धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥
धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् । इन्द्र॑ । प्रा॒तः । जु॒ष॒स्व॒ । नः॒ ॥
हे इन्द्र धानावन्तम् । धाना भृष्टयवाः । तद्वन्तं करम्भिणम् । करम्भो दधिमिश्राः सक्तवः। तद्वन्तम् अपूपवन्तं सवनीयपुरोडाशोपेतम् उक्थिनं शस्त्रिणं नः अस्मदीयमिमं सोमं प्रातः प्रातःसवने जुषस्व सेवस्व ॥ प्रातः । स्वरादिषु अन्तोदात्तत्वेन पठितत्वादन्तोदात्तः ॥
“Accept, Indra, at our morning sacrifice, this libation, combined with fresh barley, with parched grain and curds, and with cakes, and sanctified by holy prayer.”
INDRA, accept at break of day our Soma mixt with roasted corn,
With groats with cake, with eulogies.
(The soma) accompanied by roasted grain, by gruel, by cakes,
by hymns—
Indra, enjoy (this soma) of ours early in the morning.
Unsern mit Getreidekörnern, mit Grütze und Gebäck ver- sehenen, von Sprüchen begleiteten [Kuchen] geniesse frühmorgens, o Indra.
Indra! Genieße am Morgen unseren Soma nebst gerösteten Körnern, Brei, Kuchen und dem Loblied!
(Сомой) вместе с жареными зернами, кашей,
Хлебцем, гимном, о Индра,
Наслаждайся у нас рано утром!
पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वे॒न्द्रा गु॑रस्व च । तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥
पु॒रो॒ळास॑म् । प॒च॒त्य॑म् । जु॒षस्व॑ । इ॒न्द्र॒ । आ । गु॒र॒स्व॒ । च॒ । तुभ्य॑म् । ह॒व्यानि॑ । सि॒स्र॒ते॒ ॥
हे इन्द्र पचत्यं पचने साधुं पुरोडाशम् । पुरो दाशन्त एनमिति पुरोडाशो हविः। जुषस्व । किंच आ गुरस्व । पुरोडाशभक्षणार्थमुद्यमं कुरु । हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि तुभ्यं त्वदर्थ सिस्रते आहवनीयं गच्छन्ति । तानि सेवस्वेति भावः ॥ पचत्यम् । पचतशब्दात् तत्र साधुः' इति यत्प्रत्ययान्तस्य पदस्य द्व्यच्त्वाभावात् अत्र ‘ यतोऽनावः' इत्यस्य प्राप्तिर्नास्ति । तित्स्वरितः । गुरस्व ।' गुरी उद्यमने '। शविकरणी । निघातः । सिस्रते । ‘ सृ गतौ । छन्दसि जुहोत्यादिः । व्यत्ययेनात्मनेपदम् ॥
“Accept, Indra, the prepared cakes and butter; eat them eagerly; the oblations flow for you.”
Accept, O Indra, and enjoy the well-dressed sacrificial cake: Oblations are poured forth to thee.
The cooked offering cake—enjoy it, Indra, and welcome it.
To you do the oblations flow.
Den frisch gebackenen Kuchen geniesse, Indra, und iss ihn auf, auch Opfertränke strömen dir.
Indra! Genieße den garen Reiskuchen und sprich deinen Beifall aus! Für dich fließen die Opferspenden.
Печеной лепешкой
Наслаждайся, о Индра, и одобряй (ее)!
Для тебя струятся жертвенные возлияния.
