इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीरा॑: । वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ॥
इन्द्रा॑पर्वता । बृ॒ह॒ता । रथे॑न । वा॒मीः । इषः॑ । आ । व॒ह॒त॒म् । सु॒ऽवीराः॑ । वी॒तम् । ह॒व्यानि॑ । अ॒ध्व॒रेषु॑ । दे॒वा॒ । वर्धे॑थाम् । गीः॒ऽभिः । इळि॑या । मद॑न्ता ॥
इन्द्रापर्वता इन्द्रश्च पर्वतश्च । हे इन्द्रापर्वतौ बृहता रथेन आगत्य वामीः वननीयाः सुवीराः शोभनपुत्रोपेताः इषः अन्नानि आ वहतम् अस्मदर्थं धारयतम् । प्रयच्छतमित्यर्थः । किंच हे देवौ द्योतमानौ अध्वरेषु अस्मत्संबन्धिषु यज्ञेषु हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि वीतं भक्षयतम् । तथा इळया अस्माभिर्दत्तेन हविषा मदन्ता हृष्यन्तौ युवां गीर्भिः स्तुतिलक्षणाभिः अस्मदीयाभिर्वाग्भिः वर्धेथां समृद्धौ भवतम् ॥ इन्द्रापर्वता । आमन्त्रितस्य पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । सुवीराः । बहुव्रीहौ ‘वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । वीतम् । वी कान्त्यादिषु इत्यस्य लोटि अदादित्वाच्छपो लुक् । प्रत्ययस्वरः । वर्धेथाम् । ‘वृधु वृद्धौ ' इत्यस्य लोटि आथामो लसार्वधातुकस्वरे धातुस्वरः ॥
“Indra and Parvata, bring hither, in a spacious car, delightful viands (genitive rative of) good progeny; partake, deities, of the oblations (offered)at (our) sacrifices, and gratified by the (sacrificial) food, be elevated by our praises.”
ON a high car, O Parvata and Indra, bring pleasant viands, with brave heroes, hither.
Enjoy the gifts, Gods, at our sacrifices wax strong by hymns, rejoice in our oblation.
O Indra and “Mountain” [=Indra’s mace?], with a lofty chariot convey hither precious nourishments, providing good heroes.
Pursue the oblations at our ceremonies, o gods. Become strengthened by our hymns, becoming exhilarated on the refreshing drink.
Indra und Parvata, auf grossem Wagen fahrt schöne mit tapfern Männern versehene Labungen herbei; verzehrt die Tränke bei den Opfern, o Götter, werdet beide erquickt durch Lieder, durch Trank euch berauschend.
Indra und Parvata! Bringet auf eurem hohen Wagen das liebe Labsal guter Söhne mit! Habt beide Gelüst nach den Spenden bei den Opfern, ihr Götter; erbauet euch an den Lobreden, an der Ilaspende euch gütlich tuend!
О Индра и Парвата, на высокой колеснице
Привезите ценные жертвенные подкрепления, состоящие из прекрасных сыновей!
Вкушайте жертвы во время обрядов, о двое богов!
Подкрепляйтесь хвалебными песнями, опьяняясь возлиянием!
तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गा॒: सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि । पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥
तिष्ठ॑ । सु । क॒म् । म॒घ॒ऽव॒न् । मा । परा॑ । गाः॒ । सोम॑स्य । नु । त्वा॒ । सुऽसु॑तस्य । य॒क्षि॒ । पि॒तुः । न । पु॒त्रः । सिच॑म् । आ । र॒भे॒ । ते॒ । इन्द्र॑ । स्वादि॑ष्ठया । गि॒रा । श॒ची॒ऽवः॒ ॥
हे मघवन् धनवन्निन्द्र कं सुखेनास्मिन् यज्ञे सु तिष्ठ सुष्ठु कंचित्कालमत्र तिष्ठ । मा परा गाः अस्मदीयाद्यज्ञान्मा गच्छ । तत्र कारणमाह । सुषुतस्य सुष्ठ्वभिषुतेन सोमस्य सोमेन नु क्षिप्रं त्वा त्वां यक्षि यजे । हे शचीवः शक्तिमन् इन्द्र ते तव सिचं वस्त्रप्रान्तं स्वादिष्ठया स्वादुतरया स्तुतिलक्षणया गिरा आ रभे आलभे । गृह्णामीत्यर्थः । तत्र दृष्टान्तः । पितुर्न । यथा पुत्रः मधुरया वाचा पितुर्जनकस्य चेलाञ्चलं गृह्णाति तद्वत् ॥ सु कमिति निपातद्वयम् । प्रथमस्य ‘ निपाता आद्युदात्ताः' इत्याद्युदात्तत्वम्। द्वितीयस्य ' चादयोऽनुदात्ताः' इत्यनुदात्तत्वम् ।' सोमस्य यक्षि । ‘ यज देवपूजासंगतिकरणदानेषु'। ‘ स्वरितञितः०' इत्यात्मनेपदम् । तस्य लुङि सिचि “ एकाचः०' इतीट्प्रतिषेधः । व्रश्चादिना षत्वम् । षढोः कः सि' इति कत्वम् । सिचः सकारस्य षत्वम् । निघातः । रभे । ‘डुलभष् प्राप्तौ'। लट्युत्तम इटि रूपम् । रलयोरभेदः । निघातः । स्वादिष्ठया । स्वादुशब्दादिष्ठनि रूपम् । नित्त्वादाद्युदात्तः ॥
“Tarry a while contentedly, Maghavan (at our rite); go not away; for I offer to you (the libation) of the copiously-effused Soma; powerful Indra, I lay hold of the skirts (of your robe) with sweet-flavoured commendations, as a son (clings to the garment) of a father.”
Stay still, O Maghavan, advance no farther. a draught of well-pressed Soma will I give thee.
With sweetest song I grasp, O Mighty Indra, thy garment's hem as a child grasps his father's.
Stay just so, bounteous one; don’t go away. I will sacrifice to you from the well-pressed soma.
I grasp your hem like a son his father’s—Indra, powerful one—with the sweetest hymn.
O bleibe stehn, nicht gehe fort, du mächt'ger, nun bring ich dir vom schöngepressten Soma; Ich fass' dein Kleid, so wie der Sohn des Vaters, o starker Indra, mit dem liebsten Liede.
Bleib fein da, du Gabenreicher, geh nicht fort! Ich will dir jetzt gutgepreßten Soma opfern. Den Saum deines Gewandes fasse ich wie der Sohn den seines Vaters, mit süßester Rede, du machtvoller Indra.
Стой же там, о щедрый! Не уходи прочь!
Я хочу сейчас почтить тебя прекрасно выжатым сомой.
Словно сын отца, я держу тебя за край (одежды),
О Индра, с помощью сладчайшей хвалебной песни, о могучий.
शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाह॑: कृणवाव॒ जुष्ट॑म् । एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ॥
शंसा॑व । अ॒ध्व॒र्यो॒ इति॑ । प्रति॑ । मे॒ । गृ॒णी॒हि॒ । इन्द्रा॑य । वाहः॑ । कृ॒ण॒वा॒व॒ । जुष्ट॑म् । आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । अथ॑ । च॒ । भू॒त् । उ॒क्थम् । इन्द्रा॑य । श॒स्तम् ॥
शंसिष्यन् होताध्वर्युं ब्रूते । हे अध्वर्यो आवां शंसाव । होतस्त्वमेव शंससि । कथमहं शंसानि । अत आह । प्रति मे गृणीहि इति । त्वं मे प्रतिगृणीहि ।' ओथामोदैव' इत्यादिकः होतुरुत्साहजननः प्रतिगरः ( आश्व. श्रौ. ७. ११ )। तं दत्स्व' । तथा इन्द्राय जुष्टं प्रीतियुक्तं वाहः स्तोत्रं कृणवाव करवाव। त्वं यजमानस्य इदं बर्हिः अस्मिन् बर्हिषि आ सीद उपविश । अथ च अनन्तरम् इन्द्राय इन्द्रार्थमावाभ्यां क्रियमाणम् उक्थं शस्त्रं शस्तं प्रशस्तं भूत् भवतु ॥ शंसाव । 'शंसु स्तुतौ ' इत्यस्य लोट्युत्तमद्विवचने रूपम् । ‘ आडुत्तमस्य° ' इत्याडागमः । उत्तमस्य पिद्वद्भावादनुदात्तत्वे धातुस्वरः । मे। ‘ अनुप्रतिगृणश्च ' ( पा: सू: १. ४. ४१ ) इति संप्रदानसंज्ञा । जुष्टम् । नित्यं मन्त्रे' इत्याद्युदात्तत्वम् ॥
“Adhvaryu, let us two offer praise; do you concur with me; let us address plural asing praise to Indra; sit down, Indra, on the sacred grass (prepared by) the instrumental tutor of the rite; and may our commendations be most acceptable to Indra.”
Adhvaryu, sing we both; sing thou in answer: make we a laud acceptable to Indra.
Upon this sacrificer's grass he seated: to Indra shall our eulogy be uttered.
