उ॒षस॒: पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः । व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः । व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
पूर्वाः उदयकालात् प्राचीनाः उषसः यत् यदा व्यूषुः व्युच्छन्ति अध तदानीम् अक्षरम् । न क्षरतीत्यक्षरम् । अविनाश्यादित्याख्यं महत् प्रभूतं ज्योतिः गोः उदकस्य पदे स्थाने समुद्रे नभसि वा वि जज्ञे उत्पद्यते । अथोदिते सूर्ये प्रभूषन् अग्निहोत्रादिकर्मसु प्रभवितुमिच्छन् यजमानः व्रता कर्माणि देवानां नु क्षिप्रम् उप समीपं नेष्यति । योग्यक्रियाध्याहारः । तदिदं देवानाम् एकं मुख्यम् असुरत्वम्। अस्यति क्षिपति सर्वानित्यसुरः प्रबलः । तस्य भावोऽसुरत्वं प्राबल्यम् । महदैश्वर्यम् ॥ व्यूषुः । 'उष प्लुष दाहे' इत्यस्य विपूर्वस्य लिट्युसि रूपम् । 'सह' इति योगविभागात् समासः । यद्वृत्तयोगादनिघातः । प्रभूषन् । भवतेः सनि द्विर्वचनस्य छन्दसि विकल्पितत्वात् अत्र द्विर्वचनाभावः । तदन्ताच्छतरि रूपम् । प्रादिसमासः । शतुर्लसार्वधातुकस्वरे धातुस्वरः ॥
“When the preceding dawns appear, the great imperishable (light) is engendered in the (firmament, the) sphere of the waters, and then the worshipper is alert to perform the rites (due to) the gods, for great and unequalled is the might of the gods.”
AT the first shining of the earliest Mornings, in the Cow's home was born the Great Eternal.
Now shall the statutes of the Gods be valid. Great is the Gods' supreme and sole dominion -
Then when the ancient dawns dawned forth, in the track of the cow a great imperishable (syllable) was born [/was discerned],
which tends to the commandments of the gods: great is the one and only lordship of the gods.
Da, als die ersten Morgenröthen strahlten, entstand das grosse Licht am Ort der Weltkuh, Die Satzungen der Götter nun befolgend; gross ist allein der Götter Geistesfülle.
Damals als die früheren Morgenröten aufgingen, da wurde das große Wort geboren auf der Fährte der Kuh. Der Dienste der Götter wartend sage ich: Groß ist die einzige Asuramacht der Götter.
Когда прежние Ушас зажигались,
Великое слово зародилось в следе коровы.
Соблюдая заветы богов, (я говорю):
Велико могущество богов, единственно.
मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तर॑: पद॒ज्ञाः । पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
मो इति॑ । सु । नः॒ । अत्र॑ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे॑ । अ॒ग्ने॒ । पि॒तरः॑ । प॒द॒ऽज्ञाः । पु॒रा॒ण्योः । सद्म॑नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
हे अग्ने अत्र अस्मिन् काले देवाः नः अस्मान् सु सुष्ठु मो जुहुरन्त मा हिंस्युः । तथा पदज्ञाः कर्माण्यनुष्ठाय देवपदमनुभवन्तः पूर्वे पुरातनाः पितरः मा हिंसिषुः । यस्मात् केतुः यज्ञानां प्रज्ञापकः सूर्यः पुराण्योः पुरातनयोः सद्मनोः । सीदन्त्यनयोर्देवमनुष्या इति सद्मनी रोदसी । तयोः अन्तः मध्ये उदेति । तस्मादत्र मा हिंसन्त्वित्यर्थः । महद्देवानाम् इत्यादि पूर्ववत् ॥ जुहुरन्त । ‘हृ प्रसह्यकरणे' । लुङि जुहोत्यादित्वात् श्लुः । व्यत्ययेनात्मनेपदम् । 'बहुलं छन्दसि ' इत्युत्वम् । संज्ञापूर्वकस्य विधेरनित्यत्वाददादेशाभावेऽन्तादेशः ॥
“Let not the gods, Agni, now do us harm, nor the ancient progenitors, who have come to know the degree (of divinity); nor the manifester of light between the two ancient dwellings (earth and heaven, the sun); for great and unequalled is the might of the gods.”
