इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः । शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ॥
इ॒मम् । म॒हे । वि॒द॒थ्या॑य । शू॒षम् । शश्व॑त् । कृत्वः॑ । ईड्या॑य । प्र । ज॒भ्रुः॒ । शृ॒णोतु॑ । नः॒ । दम्ये॑भिः । अनी॑कैः । शृ॒णोतु॑ । अ॒ग्निः । दि॒व्यैः । अज॑स्रः ॥
महे महते विदथ्याय विदथे यज्ञे मन्थनेन निष्पाद्यमानाय ईड्याय सर्वैः स्तुत्यायाग्नये शूषं सुखकरम् इमं स्तोमं शश्वत्कृत्वः भूयो भूयः प्र जभ्रुः प्रभरन्ति प्रकर्षेण धारयन्ति । उच्चारयन्तीत्यर्थः । सः अग्निः दम्येभिः परेषां दमनकुशलैः दमे गृहे विद्यमानैवर्वा अनीकैः तेजोभिः युक्तः सन् नः अस्मदीयमिमं स्तोमं शृणोतु । दिव्यैः दिवि भवैस्तेजोभिः अजस्रः निरन्तरं युक्तोऽग्निरिमं स्तोमं शृणोतु । शश्वत्कृत्व ईड्याय प्र जभ्रुरिति स्वानामेवैनं तच्छ्रैष्यं । गमयति' (ऐ. ब्रा. १. २८) इति ब्राह्मणानुसारेण महदादिगुणविशिष्टाय यजमानाय इममग्निं प्रजभ्रुः प्रहरन्त्यृत्विज इति वा व्याख्येयम् । उत्तरोऽर्धर्चः समान एव ॥ विदथ्याय। तत्र भव इत्यर्थे ‘भवे छन्दसि ' इति यत्। तित्स्वरितः । ईड्याय । ईडवन्द ' इत्यादिना उदात्तत्वम् । दम्येभिः । तत्र साधुः' इति यत् । ‘ यतो नावः' इत्याद्युदात्तत्वम्। दिव्यैः । दिवमर्हतीत्यर्थे ‘ छन्दसि च ' इति यप्रत्ययः । अजस्रः । ‘ जसु मोक्षणे'। नञ्पूर्वः । ' नमिकम्पि ' इत्यादिना ताच्छीलिको रप्रत्ययः । नञा समासे तस्य स्वरः ॥
“They recite repeatedly this gratifying praise to the great product of sacrifice (Agni); may he who is (endowed) with domestic radiance hear us; may the imperishable Agni, (endowed) with divine radiance, hear us.”
To him adorable, mighty, meet for synods, this strengthening hymn, unceasing, have they offered.
May Agni hear us with his homely splendours, hear us, Eternal One, with heavenly lustre.
This fortifying (hymn) here have they presented to the great one
belonging to the rite, who is to be reverently invoked repeatedly time after time.
Let him listen to us with his faces belonging to the house; let
inexhaustible Agni listen with (his faces) belonging to heaven.
Dies Preislied brachten fort und fort dem grossen, dem preisenswerthen, festlichen die Sänger; Es hör' uns Agni mit des Hauses Feuern, mit Himmelsflammen hör' er unauslöschlich.
Diese Stärkung haben sie dem in weiser Rede bewanderten Großen, dem immer wieder Anzurufenden, dargebracht. Er soll uns mit seinen häuslichen Gesichtern erhören, Agni soll uns mit seinen himmlischen erhören, der nie Ermattende.
Этот гимн принесли великому (богу),
Связанному с жертвенной раздачей, всегда достойному призыва.
Пусть услышит он нас со (своими) домашними ликами,
Пусть услышит Агни со (своими) небесными, (он) неутомимый!
महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छञ्च॑रति प्रजा॒नन् । ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः ॥
महि॑ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः॑ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒ऽजा॒नन् । ययोः॑ । ह॒ । स्तोमे॑ । वि॒दथे॑षु । दे॒वाः । स॒प॒र्यवः॑ । मा॒दय॑न्ते । सचा॑ । आ॒योः ॥
हे स्तोतः महे महत्यै दिवे द्युलोकदेवतायै महत्यै पृथिव्यै च महि महत् त्वं प्रजानन् स्तोत्रम् अर्च कुरु। मे मम कामः मनोरथः सर्वान् भोगान् इच्छन् चरति सर्वत्र वर्तते । आयोः मनुष्यस्य विदथेषु यज्ञेषु ययोः द्यावापृथिव्योः स्तोमे स्तोत्रे सपर्यवः पूजाकामाः देवाः स्तोतारो वा सचा मादयन्ते ह सह माद्यन्ति खलु ॥ पृथिव्यै। उदात्तयणः ' इति विभक्तेरुदात्तत्वम् । सपर्यवः । सपर्यामिच्छतीत्यर्थे सुपः क्यच् ॥
“Knowing their greatness, offer worship to the vast heaven and to the earth; my desire, wishing (for felicity) proceed (to them), in whose praise the gods,desirous of adoration, delight together with their worshippers at the sacrifice.”
To mighty Heaven and Earth I sing forth loudly: my wish goes out desirous and well knowing
Both, at whose laud in synods, showing favour, the Gods rejoice them with the living mortal.
I will recite a great (hymn) to great Heaven and to Earth. My desire, seeking, knowing the way, goes (to those two),
at the praise of whom the gods, seeking service at the rites, become
exhilarated in company with them.
Laut sing' der Erd' ich und dem grossen Himmel, begehrend geht mein Wunsch, des Weges kundig, Bei ihrem Preise freuen sich die Götter, die treuen bei den Festen mit den beiden.
Ein hohes Lied will ich dem hohen Himmel, der Erde singen. Mein Wunsch geht suchend, den Weg kennend zu ihnen, an deren beider Loblied bei den Opfern die Götter voll Ergebenheit zusammen mit ihnen sich ergötzen.
Великий (гимн) великому небу (и) земле я хочу исполнить.
Бродит мое желание в поисках, предвкушая.
Ведь это при прославлении их двоих во время жертвенных раздач
Радуются боги, полные почтения, вместе с ними.
यु॒वोॠ॒तं रो॑दसी स॒त्यम॑स्तु म॒हे षु ण॑: सुवि॒ताय॒ प्र भू॑तम् । इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥
यु॒वोः । ऋ॒तम् । रो॒द॒सी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । म॒हे । सु । नः॒ । सु॒ऽवि॒ताय॑ । प्र । भू॒त॒म् । इ॒दम् । दि॒वे । नमः॑ । अ॒ग्ने॒ । पृ॒थि॒व्यै । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥
हे रोदसी द्यावापृथिव्यौ युवोः युवयोः ऋतम् आनृशंस्यं सत्यं यथार्थम् अस्तु । युवां नः अस्माकं महे महते सुविताय अभ्युदयाय यज्ञसमाप्त्यर्थं सु सुष्टु प्र भूतं प्रभवतम् । हे अग्ने दिवे पृथिव्यै च इदं नमः अस्तु । प्रयसा हविर्लक्षणेनान्नेन सपर्यामि परिचरामि । रत्नम् उत्तमं धनं यामि याचे। यातिर्याञ्चाकर्मा ईमह इत्यादिषु पठितत्वात् ॥ सु। संहितायां ‘सुञः ' (पा. सू. ८. ३. १०७ ) इति षत्वम्। नः। संहितायां ‘नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । सुविताय । इण् गतौ । अधिकरणे क्तः । शोभनं गम्यतेऽस्मिन्निति तत् सुवितम् । उवङादेशः
छान्दसः। भूतम् । भवतेर्लोटि बहुलं छन्दसि ' इति शपो लुकि रूपम् । यद्वा । छान्दसे लुङि सिचः ‘ गातिस्था° ' इति लुक् । निघातः । दिवे पृथिव्यै । ' नमः स्वस्ति°' (पा. सू. २. ३.१६ ) इत्यादिना चतुर्थी । सपर्यामि । कण्ड्वादिः परिचरणे वर्तते । प्रत्ययस्वरः। यामि । यातेर्लटि रूपम् । वाक्यभेदादनिघातः ॥
“Heaven and earth, may your truth be ever inviolable; be propitious to us for the due completion of the rite; this adoration (Agni) is offered to heaven and earth; I worship (them) with (sacrificial) food; I solicit of them precious (wealth).”
O Heaven and Earth, may your great law he faithful: he ye our leaders for our high advantage.
To Heaven and Earth I offer this my homage, with food, O Agni, as I pray for riches.
Let your truth be real, you two world-halves. Come to the fore for our great welfare.
Here is homage to Heaven and to Earth, o Agni. I render service with a pleasurable offering; I beg for a treasure.
Euch, Welten beide, sei das Opfer wirksam, zu grossem Wohlstand mögt ihr uns voran gehn; Dem Himmel weih' ich dies Gebet, der Erde, durch Opferspeise komme ich zu Reichthum.
