स॒धऽस्थे॑ ॥
हे मरुतः यः एषः इन्द्रः अप्तूर्ये अपां प्रेरणे आपिः युष्माकं सखा सन् वर्तते दातिवाराः। वारो वरणीयं बलं धनं वा । दत्तबला दत्तधना वा । ते मरुतस्तम् इन्द्रमनु अमन्दन् अहृष्यन् । वृत्रखादः वृत्रस्य हिंसकः स इन्द्रः तेभिः तैर्मरुद्भिः साकं दाशुषः हविर्दत्तवतो यजमानस्य स्वे स्वकीये सधस्थे । सह तिष्ठन्त्यस्मिन्निति सधस्थं गृहम् । तस्मिन् सुतम् अभिषुतं सोमं पिबतु ॥ अप्तूर्ये । ' तूरी त्वराहिंसयोः' इत्यस्मात् “ अघ्न्यादयश्च ' इति यत्प्रत्ययः । यतोऽनावः' इत्याद्युदात्तः । समासे कृदुत्तरपदस्वरः । अमन्दन् । मदि स्तुत्यादिषु । परस्मैपदी । पादादित्वादनिघातः । वृत्रखादः । ‘ खादृ भक्षणे '। कर्मण्यण् । दाशुषः । दाशृ दाने ' इत्यस्य क्वसौ ' दाश्वान्साह्वान्मीढ्वांश्च ' इति द्विर्वचनाद्यभावः । वसोः संप्रसारणम् । प्रत्ययस्वरः । सधस्थे । ‘ सध मादस्थयोश्छन्दसि ' इति सहस्य सधादेशः ॥
“Maruts, this is your friend for sending of the waters; they (the Maruts), the givers of strength, have yielded Indra gratification; may the devourer of Vṛtra drink with them the libation offered by the worshipper in his abode.”
He was your comrade in your zeal, O Maruts: they, rich in noble gifts, rejoiced in Indra.
With them together let the Vrtra-slayer drink in his home the worshipper's libation.
At the crossing of the waters, o Maruts, he is a friend. They, who give favors, have applauded Indra.
Together with them let the Vr̥tra-gnawer drink the pressed soma in the very seat of the pious worshiper.
Im schnellen Werk war er ein Freund euch, Maruts, dem Indra jauchzten zu die gabenreichen; Der Vritratilger trinke nun mit diesen im eignen Sitz des Frommen Somatränke.
Bei der Überschreitung der Gewässer ist dieser der gute Freund, o Marut. Es jubelten dem Indra die Wunschgewährer zu. Mit ihnen zusammen soll der Vritravertilger den gepreßten Soma an des Opferspenders eigenem Sitze trinken.
Он союзник, о Маруты, при переправе через воды.
Индру приветствовали, ликуя, (эти) дающие лучшее.
Пусть пьет вместе с ними пожиратель Вритры
Сому, выжатого в собственном жилище почитателя!
इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते । पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥
इ॒दम् । हि । अनु॑ । ओज॑सा । सु॒तम् । रा॒धा॒ना॒म् । प॒ते॒ । पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ ॥
हे राधानां पते धनानां स्वामिन् गिर्वणः गीर्भिः स्तुतिभिर्वननीय हे इन्द्र इदम् अनु अनेनानुक्रमेण । उद्दशानुक्रमेणेत्यर्थः । ओजसा बलेन ग्रावभिः सुतम् अभिषुतम् अस्य इमं सोमं तु क्षिप्रं पिब हि ॥
“Lord of riches, entitled to praise, this libation has been effused agreeably to (our) strength; do you drink of it quickly.”
So, Lord of affluent gifts, this juice hath been pressed for thee with strength
Drink of it, thou who lovest song.
Because this pressed (drink) is right here at hand with its strength, o lord of benefits,
drink of it, o you who long for song.
Gebraut ist hier ringsum mit Kraft der Soma, o der Gaben Herr, So trink ihn denn, von Lied umtönt.
Diese Trankspende, die mit Kraft ausgepreßt ist, steht ja bereit, du Herr der Gaben. Trink doch davon, du Lobbegehrender!
Вот (сома,) с силой выжатый
По (правилам), о господин подарков.
Пей же его, о жаждущий хвалебных песен!
यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व॑म् । स त्वा॑ ममत्तु सो॒म्यम् ॥
यः । ते॒ । अनु॑ । स्व॒धाम् । अस॑त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व॑म् । सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥
हे इन्द्र 'ते त्वदर्थं यः सोमः स्वधाम् अन्नम् अनु अनुसृत्य ग्रावभिरभिषुतः असत् सुते तस्मिन् सोमे तन्वं स्वकीयं शरीरं नि यच्छ प्रेरय । सः सोमः सोम्यं सोमार्हं त्वा त्वां ममत्तु मादयतु ॥ असत् । अस्तेर्लेट्यडागमे रूपम् । यद्वृत्तयोगादनिघातः। आगमस्यानुदात्तत्वे धातुस्वरः ॥
“Invigorate your body with the Soma that has been poured out as food for you; may it exhilarate you, delighting in the Soma draught.”
Incline thy body to this juice which suits thy Godlike nature well:
May it cheer thee who lovest it.
Which(ever soma drink) will suit your nature, halt yourself at that pressing. Let it exhilarate you, who deserve the soma.
Zu ihm, der recht nach Wunsch dir sei, zum Safte lenke deinen Leib; Dich Somafreund berausche er.
Halte dich bei dem Soma auf, der deiner Natur entsprechen möge! Er soll dich, den Somafreund, berauschen.
Остановись у выжатого (сомы),
Который будет по твоему вкусу!
Пусть опьянит он тебя, любящего сому!
प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिर॑: । प्र बा॒हू शू॑र॒ राध॑से ॥
प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ । प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥
हे इन्द्र स सोमः ते तव कुक्ष्योः कुक्षेरुभयोः पार्श्वयोः उभौ पार्श्वौ प्र अश्नोतु प्रकर्षेण व्याप्नोतु । तथा ब्रह्मणा स्तोत्रेण सहितः स सोमः शिरः शरीरम् । अवयवादिनावयवी लक्ष्यते । त्वच्छरीरं प्र अश्नोतु । है शूर इन्द्र राधसे धनाय तव बाहू अपि प्र अश्नोतु ॥ अश्नोतु । अशू व्याप्तौ ' इस्यस्य लोटि व्यत्ययेन परस्मैपदम् । निघातः । कुक्ष्योः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥ ॥ १६ ॥
“May this libation, Indra, penetrate to your flanks; may it, (aided) by prayer, reach your head; may it spread, hero, through your arms, (that they may distribute) wealth.”
Brave Indra, let it work through both thy flanks, and through thy head by prayer,
And through thine arms, to prosper us.
Let it reach to your two cheeks, to your head, Indra, (accompanied) by a sacred formulation—
to your two arms, o champion, for (you) to give.
Er dringe ein in deinen Bauch und durch Gebete in dein Haupt, Zum Schenken, Held, in deinen Arm.
Er soll in deine Seiten dringen, in dein Haupt mit Erbauung, o Indra, in deine Arme zum Schenken, o Held!
Пусть достигнет он твоих боков,
До(стигнет), о Индра, вместе с молитвой головы,
Достигнет рук, о герой, чтобы ты дарил!