Let us both recite, Adhvaryu: sing in response to me. Let us both make a vehicle enjoyable to Indra.
Sit right here on the ritual grass of the sacrificer. And then the hymn will be recited to Indra.
Lasst beid' uns singen, Priester, sing mir Antwort, dem Indra lasst uns liebes Lob bereiten; Hier setz dich nieder auf die Streu des Opfrers; dann sei dem Indra unser Spruch gesprochen.
Laß uns aufsagen, Adhvaryu! Antworte du mir! Wir wollen dem Indra das beliebte Gefährt machen. Setz dich auf das Barhis des opfernden und dann werde dem Indra das Lobgedicht vorgetragen.
Будем исполнять вдвоем, о адхварью! Отвечай мне!
Сделаем для Индры повозку, (которая ему) понравится!
Сядь сюда на солому жертвователя –
И пусть будет исполнен гимн для Индры!
जा॒येदस्तं॑ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहन्तु । य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥
जा॒या । इत् । अस्त॑म् । म॒घ॒ऽव॒न् । सा । इत् । ऊँ॒ इति॑ । योनिः॑ । तत् । इत् । त्वा॒ । यु॒क्ताः । हर॑यः । व॒ह॒न्तु॒ । य॒दा । क॒दा । च॒ । सु॒नवा॑म । सोम॑म् । अ॒ग्न् । त्वा॒ । दू॒तः । ध॒न्वा॒ति॒ । अच्छ॑ ॥
हे मघवन् धनवन्निन्द्र अस्तम् । अस्यन्ते क्षिप्यन्ते पदार्था अत्रेत्यस्तं गृहम् । जायेत् जायैव गृहं भवति । न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते' इति स्मृतेः । तथा सेत् सा जायैव योनिः पुरुषस्य मिश्रणस्थानम्। उ प्रसिद्ध्यर्थः। तस्मात् तदित् तत्र गृहे एव युक्ताः रथे योजिताः हरयः अश्वाः त्वा त्वां वहन्तु । वयं तु यदा कदा च त्वदर्थं सोमं सुनवाम अभिषुतं करवाम तदास्माभिः प्रहितः दूतः अग्निः त्वा त्वाम् अच्छ आभिमुख्येन धन्वाति गच्छेत् ॥ अस्तम् । असु क्षेपणे'।' असिहसिमृग्रिण्वामि°' इत्यादिना तन्प्रत्ययः । नित्वात् आद्युदात्तः । सुनवाम । षुञ् अभिषवे' इत्यस्य लोटि रूपम् । यद्वृत्तयोगादनिघातः । त्वा । ‘युष्मत्तत्ततक्षुष्वन्तःपादम्' इति संहितायां षत्वम् । धन्वाति । धवि गत्यर्थः । लेट्याडागमे रूपम् । निघातः ॥
“A man's wife, Maghavan, is hiw dwelling; verily she is his plural ce of birth; thither let your horses, harnessed (to your car), convey you; we prepare the Soma at the fit season; may Agni come as our messenger befor eyou.”
A wife, O Maghavan is home and dwelling: so let thy Bay Steeds yoked convey thee hither.
Whenever we press out for thee the Soma, let Agni as our Herald speed to call thee.
Just the wife is the home; she is the womb. Let your yoked fallow bays convey you to it.
Whenever we will press soma, Agni the messenger will run to you.
Die Frau ist Heimat, sie der Schooss, o Indra; drum mögen dich geschirrt die Füchse fahren; Zu welcher Zeit wir beid' auch Soma pressen, so läuft als Bote immer zu dir Agni.
Die Frau ist das Heim, o Gabenreicher, sie ist der Schoß; dahin sollen dich die angeschirrten Falben fahren. So oft wir Soma pressen werden, soll Agni als Bote zu dir eilen.
Ведь жена – это дом, о щедрый, и она лоно.
Туда пусть и привезут тебя запряженные буланые кони!
Когда бы мы ни выжимали сому,
Пусть Агни помчится к тебе вестником!
परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥
परा॑ । या॒हि॒ । म॒घ॒ऽव॒न् । आ । च॒ । या॒हि॒ । इन्द्र॑ । भ्रा॒तः॒ । उ॒भ॒यत्र॑ । ते॒ । अर्थ॑म् । यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । रास॑भस्य ॥
हे मघवन् धनवन् इन्द्र त्वं परा याहि अस्माद्देवयजनात् पराङ्मुखो गृहं प्रति गच्छ । अथवा देवयजनं प्रति आ याहि । हे भ्रातः पोषक उभयत्र अपि ते तव अर्थम् । अर्यते प्राप्यत इत्यर्थः प्रयोजनम् । अस्ति तत्र जाया अत्र सोमः । प्रयोजनान्तरमाह । यत्र गृहं प्रति गमने बृहतः महतः रथस्य उपरि निधानम् अवस्थानं प्रयोजनम् । अत्र स्थितौ रासभस्य हेषारवं कुर्वतः वाजिनः अश्वस्य रथात् विमोचनं प्रयोजनम् ॥ अर्थम् । ऋ गतौ ।' उषिकुषिगार्तिभ्यस्थन् । इति थन् । नित्स्वरः । निधानम् । दधातेर्भावे ल्युट् । ‘लिति' इति प्रत्ययात्पूर्व स्योदात्तत्वम् । रासभस्य । ‘रासृ शब्दे'। 'रासिवल्लिभ्यां च ' ( उ. सू. ३. ४०५) इति कर्तरि अभच्प्रत्ययः । ग्रामादित्वादाद्युदात्तः ॥ ॥ १९ ॥
“Depart, Maghavan; come Indra; both ways, protector, there is a motive for you whether it be standing in your vast chariot, or liberating your neighing steed.”
Depart, O Maghavan;again come hither: both there and here thy goat is Indra, Brother,
Where thy tall chariot hath a place to rest in, and where thqu loosest thy loud-neighing Courser.
Drive yon, bounteous one, and drive hither. Brother Indra, in both places there is a goal for you,
where there is a resting place for your lofty chariot and unhitching for your prizewinning donkey.
Geh dorthin, starker, und auch hierher komme, o Indra, Bruder, hier und dort ist Heil dir; Dort wo dir ist des grossen Wagens Schauer und deines schnellen Eselhengstes Einkehr.
Geh fort, du Gabenreicher, und komm wieder, Bruder Indra; an beiden Orten hast du ein Ziel, wo man den hohen Wagen einstellt und den siegreichen Esel ausspannt.
Уезжай, о щедрый, и приезжай (снова),
О Индра-брат! В обоих местах есть у тебя цель,
(Там,) где ставят высокую колесницу
(И) распрягают (скакуна,) приносящего награду, (и) осла.
अपा॒: सोम॒मस्त॑मिन्द्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥
अपाः॑ । सोम॑म् । अस्त॑म् । इ॒न्द्र॒ । प्र । या॒हि॒ । क॒ल्या॒णीः । जा॒या । सु॒ऽरण॑म् । गृ॒हे । ते॒ । यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । दक्षि॑णाऽवत् ॥
हे इन्द्र सोमम् अपाः । अत्रैव स्थित्वा सोमं पिब । पीत्वा अस्तं गृहं प्र यहि प्रकर्षेण गच्छ । ते तव गृहे कल्याणीः मङ्गलकारिणी जाया शची विद्यते । सुरणं शोभनगीतादिध्वनिश्चास्ति । यद्वा । सुरणं सुरमणीयं यथा भवति तथा गृहे जाया तिष्ठति । यत्र इत्यादि गतम् । दक्षिणावत् । अत्र स्थितौ सत्यां रथे योजितानां वाजिनां विमोचनं खादनपानादिना दक्षिणावत् प्रयोजनवद्भवति । विमुक्तेभ्यो वाजिभ्यः खादनं पानं चोपहरन्ति । अपाः।' पा पाने'। लुङि' गातिस्था इति. सिचो लुक् । अडागमस्वरः । कल्याणीः । कल्याणमस्यास्तीति मत्वर्थे ' छन्दसीवनिपौ' इति ईप्रत्ययः । प्रत्ययस्वरः । सुरणम् । रण शब्दार्थः । अस्मादकृच्छ्रार्थे खल् । लित्स्वरः। प्रत्ययस्य पित्वादनुदात्तत्वे धातुस्वरः । समासे कृदुत्तरपदस्वरः ॥
“When you have drunk the Soma, then, Indra, go home; an auspicious life (abides) plural asantly in your dwelling; in either (case) there is the standing in your car or liberating the steeds for provender.”
Thou hast drunk Soma, Indra, turn thee homeward; thy joy is in thy home, thy racious Consort;
Where thy tall chariot hath a place to rest in, and thy strong Courser is set free with guerdon.
You have drunk the soma; drive forth home, Indra: your lovely wife, a great delight, is in your house,
where there is a resting place for your lofty chariot and unhitching
accompanied by (priestly) gifts for your prizewinner.
Du trankst den Soma, komm nun heim, o Indra, die schöne Gattin ist dir Lust im Hause, Dort wo dir ist des grossen Wagens Schauer und deines Hengstes gabenreiche Einkehr.