Euer Gesetz soll die Wahrheit sein, Himmel und Erde! Tretet fein für unser großes Wohlergehen ein! Diese Verbeugung gilt dem Himmel, der Erde, o Agni. Ich warte mit einem Labsal auf; ich bitte um Belohnung.
Да будет истинным ваш закон, о две половины вселенной!
Вступитесь за нас хорошенько на великую удачу!
Этот поклон – Небу, о Агни, Земле.
Я выражаю почтение жертвенной усладой, я молю о сокровище.
उ॒तो हि वां॑ पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाच॑: । नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ॥
उ॒तो इति॑ । हि । वा॒म् । पू॒र्व्याः । आ॒ऽवि॒वि॒द्रे । ऋत॑वरी॒ इत्यृत॑ऽवरी । रो॒द॒सी॒ इति॑ । स॒त्य॒ऽवाचः॑ । नरः॑ । चि॒त् । वा॒म् । स॒म्ऽइ॒थे । शूर॑ऽसातौ । व॒व॒न्दि॒रे । पृ॒थि॒वि॒ । वेवि॑दानाः ॥
उतो अपि च हे ऋतावरी । ऋतं सत्यम् । तद्वत्यौ हे रोदसी द्यावापृथिव्यौ पूर्व्याः पूर्वे भवाः पुरातनाः सत्यवाचः महर्षयः वां युवाभ्याम् आविविद्रे हि तं तमपेक्षितमर्थं लेभिरे खलु । तथा हे पृथिवि शूरसातौ शूराणां सातिर्लाभो यस्मिन् तस्मिन् समिथे संगमननिमित्ते युद्धे नरश्चित् अद्यतनाः मनुष्याश्च वां युवयोर्माहात्म्यं वेविदानाः जानन्तः अतः द्यावापृथिव्यौ ववन्दिरे स्तुवन्ति ॥ आविविद्रे । विद्लृ लाभे' इत्ययमुभयपदी । लिटि ‘इरयो रे' इति रे इत्यादेशः । ‘ सह सुपा ' इत्यत्र 'सह ' इति योगविभागादाङा सह समासः । समिथे। ‘ इण् गतौ ' । ' समीणः ' ( उ. सू. २.१६८ ) इति थक्प्रत्ययः । प्रत्ययस्वरः ॥
“Heaven and earth, endowed with truth, they who are the ancient declarers of the truth, have obtained from you (what they desired); and so, earth, men cognizant (of the greaness of you both) have worshipped you for the sake of triumphing over (hostile) heroes in battle.”
Yea, holy Heaven and Earth, the ancient sages whose word was ever true had power to find you;
And brave men in the fightwhere heroes conquer, O Earth, have known you well and paid you honour.
For also the ancient ones, speaking what is real, found you two, you truthful world-halves.
Also the superior men at the clash, at the contest of champions, extolled you two, o (Heaven and) Earth, as they kept discovering you.
Denn euch ja wurden, o ihr heil'gen Welten auch zugetheilt die alten Wahrheitkünder; Und euch verehrten in der Schlacht die Männer, im Kampf sich zeigend Himmel ihr und Erde.
Denn auch die früheren Propheten haben bei euch, ihr gesetzestreuen Rodasi, Gehör gefunden. Auch die Herren haben euch in der Schlacht, im Zweikampf gesegnet, o Erde, bei euch Gehör findend.
Ведь еще и прежние (поэты), чья речь истинна,
Получили (признание) у вас, о две половины вселенной, преданные закону.
Сами мужи в рукопашной, в (борьбе) героев за добычу
Славили вас, о земля (и небо), ища (признания).
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अच्छा॑ प॒थ्या॒३॒॑ का समे॑ति । ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वान् । अच्छ॑ । प॒थ्या॑ । का । सम् । ए॒ति॒ । ददृ॑श्रे । ए॒षा॒म् । अ॒व॒मा । सदां॑सि । परे॑षु । या । गुह्ये॑षु । व्र॒तेषु॑ ॥
कः वा अद्धा सत्यभूतं तादृशमर्थं वेद वेत्ति । कः वा इह अस्मिन् प्रज्ञातमर्थं प्र वोचत् प्र ब्रवीति । किं तत्तदुच्यते । देवान् अच्छ अभिलक्ष्य का पथ्या पथि साधुः समीचीनः को वा मार्गः समेति सम्यक् प्राप्नोतीति । इममर्थं न कश्चिज्जानाति । न कोऽपि ब्रवीति । किं ते देवा विद्यन्ते । बाढमित्याह । एषां दिवि स्थितानां नक्षत्ररूपाणां देवानाम् अवमा अधोमुखानि सदांसि स्थानानि ददृशे दृश्यन्ते । तथापि परेषु उत्तमेषु गुह्येषु दुर्ज्ञानेषु व्रतेषु कर्मसु अनुष्ठितेषु या यानि दिवि देवस्थानानि लभ्यन्ते तत्रागन्तुं को मार्ग इति वेदमन्तरेण न कश्चिज्जानातीत्यभिप्रायः ॥ अद्धा । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । वोचत् । ‘ब्रूञ् व्यक्तायां वाचि'। लुङि • ब्रुवो वचिः' इति वच्यादेशः । ‘ अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरादेशः । ‘वच उम्' इत्युमागमः । निघातः ॥ ॥ २४ ॥
“Who knows what is the truth, or who may here declare it? What is the proper path that leads to the gods? Their inferior abiding plural ces are beheld, as are those which (are situated) in superior mysterious rites.”
What pathway leadeth to the Gods? Who knoweth this of a truth, and who will now declare it?
Seen are their lowest dwelling-places only, but they are in remote and secret regions.
Who knows for certain? Who will here proclaim (it)? What is the pathway that leads to the gods?
Their lowest seats are visible, (but those) that are amid the highest
hidden commandments... ?
Wer weiss es recht, wer mag es recht verkünden? wo ist der Pfad, der zu den Göttern führet? Zu sehen sind nur ihre tiefsten Sitze, verborgen ihre höchsten Wirkungsstätten.
Wer weiß es gewiß, wer kann es hier verkünden, welcher Weg zu den Göttern geht? - Sichtbar sind ihre untersten Sitze - welcher Weg zu ihrem fernsten, verborgenen Walten führt?
Кто поистине, знает, кто здесь провозгласит:
Какой путь идет к богам?
Видны (только) их нижние сидения,
(А не те,) что (находятся) среди дальних, тайных обетов.
क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती । नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ॥
क॒विः । नृ॒ऽचक्षा॑ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य॑ । योना॑ । विघृ॑ते॒ इति॒ विऽघृ॑ते । मद॑न्ती॒ इति॑ । नाना॑ । च॒क्रा॒ते॒ इति॑ । सद॑नम् । यथा॑ । वेः । स॒मा॒नेन॑ । क्रतु॑ना । स॒व्ँम्वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने ॥
कविः क्रान्तदर्शी नृचक्षाः नृणां द्रष्टा सूर्यः सीम् एते द्यावापृथिव्यौ अभि अचष्ट सर्वतः पश्यति । ऋतस्य योना जलस्य स्थानेऽन्तरिक्षे मदन्ती हृष्यन्त्यौ विघृते । घृतमस्या ओषधयो जलममुष्या इति । एवंविधरसोपेते समानेन । ' समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः' (ऋ. सं. १. १६४. ५१ ) इति परस्परप्रीणनाख्येनैकेन क्रतुना कर्मणा संविदाने परस्परमैकमत्यं प्राप्ते ते द्यावापृथिव्यौ नाना पृथग्भूतं सदनं स्थानं चक्राते। तथा च श्रुतिः - इमौ वै लोकौ सहास्तां तौ व्यैताम् ' ( ऐ. ब्रा. ४. २७) इति । तत्र दृष्टान्तः । यथा वेः कुलायं नाना भवति तद्वत् ॥ अचष्ट । ' चक्षिङ व्यक्तायां वाचि ' इत्यस्य लङि स्कोः संयोगाद्योः' इति ककारलोपः । निघातः । संविदाने । ‘ विद ज्ञाने' इत्यस्य ' समो गमि°' इत्यादिनात्मनेपदे शानच् । चित्त्वादन्तोदात्तः ।
“The far-seeing beholder of mankind (the sun), surveys this heaven and earth, rejoicing when deficient in moisture in the womb of the waters (the firmament), both concurring in community (of function), although they occupy various dwellings, like the diversified nests of a bird.”
The Sage who looketh on mankind hath viewed them bedewed, rejoicing in the seat of Order.
They make a home as for a bird, though parted, with one same will finding themselves together.
The sage poet, (though) having a man’s sight, has looked upon them: the two [=Heaven and Earth], separated but becoming exhilarated
(together) in the womb of truth.
The two have made a seat each for herself as a bird does, (though) being united by a joint purpose.