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः । व॒धू॒युरि॑व॒ योष॑णाम् ॥
पु॒रो॒ळास॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ । व॒धू॒युःऽइ॑व । योष॑णाम् ॥
हे इन्द्र नः अस्मत्संबन्धिनं पुरोडाशं घसः भक्षय च । नः अस्मदीयाः स्तुतिलक्षणाः गिरश्च' जोषयासे सेवस्व' । तत्र दृष्टान्तः । वधूयुरिव योषणाम् । यथा वधूयुः स्त्रीकामो योषणां भजनीयां युवतिं सेवते तद्वत् ॥ घसः । ‘ घस्लृ अदने ' इत्यस्य लेट्यडागमे रूपम् । ‘ चवायोगे प्रथमा ' इति न निघातः । जोषयासे । ‘ जुषी प्रीतिसेवनयोः' इत्यस्य ण्यन्तस्य लेट्याडागमे रूपम् । आगमस्यानुदात्तत्वे णिच्स्वरः । पादादित्वादनिघातः । वधूयुरिव । ‘सुप आत्मनः क्यच्'।' क्याच्छन्दसि ' इत्युप्रत्ययः । प्रत्ययस्वरः । योषणाम् । ‘ युष भजने ' इति सौत्रो धातुः । ‘ कृत्यल्युटो बहुलम्' इति ल्युट् । लित्स्वरः ॥
“Eat, Indra, our (offered) cakes and butter, derive enjoyment from our praises, as a lover from his mistress.”
Consume our sacrificial cake, accept the songs of praise we sing,
As he who woes accepts his bride.
Our offering cake you shall eat, and you shall take pleasure in
our songs,
as a bride-seeking man does a maiden.
Verzehre unsern Kuchen, und an unsern Liedern habe Ge- fallen, wie an der Braut der Bräutigam.
Iß unseren Reiskuchen und finde an unseren Lobesworten Gefallen wie der Weibersüchtige an einer jungen Frau!
Ешь нашу лепешку
И наслаждайся нашими хвалебными песнями,
Словно тот, кто хочет женщину, – молодой женщиной!
पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः । इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥
पु॒रो॒ळास॑म् । स॒न॒ऽश्रु॒त॒ । प्रा॒तः॒ऽसा॒वे । जु॒ष॒स्व॒ । नः॒ । इन्द्र॑ । क्रतुः॑ । हि । ते॒ । बृ॒हन् ॥
हे सनश्रुत पुराणतया प्रसिद्ध हे इन्द्र नः अस्मत्संबन्धिनमिमं पुरोडाशं प्रातःसावे । सूयतेऽत्र सोम इति सावः । तस्मिन् प्रातःसवने जुषस्व । यतः ते तव क्रतुः कर्म बृहन् महत् हि ॥ प्रातःसावे ।' षुञ् अभिषवे' । कर्मणि घञ् । प्रादिसमासः । थाथादिस्वरेणान्तोदात्तः ॥
“Indra, renowned of old, accept our cakes and butter, offered at dawn; for great are your deeds.”
Famed from of old, accept the cake at our libation poured at dawn,
Forgreat, O Indra, is thy power.
Enjoy our offering cake at the Morning Pressing.
O Indra famed of old, lofty indeed is your resolve.
Unsern Kuchen geniesse, altberühmter du, bei unserer Morgenspende; denn dir, Indra, ist grosse Kraft.
Genieße bei der Morgenspende unseren Reiskuchen, du Altberühmter, denn groß ist dein Verständnis, Indra!
Лепешкой, о (бог,) знаменитый издревле,
Наслаждайся на утреннем выжимании у нас!
О Индра, ведь твоя сила духа высока.
माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु॑म् । प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥
माध्य॑न्दिनस्य । सव॑नस्य । धा॒नाः । पु॒रो॒ळास॑म् । इ॒न्द्र॒ । कृ॒ष्व॒ । इ॒ह । चारु॑म् । प्र । यत् । स्तो॒ता । ज॒रि॒ता । तूर्णि॑ऽअर्थः । वृ॒ष॒ऽयमा॑णः । उप॑ । गीः॒ऽभिः । ईट्टे॑ ॥
हे इन्द्र माध्यंदिनस्य मध्यंदिने भवस्य सवनस्य संबन्धिनीः धानाः भृष्टयवान् चारुं कमनीयं पुरोडाशं च इह कर्मणि आगत्य कृष्व भक्षणेन संस्कुरु । यत् यदा जरिता भवत्परिचरणं कुर्वाणः तूर्ण्यर्थः त्वां स्तोतुमितस्ततस्त्वरितगमनः अत एव वृषायमाणः वृषेवाचरन् स्तोता गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः उप समीपे प्र ईट्टे प्रकर्षेण स्तौति । तदा पुरोडाशादिहवींषि भक्षयेति भावः ॥ माध्यंदिनस्य । मध्यंदिनशब्दात् तत्र भवार्थे उत्सादित्वादञ् । ञित्वादाद्युदात्तः। चारुम् । ‘चर गतिभक्षणयोः'। ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्' इति ञुण् । णित्त्वादुपधादिवृद्धिः। ञित्वादाद्युदात्तः । तूर्ण्यर्थः । तूर्णिः । ञित्वरा संभ्रमे ' इत्यस्मात् ' वहिश्रि° ' इत्यादिना निप्रत्ययो निच्च । अर्थः । ‘ऋ गतौ । ‘उषिकुषिगार्तिभ्यस्थन् ' इति थन् । बहुव्रीहौ पूर्वपदस्वरः । वृषायमाणः । वृषेवाचरतीत्यर्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ् । ‘अकृत्सार्वधातुकयोर्दीर्घः । ङित्त्वात् ‘अनुदात्तङितः' इत्यात्मनेपदम् । लट् । शानच् । तस्य लसार्वधातुकस्वरे धातुस्वरः । ईट्टे। ‘ईड स्तुतौ ' इत्यस्य लटि रूपम् । यद्योगादनिघातः ॥ ॥ १७ ॥
“Partake, Indra, of the barley and the delicious cakes and butter of the midday sacrifice, when your zealous worshipper, hastening to adore you, and eager as a bull, is present, and celebrates (yo) with hymns.”
Let roasted corn of our midday libation, and sacrificial cake here please thee, Indra,
What time the lauding singer, keen of purpose and eager as a bull, with hymns implores thee.
The roasted grains of the Midday Pressing, the offering cake—Indra, make them your own dear (possessions) here,
when the praiser, the singer, (going) forth swift to his task, acting the bull, reverently invokes you with hymns.
Die Getreidekörner bei der mittäglichen Spende, den Kuchen, Indra, lass dir lieb sein, wenn dich der lobende Sänger, eifrig zum Ziele dringend, mit Liedern in brünstiger Begierde preiset.
Laß dir die gerösteten Körner und den Reiskuchen der Mittagsspende hier munden, wenn der Lobpreiser, der Sänger, der rasch sein Ziel erreicht, auftritt und dich brünstig mit Lobreden herbeiruft.
Жареные зерна на полуденном выжимании,
Лепешку, о Индра, сделай тут приятными (на вкус),
Когда восхвалитель-певец, спешащий к цели,
Мужаясь под(ходит) и взывает хвалебными песнями!
तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः । ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभि॑: ॥
तृ॒तीये॑ । धा॒नाः । सव॑ने । पु॒रु॒ऽस्तु॒त॒ । पु॒रो॒ळाश॑म् । आऽहु॑तम् । म॒म॒ह॒स्व॒ । नः॒ । ऋ॒भु॒ऽमन्त॑म् । वाज॑ऽवन्तम् । त्वा॒ । क॒वे॒ । प्रय॑स्वन्तः । उप॑ । शि॒क्षे॒म॒ । धी॒तिऽभिः॑ ॥
हे पुरुष्टुत पुरुभिर्बहुभिः स्तोतृभिः स्तुत हे इन्द्र तृतीये सवने नः अस्मदीयान् धानाः हुतान् भृष्टयवान् आहुतं पुरोळाशं च मामहस्व भक्षणेन महय संभावय । हे कवे इन्द्र प्रयस्वन्तः संभृतहविष्का वयम् ऋभुमन्तम् । ऋभवो ये केचन देवास्तद्वन्तं वाजवन्तम् । वाजो नाम सुधन्वनः पुत्रस्तद्वन्तं त्वा त्वां धीतिभिः स्तुतिभिः उप शिक्षेम समीपे परिचरेम ॥ आहुतम् । जुहोतेः कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । मामहस्व । मह पूजायाम् ' इत्यस्य यङ्लुगन्तस्य लोटि व्यत्ययेनात्मनेपदम् । शपो लुगभावश्छान्दसः । शिक्षेम । शिक्षतेः आशीर्लिङि • लिङ्याशिष्यङ्' इत्यङ्प्रत्ययः । निघातः । धीतिभिः । ‘ हिष्ठवत्सरतिशत्थान्तानाम् । इत्यन्तोदात्तत्वम् ॥
“Indra, who is praised of many, accept readily from our friend of barley, and cakes, and butter, offered at the third (or evening) sacrifice; ladenwith sacrificial viands, we approach with praises to your sage Indra, who is accompanied by the ṛbhus and by Vāja.”