Du hast jetzt Soma getrunken, fahr heim Indra! Ein schönes Weib und Lust ist dir zu Hause, wo der hohe Wagen eingestellt wird und das Ausspannen des Preisrenners lohnend ist.
Ты напился сомы, домой отправляйся, о Индра!
Красивая жена (и) развлечение в доме твоем,
(Там,) где ставят высокую колесницу
И распрягают (скакуна), приносящего награду, что сулит вознаграждение.
इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयु॑: ॥
इ॒मे । भो॒जाः । अङ्गि॑रसः । विऽरू॑पाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । वि॒श्वामि॑त्राय । दद॑तः । म॒घानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥
हे इन्द्र इमे यागं कुर्वाणाः भोजाः सौदासाः क्षत्रियास्तेषां याजकाः '“विरूपाः नानारूपाः मेधातिथिप्रभृतयः अङ्गिरसः च दिवः असुरस्य देवेभ्योऽपि बलवतो रुद्रस्य पुत्रासः पुत्राः वीराः बलवन्तो मरुतः ते सर्वे विश्वामित्राय मह्यं सहस्रसावे । सहस्रं सूयतेऽत्रेति सहस्रसावोऽश्वमेधः । तस्मिन्नश्वमेधे मघानि मंहनीयानि धनानि ददतः प्रयच्छन्तः सन्तः आयुः जीवनमन्नं वा प्र तिरन्ते प्रकर्षेण वर्धयन्ति ॥ दिवस्पुत्रास इति संहितायां ' षष्ठ्याः पतिपुत्र° ' इति विसर्जनीयस्य सत्वम् । ददतः । ‘ डुदाञ् दाने ' इत्यस्य शतरि रूपम् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । तिरन्ते । तरतेर्व्यत्ययेन शः ॥
“These (sacrificers) are the Bhojas, of whom the diversified Aṅgirasas (are the priests); and the heroic sons of the expeller (of the foes of the gods) from heaven, bestowing riches upon Viśvāmitra at the sacrifice of a thousand (victims), prolong (his) life.”
Bounteous are these, Angirases, Virupas: the Asura's Heroes and the Sons of Heaven.
They, giving store of wealth to Visvamitra, prolong his life through countless Soma-pressings.
These benefactors, the Aṅgirases in different form, sons of heaven, heroes of the Lord,
giving bounties to Viśvāmitra at the Pressing of a Thousand, lengthen their own lifetime.
Die freigiebigen Angirasen und Virupa's, die Söhne des Himmels, des Asura Mannen [die Götter überhaupt, oder die Aditja's] dem Viçvamitra Schätze schenkend, mögen bei tausendfacher Somapressung sein Leben verlängern.
Diese Gastfreien sind die Angiras´ in anderer Gestalt, die Söhne des Himmels, des Asura Mannen. Weil sie dem Visvamitra reiche Gaben schenken bei dem Tausendopfer, bekommen sie ein langes Leben.
Эти щедрые Ангирасы в измененном облике,
Сыновья неба, мужи Асуры,
Давая Вишвамитре подарки,
На тысячекратном выжимании сомы продлили себе срок жизни.
रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वाम् । त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥
रू॒पम्ऽरू॑पम् । म॒घऽवा॑ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व॑म् । परि॑ । स्वाम् । त्रिः । यत् । दि॒वः । परि॑ । मु॒हू॒र्तम् । आ । अगा॑त् । स्वैः । मन्त्रैः॑ । अनृ॑तुऽपाः । ऋ॒तऽवा॑ ॥
मघवा धनवानिन्द्रः रूपंरूपं यद्यद्रूपं कामयते तत्तद्रूपं बोभवीति भृशं प्राप्नोति । तत्तद्रूपात्मको भवति । तत्र कारणमुच्यते । मायाः अनेकरूपग्रहणसामर्थ्योपेताः कृण्वानः कुर्वाणः स्वां तन्वं स्वकीयां तनूम् । परि पञ्चम्यर्थे । स्वस्माच्छरीरान्नानाविधानि शरीराणि निर्मिमीते। यद्वा स्वां तनूं नानाविधरूपोपेतां करोति । तथा च मन्त्रवर्णः - इन्द्रो मायाभिः पुरुरूपः' (ऋ. सं. ६.४७.१८ ) इति । यत् यस्मात् स्वैर्मन्त्रैः स्वकीयैः स्तुतिलक्षणैर्वाक्यैराहूतः अनृतुपाः । न केवलमृतुष्वेव पिबति किंतु अनृतुष्वपि । बहुशः सोमं पिबन्नित्यर्थः । ऋतावा सत्यवान् तादृश इन्द्रः दिवः स्वर्गलोकात् परि मुहूर्तम् एकस्मिन्नेव मुहूर्ते नानादेशवर्तिषु यज्ञेषु तत्रापि त्रिः त्रिषु सवनेषु आगात् आगच्छति ॥ बोभवीति । भवतेर्यङ्लुकि तिपि ' यङो वा ' इतीडागमः । निघातः । अगात् । इणो लुङि रूपम् । यद्वृत्तयोगादनिघातः ॥
“Maghavan becomes repeatedly (manifest) in various forms, practising delusions with respect to his own peculiar person n; and invoked by his appropriate prayers, he comes in a moment from heaven to the three (daily rites), and, although observant of seasons, is the drinker (of the Soma) irrespective of season.”
Maghavan weareth every shape at pleasure, effecting magic changes in his body,
Holy One, drinker out of season, coming thrice, in a moment, through fit prayers, from heaven.
Form after form the bounteous one assumes, wrapping his own body in tricks,
when three times a day he has come here from heaven in an instant,
drinking out of turn by (the power of) his own (magic) spells, (though) he possesses the truth.
Andre und andre Gestalt nimmt der Mächtige [Indra] an, Zauberbilder schaffend um seinen Leib, wenn dreimal des Tages er herbeikommt in einem Augenblick, nach eignem Ermessen ausser der Zeit trinkend, der heilige.
In jegliche Gestalt verändert sich der Gabenreiche, am eignen Leib Verwandlungen annehmend, wann er dreimal des Tages auf einen Augenblick gekommen ist oder nach eigenem Ratschluß außer den Zeiten trinkt, der die rechte Ordnung einhält.
Щедрый приобретает один облик за другим,
Создавая вокруг своего тела силы чудесных превращений,
Когда трижды в день он появляется в один миг,
Пьющий вне положенного времени со своими мантрами, (бог,) соблюдающий закон.
म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षा॑: । वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्र॑: ॥
म॒हान् । ऋषिः॑ । दे॒व॒ऽजाः । दे॒वऽजू॑तः । अस्त॑भ्नात् । सिन्धु॑म् । अ॒र्ण॒वम् । नृ॒ऽचक्षाः॑ । वि॒श्वामि॑त्रः । यत् । अव॑हत् । सु॒ऽदास॑म् । अप्रि॑यायत । कु॒शि॒केभिः॑ । इन्द्रः॑ ॥
महान् तपसा अतिशयितसामर्थ्यवान् ऋषिः अतीन्द्रियार्थद्रष्टा देवजाः द्योतमानानां तेजसां जनयिता देवजूतः तैस्तेजोभिराकृष्टः नृचक्षाः नृणां कर्म नेतॄणामध्वर्वांयदीनामुपद्रष्टा सः विश्वामित्रः अर्णवम् उदकवन्तं सिन्धुं विपाट्छुतुद्र्योः संभेदम् अस्तभ्नात् निरुद्धवेगमकरोत् । किंच स विश्वामित्रः सुदासं पैजवनं राजानं यत् यदा अवहत् अयाजयत् तदानीम् इन्द्रः कुशिकेभिः कुशिकगोत्रोत्पनैर्ऋषिभिः सह अप्रियायत प्रिय इवाचरत् ॥ अवहत् ।' वह प्रापणे ' इत्यस्य लङि रूपम् । यद्योगादनिघातः । अप्रियायत । प्रिय इवाचरतीत्यर्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ् । तदन्ताल्लङि रूपम् । पादादित्वादनिघातः ॥
“The great ṛṣi the genitive rator of the gods, the attracted by the deities, the overlooker of the leaders (at holy rites), Viśvāmitra attested the watery stream when he sacrificed for Sudās; Indra, with the Kuśikas was plural ased.”
The mighty sage, God-born and God-incited, who looks on men, restrained the billowy river.
When Visvamitra was Sudas's escort, then Indra through the Kusikas grew friendly.
The great seer—god-begotten, god-sped, (though) possessing a man’s sight—stayed the river in flood.
When Viśvāmitra conveyed Sudās (across the rivers), Indra made
friends with the Kuśikas.
Der grosse Sänger der gottgeborene, gotterregte, die Männer beschauend, hielt den wogenden Strom auf; als Viçvamitra den Sudas überfuhr, da befreundete Indra sich mit den Kuçikern.