Sie schaute an der männerschau'nde Seher, die seligen, im heil'gen Schooss besprengten; Beseelt von gleichem Geiste machten beide verschieden ihren Sitz, wie den des Vogels.
Der Seher mit dem Herrenauge hat sie erschaut, die gesondert im Schoße des Gesetzes schwelgen. An getrennten Orten haben sie ihren Sitz bereitet wie der Vogel und sind doch einträchtig in gleichem Geiste.
Поэт со взглядом героя разглядел их двоих,
Радующихся в лоне закона, окропленных (жиром).
По-разному (эти) двое приготовили себе место, как птица,
Согласные (однако) благодаря общей силе духа.
स॒मा॒न्या वियु॑ते दू॒रेअ॑न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ । उ॒त स्वसा॑रा युव॒ती भव॑न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ॥
स॒मा॒न्या । वियु॑ते॒ इति॒ विऽयु॑ते । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । ध्रु॒वे । प॒दे । त॒स्थ॒तुः॒ जा॒ग॒रूके॑ । उ॒त । स्वसा॑रा । यु॒व॒ती इति॑ । भव॑न्ती॒ इति॑ । आत् । ऊँ॒ इति॑ । ब्रु॒वा॒ते॒ इति॑ । मि॒थु॒नानि॑ । नाम॑ ॥
समान्या समाने परस्परप्रीणनाख्येन कर्मणा ऐकमत्यं गते वियुते वियुज्य वर्तमाने दूरेअन्ते । दूरेऽन्तोऽवसानं ययोस्ते दूरेअन्ते अविनाशिन्यौ ते द्यावापृथिव्यौ जागरूके जागरणशीले सत्यौ ध्रुवे अविनाशिनि पदे अन्तरिक्षे तस्थतुः तिष्ठतः। उत अपि च युवती नित्यतरुणे स्वसारा भगिन्यौ एकस्मादात्मनो जाते इति भवन्ती भवन्त्यौ तस्थतुरित्यन्वयः । आदु अनन्तरं मिथुनानि द्वन्द्वानि नाम उर्वी, पृथ्वी, बहुले, दूरेअन्ते, रोदसी, पुरोहिते इत्यादीनि नामानि ब्रुवाते ते परस्परं ब्रूतः । उर्व्यादिभिर्द्वन्द्वनामभिर्द्यावापृथिव्यावुच्येते इत्यर्थः ॥ समान्या । ‘सुपां सुलुक्' इति विभक्तेर्डादेशः । दूरेअन्ते । ‘ इण् गतौ । दुरीणो लोपश्च' ( उ. सू. २. १७७ ) इति रक्प्रत्ययो धातोर्लोपश्च । ‘ रो रि' (पा. सू. ८. ३.१४ ) इति रेफलोपः । ‘ ढ्रलोपे' इति दीर्घः । अन्तशब्दः अमेः ‘असिहसिं° ' इत्यादिना तन्प्रत्ययान्तः । ‘ सप्तम्युपमान ' इति बहुव्रीहिः । ‘ हलदन्तात् ' इति सप्तम्या अलुक् । पूर्वपदस्वरः । जागरूके। ‘जागृ निद्राक्षये' इत्यस्मात् ताच्छील्यार्थे ‘जागुरूकः' ( पा. सू. ३.२.१६५ ) इत्यूकप्रत्ययः । प्रत्ययस्वरः । स्वसारा । न षट्स्वस्रादिभ्यः' इति डीपः प्रतिषेधः ॥
“Common (in function), disjoined, of distant termination, they remain vigilant in a permanent station; being, as it were, sisters, and ever young; they therefore address each other by twin appellations.”
Partners though parted, with far-distant limits, on one firm place both stand for ever watchful,
And, being young for evermore, as sisters, speak to each other names that are united.
Jointly but kept apart, with their ends at a distance, they have taken their stand in a fixed place, wakeful.
And (though) they are sisters and young women, they are called
opposing names.
Gemeinsam und getrennt doch, unermesslich, an festem Orte standen beide wachsam; Und als zwei Schwestern immer jung verbleibend, verkünden nun sie ihre Zwillingsnamen.
In gleicher Weise und doch getrennt stehen die beiden fern endenden auf fester Grundlage immer wachsam. Zwar sind die Jugendlichen Schwestern, doch führen sie paarweise männlichen und weiblichen Namen.
Отделенные друг от друга равным расстоянием, кончающиеся далеко,
(Эта) двое покоятся на твердой основе, бодрствуя.
Будучи двумя сестрами-юницами,
Они тем не менее называются парными именами (мужчины и женщины).
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते । एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ॥
विश्वा॑ । इत् । ए॒ते इति॑ । जनि॑म । सम् । वि॒वि॒क्तः॒ । म॒हः । दे॒वान् । बिभ्र॑ती॒ इति॑ । न । व्य॒थे॒ते॒ इति॑ । एज॑त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व॑म् । एक॑म् । चर॑त् । प॒त॒त्रि । विषु॑णम् । वि । जा॒तम् ॥
एते द्यावापृथिव्यौ विश्वेत् जनिम सर्वाण्यपि भूतजातानि सं विविक्तः अवकाशप्रदानेन संविभज्य कुरुतः । किंच महः महतः देवान् इन्द्रसूर्यादीन् सरित्समुद्रपर्वतादींश्च बिभ्रती बिभ्राणे अपि ते न व्यथेते न खिद्येते । किंच एजत् जङ्गमात्मकं ध्रुवं स्थावरात्मकं च विश्वं जगत् एकं स्थानं पृथिवीमेव पत्यते अभिगच्छति । तथा चरत् चञ्चलं पशुजातं पतत्रि पक्षिजातं च विषुणं विष्वक् नानारूपमनयोर्मध्ये वि तिष्ठते । योग्यक्रियाध्याहारः ॥ विविक्तः । ‘ विचिर् पृथग्भावे ' । जुहोत्यादिः । निघातः । बिभ्रती । ‘ डुभृञ् धारणपोषणयोः' इत्यस्य शतरि ‘ नाभ्यस्ताच्छतुः' इति नुमभावः । अभ्यस्तस्वरः । एजत् । “ एजृ कम्पने ' । शतरि रूपम् ॥ पत्यते । ‘पद गतौ ' । दिवादिरात्मनेपदी । दकारस्य तकारो व्यत्ययेन । निघातः ॥
“These two keep all born things discrete, and, although comprehending the great divinities, are not distressed; all moving and stationary beings rest upon one (basis), whether animals, or birds, or creatures of various kinds.”
All living things they part and keep asunder; though bearing up the mighty Gods they reel not.
One All is Lord of what is fixed and moving, that walks, that flies, this multiform creation.
All these races do the two contain. (Though) supporting the great gods, they do not waver.
The One is master of all: the moving and the fixed, the walking and the flying, of various sorts, variously born.
Sie halten alle Wesen auseinander, sie wanken nicht, die grossen Götter tragend; Bewegtes, festes, alles hegt die eine, was geht und fliegt, das mannichfach geborne.
Diese beiden fassen alle Geschöpfe in sich; sie tragen die großen Götter und kommen doch nicht ins Wanken. Das Eine beherrscht alles was sich regt und was fest ist, was geht und was fliegt, das Verschiedenartige, verschieden Geborene.
Эти двое охватывают все рождения.
Они не колеблются, неся великих богов.
Одно правит всем: что движется, что твердо,
Что бродит, что летает, что разнообразно, что по-разному рождено.
सना॑ पुरा॒णमध्ये॑म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्न॑: । दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ॥
सना॑ । पु॒रा॒णम् । अधि॑ । ए॒मि॒ । आ॒रात् । म॒हः । पि॒तुः । ज॒नि॒तुः । जा॒मि । तत् । नः॒ । दे॒वासः॑ । यत्र॑ । प॒नि॒तारः॑ । एवैः॑ । उ॒रौ । प॒थि । विऽउ॑ते । त॒स्थुः । अ॒न्तरिति॑ ॥
हे द्यौः महः महत्याः पितुः सर्वस्य पालयित्र्याः जनितुः जनयित्र्यास्तव सना सनातनं पुराणं पूर्वक्रमागतं नः अस्माकं तत् जामि जामित्वम् । सर्वमेकस्मात् जातमिति द्यौर्भगिनी भवति । तादृशं भगिनीत्वं तत् आरात् अधुना अध्येमि स्मरामि। दिवः पितृत्वे जनयितृत्वे च मन्त्रवर्णः---- ‘ द्यौर्मे पिता जनिता नाभिरत्र ( ऋ. सं. १. १६४:३३) इति । यत्र यस्यां दिवि अन्तः मध्ये उरौ विस्तीर्णे व्युते विविक्ते पथि नभसि पनितारः त्वां स्तुवन्तः देवासः देवाः एवैः गमनसाधनैः स्वैः स्वैर्वाहनैः सहिताः सन्तः तस्थुः । तत्र स्थित देवा मदीयं स्तोत्रं शृण्वन्त्विति भावः ॥ पुराणम् । पुराशब्दात् शैषिकार्थे ‘ सायंचिरम् । इति ट्युप्रत्ययः । ‘ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु' ( पा. सू. ४. ३. १०५ ) इति निपातनात्तुडभावः । निपातनादेवान्तोदात्तत्वम् । एमि । ‘ इक् स्मरणे' । अदादिः । लटि रूपम् । निघातः । व्युते । ‘ वेञ् तन्तुसंताने ' । कर्मणि क्तः । यजादित्वात् संप्रसारणम् । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरः। तस्थुः । तिष्ठतेर्लिटि रूपम् । यत्रयोगादनिघातः ॥
“I consider at present the eternal and ancient sisterhood to us of you, our great protectress and progenitrix, within whose vast and separated path your eulogists, the gods, travel in their chariots.”