Let not the Gods here injure us, O Agni, nor Fathers of old time who know the region,
Nor the sign set between two ancient dwellings. Great is the Gods' supreme and sole dominion.
Let not the gods deflect us here, nor the ancient Fathers who know the track [/word], o Agni.
Between the two seats of the two age-old ones [=Heaven and Earth] is your beacon. – Great is the one and only lordship of the gods.
Nicht, Agni, mögen jetzt uns Götter täuschen, noch auch die alten wegekund'gen Väter, Du Fackel zwischen beiden grossen Sitzen; gross ist allein der Götter Geistesfülle.
Dabei mögen uns die Götter und die spurenkundigen Vorfahren ja nicht irreführen, o Agni. Zwischen den Sitzen der beiden uralten Rodasi ist deine Leuchte. -Groß ist die einzige Asuramacht der Götter.
Да не рассердятся тут на нас ни боги,
Ни прежние отцы, о Агни, знающие след.
Между двумя сиденьями обеих древних (половин вселенной) - (твой) факел.
Велико могущество богов, единственно.
वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामा॒: शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ । समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
वि । मे॒ । पु॒रु॒ऽत्रा । प॒त॒य॒न्ति॒ । कामाः॑ । शमि॑ । अच्छ॑ । दी॒द्ये॒ । पू॒र्व्या॑णि॑ । सम्ऽइ॑द्धे । अ॒ग्नौ । ऋ॒तम् । इत् । व॒दे॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
हे अग्ने मे मम पुरुत्रा बहवः कामाः अभिलाषाः वि पतयन्ति विविधं गच्छन्ति । शमि अग्निष्टोमादिलक्षणं कर्म अच्छ अभिलक्ष्याहं पूर्व्याणि पुरातनानि स्तोत्राणि तदर्थं दीद्ये दीपयामि। पश्चात् यज्ञार्थम् अग्नौ समिद्धे दीप्यमाने सति ऋतमित् सत्यमेव वदेम । अनृतवचने हि यज्ञे वैगुण्यं स्यादिति ॥ पुरुत्रा । देवमनुष्यपुरुष°' इत्यादिना त्राप्रत्ययः । पतयन्ति । पत्लृ गतौ '। स्वार्थिको णिच् ॥
“Variously do my manifold desires alight; present at the solemnity, I recite ancient (hymns); when the fire is kindled we speak indeed the truth, for great and unequalled is the might of the gods.”
My wishes fly abroad to many places: I glance back to the ancient sacrifices.
Let us declare the truth when fire is kindled. Great is the Gods' supreme and sole dominion.
My desires fly apart in many directions, but with my (ritual) labor I illuminate ancient things.
When Agni has been kindled might we speak only truth: “Great is the one and only lordship of the gods.”
Nach vielen Seiten fliegen meine Wünsche, beim Opfer acht' ich auf die alten Sprüche; Bei Agni's Flamme mögen recht wir preisen; gross ist allein der Götter Geistesfülle.
Meine Wünsche fliegen nach vielen Seiten, mit rechtem Fleiß beleuchte ich die früheren Dinge. Bei dem entflammten Feuer wollen wir die Wahrheit verkünden. -Groß ist die einzige Asuramacht der Götter.
Во многие стороны разлетаются мои желания.
Благочестивым трудом я освещаю прежние (события).
При зажженном огне пусть провозгласим мы закон.
Велико могущество богов, единственно.