Der große gottgeborene, gotterregte Rishi staute den flutenden Strom, er mit dem Herrscherauge. Als Visvamitra den Sudas fuhr, da hatte Indra an den Kusika´s seine Freude.
Великий риши, рожденный от богов, вдохновленный богами,
Сделал твердой волнующуюся реку, (он) со взглядом героя.
Когда Вишвамитра вез Судаса,
Индра подружился с потомками Кушики.
हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ । दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥
हं॒साःऽइ॑व । कृ॒णु॒थ॒ । श्लोक॑म् । अद्रि॑ऽभिः । मद॑न्तः । गीः॒ऽभिः । अ॒ध्व॒रे । सु॒ते । सचा॑ । दे॒वेभिः॑ । वि॒प्राः॒ । ऋ॒ष॒यः॒ । नृ॒ऽच॒क्ष॒सः॒ । वि । पि॒ब॒ध्व॒म् । कु॒शि॒काः॒ । सो॒म्यम् । मधु॑ ॥
हे विप्राः मेधाविनो हे ऋषयः अतीन्द्रियार्थस्य द्रष्टारो हे नृचक्षसः नृणां कर्मनेतॄणां विशेषेण द्रष्टारो हे कुशिकाः कुशिकगोत्रोत्पन्ना हे पुत्राः अध्वरे यज्ञे अद्रिभिः ग्रावभिः सोमे सुते अभिषुते सति गीर्भिः मदन्तः स्तुतिभिर्देवान् मादयन्तो यूयं श्लोकम् । श्लोक्यते शस्यतेऽनेनेति श्लोकः शस्त्रम् । कृणुथ सम्यगुच्चारयत । तत्र दृष्टान्तः । हंसाइव । यथा हंसाः सम्यक् शब्दं कुर्वन्ति तद्वत् । किंच देवेभिः सचा यष्टव्यदेवैः सहिता यूयं सोम्यं सोममयं मधु मधुकरं रसं वि पिबध्वं परस्परव्यतिहारेण पिबत ॥ श्लोकम् ।' श्लोकृ शब्दे ' । करणे घञ् । ञित्वादाद्युदात्तः । मदन्तः । मदी हर्षे' इत्यस्यान्तर्भावितण्यर्थस्य व्यत्ययेन शप् । पिबध्वम् । ‘ पा पाने '।' कर्तरि कर्मव्यतिहारे ' इत्यात्मनेपदम् । सोम्यम् । सोमशब्दात् ' मये च ' इति यप्रत्ययः ॥ ॥ २० ॥
“Sages and saints overlookers of the leaders (of sacred rites), Kuśikas, when the Soma is expresssed with stones at the sacrifice, then exhilarating (the gods) with praises, sing the holy strain (aloud) like (screaming) swans, and, together with the gods, drink the sweet juice of the Soma.”
Like swans, prepare a song of praise with pressing-stones, glad in your hymns with juice poured forth in sacrifice.
Ye singers, with the Gods, sages who look on men, ye Kutikas drink up the Soma's savoury meath.
Like geese, you make a signaling call with the pressing stones,
becoming exhilarated on hymns at the ceremony when (the soma) is pressed. You inspired seers who have the sight of men, along with the gods
drink the somian honey, you Kuśikas.
Wie Gänse macht ihr Lärm mit den Somasteinen mit Liedern sprudelnd an dem Opferfeste bei dem Saft; mit den Göttern, o begeisterte Männer, leitende Sänger, trinkt ihr, o Kuçiker, den süssen Soma.
Wie die Gänse so machet ihr mit den Preßsteinen taktmäßiges Geräusch, in Lobreden schwelgend bei dem ausgepreßten Somaopfer. Mit den Göttern zusammen trinket, ihr beredten Rishi´s mit dem Herrscherauge, ihr Kusika´s den somischen Süßtrank aus!
Вы стучите давильными камнями, (шумя), как гуси,
Опьяняясь хвалебными песнями на обряде при выжатом (соме).
О вдохновенные риши со взглядом героя, вместе с богами
Напивайтесь сладости сомы, о потомки Кушики.
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दास॑: । राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥
उप॑ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय॑ध्वम् । अश्व॑म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒ऽदासः॑ । राजा॑ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा॑क् । उद॑क् । अथ॑ । य॒जा॒ते॒ । वरे॑ । आ । पृ॒थि॒व्याः ॥
हे कुशिकाः कुशिकगोत्रोत्पन्ना हे पुत्राः उप प्रेत अश्वस्य समीपे प्रकर्षेण गच्छत । तत्र गत्वा केतयध्वं सावधाना भवत । यद्वा । अश्वरक्षिणः सावधानान् कुरुत । सुदासः पैजवनस्य राज्ञः अश्वं राये तस्य दिग्विजयेन धनलाभाय प्र मुञ्चत । राजा देवानां स्वामीन्द्रः वृत्रं कर्मविघ्नकारिणमसुरं प्रागपागुदक् पूर्वपश्चिमोत्तरेषु देशेषु जङ्घनत् भृशं हतवान् । तस्मादश्वं विमुञ्चतेति भावः। अथ अनन्तरं पृथिव्याः वरे उत्तमे देवयजनदेशे यजाते स राजा यजेत ॥ चेतयध्वम् । चिती संज्ञाने' इत्यस्य ण्यन्तस्य लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन तिङ उत्तरत्वान्न निघातः ।जङ्घनत् ।' हन हिंसागत्योः ' इत्यस्य यङ्लुकि “ नुगतोऽनुनासिकान्तस्य ' इत्यभ्यासस्य नुगागमः । तदन्ताल्लेट्यडागमः। प्राक् । अञ्चतेः क्विनि रूपम् ।“ अनिगन्तोऽञ्चतौ वप्रत्यये ' इति गतेः स्वरः। यजाते । यजतेर्लेट्याडागमः । निघातः । वरे । ' वृञ् वरणे ' इत्यस्मात् ' ग्रहवृदृनिश्चिगमश्च ' इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥
“Approach, Kuśikas, the steed of Sudās; animate (him), and let him loose to (win) riches (for the raja); for the king (of the gods) has slain Vṛtra in the East, in the West, in the North, therefore let (Sudās) worship him in the best (regions) of the earth.”
Come forward, Kusikas, and be attentive; let loose Sudas's horse to win him riches.
East, west, and north, let the King slay the foeman, then at earth's choicest place perform his worship.
Come forth, Kuśikas; make yourselves known. Release the horse of Sudās, to (gain) wealth.
The king will smash the obstacle to the east, to the west, to the north. Then he will sacrifice on the best part of the earth.
Schreitet vor, o Kuçiker, merket auf, lasset dem Rosse des Sudas die Zügel schiessen um Reichthum zu gewinnen; der König schlage den Feind im Ost, West und Nord, dann opfere er im weiten Raum der Erde.
Gehet ihm zur Seite, ihr Kusika´s, gebet acht, lasset das Roß des Sudas frei, um Reichtum zu gewinnen! Der König möge den Feind im Ost, im West, im Nord schlagen; dann soll er am besten Platz der Erde opfern.
Подойдите, о потомки Кушики, обратите внимание,
Отпустите коня Судаса, (чтобы он завоевал) богатство!
Пусть царь убьет Вритру на востоке, на западе, на севере,
А затем пусть принесет жертву на лучшем (месте) земли!
य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् । वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म् ॥
यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒हम् । इन्द्र॑म् । अतु॑स्तवम् । वि॒श्वामि॑त्रस्य । र॒क्ष॒ति॒ । ब्रह्म॑ । इ॒दम् । भार॑तम् । जन॑म् ॥
हे कुशिकाः कुशिकपुत्राः यः अहं विश्वामित्रः उभे इमे रोदसी द्यावापृथिव्यौ इन्द्रमतुष्टवं स्तावयामि । द्यावापृथिवीभ्यामिन्द्रस्य स्तोत्रं मया कारितमित्यर्थः । यद्वा । उभयो रोदस्योः अन्तरवस्थितम् इन्द्रं स्तौमि । स्तोत्रं कुर्वाणस्य विश्वामित्रस्य मम इदम् इन्द्रविषयं ब्रह्म स्तोत्रं भारतं भरतकुलं जनं रक्षति पालयति ॥ अतुष्टवम् । ‘ष्टुञ् स्तुतौ '। ण्यन्तस्य लुङि चङि रूपम् । यद्वृत्तयोगादनिघातः । भारतम् । भरतशब्द उत्सादिः । ञित्त्वादाद्युदात्तः ॥
“I have made Indra glorified by these two, heaven and earth, and this prayer of Viśvāmitra protects the race of Bharata.”
Praises to Indra have I sung, sustainer of this earth and heaven. This prayer of Visvamitra keeps secure the race of Bharatas.
I who have praised both these two world-halves here and Indra— Viśvāmitra’s sacred formulation here guards the Bharata people.
Der ich diese beiden Welten erregt habe, den Indra zu preisen, mein, des Viçvamitra, Gebet beschützt dies Geschlecht der Bharater.
Der ich diese beiden Welten, der ich den Indra gepriesen habe - des Visvamitra Kraftwort schützt dies Bharatavolk.