Afar the Ancient from of old I ponder, our kinship with our mighty Sire and Father,-
Singing the praise whereof the Gods by custom stand on the spacious far-extended pathway.
From afar I tread upon the ancient (path) of old [/study the ancient One of old]: that is our relationship to the great father [=Heaven?], the begetter, where [=in heaven?] the gods, as admirers, in their own ways took their stand within (it) on their (own) broad separate path.
Das alte stets erwäg' ich aus der Ferne, dies unser Stammen von dem grossen Vater, Wo anerkennend, wie gewohnt, die Götter auf den gebahnten breiten Pfaden standen.
Von Ferne erkenne ich das Uralte: Das ist unsere Abstammung von dem großen Vater, dem Erzeuger, auf dem Weg zu dem die Götter eifrig Beifall spendend auf ihrem weiten, abgesonderten Wege dazwischen treten.
Издавна узнаю я (это) древнее, издалека:
Это кровное родство наше с великим отцом-родителем,
(Там,) где боги, восхищаясь (им) по (своему) обычаю,
Пребывают между (ним и людьми) на своем широком особом пути.
इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दरा॑: शृणवन्नग्निजि॒ह्वाः । मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यास॑: क॒वय॑: पप्रथा॒नाः ॥
इ॒मम् । स्तोम॑म् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । ऋ॒दू॒दराः॑ । शृ॒ण॒व॒न् । अ॒ग्नि॒ऽजि॒ह्वाः । मि॒त्रः । स॒म्ऽराजः॑ । वरु॑णः । युवा॑नः । आ॒दि॒त्यासः॑ । क॒वयः॑ । प॒प्र॒था॒नाः ॥
हे रोदसी द्यावापृथिव्यौ इमं युष्मदीयं स्तोम स्तोत्रं प्र ब्रवीमि प्रकर्षेण वदामि । ऋदूदराः । ऋदु मृदु उदरं येषां ते ऋदूदराः । यद्वा । मृदुरुदरे सोमो येषां ते ऋदूदराः । अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषां ते तथोक्ताः । सम्राजः सम्यग्दीप्यमानाः युवानः नित्यतरुणाः । यद्वा । यजमानान् अभिमतफलैर्मिश्रीकुर्वन्तः । कवयः क्रान्तदर्शिनः पप्रथानाः स्वानि स्वानि कर्माणि प्रथयन्तो मित्रादयो देवाः शृणवन् तदिदं स्तोत्रं शृण्वन्तु ॥ शृणवन् । ‘ श्रु श्रवणे ' इत्यस्य लेट्यडागमः । अग्निजिह्वाः । त्रिचक्रादित्वादन्तोदात्तत्वम् । पप्रथानाः । ‘ प्रथ प्रख्याने ' इत्यस्य कानचि रूपम् । चित्त्वादन्तोदात्तः ॥ .॥ २५ ॥
“I repeat this hymn, heaven and earth, to you; and may the soft-bellied, fire-tongued Mitra, royal Varuṇa, the youthful Ādityas, all cognizant of the past, and proclaiming (their own acts), hear it.”
This laud, O Heaven and Earth, to you I utter: let the kind-hearted hear, whose tongue is Agni,
Young, Sovran Rulers, Varuna and Mitra, the wise and very glorious Adityas.
This praise here I proclaim, you two world-halves. The tender-hearted ones having Agni as their tongue will hear it—
the youthful sovereign kings, Mitra, Varuṇa, the Ādityas, sage poets, extending far and wide.
Euch sprech' ich aus, o Welten, dieses Loblied, die feuerzung'nen, holden, mögen hören, Die jungen weisen Varuna und Mitra, die weitberühmten Herrscher, die Aditja's.
Dieses Loblied trage ich vor, ihr Rodasi. Die weichherzigen Götter sollen es hören, deren Zunge Agni ist, die jugendlichen Allkönige Mitra, Varuna, die Aditya´s, die weit und breit bekannten Seher.
Такую хвалу я провозглашаю, о две половины вселенной.
Да услышат (ее) мягкосердечные (боги), чей язык - Агни,
Митра, Варуна, юные самодержцы
Адитьи, поэты с широко распространившейся (славой)!
हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः । दे॒वेषु॑ च सवित॒: श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम् ॥
हिर॑ण्यऽपाणिः॑ । स॒वि॒ता । सु॒ऽजि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानः । दे॒वेषु॑ । च॒ । स॒वि॒त॒रिति॑ । श्लोक॑म् । अश्रेः॑ । आत् । अ॒स्मभ्य॑म् । आ । सु॒व॒ । स॒र्वऽता॑तिम् ॥
हिरण्यपाणिः । दानार्थं हिरण्यं पाणौ हस्ते यस्य स तथोक्तः । यद्वा । देवकर्तृकयागे सवितुर्ऋत्विग्भूतस्य हस्ते प्राशित्रं भक्षणार्थमध्वर्यवो ददुः । तत्प्राशित्रं तस्य हस्तौ चिच्छेद । ततोऽध्वर्यवो हिरण्मयौ हस्तौ कृत्वा संदधुः । ततोऽयं हिरण्यपाणिः । तथा च कौषीतकं -'सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिः' इंति । सुजिह्वः शोभनवाक् सविता विदथे यज्ञे त्रिः त्रिषु सवनेषु दिवः नभसः सकाशात् आ पत्यमानः आगच्छन् भवतीति शेषः । परोऽधर्चः प्रत्यक्षः । हे सवितः त्वं देवेषु स्तोतृषु विद्यमानं च श्लोकम् । श्लोक्यतेऽनेनेति श्लोकः स्तोत्रम् । तत् अश्रेः प्राप्नुहि च । आत् अनन्तरं सर्वतातिं सर्वमपेक्षितं फलम् अस्मभ्यम् आ सुव प्रेरय ॥
हिरण्यपाणिः । हिरण्यशब्दं यास्को बहुधा निर्वक्ति-- हिरण्यं कस्मात् ह्रियते आयम्यमानमिति वा ह्रियते जनाज्जनम् ' ( निरु. २:१० ) इत्यादिना । पाणिशब्दं च निर्विवेच--- ‘ पाणिः पणायतेः पूजाकर्मणः ' ( निरु. २.२६ इति ॥ ‘ हर्य कान्तिगत्योः । ‘ हर्यतेः कन्यन् हिर च ' इति कन्यन्, हिर इत्ययमादेशो धातोः । नित्त्वदाद्युदात्तः । बहुव्रीहौ पूर्वपदस्वरः ।
पत्यमानः । ‘पद गतौ ' । दिवादिरात्मनेपदी । दकारस्य तकारश्छान्दसः ।
अश्रेः । श्रिञ् सेवायाम्' इत्यस्य लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । 'चवायोगे प्रथमा ' इति न निघातः ।
सुव । 'षू प्रेरणे'। तुदादिः ।
सर्वतातिम् । सर्वदेवात्तातिल स्वार्थिकः । लित्स्वरः ॥
“The golden-handed, soft-tongued Savitā is descending from heaven (to be present) thrice (daily) at the sacrifice; accept, Savitā, the praise (recited) by the worshippers, and thereupon grant to us all our desires.”
The fair-tongued Savitar, the golden-handed, comes thrice from heaven as Lord in our assembly.
Bear to the Gods this song of praise, and send us, then, Savitar, complete and perfect safety.
Savitar of the golden hands and the lovely tongue, being master at the rite three times a day—
and (when), Savitar, you have set your signal-call among the gods, then impel wholeness to us.
Dreimal des Tags nimmt Savitar am Fest theil, mit schöner Zunge und mit gold'nen Händen; O Savitar, zu Göttern drang dein Preis hin, o schaff uns her die ganze Schar der Götter.
Savitri mit goldener Hand und schöner Zunge, der dreimal des Tages auf das Opfer ein Anrecht hat - Wenn du, Savitri, deinen Weckruf an die Götter gerichtet hast, dann weise uns Vollzähligkeit zu!
Златорукий Савитар с прекрасным языком,
Трижды в день повелевающий жертвоприношением, –
О Савитар, если ты направил клич (свой) к богам,
Породи нам целостность!
सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् । पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ॥
सु॒ऽकृत् । सु॒ऽपा॒णिः । स्वऽवा॑न् । ऋ॒तऽवा॑ । दे॒वः । त्वष्टा॑ । अव॑से । तानि॑ । नः॒ । धा॒त् । पू॒ष॒ण्ऽवन्तः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । ऊ॒र्ध्वऽग्रा॑वाणः । अ॒ध्व॒रम् । अ॒त॒ष्ट॒ ॥
सुकृत् सुष्ठु जगतः कर्ता सुपाणिः कल्याणपाणिः स्ववान् धनवान् ऋतावा सत्यसंकल्पः त्वष्टा देवः तानि यान्यस्माकमपेक्षितानि अवसे रक्षणाय नः अस्मभ्यं धात् ददातु । ऋभवः । उरु भान्तीत्यृभवः । हे ऋभवः पूषण्वन्तः पूष्णा सहिता यूयं मादयध्वम् । अस्मान् धनप्रदानेन हृष्टान् कुरुत। ऊर्ध्वग्रावाणः सोमाभिषवार्थमुद्यतग्रावाणः सन्तः ऋत्विज इममस्मदीयम् अध्वरमतष्ट अकुर्वन् । अतप्त । ‘ तक्षू त्वक्षू तनूकरणे' । ऊदित्त्वादत्रेडभावः । ‘ झलो झलि' इति सिलोपः । ‘ स्कोः संयोगाद्योः' इति ककारलोपः । बहुवचनस्यैकवचनं छान्दसम् ॥ विद्युथा मरुतं ऋष्टिमन्तौ दिवो मय ऋतजाता अयासः ।
“May the divine Tvaṣṭā, the able artificer, the dextrous-handed, the possessor of wealth, the observer of truth, bestow upon us those things (which are necessary) for our preservation; ṛbhus, associated with Pūṣan, make us joyful, as they (the priests), with uplifted stones, prepare the sacred libation.”
Deft worker, skiful-handed, helpful, holy, may Tvastar, God, give us these things to aid us,
Take your delight, Ye Rbhus joined with Pusan: ye have prepared the rite with stones adjusted.
Of good action, of good hands, of good aid, truthful—let God Tvaṣṭar establish these things for us for help.
In company with Pūṣan, o R̥bhus, make yourselves exhilarated. With pressing stones raised, you have fashioned the
ceremony.
Gott Tvaschtar, schön an Händen, Werk und Beistand, der heilige, gewähr' uns dies zur Hülfe; Vereint mit Puschan trinkt zum Rausch, ihr Ribhu's, den Pressstein hebend wirktet ihr beim Feste.
Der Gutes wirkende, schönhändige, huldreiche, gesetzestreue Gott Tvastri möge uns diese Dinge zu unseren Gunsten gewähren. Ihr Rbhu´s ergötzet euch in Gesellschaft des Pusan! Die Preßsteine aufrichtend habt ihr Opfer geformt.
Прекрасно действующий, прекраснорукий, отзывчивый, соблюдающий закон
Бог Тваштар пусть даст нам (все) это на помощь?
О Рибху, радуйтесь вместе с Пушаном!
Вы вытесали обряд, направив вверх давильные камни.
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यास॑: । सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ॥
वि॒द्युत्ऽर॑थाः । म॒रुतः॑ । ऋ॒ष्टि॒ऽमन्तः॑ । दि॒वः । मर्याः॑ । ऋ॒तऽजा॑ताः । अ॒यासः॑ । सर॑स्वती । शृ॒ण॒व॒न् । य॒ज्ञिया॑सः । धात॑ । र॒यिम् । स॒हऽवी॑रम् । तु॒रा॒सः॒ ॥
विद्युद्रथाः विद्योतमानरथोपेताः ऋष्टिमन्तः दीप्तिमन्तः । ऋष्टिरायुधविशेषः तद्वन्तो वा । दिवः द्योतमानाः मर्याः शत्रूणां मारयितारः ऋतजाताः उदकाद्यज्ञाद्वा प्रादुर्भूताः । यद्वा । ऋतमुदकं जातं येभ्यस्ते ऋतजाताः । अयासः सततगमनशीला: यज्ञियासः यज्ञार्हाः मरुतः सरस्वती । गद्यपद्यरूपेण प्रसरणमस्या अस्तीति सरस्वती । वाग्देवता च । एते सर्वे देवा मदीयमिदं स्तोमं शृणवन् शृण्वन्तु । तुरासः अस्माकं फलप्रदाने त्वरणयुक्ता हे मरुतः सहवीरं पुत्रसहितं रयिं धनं धात अस्मभ्यं धत्त ॥ धात । दधातेर्लोटि ‘बहुलं छन्दसि' इति शपो लुक् । ‘ तप्तनप्तनथनाश्च' इति तबादेशः । पादादित्वादनिघातः । तपः पित्त्वादनुदात्तत्वे धातुस्वरः । तुरासः । ‘तुर त्वरणे'। इगुपधलक्षणः कः । आमन्त्रितत्वान्निघातः ॥
“May the Maruts, whose cars are the lightning, who are armed with spears, resplendent, destroyers of foes, from whom the waters proceed, (who are) unresting and adorable, and may Sarasvatī hear (my prayer); and may you (maruts), speedy in your liberality, bestow (upon us) riches and good offspring.”
Borne on their flashing car, the spear-armed Maruts, the nimble Youths of Heaven, the Sons of Order,
The Holy, and Sarasvati, shall hear us: ye Mighty, give us wealth with noble offspring.
The Maruts with lighting as their chariot, brandishing spears, the young bloods of heaven, born of truth, irrepressible,
and Sarasvatī—those worthy of the sacrifice will listen. Confer wealth along with heroes, you powerful ones.
Mit lichtem Wagen, speerbewaffnet mögen des Himmels Männer, wahrhaft, unermüdlich, Die Maruts und Sarasvati uns hören; ihr starken, hehren, gebt uns Schatz und Helden.
Die Marut mit blitzenden Wagen, speerbewaffnet, des Himmels Jungen, zur rechten Zeit geboren, die unverzagten, die Sarasvati, alle Opferwürdigen sollen zuhören. Bringt Reichtum nebst Söhnen, ihr Vornehmen!
Маруты с колесницами-молниями, с копьями,
Небесные юноши, рожденные законом, неутомимые,
(А также) Сарасвати – пусть слушают (все они,) достойные жертв!
Наделите (нас) богатством вместе с сыновьями, о могучие!
विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् । उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ॥
विष्णु॑म् । स्तोमा॑सः । पु॒रु॒ऽद॒स्मम् । अ॒र्काः । भग॑स्यऽइव । का॒रिणः॑ । याम॑नि । ग्म॒न् । उ॒रु॒ऽक्र॒मः । क॒कु॒हः । यस्य॑ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः॑ । जनि॑त्रीः ॥
स्तोमासः । स्तूयन्त एभिरिति स्तोमाः स्तोत्राणि । अर्काः अर्चनीयानि शस्त्राणि च भगस्येव धनस्य कारिणः कर्तॄणीव स्थितानि तानि यामनि संततं प्रतायमानेऽस्मिन् यज्ञे पुरुदस्मं बहुकर्माणम् । यद्वा । बहून् दस्यत्युपक्षपयतीति पुरुदस्मः । तं विष्णुं देवं ग्मन् गच्छन्तु । पूर्वीः बह्व्यः जनित्रीः सर्वस्य जनयित्र्यः युवतयः परस्परमसंकीर्णाः ककुहः । कं स्कुभ्नन्ति विस्तारयन्तीति ककुभो दिशः । यद्वा । ककुबुच्छ्रयार्थः । उच्छ्रिता इव हि दिशो वृक्षाग्रेषूपलभ्यमानाः तिष्ठन्ति । एता दिशो विष्णोराज्ञां न मर्धन्ति न हिंसन्ति । सः विष्णुः उरुक्रमः । उरुर्महान् क्रमः पादविक्षेपो यस्य सः । त्रिविक्रमावतारे एकेनैव पादेन सर्वं जगदाक्रम्यातिष्ठत ॥ ग्मन् । गमेर्लुङि • मन्त्रे घस ' इत्यादिना च्लेर्लुक् । ककुभः । पृषोदरादित्वाद्रूपस्वरसिद्धिः ॥
“May (our) praises and prayers, the causes of good fortune, attain at this sacrifice Viṣṇu, the object of many rites; he, the wide-stepping; whose commands the many-blending regions of space, the genitive rators (of all beings), do not disobey.”
To Visnu rich in marvels, songs And praises shall go as singers on the road of Bhaga,-
The Chieftain of the Mighty Stride, whose Mothers, the many young Dames, never disregard him.
The recitations, the chants have gone to Viṣṇu of many wonders as if on a journey of victorious Bhaga—
(Viṣṇu) the wide-striding humped (bull), who has many (women). The young mothers-to-be are not neglectful.