स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ । अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
स॒मा॒नः । राजा॑ । विऽभृ॑तः । पु॒रु॒ऽत्रा । शये॑ । श॒यासु॑ । प्रऽयु॑तः । वना॑ । अनु॑ । अ॒न्या । व॒त्सम् । भर॑ति । क्षेति॑ । मा॒ता । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
समानः साधारणः सर्वेषाम् । यद्वा एक एव । राजा दीप्यमानोऽग्निः पुरुत्रा बहुषु देशेषु विभृतः अग्निहोत्रार्थं विहृतो भवति । यद्वा । राजा अभिषुतः सोमः सर्वेषु देशेषु यज्ञार्थं विहृतो भवति । स चाग्निः सोमो वा शयासु वेदिषु । शेरते हविरादयः पदार्था अत्रेति शया वेद्यः । तासु शये शेते निवसति । वनानु अनुवनं वनेश्वरणिरूपेषु काष्ठेषु प्रयुतः विभक्तोऽग्निर्वर्तते । सोमश्चेत् वनेषु चमसेषु विभक्तो वर्तते । तस्य द्वे मातरौ द्यावापृथिव्यौ। तयोः अन्या द्यौः अस्याः भूमेः जायमानतया वत्सं वत्सभूतमग्निं सोमं वा भरति वृष्ट्यादिरूपेण भरति पोषयति । माता वसुधा क्षेति केवलं निवासयति ॥ विभृतः । ‘ हृञ् हरणे ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पुरुत्रा। अधिकरणे त्राप्रत्ययः । शये । ‘शीङ् स्वप्ने । लोपस्तः' इति तकारलोपः । ‘शीङः सार्वधातुके गुणः । शयासु । ‘शीङ् स्वप्ने । एरच् ' इत्यधिकरणेऽच् । भरति । भृञ् भरणे । भूवादिः । ‘ एकान्याभ्यां समर्थाभ्याम्' इति पूर्वस्य न निघातः । क्षेति । क्षि निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
“The universal sovereign is conveyed to many directions; he sleeps in the plural ces of repose; he is connected with the forests; one mother (heaven) nourishes the child; the other (earth) gives him a dwelling; great and unequalled is the might of the gods.”
King Universal, born to sundry quarters, extended through the wood be lies on couches.
One Mother rests: another feeds the Infant. Great is the Gods' supreme and sole dominion.
The common king has been dispersed in many places; he lies in his resting places [=hearths], (spread out) for some distance along the
(fire-)logs.
Another bears the calf; the mother rests peacefully [=the two
fire-churning sticks]. – Great is the one and only lordship of
the gods.
Derselbe König, viel umhergetragen, liegt auf den Lagern sorglos in den Hölzern, Die eine nährt das Kalb, die Mutter schlummert; gross ist allein der Götter Geistesfülle.
Der gemeinsame König, auf viele Stellen verteilt, ruht in den ruhenden Müttern sich selbst überlassen in jedem Holze. Eine andere trägt das Kalb die Mutter sitzt ruhig. -Groß ist die einzige Asuramacht der Götter.
Общий царь, разнесенный по многим местам.
Он лежит на ложах, предоставленный самому себе в каждом куске древесины.
Другая (чем мать) несет теленка; (сама) мать пребывает в покое.
Велико могущество богов, единственно.
आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः । अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
आ॒ऽक्षित् । पूर्वा॑सु । अप॑राः । अ॒नू॒रुत् । स॒द्यः । जा॒तासु॑ । तरु॑णीषु । अ॒न्तरिति॑ । अ॒न्तःऽव॑तीः । सु॒व॒ते॒ । अप्र॑वीताः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
पूर्वासु जीर्णास्वोषधीषु आक्षित् आवर्तमानः तथा अपराः नव्या ओषधीः अनूरुत् अनुरुन्धन् उत्पत्त्यानुगुण्येनानुतिष्ठन्नग्निः सूर्यो वा सद्यो जातासु तदानीमुत्पन्नासु तरुणीषु पल्लवितास्वोपधीषु अन्तः वर्तते । ता ओषधयः अप्रवीताः केनापि पुरुषेणानिषिक्तरेतस्काः अनभ्यक्ता वा अन्तर्वतीः अग्निना गर्भवत्यो भूत्वा सुवते फलं पुष्पं चोत्पादयन्ति । तदिदं देवानामैश्वर्यम् ॥ आक्षित् । ‘क्षि निवासगत्योः' । क्विप् । अनूरुत् । ‘ अनो रुध कामे ' । अस्मात् क्विप् । अन्येषामपि दृश्यते ' इति दीर्घः। कृत्स्वरः। तरुणीषु ।' नञ्स्नञीकक्ख्युंस्तरणतलुनानामुपसंख्यानम् ' ( पा. म. ४.१:१५.६ ) इति डीप् । अन्तर्वतीः। ‘ झयः' इति मतुपो वत्वम् । सुवते । ‘ षूङ् प्राणिगर्भविमोचने ' इत्यस्य लटि रूपम् । निघातः ॥ ॥ २८॥
“Existing in ancient plural nts, abiding afterwards in new, he enters into the young (herbs) as soon as they are produced; unimpregnated they become pregnant and bear fruit; great and unequalled is the might of the gods.”
Lodged in old plants, he grows again in younger, swiftly within the newly-born and tender.
Though they are unimpregned, he makes them fruitful. Great is the Gods' supreme and sole dominion.
He is dwelling in the older (plants), growing up through the later ones, within the tender ones (even) when they are just born.
Having (him) within, (though) unimpregnated they give birth to (him). – Great is the one and only lordship of the gods.
In frühern ruhend wächst er nach in spätern, in den so eben nur gebornen Jungfrau'n; Ob unbelegt, gebären doch die schwangern; gross ist allein der Götter Geistesfülle.
In den früheren hausend, in die späteren nachwachsend ist er sogleich in den neugeborenen jungen Pflanzen. Die Schwangeren gebären ihn unbelegt. -Groß ist die einzige Asuramacht der Götter.
Пребывая в прежних, прорастая в будущие,
Он сразу же (оказывается) внутри (ново) рожденных, свежих (растений).
Беременные рожают (его) не зачавши.
Велико могущество богов, единственно.
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एक॑: । मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
श॒युः । प॒रस्ता॑त् । अध॑ । नु । द्विऽमा॒ता । अ॒ब॒न्ध॒नः । च॒र॒ति॒ । व॒त्सः । एकः॑ । मि॒त्रस्य॑ । ता । वरु॑णस्य । व्र॒तानि॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
द्विमाता । द्वे द्यावापृथिव्यौ मातरौ यस्य स द्विमाता । यद्वा द्वयोर्लोकयोर्निर्माता । सूर्यः परस्तात् पश्चिमायां दिशि अस्तवेलायां शयुः शयानोऽव्याप्रियमाणो भवति । अध नु अथोदयवेलायाम् एकः द्यावापृथिव्योः साधारणः तयो रसादानात् वत्सः पुत्रः अबन्धनः अप्रतिबद्धगतिः अनालम्बनः एकः सन् चरति नभसि गच्छति । ता तानीमानि मित्रस्य वरुणस्य मित्रावरुणयोः व्रतानि कर्माणि ॥ शयुः । ‘शीङ् स्वप्ने '। भृमृशीतॄचरि' इत्यादिना उप्रत्ययः । द्विमाता । ‘नद्यृतश्च ' इति प्राप्तस्य कपः ‘ ऋतश्छन्दसि' इति प्रतिषेधः ॥
“The child of two mothers sleeps in the west, but (in the morning) the single infant proceeds unobstructed (through the sky); these are the functions of Mitra and Varuṇa; great and unequalled is the might of the gods.”
Now lying far away, Child of two Mothers, he wanders unrestrained, the single youngling.
These are the laws of Varuna and Mitra. Great is the Gods' supreme and sole dominion.
He who was lying down far away—now he who has two mothers roams without a binding (rope), their only calf.
These are the commandments of Mitra and Varuṇa: Great is the one and only lordship of the gods.