Я, кто эти обе половины вселенной,
(Кто) Индру прославил, –
Это заклинание Вишвамитры
Охраняет народ Бхаратов.
वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ । कर॒दिन्न॑: सु॒राध॑सः ॥
वि॒श्वामि॑त्राः । अ॒रा॒स॒त॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । कर॑त् । इत् । नः॒ । सु॒ऽराध॑सः ॥
विश्वामित्राः वज्रिणे वज्रहस्ताय इन्द्राय ब्रह्म स्तोत्रम् अरासत अकुर्वन् । स्तुतः स इन्द्रः नः अस्मान् सुराधसः शोभनधनोपेतान् करदित् करोत्वेव ॥ अरासत । ‘ रासृ शब्दे ' इत्यस्य लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । निघातः । करत् । करोतेर्लुङि च्लेः ' कृमृदृरुहिभ्यश्छन्दसि' इत्यङादेशः । सुराधसः । ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥
“The Viśvāmitras have addressed the prayer to Indra, the wielder of the thunderbolt; may he therefore render us very opulent.”
The Visvamitras have sung forth this prayer to Indra Thunder-aimed:
So let him make us prosperous.
The Viśvāmitras have given the formulation to Indra who bears the mace.
He will make us well rewarded.
᳓
Des Viçvamitra Nachkommen weihten Gebet dem Blitz tragenden Indra; er mache uns an Schätzen reich.
Die Visvamitra´s haben dem Keulenträger Indra ein Kraftwort geweiht. Er möge uns reichbeschenkt machen.
Потомки Вишвамитры подарили
Заклинание Индре – носителю ваджры.
Пусть и он нас сделает обладателями прекрасных даров!
किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् । आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥
किम् । ते॒ । कृ॒ण्व॒न्ति॒ । कीक॑टेषु । गावः॑ । न । आ॒ऽशिर॑न् । दु॒ह्रे । न । त॒प॒न्ति॒ । घ॒र्मम् । आ । नः॒ । भ॒र॒ । प्रऽम॑गन्दस्य । वेदः॑ । नै॒चा॒ऽशा॒खम् । म॒घ॒ऽव॒न् । र॒न्ध॒य॒ । नः॒ ॥
हे इन्द्र कीकटेषु अनार्यनिवासेषु जनपदेषु । यद्वा । क्रियाभिर्यागदानहोमलक्षणाभिः किं फलिष्यतीत्यश्रद्दधानाः प्रत्युत पिबत खादतायमेव लोको न पर इति वदन्तो नास्तिकाः कीकटाः तेषु । गावः ते तव किं कृण्वन्ति किं कुर्वन्ति । न क्वचित्तवोपयोगं कुर्वन्तीत्यर्थः । अनुपयोगं दर्शयति । आशिरं सोममिश्रणयोग्यं पयः न दुहे न दुहन्ति । किंच घर्मं प्रवर्ग्याख्यकर्मोपयुक्तं महावीरपात्रं स्वपयःप्रदानद्वारेण न तपन्ति न दीपयन्ति । एतेन सांनाय्याद्यर्थमपि नोपयुज्यन्ते इत्यपि सूचितं भवति । एवं क्वचिदपि वैदिके कर्मण्यनुपयुक्तास्ता गाः नः अस्मभ्यम् आ भर आहर । न केवलं ता एव । किं तर्हि प्रमगन्दस्य । द्वैगुण्यादिलक्षणपरिमाणं गतोऽर्थो मामेव गमिष्यतीति बुद्ध्या परेषां ददातीति मगन्दो वार्धुषिकः । तस्यापत्यं पुत्रादिः प्रमगन्दः । प्रस्कण्वादिवदपत्यार्थः प्रशब्देन द्योत्यते । तस्यात्यन्तकुसीदिकुलस्य वेदः धनमाहर। किंच हे मघवन् धनवन्निन्द्र नैचाशाखम् । नीचासु शूद्रयोनिषु उत्पादिता शाखा पुत्रपौत्रादिपरंपरा येन स नीचाशाखः । ‘ शूद्रापत्यैश्च केवलैः । ‘ शूद्रावेदी’ पतस्यधः' इति च पातकहेतुत्वेन स्मरणात् । पतितस्य संबन्धि धनं नैचाशाखम् । तद्धनं नः अस्मभ्यं रन्धय साधय । एतेषां तद्धनं तव नोपयुज्यते अस्मदायत्तं तु तद्धनं यागादिद्वारा तवोपयुज्यते । तस्मात्तदस्मभ्यं प्रयच्छेति भावः ॥ एतमर्थं यास्कोऽप्याह- किं ते कुर्वन्ति कीकटेषु गावः । कीकटा नाम देशोऽनार्य निवासः । कीकटाः किंकृताः किं क्रियाभिः इतिप्रेप्साः वा। नैव चाशिरं दुहे न तपन्ति घर्मं घरणम्। आ हर नः प्रमगन्दस्य धनानि । मगन्दः कुसीदी मांगदो मामागमिष्यतीति च ददाति । तदपत्यं प्रमगन्दः अत्यन्त कुसीदिकुलीनः। प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुः । पण्डको वा पण्डकः पण्डगः प्रार्दको वा प्रार्दयत्याण्डौ । आण्डावाणी इव व्रीडयति । तत्स्थं नैचाशाखम् । नीचाशाखो नीचैःशाखः । शाखाः शक्नोतेः । आणिररणात् । तन्नो मघवन् रन्धय इति रध्यतिर्वशगमने' (निरु. ६. ३२) इति ॥ आशिरम् । आङ्पूर्वात् श्रीणीतेः क्विपि 'अपस्पृधेथाम् ' इत्यादिना आशिर इत्यादेशः । दुहे। दुहेर्लिटि ‘ इरयो रे ' इति रेआदेशः । द्विर्वचनस्य विकल्पितत्वात् द्विर्वचनाभावः। ‘ चादिलोपे विभाषा ' इति न निघातः । नैचाशाखम् । तस्येदम्' इत्यण् । प्रत्ययस्वरः । रन्धय । रधेर्ण्यन्तस्य ‘रधिजभोरचि ' इति नुमागमः ॥
“What do the cattle for you among the Kīkaṭas; they yield no milk to mix with the Soma, they need not the vessel (for the libation); bring them to us; (bring also) the wealth of the son of the usurer, and give us Maghavan, (the possessions) of the low branches (of the community).”
Among the Kikatas what do thy cattle? They pour no milky draught, they heat no caldron.
Bring thou to us the wealth of Pramaganda;give up to us, O Maghavan, the low-born.
What do the cows do for you among the Kīkaṭas? They do not milk out the milk mixture; they do not heat the gharma[=hot]-drink.
Bring here to us the possessions of Pramaganda. Make the descendant of Nīcāśākha subject to us, bounteous one.
Was nützen dir die Kühe bei den Kīkatern, nicht lassen sie Mischtrank strömen, noch Brühe sieden; bringe uns her die Habe des geizigen Wucherers, das niedrige Gesindel, o mächtiger, überliefere uns.
Was nützen dir die Kühe bei den Kikata´s? Sie melken keine Mischmilch für den Soma, sie machen keinen Gharmatrank heiß. Bring uns die Habe des Pramaganda her, unterwirf uns den Naicasakha, du Gabenreicher!
Что дают тебе коровы у Кикатов?
Они не доятся молоком для разведения сомы, (Кикаты) не греют котелка с молоком.
Принеси нам имущество Прамаганды!
Найчашакху, о щедрый, отдай нам во власть!
स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता । आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ॥
स॒स॒र्प॒रीः । अम॑तिम् । बाध॑माना । बृ॒हत् । मि॒मा॒य॒ । ज॒मद॑ग्निऽदत्ता । आ । सूर्य॑स्य । दु॒हि॒ता । त॒ता॒न॒ । श्रवः॑ । दे॒वेषु॑ । अ॒मृत॑म् । अ॒जु॒र्यम् ॥
जमदग्निदत्ता जमदग्निभिः प्रज्वलिताग्निभिर्ऋषिभिरस्मभ्यं दत्ता अमतिम् अज्ञानं बाधमाना ससर्परीः सर्वत्र शब्दरूपतया सर्पणशीला वाक् बृहत् प्रभूतं यथा भवति तथा मिमाय नभसि शब्दं करोति । सैषा सूर्यस्य दुहिता वाग्देवता देवेषु इन्द्रादिषु अजुर्यं क्षयरहितम् अमृतम् अमृतलक्षणं श्रवः अन्नम् आ ततान समन्तात् स्वाहाकारवाचा' तनोति ॥ जमदग्निदत्ता । ‘दाण् दाने' इत्यस्य निष्ठायां ‘दो दद्धोः' इति ददादेशः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । अजुर्यम् । ‘जॄ वयोहानौ '। ऋहलोर्ण्यत्'। ‘ बहुलं छन्दसि' इत्युत्वम् ।' नञ्सुभ्याम् ' इत्यन्तोदात्तत्वम् ॥२१॥
“The daughter of Sūrya given by Jamadagni gliding everywhere and dissipating ignorance, has emitted a mighty (sound), and has diffused ambrosial imperishable food among the gods.”