Zum wunderstarken Vischnu gingen preisend die Lieder, jubelnd wie auf Glückes Wegen; Der weithin schreitet, hoch, und dessen Mütter die jugendlichen, vielen, nimmer fehlen.
Zu Vishnu gehen die Loblieder, die Preisgesänge zu dem Vielmeisternden wie bei der Fahrt eines siegreichen Glückshelden. Er ist der weitschreitende Riese, dessen Gefolge viele Frauen sind. Nicht kommen die jungen Frauen, die Gebärerinnen zu kurz.
К Вишну многочудесному отправились восхваления, песнопения
Как при шествии победоносного Бхаги.
(Он) широкошагающий великан, у кого (свита) – многие женщины.
Юные жены, родительницы, не пренебрегают (им).
इन्द्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑: पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा । पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ॥
इन्द्रः॑ । विश्वैः॑ । वी॒र्यैः॑ । पत्य॑मानः । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । पु॒र॒म्ऽद॒रः । वृ॒त्र॒ऽहा । धृ॒ष्णुऽसे॑णः । स॒म्ऽगृभ्य॑ । नः॒ । आ । भ॒र॒ । भूरि॑ । प॒श्वः ॥
विश्वैः सर्वैः वीर्यैः सामर्थ्यैः पत्यमानः प्राप्यमाणः सः इन्द्रः उभे रोदसी द्यावापृथिव्यौ महित्वा स्वकीयेन महिम्ना आ पप्रौ पूरयामास । शेषः प्रत्यक्षकृतः। पुरंदरः शत्रुपुरां दारयिता वृत्रहा वृत्रस्य हन्ता धृष्णुषेणः पराभिभवनशीलसेनोपेतः स त्वं पश्वः पशून् संगृभ्य संगृह्य नः अस्मभ्यं भूरि प्रभूतं यथा भवति तथा आ भर देहि । यद्वा । पश्वः पशोर्भूरि बहुत्वं बहून् पशूंश्च यच्छेति ॥ पुरंदरः । ‘ दॄ विदारणे' इत्यस्य पुरशब्द उपपदे ‘पू:सर्वयोर्दारिसहोः' इति खच्प्रत्ययः । ‘ वाचंयम पुरंदरौ च ' इति निपातनात् पूर्वपदस्यामागमः । चित्त्वात् अन्तोदात्तः । धृष्णुषेणः । ‘ पूर्वपदात्' इति संहितायां षत्वम् । यदा षत्वं तदा 'रषाभ्याम्°' इति णत्वम् । संगृभ्य । ग्रहेर्ल्यपि स्थानिवद्भावात् संप्रसारणम् । ' ह्रग्रहोर्भश्छन्दसि' इति भत्वम् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । पश्वः । पशुशब्दात् शसः ‘जसादिषु छन्दसि वावचनम्' इति सवर्णदीर्घाभावः ॥
“Indra, invested with all energies, has filled both heaven and earth with his greatness; do you, who are the destroyer of cities, the slayer of Vṛtra, the leader of a conquering host, collect cattle and bestow them abundantly upon us.”
Indra, who rules through all his powers heroic, hath with his majesty filled earth and heaven.
Lord of brave hosts, Fort-crusher, Vrtra-slayer, gather thou up and bring us store of cattle.
Indra, being master by virtue of all his heroic powers, filled both world-halves with his greatness,
stronghold-splitter, Vr̥tra-smasher, possessor of a bold host. Having massed it together, bring to us here an abundance of livestock.
Versehn mit allen Heldenkräften, Indra, durchdrang mit seiner Grösse beide Welten; Der Burgen bricht, den Vritra niederschmettert, zusammenraffend bring uns viele Heerden.
Indra, der über alle Manneskräfte gebeut, hat die beiden Welthälften mit seiner Größe ausgefüllt, der Burgenzerstörer, der Vritratöter mit kühner Heerschar. Bring du uns zusammenraffend viel des Viehs her!
Индра, повелевающий всеми силами мужества,
Заполнил обе половины вселенной (своим) величием,
(Он,) проламыватель крепостей, убийца Вритры, с отважным войском.
Принеси нам, схватив (все) вместе, много скота!
नास॑त्या मे पि॒तरा॑ बन्धु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ । यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥
नास॑त्या । मे॒ । पि॒तरा॑ । ब॒न्धु॒ऽपृच्छा॑ । स॒ऽजा॒त्य॑म् । अ॒श्विनोः॑ । चारु॑ । नाम॑ । यु॒वम् । हि । स्थः । र॒यि॒ऽदौ । नः॒ । र॒यी॒णाम् । दा॒त्रम् । र॒क्षे॒थे॒ इति॑ । अक॑वैः । अद॑ब्धा ॥
हे नासत्यावश्विनौ बन्धुपृच्छा । हविष्प्रदातृत्वेन बन्धूनस्मान् अपेक्षितमर्थं पृच्छतः इति बन्धूनां प्रष्टारौ । युवां मे पितरा पालयितारौ भवतम् । युवयोः अश्विनोः सजात्यं सजाते भवं संगतं चारु नाम कमनीयं खलु । हे अश्विनौ युवं युवां नः अस्मभ्यं रयीणां धनानां मध्ये रयिदौ उत्तमस्य धनस्य दातारौ स्थः हि भवथः खलु । किंच अदब्धा केनाप्यतिरस्कृतौ युवां दात्रं हविषाँ दातारं माम् अकवैः अकुत्सितैः शोभनैः कर्मभिः रक्षेथे पालयतम् ॥ नासत्या । ‘ नभ्राण्नपात्°' इत्यादिना निपातनान्नञः प्रकृतिभावः । बन्धुपृच्छा । पृच्छेः क्विप् । ‘सुपां सुलुक्° ' इति सुपो डादेशः । सजात्यम् । सजाते भवम् । ‘भवे छन्दसि ' इति यत् । तित्स्वरितः । स्थः । अस्तेर्लटि रूपम् । हियोगादनिघातः ॥
“Nāsatyas, my protectors, inquirers (after the wishes) of your kinsman, beautiful is your cognate appellation of Aśvins; be to us the liberal donors of riches; do you, who are irresistible, protect the offerer (of the oblation) with unblameable (defences).]”
My Sires are the Nasatyas, kind tokinsmen: the Asvins' kinship is a glorious title.
For ye are they who give us store of riches: ye guard your gift uncheated by the bounteous.
The Nāsatyas, asked about our kinship, are my fathers. Our cherished name is our common birth with the Aśvins.
Because you are wealth-givers of wealth to us, you keep watch over giving with unstinting (gifts), as undeceivable ones.
Die biedern sind mir Aeltern, hold den Ihren, verwandt ist mir der Ritter theurer Name; Ihr seid ja uns der Schätze Schatzverleiher; die Gabe schützt ihr ungefährdet, huldreich.
Die Nasatya´s sind meine Väter, die sich nach ihren Angehörigen erkundigen. Die Verwandtschaft der Asvin ist ein schönes Wort. Ihr beide seid uns ja Geber von Reichtümern, ihr erhaltet die Schenkung durch gleich vollkommene Gaben, wenn ihr nicht hintergangen werdet.
(Оба) Насатьи – мои отцы, спрашиваемые о родстве.
Общее рождение с Ашвинами – приятный признак.
Ведь вы двое – наши дарители богатств.
Вы охраняете дарение нескаредными (действиями), о не терпящие обмана!
म॒हत्तद्व॑: कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ । सख॑ ऋ॒भुभि॑: पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥
म॒हत् । तत् । वः॒ । क॒व॒यः॒ । चारु॑ । नाम॑ । यत् । ह॒ । दे॒वाः॒ । भव॑थ । विश्वे॑ । इन्द्रे॑ । सखाः॑ । ऋ॒भुऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्रि॒येभिः॑ । इ॒माम् । धिय॑म् । सा॒तये॑ । त॒क्ष॒त॒ । नः॒ ॥
हे कवयः मेधाविनो हे देवाः वः युष्माकं तत् तादृशं महत् प्रभूतं नाम कर्म नमनं वा चारु मनोहरं खलु । यत् येन कर्मणा विश्वे सर्वे यूयम् इन्द्रे इन्द्रोपलक्षिते लोके देवाः भवथ ह देवत्वं प्राप्नुथ खलु । हे पुरुहूत बहुभिराहूत हे इन्द्र त्वं प्रियेभिः प्रियतमैः ऋभुभिः । ऋतेन भवन्त्यृतेन भान्तीति वा । ऋभुभिर्देवैः सखा असि । इन्द्रसहिता ऋभवो यूयम् इमाम् अस्मदीयां धियं स्तुतिं नः अस्माकं सातये धनादिलाभार्थं तक्षत स्वीकुरुत ॥ यत् । ‘सुपां सुलुक्° ' इत्यादिना सुपो लुक् । भवथ । भवतेर्लटि रूपम् । यद्वत्तयोगादनिघातः । सख ऋभुभिः इत्यत्र संहितायाम् ‘ऋत्यकः ' इति प्रकृतिभावो ह्रस्वत्वं च ॥
“Sages acquainted with the past, excellent is that beautiful appellation under which you have both become gods in (the sphere of) Indra; do you, Indra, the invoked of many, a friend, (associated) with the beloved ṛbhus, shape this prayer for our benefit.”