At the third sacrifice, O thou whom many praise, give glory to the roasted corn and holy cake.
With offered viands and with songs may we assist thee, Sage, whom Vaja and the Rbhus wait upon.
At the Third Pressing, our roasted grains, our offering cake bepoured (with ghee)—grant them to yourself, much-praised one.
Might we, dispensing ritual delights, entice you here with our hymnic visions, o poet—you accompanied by the R̥bhus, provided with
prizes.
᳓
Bei der dritten Spende erfreue dich an dem Körnerbrei und an dem begossenen Kuchen; wir wollen dich nebst Ribhu und Vädscha Speise bringend andachtsvoll verehren.
Bei der dritten Trankspende tu unseren Körnern und dem Reiskuchen, der geopfert wird, Ehre an, du Vielgepriesener! Wir möchten dich, o Weiser, in Gesellschaft des Ribhu und Vaja bei guter Beköstigung und Dichtung anlocken.
На третьем выжимании, о многопрославленный, окажи честь
Нашим жареным зернам, пожертвованной лепешке!
Тебя, о поэт, окруженного Рибху, несущего награды,
Мы с жертвенными усладами хотим привлечь поэтическими мыслями.
पू॒ष॒ण्वते॑ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः । अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥
पू॒ष॒ण्ऽवते॑ । ते॒ । च॒कृ॒म॒ । क॒र॒म्भम् । हरि॑ऽवते । हरि॑ऽअश्वाय । धा॒नाः । अ॒पू॒पम् । अ॒द्धि॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ॥
हे इन्द्र पूषण्वते । पूषा नाम कश्चिद्देवोऽदन्तकः । तद्वते ते तुभ्यं करम्भं दधिमिश्रं सक्तुं चकृम भक्षणार्थं कुर्मः। तथा च श्रुतिः- पूषा प्रपिष्टभागोऽदन्तको हि' (तै. सं. २.६.८.५) इति । हरिवते । हरिनामकावश्वौ तद्वते हर्यश्वाय हरितवर्णाश्वयुक्तायेन्द्राय तुभ्यं धानाः चकृम भक्षणार्थं कुर्मः। तथा च मन्त्रवर्णः-‘ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः' (ऋ. सं. ३.३५.३) इति । मरुद्भिः सगणः त्वम् अपूपं पुरोडाशम् अद्धि भक्षय । हे शूर असहाय हे इन्द्र वृत्रहा वृत्रस्य हन्ता विद्वान् सर्वं जानानस्त्वं सोमं पिब ॥ पूषण्वते । पूषशब्दस्य मतुप् ।' अनो नुट्' इति नुडागमः । ‘ रषाभ्याम् ' इति णत्वम् । चकृम । करोतेश्छान्दसे वर्तमाने लिटि क्रादित्वात् इडभावः । निघातः । हरिवते । छन्दसीरः' इति मतुपो वत्वम् ॥
“We have prepared the parched grain and curds for you, associated with Pūṣan; the fried barley for you, lord of the tawny horses, associated with your steeds; attend by the troop of Maruts, eat the cakes; hero, who is wise, and the slayer of Vṛtra, drink the libation.”
The groats have we prepared for thee with Pusan, corn for thee, Lord of Bay Steeds, with thy horses.
Eat thou the meal-cake, banded with the Maruts, wise Hero, Vrtra-slayer, drink the Soma.