Sasarpari, the gift of Jamadagnis, hath lowed with mighty voice dispelling famine.
The Daughter of the Sun hath spread our glory among the Gods, imperishable, deathless.
The squirming, sappy (cow called) Sasarparī, given by the Jamadagnis, banishing neglect, has bellowed loftily.
(She like) the Daughter of the Sun has stretched (their [=the
Jamadagnis’]) fame, immortal and unaging, to the gods.
᳓
Die reichlich strömende Kuh [siehe Anmerkungen], die den Mangel abwehrt, brüllte laut; die von Dschamadagni geschenkte, sie, die Tochter der Sonne, verbreitete bei den Göttern als preisenswerthes Gut, das unvergängliche Amrita.
Die Sasarpari, die die geistige Armut verbrannt, brüllte laut, die von Jamadagni geschenkte. Des Surya Tochter breitete bis zu den Göttern ihren unsterblichen, unverwelklichen Ruhm aus.
Сасарпари, прогоняющая безмыслие,
Громко замычала, (она,) данная Джамадагни.
Дочь солнца протянула славу
Среди богов, бессмертную, нестареющую.
स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रव॒: पाञ्च॑जन्यासु कृ॒ष्टिषु॑ । सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥
स॒स॒र्प॒रीः । अ॒भ॒र॒त् । तूय॑म् । ए॒भ्यः॒ । अधि॑ । श्रवः॑ । पाञ्च॑ऽजन्यासु । कृ॒ष्टिषु॑ । सा । प॒क्ष्या॑ । नव्य॑म् । आयुः॑ । दधा॑ना । याम् । मे॒ । प॒ल॒स्तिऽज॒म॒द॒ग्नयः॑ । द॒दुः ॥
ससर्परीः सर्वत्र गद्यपद्यात्मकत्वेन सर्पणशीला वाग्देवता पाञ्चजन्यासु कृष्टिषु । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तत्संबन्धिनीषु प्रजासु यत् श्रवः अन्नं विद्यते तन्नोऽस्मभ्यम् अधि अधिकं यथा भवति तथा तूयं क्षिप्रम् अभरत् भरतु संपादयतु । पलस्तिजमदग्नयः पलस्तयः पलिता दीर्घायुषो जमदग्नयो मुनयः यां वाचं सूर्यादाहृत्य मे मह्यं ददुः अददुः पक्ष्या पक्षस्य पक्षादिनिर्वाहकस्य सूर्यस्य दुहिता सा वाक् नव्यं नवतरम् आयुः अन्नं जीवनं वा दधाना मम कुर्वाणा भवतु ॥ पाञ्चजन्यासु ।' बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्' इति ञ्यप्रत्ययः । ञित्त्वादाद्युदात्तः । पक्ष्या । पक्षे भवा । दिगादित्वाद्यत् । तित्स्वरितः । नव्यम् । नवशब्दात् वस्वादित्वात् स्वार्थिको यत् । पलस्तिजमदग्नयः पलस्तयो जमदग्नयः । कर्मधारयसमासः । समासस्वरः ॥
“May she, gliding everywhere, quickly bring us food (suited) to the five races of men; may she, the daughter of the sun whom the grey-haired jamadagnis gave to me, (be) the bestower of new life.”
Sasarpari brought glory speedily to these, over the generations of the Fivefold Race;
Daughter of Paksa, she bestows new vital power, she whom the ancient Jamadagnis gave to me.
The squirming, sappy (cow called) Sasarparī swiftly brought fame to them among the communities of the five peoples,
having taken on new life (like Dawn, though) in her winglessness, she whom the Palastis and Jamadagnis gave me.
᳓
Die reichlich strömende Kuh führte ihnen preisliches Gut zu bei den Geschlechtern der fünf Menschenstämme, sie, die in jedem Halbmonat (?) neue Erquickung spendet, welche mir die Palasti's und Dschamadagni's schenkten.
Die Sasarpari brachte diesen gar bald Ruhm über die Stämme der fünf Völker, die auf meiner Seite stehend mir neues Leben verlieh, die mir die Palasti´s und Jamadagni´s gegeben haben.
Сасарпари быстро принесла им славу,
(Возвысившую их) над населением пяти народов,
Она, принявшая (мою) сторону, наделяющая новым сроком жизни,
(Та,) которую мне дали Паласти и Джамадагни.
स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि । इन्द्र॑: पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि न॑: सचस्व ॥
स्थि॒रौ । गावौ॑ । भ॒व॒ता॒म् । वी॒ळुः । अक्षः॑ । मा । ई॒षा । वि । व॒र्हि॒ । मा । यु॒गम् । वि । शा॒रि॒ । इन्द्रः॑ । पा॒त॒ल्ये॒ इति॑ । द॒द॒ता॒म् । शरी॑तोः । अरि॑ष्टऽनेमे । अ॒भि । नः॒ । स॒च॒स्व॒ ॥
राज्ञः सुदासो यज्ञेऽवभृथं कृत्वा यज्ञशालातो निर्गन्तुमिच्छन् रथे अश्वादिकं युञ्जानो विश्वामित्रो रथाङ्गानि स्तौति । गावौ । गच्छत इति गावावश्वौ । स्थिरौ भवताम् । अक्षः च वीळुः दृढो भवतु । ईषा दण्डश्च मा वि वर्हि विनष्टो मा भवतु । युगं च मा वि शारि विशीर्णं मा भवतु । इन्द्रः पातल्ये पतनशीले कीलके शरीतोः विशरणात् प्राक् ददतां धारयतु । हे अरिष्टनेमे अहिंसितप्रधिविशिष्ट हे रथ नः अस्मान् अभि आभिमुख्येन सचस्व संगतो भव ॥ वि वर्हि । ' वृहि वृद्धौ । विपूर्वो वृहिर्विनाशे वर्तते । अस्मात् कर्मकर्तरि लुङि ‘चिण् भावकर्मणोः' इति चिण् । चिणो लुक्' इति तप्रत्ययस्य लुक् । निघातः । युगम् । युगशब्दे उञ्छादिषु रथाद्युपकरणेऽर्थे घञन्तत्वेन निपातनादगुणत्वम् । तत्र पाठादन्तोदात्तत्वम् । शारि । ‘ शॄ हिंसायाम्' इत्यस्य लुङि रूपम् । अरिष्टनेमे । पादादित्वात् षाष्टिकमाद्युदात्तत्वम् ॥
“May the horse be steady, the axle be strong, the pole be not defective, the yoke not be rotten; may Indra preserve the two yoke-pins from decay; car with uninjured felloes, be ready for us.”
Strong be the pair of oxen, firm the axles, let not the pole slip nor the yoke be broken.
May Indra, keep the yoke-pins from decaying: attend us, thou whose fellies are uninjured.
Let the two oxen be steadfast, the axle firm; let the chariot-pole not be torn off, nor the yoke be broken off.
Let Indra keep the two pātalyas [=pieces of chariot?] from breaking. You with indestructible wheel-rims, escort us.
᳓
Stark seien die Riemen, fest die Wagenachse; nicht zersplittere die Deichsel, nicht zerbreche das Joch; Indra bewahre die beiden Radbüchsen vor Zertrümmerung, du, dessen Radkränze unversehrt sind, sei uns huldreich.
Die beiden Rinder sollen ausdauernd sein und fest die Achse. Nicht soll die Deichsel abreißen, nicht das Joch zerbrechen. Indra soll die beiden Wagenstützen vor Bruch bewahren. Du, dessen Radfelge nicht Schaden nimmt, steh uns zur Seite!
Да будут крепкими два быка, прочной ось!
Да не сорвется дышло, не разломается ярмо!
Пусть Индра сохранит от поломки два (деревянных) колышка (ярма)!
О ты, с невредимой втулкой, заботься о нас!
बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः । बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥
बल॑म् । धे॒हि॒ । त॒नूषु॑ । नः॒ । बल॑म् । इ॒न्द्र॒ । अ॒न॒ळुत्ऽसु॑ । नः॒ । बल॑म् । तो॒काय॑ । तन॑याय । जी॒वसे । त्वम् । हि । ब॒ल॒ऽदाः । असि॑ ॥
हे इन्द्र नः अस्माकं तनूषु शरीरेषु बलं धेहि । नः अस्मत्संबन्धिरथवाहेषु अनळुत्सु अनडुत्सु बलं धेहि । तोकाय पुत्राय तनयाय पौत्राय च जीवसे चिरं जीवनाय बलम् आयुर्विधेहि। एतादृशं दातृत्वं कुत इत्यत आह । त्वं बलदाः । बलं ददातीति बलदाः । असि हि सर्वेषु लोकेषु प्रसिद्धोऽसि खलु॥ अनळुत्सु। ‘वह प्रापणे'। अनसि वहेः क्विबनसो डश्च' इति क्विप्। अनसः सकारस्य डत्वम्। वहेर्यजादित्वात् संप्रसारणम् । वसुस्रंसुध्वंस्वनडुहां दः' इति हकारस्य दत्वम् । कृदुत्तरस्वरः। असि । हियोगादनिघातः । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥
“Give strength, Indra, to our bodies; give strength to our vehicles; (give) strength to our sons and grandsons; that they may live (long); for you are giver of strength.”