This is, ye Wise, your great and glorious title, that all ye Deities abide in Indra.
Friend, Much-invoked! art thou with thy dear Rbhus: fashion ye this our hymn for our advantage.
Great is this cherished name of yours, o poets [=R̥bhus], that you all become “gods” to Indra.
You are partner with the dear R̥bhus, much-invoked one. (All of you,) fashion this insight here for us to win.
Das ist, o weise, euer theures Wesen, dass Götter alle ihr bei Indra weilet, Vereint den lieben Ribhu's, vielgerufen, macht unsre Bitte kräftig zum Erlangen.
Das ist ein großes, schönes Wort von euch, ihr Seher, daß ihr Götter alle in Indra seid. Du vielgerufener Indra bist mit den lieben Ribhu´s befreundet. Formet dies Gedicht von uns zum Preisgewinn!
Велико это ваше милое имя, о поэты,
(Оно) ведь (в том,) о боги, что все вы заключаетесь в Индре.
(Он) друг для Рибху приятных, о многопризываемый.
Вытешите нам эту молитву для захвата (добычи)!
अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । यु॒योत॑ नो अनप॒त्यानि॒ गन्तो॑: प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥
अ॒र्य॒मा । नः॒ । अदि॑तिः । य॒ज्ञिया॑सः । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । यु॒योत॑ । नः॒ । अ॒न॒प॒त्यानि॑ । गन्तोः॑ । प्र॒जाऽवा॑न् । नः॒ । प॒शु॒ऽमान् । अ॒स्तु॒ । गा॒तुः ॥
अर्यमा । ऋच्छति सर्वदा गच्छतीत्यर्यमा सूर्यः । अदितिः देवमाता यज्ञियासः यज्ञार्हा देवा यस्य वरुणस्य व्रतानि कर्माणि अदब्धानि अहिंसितानि भवन्ति स वरुणः ते चार्यमादयो देवाः नः अस्मान् रक्षन्त्विति शेषः । ते यूयं नः अस्माकम् अनपत्यानि अपत्यानां पुत्राणामहितानि कर्माणि । यद्वा । पतनकारणं न भवतीत्यपत्यम् । तदन्यान्यनपत्यानि पतनकारणानि कर्माणि गन्तोः सन्मार्गात् 'युयोत पृथक्कुरुत । यथा तान्यहितानि कर्माणि न स्पृशन्ति तथा कुरुतेत्यर्थः । अथ गातुः । गायन्ति स्तुवन्तीन्द्रादीनत्रेति गातुर्गृहम् । नः अस्मदीयं गृहं पशुमान् पश्वादियुक्तं प्रजावान् अपत्योपेतम् अस्तु ॥ अर्यमा । ‘ऋ गतौ ' । ‘ श्वन्नुक्षन्प्लीहन्क्लेदन्' इत्यादिना निपातनात् रूपसिद्धिः। अदितिः । ‘दीङ् क्षये' इत्यस्य कर्तरि क्तिच् । नञा समासः। अदितिरदीना' ( निरु. ४. २२) इति यास्कः । छान्दसं ह्रस्वत्वम् । नञः स्वरः । युयोत । यौतेः अमिश्रीभावकर्मणो लोटि ‘बहुलं छन्दसि' इति शपः श्लुः । ‘तप्तनप् । इति तप्रत्ययस्य तबादेशः । गन्तोः । ‘ गम्लृ गतौ । ‘सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यः" इति तुन्प्रत्ययः । नित्त्वादाद्युदात्तः । गातुः । ‘ °गायाहिभ्यश्च' (उ. सू. १. ७२ ) इति तुप्रत्ययः ॥
“May Aryaman, Aditi, the adorable (gods), and the unimpeded functions of Varuṇa (protect) us; keep us from (following) the course unpropitious to offspring, and may our dwelling be abundant in progeny and cattle.”
Aryaman, Aditi deserve our worship: the laws of Varuna remain unbroken.
The lot of childlessness remove ye from us, and let our course be rich in kine and offspring.
Aryaman, Aditi, (all those) worthy of our sacrifice—the
commandments of Varuṇa cannot be cheated—
(all of you,) keep us from coming to childlessness. Let our course be full of offspring and livestock.
Zu ehren sind uns Arjaman, Aditi, untrüglich sind des Varuna Gesetze, Entfernt von unserm Leben Kindermangel; an Kindern reich und Vieh sei unser Wandel.
Aryaman, Aditi sind uns anbetungswert. Nicht zu hintergehen sind die Gebote des Varuna. Bewahret uns davor, in Kinderlosigkeit zu geraten. Unser Lebensweg sei kinderreich, reich an Vieh.
Арьяман, Адити (и другие боги) достойны жертв у нас.
Нерушимы обеты Варуны.
Удержите нас от того, чтоб угодить в беспотомственность!
Да будет наш путь сопровождаться потомством (и) скотом!
दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता । शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒ताप॒: सूर्यो॒ नक्ष॑त्रैरु॒र्व१॒॑न्तरि॑क्षम् ॥
दे॒वाना॑म् । दू॒तः । पु॒रु॒ध । प्रऽसू॑तः । अना॑गान् । नः॒ । वो॒च॒तु॒ । स॒र्वऽता॑ता । शृ॒णोतु॑ । नः॒ । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । सूर्यः॑ । नक्ष॑त्रैः । उ॒रु । अ॒न्तरि॑क्षम् ॥
पुरुध पुरुषु बहुषु देशेषु प्रसूतः अग्निहोत्रार्थं विहितः । यद्वा । पुरुभिर्यजमानैः प्रसूतो यष्टव्यदेवाह्वानार्थं प्रेरितः देवानां दूतः । तथा च तैत्तिरीयकम् -‘अग्निर्देवानां दूत आसीत् इति । तादृशोऽग्निः कर्मकर्तृसाधनवैगुण्येन सापराधान् नः अस्मान् अनागान् अनागसः सर्वताता सर्वत्र वोचतु ब्रवीतु । किंच पृथिवी द्यौः च उत अपि च आपः सूर्यः च नक्षत्रैरुरु विस्तीर्णम् अन्तरिक्षं च । एते सर्वे देवाः नः अस्मदीयां स्तुतिं शृणोतु शृण्वन्तु । प्रत्येकविवक्षया एकवचनम् ॥ प्रसूतः । षू प्रेरणे'। कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरः । अनागान् । शसि सकारलोपश्छान्दसः । सवर्णदीर्घे कृते “ तस्माच्छसो नः' इति नत्वम् । वोचतु । ‘वच परिभाषणे'। ‘ व्यत्ययो बहुलम्' इति शपोऽङादेशः । वच उम् । गुणः । निघातः । नक्षत्रैः । ‘ नक्ष गतौ ' । ' अमिनक्षियजिबन्धिपतिभ्योऽत्रन्' इत्यत्रन्प्रत्ययः । नित्त्वादाद्युदात्तः । यद्वा । न क्षरति न क्षीयते इति वा नक्षत्रम् । ‘ नभ्राण्नपात्' इति नञः प्रकृतिभावः । नञः स्वरः॥
“May the messenger of the gods, engendered in many plural ces, everywhere proclaim us void of offence; may earth and heaven, the waters, the sun, and the vast firmament, with the constellation, hear us.”
May the Gods' envoy, sent to many a quarter, proclaim us sinless for our perfect safety.
May Earth and Heaven, the Sun, the waters, hear us, and the wide firmament and constellations.
The messenger of the gods, impelled forth in many forms—let him pronounce us blameless in our entirety.
Let Earth, Heaven, and the Waters hear us, and the Sun with the heavenly bodies, and the broad midspace.
᳓
Als Götter Bote, immer neu geboren verkünd uns sündlos in dem Rath der Götter; Es hör' uns Erde, Himmel und Gewässer, die weite Luft, die Sonne nebst den Sternen.
Der Bote der Götter, der oftmals beauftragt wird, soll uns in vollem Maße als schuldlos melden. Es mögen uns die Erde, der Himmel und die Gewässer, die Sonne mit den Gestirnen, der weite Luftraum erhören.
Вестник богов, много раз побужденный (к этому),
Пусть провозгласит нас безгрешными – полностью!
Да услышат нас земля, небо и воды,
Солнце с созвездиями, широкое воздушное пространство!