We made gruel for you who are accompanied by Pūṣan, roasted grains for you of the fallow bay horses, accompanied by your fallow bays.
Eat the cake; in joint throng with the Maruts drink the soma, o hero, as Vr̥tra-smasher and knowing one.
᳓
Dir nebst dem Puschan haben wir die Grütze bereitet, dir und deinen Füchsen, Füchselenker, Getreidekörner ; den Kuchen iss in Gemeinschaft mit den Maruts, und den Soma trinke, der du dich darauf verstehst, Held, Vritratödter.
Wir haben Brei bereitet für dich in Gesellschaft des Pusan, geröstete Körner für den Falbenlenker, der die Falben mitbringt. Iß den Kuchen mit dem Gefolge der Marut, trink als Kenner den Soma, du der Vritratöter, o Held!
Для тебя. сопровождаемого Пушаном, мы приготовили кашу,
Для хозяина буланых коней, обладателя буланых коней - жареные зерна.
Сопровождаемый толпой Марутов, ешь хлебец!
Пей сому как убийца Вритры, о знаток, как герой!
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णाम् । दि॒वेदि॑वे स॒दृशी॑रिन्द्र॒ तुभ्यं॒ वर्ध॑न्तु त्वा सोम॒पेया॑य धृष्णो ॥
प्रति॑ । धा॒नाः । भ॒र॒त॒ । तूय॑म् । अ॒स्मै॒ । पु॒रो॒ळाश॑म् । वी॒रऽत॑माय । नृ॒णाम् । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । इ॒न्द्र॒ । तुभ्य॑म् । वर्ध॑न्तु । त्वा॒ । सो॒म॒ऽपेया॑य । धृ॒ष्णो॒ इति॑ ॥
यजमानोऽध्वर्य्वादीन् प्रति ब्रूते । हे अध्वर्य्वादयः अस्मै इन्द्राय धानाः तूयं क्षिप्रं प्रति भरत संपादयत । नृणां वीरतमाय अस्मै इन्द्राय पुरोडाशं च संपादयत । अथ प्रत्यक्षकृतः। हे धृष्णो शत्रूणामभिभवनशील हे इन्द्र सदृशीः एकविधाः स्तुतयः तुभ्यं त्वदर्थं दिवेदिवे प्रतिदिवसम् अस्माभिः क्रियन्ते । ताः स्तुतयः सोमपेयाय सोमपानार्थं त्वा त्वां वर्धन्तु उत्साहेन प्रवृद्धं कुर्वन्तु ॥ सदृशीः ।' समानान्ययोश्च' इति कञ्प्रत्ययः । ‘टिड्ढाणञ्' इत्यादिना ङीप् ।' दृग्दृशवतुषु ' इति समानस्य सभावः ॥ ॥ १८ ॥
“Offer to him quickly (priests) the fried barley; offer to the most heroic of leaders the cakes and butter; may the like offerings, victorious Indra, presented to you daily, augment your vigour for the drinking of the Soma.”
Bring forth the roasted corn to meet him quickly, cake for the bravest Hero mid the heroes.
Indra, may hymns accordant with thee daily strengthen thee, Bold One, for the draught of Soma.
Bring the roasted grains swiftly toward him, the offering cake for the most virile of men.
Every day there are (roasted grains) with the same appearance for you, Indra. Let them strengthen you for soma-drinking, daring one.
Die Getreidekörner bringt ihm schnell entgegen, den Kuchen ihm, dem tapfersten der Männer. Die gleichen Opfer werden dir Tag für Tag ; sie mögen dich, Kühner, zum Somatrunke stärken.
Bietet ihm rasch die gerösteten Körner an, den Reiskuchen dem heldenhaftesten der Männer! Tag für Tag sind die gleichen für dich, Indra, bestimmt; sie sollen dich für den Somatrunk stärken, du Mutiger.
Быстро поднесите ему жареные зерна,
Лепешку – самому героическому из мужей!
Каждый день для тебя те же самые (жареные зерна), о Индра.
Пусть укрепят они тебя для питья сомы, о отважный!