O Indra, give our bodies strength, strength to the bulls who draw the wains,
Strength to our seed and progeny that they may live, for thou art he who giveth strength.
Put power in our bodies, power in our draft-oxen, Indra—
power for our kith and kin to live, for you are the giver of power.
Gib, Indra, unsern Leibern Kraft, Kraft unsern Wagenstieren, Kraft zum Leben unsern Kindern und Enkeln, denn du bist es, welcher Kraft gibt.
Stärke verleih unseren Leibern, Stärke unseren Zugstieren, Indra, Stärke dem leiblichen Samen zum Leben, denn du bist der Stärkeverleiher!
Силу вложи в наши тела,
Силу, о Индра, – в наших тягловых быков,
Силу для детей и внуков – чтоб жили –
Ты ведь наделяешь силой!
अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पन्द॒ने शिं॒शपा॑याम् । अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥
अ॒भि । व्य॒य॒स्व॒ । ख॒दि॒रस्य॑ । सार॑म् । ओजः॑ । धे॒हि॒ । स्प॒न्द॒ने । शिं॒शपा॑याम् । अक्ष॑ । वी॒ळो॒ इति॑ । वी॒ळि॒त॒ । वी॒ळय॑स्व । मा । यामा॑त् । अ॒स्मात् । अव॑ । जी॒हि॒पः॒ । नः॒ ॥
हे इन्द्र खदिरस्य सारम् । सारेण हि आणिः क्रियते । तं खदिरस्य सारभूतमाणिम् अभि व्ययस्व अभितस्तत्तत्स्थानेषु दार्ढ्यार्थं निधेहि । स्पन्दने रथस्य गमने सति शिशपायां शिंशपाख्यदारुनिर्मिते रथस्य फलके ओजो धेहि दार्ढ्यं कुरु । हे वीळो दृढ वीळित अस्माभिर्दृढीकृत हे अक्ष वीळयस्व त्वं दृढो भव। यद्वा अस्मान् दृढीकुरु । यामात् गच्छतः अस्माद्रथात् नः अस्मान् मा अव जीहिपः मा पीपतः ॥ खदिरस्य । ‘ अजिरशिशिर ' इत्यादिना किरच्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वीळित । वीळयतेर्ण्यन्तस्य निष्ठायामिडागमः । ‘ निष्ठायां सेटि ' ( पा. सू. ६.४. २३) इति णेर्लुक् । वीळयस्व । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । यामात् ।' या प्रापणे ' इत्यस्मात् ‘अर्तिस्तुसुहुसृ° ' इत्यादिना मन्प्रत्ययः । नित्त्वदाद्युदात्तः । जीहिपः । ‘ ओहाक् त्यागे । ण्यन्तस्य लुङि चङि रूपम् । अकारस्येकारश्छान्दसः ॥
“Fix firmly the substance of the khayar (axle), give solidity to the śiśu (floor) of the car; strong axle, strongly fixed by us, be strong; cast us not from out of our conveyance.”
Enclose thee in the heart of Khayar timber, in the car wrought of Sinsapa put firmness.
Show thyself strong, O Axle, fixed and strengthened: throw us not from the car whereon we travel.
Engird yourself in the hardwood of the acacia tree; place strength in the śiṃśapā(-wood) in its recoil.
O Axle, you who are firm and were made firm, stay firm. Don’t make us leave off from this journey.
᳓
Hülle dich ein in das Mark der Saft-Akazie, setze in das Fuhrwerk die Kraft des Sisubaumes [çiṅçápāyāh zu lesen]; o festige dich, o feste, starke Achse; nicht lass uns hinabfallen von diesem Wagen.
Umgürte dich mit der Härte Khadiraholzes, leih dem Spandanaholze und dem Simsapaholze Kraft! Fest, festgemacht, bleibe fest, du Achse! Setz uns nicht auf der Fahrt ab!
Окружи себя твердостью (древесины) кхадира!
Придай силы (древесине) спандана, шиншапа!
О прочная, сделанная прочной ось, оставайся прочной!
Сделай, чтоб мы не отбились от этого похода!
अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् । स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥
अ॒यम् । अ॒स्मान् । वन॒स्पतिः॑ । मा । च॒ । हाः । मा । च॒ । रि॒रि॒ष॒त् । स्व॒स्ति । आ । गृ॒हेभ्यः॑ । आ । अ॒व॒सै । आ । वि॒ऽमोच॑नात् ॥
यजमान आत्मनः श्रेय आशास्ते । वनस्पतिः वनस्पतिनिर्मितः अयं रथो रथारूढान् अस्मान् मा च हाः मा त्याक्षीत् । किंच मा रीरिषत् अस्मान् मा विनाशयतु । किंच आ गृहेभ्यः यावद्गृहान् प्राप्नुयाम तावदस्मभ्यं स्वस्ति भवतु । तथा आ अवसै । पञ्चम्यर्थे चतुर्थी । यावद्रथवेगावसानं तावत् । आ विमोचनात् यावद्रथयोजिताश्वविमोचनं तावत् स्वस्ति भवतु ॥ हाः । ओहाक् त्यागे' । लुङि ‘मन्त्रे घस' इत्यादिना सिचो लुक् । पुरुषव्यत्ययः । ‘चवायोगे प्रथमा' इति न निघातः । रीरिषत् । रिष हिंसायाम्' इत्यस्य ण्यन्तस्य लुङि चङि रूपम्। द्वितीयत्वान्निघातः । गृहेभ्यः । ग्रहेः ‘गेहे कः' इति कः । ‘पञ्चम्यपाङ्परिभिः' इति पञ्चमी । अवसै । ' षोऽन्तकर्मणि' । क्विप् । चतुर्थ्येकवचने आतो लोपाभावश्छान्दसः । वृद्धिः । एकादेशस्वरः ॥ ॥ २२ ॥
“May this lord of the forest never desert us nor do us harm; may we travel prosperously home until the stopping (of the car), until the unharnessing (of the steeds).”
Let not this sovran of the wood leave us forlorn or injure us.
Safe may we be until we reach our homes and rest us and unyoke.
Let this Lord of the Forest [=tree] here not leave us behind and not cause us harm.
(Let there be) well-being all the way to the houses, to the unharnessing, to the unhitching.
᳓
Nicht möge dieser Waldbaum [Wagen] uns im Stiche lassen noch auch beschädigen; Heil sei uns bis zu unsern Häusern hin, und bis zur Einkehr reiche unsere Wegezehrung.
Dieser Baum soll uns nicht zurücklassen, noch zu Schaden bringen. Bring uns heil bis nach Hause, bis zum Rastmachen, bis zum Ausspannen!
Это лесное дерево да не оставит
Нас, да не повредит (нам)!
(Довези нас) благополучно до дома,
До отдыха, до распрягания!
इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व । यो नो॒ द्वेष्ट्यध॑र॒: सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥
इन्द्र॑ । ऊ॒तिऽभिः॑ । ब॒हु॒लाभिः॑ । नः॒ । अ॒द्य । या॒त्ऽश्रे॒ष्ठाभिः॑ । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ । यः । नः॒ । द्वेष्टि॑ । अध॑रः । सः । प॒दी॒ष्ट॒ । यम् । ऊँ॒ इति॑ । द्वि॒ष्मः । तम् । ऊँ॒ इति॑ । प्रा॒णः । ज॒हा॒तु॒ ॥
परस्य शापं करिष्यन् आदावात्मनो रक्षां कुरुते प्रथमेनार्धर्चेन । हे शूर शौर्यवन् पराभिभवशक्त हे मघवन् धनवन् इन्द्र अद्य अस्मिन्काले यात् । यातयतिर्वधकर्मा । यातयतीति यात् । सुपां सुलुक्' इति शसो लुक् । यातः शत्रून् हिंसतः नः अस्मान् ऊतिभिः त्वदीयाभी रक्षाभिः जिन्व प्रीणय । कीदृशीभिः । बहुलाभिः बह्वीभिः श्रेष्ठाभिः प्रशस्यतराभिः । अथ शपति । नः अस्मान् यः शत्रुर्द्वेष्यः द्वेष्टि अस्मद्विषयामप्रीतिं करोति सः अधरः निकृष्टः सन् पदीष्ट पततु । वयं च यमु द्विष्मस्तमु तं द्वेष्यं प्राणः देहमध्ये वर्तमानः पञ्चवृत्तिर्वायुः जहातु परित्यजतु । उशब्दौ पूरकौ ॥
“Indra, hero,possessor of wealth, protect us this day against our foes with many and excellent defences; may the vile wretch who hates us fall (before us); may the breath of life depart from him whom we hate.”
With various aids this day come to us, Indra, with best aids speed us, Maghavan, thou Hero.