शृ॒ण्वन्तु॑ नो॒ वृष॑ण॒: पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः । आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ॑न्तु नो म॒रुत॒: शर्म॑ भ॒द्रम् ॥
शृ॒ण्वन्तु॑ । नः॒ । वृष॑णः । पर्व॑तासः । ध्रु॒वऽक्षे॑मासः । इळ॑या । मद॑न्तः । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शृ॒णो॒तु॒ । यच्छ॑न्तु । नः॒ । म॒रुतः॑ । शर्म॑ । भ॒द्रम् ॥
वृषणः अभिमतफलसेचका मरुतः पर्वतासः । पृणन्ति पूरयन्त्यर्थिनां कामानिति पर्वता ग्रावाभिमानिनो देवाः ध्रुवक्षेमासः निश्चलस्थानाः इळया हविर्लक्षणेनान्नेन मदन्तः माद्यन्तः सन्तः नः अस्मदीयां स्तुतिं शृण्वन्तु । किंच आदित्यैः अपत्यभूतैरादित्यैः उपेता अदितिः नः अस्मदीयां स्तुतिं शृणोतु । मरुतः च नः अस्मभ्यं भद्रं कल्याणकरं शर्म सुखं यच्छन्तु ददतु॥ आदित्यैः । अदितेरपत्यानीत्यर्थे ' दित्यदिति° ' इति ण्यः । प्रत्ययस्वरेणान्तोदात्तः । सुपा सहैकादेशे कृते एकादेश उदात्तः ॥
“May the (divine) showerers (of benefits), the deities of the mountains, and those abiding in fixed habitations, propitiated by the sacrificial food, hear us; may Aditi, with the Ādityas, heqar us; may the Maruts grant us auspicious felicity.”
Hear us the mouatains which distil the rain-drops, and, resting firm, rejoice in freshening moisture.
May Aditi with the Adityas hear us, and Maruts grant us their auspicious shelter.
Let the bullish mountains with stable dwelling places hear us, as they become exhilarated on the refreshing drink.
Let Aditi with the Ādityas hear us. Let the Maruts extend to us beneficial shelter.
᳓
Die starken Berge mögen uns erhören, die festgegründet sich des Trunks erfreuen; Es hör' uns Aditi mit ihren Söhnen, die Marutschar verleihe sichern Schutz uns.
Es sollen uns die bullenhaften Berge erhören, die feststehenden, die sich an der Idaspende gütlich tun. Mit den Aditya´s soll uns Aditi erhören, die Marut sollen uns ihren glückbringenden Schutz gewähren.
Да услышат нас быки-горы,
С твердой основой, радующиеся возлиянию!
Да услышит нас Адити с Адитьями!
Да пожалуют нам Маруты счастливое убежище!
सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धी॒: सं पि॑पृक्त । भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥
सदा॑ । सु॒ऽगः । पि॒तु॒ऽमान् । अ॒स्तु॒ । पन्था॑ । मध्वा॑ । दे॒वाः॒ । ओष॑धीः । सम् । पि॒पृ॒क्त॒ । भगः॑ । मे॒ । अ॒ग्ने॒ । स॒ख्ये । न । मृ॒ध्याः॑ । उत् । रा॒यः । अ॒श्या॒म् । सद॑नम् । पु॒रु॒ऽक्षोः ॥
हे अग्ने अस्माकं पन्थाः मार्गः सदा सर्वदा सुगः सुखेन गन्तुं शक्यः पितुमान् अन्नवांश्च अस्तु । हे देवाः मध्वा माधुर्योपेतेनोदकेन ओषधीः सं पिपृक्त संपर्चयत । सेचयतेत्यर्थः । हे अग्ने त्वया सख्ये संजाते सति मे मम भगः धनं न मृध्या: न विनश्यतु । किंच रायः धनस्य पुरुक्षोः बह्वन्नस्य च सदनं स्थानम् उत् अश्यां प्राप्नुयाम् ॥ सदा । स्वरादिवाद्युदात्तत्वेन पाठादाद्युदात्तः। पिपृक्त।' पृची संपर्के'। लोटि ' बहुलं छन्दसि ' इति शपः श्लुः । बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । मृध्याः। मृधिर्हिंसार्थः । लिङि • तिङा तिङो भवन्ति' इति तिपः सिप् ॥
“May our path ever be easy of going, and provided with food; sprinkle, gods, the plural nts with sweet water; (safe) in your friendship, Agni, may my fortune never be impaired, but may I occupy a dwelling (abounding) with riches and ample food.”
Soft be our path for ever, well-provisioned: with pleasant meath, O Gods, the herbs besprinkle.
Safe be my bliss, O Agni, in thy friendship: may I attain the seat of foodful. riches,
Let our path be always easy to travel, abounding in food. Gods, saturate the plants with honey.
(Let there be) a share in your fellowship for me, Agni. You should not be neglectful. Might I reach the seat of wealth consisting in much
livestock.
Stets sei der Pfad gebahnt und reich an Nahrung; mit Meth besprengt, o Götter, die Gewächse; Vertheilend, Agni, denk an meine Freundschaft und führ zum Sitz mich nahrungsreicher Habe.
Immer soll unser Weg gut zu gehen, nahrungsreich sein. Ihr Götter, durchtränkt die Pflanzen mit Süßigkeit! Bhaga, das Glück, möge in meiner Freundschaft nicht fehlen, o Agni. Ich möchte zu einem Wohnsitz des Reichtums mit großem Viehstand gelangen.
Да будет путь всегда легко проходимым, богатым питанием!
Медом, о боги, пропитайте растения!
Да не пренебрежет Бхага моей дружбой!
Да получу я доступ к месту богатства, обильного скотом!
स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि । विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥
स्वद॑स्व । ह॒व्या । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि । विश्वा॑न् । अ॒ग्ने॒ । पृ॒त्ऽसु । तान् । जे॒षि॒ । शत्रू॑न् । अहा॑ । विश्वा॑ । सु॒ऽमनाः॑ । दी॒दि॒हि॒ । नः॒ ॥
हे अग्ने हव्या हवनयोग्यानि हवींषि स्वदस्व स्वादय । अस्माकम् इषः अन्नानि सं दिदीहि सम्यक् प्रकाशय। दीपितानि तानि श्रवांसि अन्नानि अस्मद्र्यक् अस्मदभिमुखानि सं मिमीहि संमानय । कुरु इत्यर्थः । ततः पृत्सु संग्रामेषु तान् बाधकानू विश्वान् सर्वान् शत्रून् जेषि जय । अथ सुमनाः शोभनमनस्कः सन् नः अस्माकं विश्वा अहा सर्वाण्यहानि दीदिहि अग्निहोत्रादिकर्मयोग्यानि प्रकाशय ॥ स्वदस्व। ‘स्वद आस्वादने'। लोटि रूपम् । थासो लसार्वधातुकस्वरे धातुस्वरः । दिदीहि । ‘दिवु क्रीडादौ ' इत्यस्य लोटि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः । परत्वात् ‘हलि च' इति दीर्घत्वे कृते पश्चात् वलि लोपः । निघातः । अस्मद्र्यक् । अस्मानञ्चति इति अञ्चतेः क्विप् । ' विष्वग्देवयोश्च टेः' इति" टेरद्र्यादेशः । सुपां सुलुगिति सुपो लुक् । अद्र्यादेशस्यान्तोदात्तत्वेन निपातनात् यणादेशे कृते ‘ उदात्तस्वरितयोः० ' इति यणः स्वरितत्वम् । मिमीहि । ‘माङ् माने शब्दे च'। जुहोत्यादिः । तस्य लोटि व्यत्ययेन परस्मैपदम् । निघातः । सुमनाः । ‘ सोर्मनसी ' इत्युत्तरपदाद्युदात्तत्वम् । दीदिहि । दिवेर्यङ्लुकि लोटि तुजादित्वाभ्यासस्य दीर्घः । वलि लोपः ॥ ॥ २७ ॥
“Taste (Agni) the oblations, make manifest (for us) abundant food measure out the viands before us; you overcome all those (who are) our enemies in conflict; favourably inclined towards us lighten up all our (ceremonies) day by day.”
Enjoy the offering: beam thou strength upon us; combine thou for our good all kinds of glory.
Conquer in battle, Agni, all those foemen, and light us every day with loving kindness.
Sweeten our oblations, illuminate our refreshments entirely. Mete out full measures of fame in our direction.
Conquer all our rivals in combat, Agni. Through all the days, shine benevolently on us.
Geniess die Opfer, strahl herbei uns Nahrung und miss uns zu, o Agni, reiche Schätze, Besiege alle Feinde in den Schlachten, und alle Tage leuchte wohlgesinnt uns.
Laß dir die Opfer schmecken, strahle Labsale aus, teil uns die Ehren zu! Besiege alle diese Feinde im Kampf, o Agni; alle Tage erstrahle uns wohlgesinnt!
Вкушай с удовольствием жертвы! Воссвети жертвенные подкрепления!
Нам отмерь славу!
Всех этих врагов, о Агни, победи в битвах!
Благожелательный освещай нам все дни!