Let him who hatcth us fall headlong downward: him whom we hate let vital breath abandon.
Indra, with your manifold means of help, which are the best possible ones, quicken us today, bounteous champion.
Whoever hates us, let him fall low. Whomever we hate, let breath
leave him.
᳓
Erfreu uns heute, o Indra, mit vielen allerbesten Hülfen, o mächtige Held; wer uns hasst, der falle in die Tiefe, und wen wir hassen, dem gehe aus der Odem.
Mit den zahlreichen bestmöglichen Hilfen mach uns heute regsam, du gabenreicher Held Indra! Wer uns Feind ist, der soll unterliegen. Wem wir Feind sind, dem soll der Odem ausgehen!
О Индра, с твоими многочисленными поддержками, лучшими из возможных,
Оживи нас сегодня, о щедрый герой!
Кто нас ненавидит, пусть полетит он вниз,
А кого ненавидим мы, пусть покинет его дыхание!
प॒र॒शुं चि॒द्वि त॑पति शिम्ब॒लं चि॒द्वि वृ॑श्चति । उ॒खा चि॑दिन्द्र॒ येष॑न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥
प॒र॒शुम् । चि॒त् । वि । त॒प॒ति॒ । शि॒म्ब॒लम् । चि॒त् । वि । वृ॒श्च॒ति॒ । उ॒खा । चि॒त् । इ॒न्द्र॒ येष॑न्ती । प्रऽय॑स्ता । फेन॑म् । अ॒स्य॒ति॒ ॥
हे इन्द्र परशुं चित् यथा कुठारं प्राप्य वृक्षः वि तपति विशिष्टतापयुक्तो भवति । एवं मदीयो द्वेष्टा वितपतु । शिम्बलं चित् शल्मलीकुसुमं यथा अनायासेन वृन्तात् विच्छिद्यते । एवं मद्द्वेष्टा वि वृश्चति विच्छिन्नावयवः भवतु । प्रयस्ता प्रहता येषन्ती स्रवन्ती उखा चित् स्थालीव स द्वेष्टा मदीयमन्त्रसामर्थ्येन प्रहतः सन् फेनमस्यति फेनं मुखाद्गिरतु ॥
“As (the tree) suffers pain from the axe, as the śimbal flower is (easily) cut off, as the injured cauldron leaking scatters foam, so may mine enemy perish.”
He heats his very axe, and then cuts a mere Semal blossom off.
O Indra, like a caldron cracked and seething, so he pours out foam.
(Though) he heats his axe all the way through, it’s just a śimbala flower he hacks off.
The ukhā-pot, (though) boiling, boiling over, just throws off foam,
o Indra.
᳓
Ein jedes Blatt [palāçám vermuthe ich statt paraçúm] brennt er hinweg, und jede Blüte bricht ab; jeder Topf, o Indra, wenn er kocht und übersiedet, wirft er Schaum.
Er macht ihn heiß wie man eine Axt erhitzt, er zerhackt ihn wie den Simbalabaum. Wie ein siedender Topf, der überkocht, wirft er Schaum aus, o Indra.
Словно топор, он накаляет его,
Словно шимбалу, он разрубает.
Словно клокочущий котел,
Переварившись, он выбрасывает пену.
न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः । नावा॑जिनं वा॒जिना॑ हासयन्ति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयन्ति ॥
न । साय॑कस्य । चि॒कि॒ते॒ । ज॒ना॒सः॒ । लो॒धम् । न॒य॒न्ति॒ । पशु॑ । मन्य॑मानाः । न । अवा॑जिनम् । वा॒जिना॑ । हा॒स॒य॒न्ति॒ । न । ग॒र्द॒भम् । पु॒रः । अश्वा॑त् । न॒य॒न्ति॒ ॥
पुरा खलु तपसः क्षयो मा प्रापदिति शापान्निवृत्तं मौनिनं विश्वामित्रं वसिष्ठपुरुषा बद्ध्वा आनीतवन्तः । तान् प्रति विश्वामित्रो ब्रूते । हे जनासः जनाः सायकस्य अवसानकारिणो विश्वामित्रस्य मन्त्रगणसामर्थ्यं न चिकिते भवद्भिर्न ज्ञायते । अत एव लोधं लुब्धं तपसः क्षयो मा भूदिति लोभेन तूष्णीं स्थितमृषिं पशु मन्यमानाः । पशु इति निपातः पशुशब्दसमानार्थः । पशुवन्मन्यमानाः एते नयन्ति बद्ध्वा स्वकीयं देशं प्रापयन्ति । एवं स्वसामर्थ्यं प्रदर्श्य विसदृशो वसिष्ठो मया सह स्पर्धितुं नार्हतीति धिक्करोति । नावाजिनम् इति । अवाजिनम् । वाचामिनो वाजिनः सर्वज्ञः । तद्विलक्षणं मूर्खजनं वाजिना वागीशाः न हासयन्ति हास्यास्पदं न कुर्वन्ति । तेन सह न स्पर्धन्त इत्यर्थः । तथा गर्दभं रासभम् अश्वात् पुरः पुरस्तात् न नयन्ति । एवमेव विसदृशो वसिष्ठो न मया स्पर्धितुमीष्ट इत्यर्थः ॥
“Men, (the might) of the destroyer is not known toyou; regarding him as a mere animal, they lead him away desirous (silently to complete his devotions); the wise condescend not to turn the foolish into ridicule, they do not lead the ass before the horse.”
Men notice not the arrow, O ye people; they bring the red beast deeming it a bullock.
A sluggish steed men run not with the courser, nor ever lead an ass before a charger.
There is no notice taken of his missile, you people. They lead a lump, thinking it a beast.
(But) they are not making a non-prizewinner race with a prizewinner, nor leading a donkey before the horses.
᳓
Nicht nimmt man wahr des fliegenden Geschosses, o Leute, nicht reiset man [ná yanti statt nayanti] einen Fuchs (?) für ein Zugvieh haltend, nicht lässt man ein träges Ross mit einem raschen wettrennen, nicht führt man den Esel vor den Rossen.
Nicht versteht er sich auf das Wurfgeschoß, ihr Leute. Sie lenken ein Lodharoß, indem sie es für ein Opfertier halten. Nicht läßt man einen Klepper mit dem Rennpferd wettlaufen, nicht führt man einen Esel als Vorspann vor das Pferd.
Он не разбирается в метательном оружии, о люди.
Они водят (коня) лодха, считая (его) жертвенным животным.
Клячу не пускают состязаться со скакуном.
Осла не ведут впереди коней.
इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् । हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयन्त्या॒जौ ॥
इ॒मे । इ॒न्द्र॒ । भ॒र॒तस्य॑ । पु॒त्राः । अ॒प॒ऽपि॒त्वम् । चि॒कि॒तुः॒ । न । प्र॒ऽपि॒त्वम् । हि॒न्वन्ति॑ । अश्व॑म् । अर॑णम् । न । नित्य॑म् । ज्या॒ऽवाज॑म् । परि॑ । न॒य॒न्ति॒ । आ॒जौ ॥
हे इन्द्र भरतस्य पुत्राः भरतवंश्याः इमे विश्वामित्राः अपपित्वम् अपगमनं वसिष्ठेभ्यः चिकितुः जानन्ति । प्रपित्वं प्रगमनं न जानन्ति । शिष्टैः सह तेषां संगतिर्नास्ति । बाह्याः एव त इत्यर्थः । अपि च आजौ संग्रामे नित्यं सहजम् अरणं न अरिमिव वसिष्ठान् प्रति अश्वं हिन्वन्ति प्रेरयन्ति । ततश्च ज्यावाजं बलं धनुः परि णयन्ति । वसिष्ठान् हन्तुं शरसंधानेन चरन्ति ॥ ॥ २३॥
“These sons of Bharata, Indra, understand severance (from the Vasiṣṭhas), not association (with them); they urge their steeds (against them) as against a constant foe; they bear a stout bow (for their destruction) in battle.”
These men, the sons of Bharata, O Indra, regard not severance or close connexion.
They urge their own steed as it were another's, and take him, swift as the bow's string, to battle.
Are these the sons of Bharata, Indra? They take note of the non-meal, not the meal.
They spur the alien horse, not their own. At the contest they lead
around the one whose prize is (just) a bowstring.
᳓
O Indra, diese Söhne des Bharata haben das Ferne im Auge, nicht das Nahe, sie entsenden [beim Wettrennen] das eigne Ross gleichwie ein fremdes; das sehnenstarke führen sie zum Wettlauf.
Indra! Diese Söhne des Bharata verstehen sich nur auf das Abfallen, nicht auf den Endlauf. Sie spornen das eigene Roß an, als wäre es ein fremdes; sie führen den Renner, der die Schnellkraft einer Bogensehne hat, beim Wettlauf im Kreise herum.
Эти сыновья Бхараты, о Индра,
Разбираются только в отступлении, не в конечном рывке.
Они погоняют собственного коня, словно чужого.
На ристалище они водят по кругу (коня), быстрого, как тетива.