Dort ferne ruhend, hier in Zweiten Müttern, das eine Kalb, es wandert ungefesselt, Das sind des Mitra-Varuna Gesetze; gross ist allein der Götter Geistesfülle.
Im Jenseits zur Ruhe gehend wandelt nunmehr das Zweimütterkind als einsames unangebundenes Kalb. Dies ist das Walten des Mitra und Varuna. -Groß ist die einzige Asuramacht der Götter.
Лежавший (раньше) по ту сторону, (этот,) имеющий двух матерей
Теленок бродит теперь непривязанный, один.
Таковы заветы Митры, Варуны.
Велико могущество богов, единственно.
द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः । प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
द्वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । स॒म्ऽराट् । अनु॑ । अग्र॑म् । चर॑ति । क्षेति॑ । बु॒ध्नः । प्र । रण्या॑नि । र॒ण्य॒ऽवाचः॑ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
द्विमाता द्वयोर्लोकयोर्निर्माता विदथेषु यज्ञेषु होता देवानामाह्वाता सम्राट् यज्ञेषु सम्यक् राजमानोऽग्निः अन्वग्रम् अग्रे दिवि चरति सूर्यभूतस्तत्र वर्तते । बुध्नः सर्वस्य कर्मणो मूलभूतः सन् क्षेति भूमौ वसति । यद्वा । अग्रं मुख्यं भागं चरति भक्षयति। क्षेति यज्वनां गृहेषु निवसति । यद्वा । बुध्नः प्रतिष्ठा अन्तेभागी स्विष्टकृद्रूपेण । ‘ प्रतिष्ठा वै स्विष्टकृत्' इति श्रुतेः । किंच रण्यवाचः रमणीयवाचः स्तोतारः रण्यानि रमणीयानि स्तोत्राणि प्र भरन्ते प्रकर्षेण कुर्वन्ति । तदिदं देवानामैश्वर्यम् ॥ चरति । 'वादिलोपे° ' इति न निघातः ॥
“The child of two mothers, the invoker of the gods at sacrifices, the universal sovereign, proceeds thenceforward (in the sky); the root (of all), he abides (in the houses of the pious); the reciters of plural asant (words) offer him agreeable (praises); great and unequalled is the might of the gods.”
Child of two Mothers, Priest, sole Lord in synods, he still precedes while resting as foundation.
They who speak sweetly bring him sweet addresses. Great is the Gods' supreme and sole dominion.
The one with two mothers is the Hotar, the sovereign king at the
rites. The top (of him) roams along (the logs), while his base rests
peacefully.
Those who speak delightful (speech) proffer delightful (things). – Great is the one and only lordship of the gods.
Sohn zweier Mütter, Priester, Herr der Feste, nach aufwärts geht er, ruhend ist die Wurzel; Ihm bringen liebes dar, die lieblich reden; gross ist allein der Götter Geistesfülle.
Das Zweimütterkind ist der Hotri, bei dem Opfer der Allherr. Er bewegt sich nach der Spitze zu, der untere Teil bleibt ruhen. Unter ergötzlichen Reden bringen sie ergötzliche Opferspenden dar. -Groß ist die einzige Asuramacht der Götter.
Имеющий двух матерей, хотар – самодержец на местах жертвенных раздач.
Он шевелится поверху, дно остается в покое.
Радостные (жертвы) приносят (ему) радостно говорящие (жрецы).
Велико могущество богов, единственно.
शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् । अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् । अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
अन्तमस्य समीपे वर्तमानस्य दावाग्नेः आयत् अभिमुखमागच्छत् विश्वं भूतजातं प्रतीचीनं पराङ्मुखं ददृशे दृश्यते । तत्र दृष्टान्तः । शूरस्येव । यथा युध्यतः युद्धं कुर्वाणस्य शूरस्य समर्थस्य राज्ञः अभिमुखमागच्छत् परबलं पराङ्मुखं दृश्यते तद्वत् । मतिः सर्वैर्ज्ञायमानः सोऽग्निः गोः उदकस्य निष्षिधं हिंसिकां दीप्तिम् अन्तः चरति अन्तर्धारयति ॥ युध्यतः । ‘ युध संप्रहारे'। दिवादिः । तस्य शतरि रूपम् । अन्तमस्य । अन्तशब्दात् ‘ अत इनिठनौ ' इति ठन् । अतिशयेनान्तिकः इत्यर्थें तमप् । ‘ तमे तादेश्च' इति तादिलोपः । नित्त्वादाद्युदात्तः । प्रतीचीनम् । प्रतिपूर्वस्याञ्चतेः क्विन् । तस्मात् “ विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । ईनादेशः । प्रत्ययस्वरः । आयत् । या प्रापणे ' इत्यस्याङ्पूर्वस्य शतरि रूपम्; आङ्पूर्वस्य • अय पय गतौ ' इत्यस्य शतरि रूपं वेति व्युत्पत्त्यनवधारणादनवग्रहः ॥
“All (creatures) approaching too near his confines are beheld with their faces turned away as (an enemy) flies from a combatant; obvious (to all), he penetrates the water for its destruction; great and unequalled is the might of the gods.”
As to a friendly warrior when he battles, each thing that comes anear is seen to meet him.
The hymn commingles with the cow's oblation. Great is the Gods' supreme and sole dominion.
His every approach appears right in your face, like that of a champion battling up close.
The thought acts as go-between to the tribute of the cow [=ghee as
oblation]. – Great is the one and only lordship of the gods.
So wie des liebsten Helden, welcher kämpfet, erschien willkommen alles, was herbeikam; Es dringt sein Sinn ein in der Weltkuh Spende, gross ist allein der Götter Geistesfülle.
Alles herankommende sieht man sich ihm zuwenden wie einem kämpfenden Helden in nächster Nähe. Das Gebet mischt sich unter den schuldigen Tribut der Kuh. -Groß ist die einzige Asuramacht der Götter.
Словно к герою, борющемуся врукопашную.
Видно, как все идет (к нему) навстречу.
Мысль движется между (двух миров) во исполнение (приношения) коровы.
Велико могущество богов, единственно.
नि वे॑वेति पलि॒तो दू॒त आ॑स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ । वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
नि । वे॒वे॒ति॒ । प॒लि॒तः । दू॒तः । आ॒सु॒ । अ॒न्तः । म॒हान् । च॒र॒ति॒ । रो॒च॒नेन॑ । वपूं॑षि । बिभ्र॑त् । अ॒भि । नः॒ । वि । च॒ष्टे॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
पलितः पालयिता पूर्णो वा देवानां दूतः अग्निः आसु ओषधीषु नि वेवेति नितरां व्याप्य वर्तते । 'महान् सोऽग्निः रोंचनेन सूर्येण सह अन्तः रोदस्योर्मध्ये चरति । वपूंषि नानाविधानि रूपाणि बिभ्रत् सोऽग्निः नः अस्मान् यष्टॄन् अभि वि चष्टे विशेषेणानुग्रहदृष्ट्या पश्यति ॥ वेवेति । वी गत्यादिषु । यङ्लुकि ईडभावे रूपम् । रोचनेन । सहार्थे तृतीया । बिभ्रत् ॥ डुभृञ् धारणपोषणयोः' इत्यस्य शतरि रूपम् । अभ्यस्तस्वरः ॥
“In those (plural nts) the aged messenger (of the gods) constantly abides; mighty, he presses with the radiant (sun) through the region of space; assuming various forms, he looks (complacently) upon us; great and unequalled is the might of the gods.”
Deep within these the hoary envoy pierceth; mighty, he goeth to the realm of splendour,
And looketh on us, clad in wondrous beauty. Great is the Gods' supreme and sole dominion.
The gray messenger [=smoke] keeps bearing down on them
[=hearths? plants?]. The great one acts the go-between through the
luminous realm.
Bearing wondrous forms, he looks out upon us. – Great is the one and only lordship of the gods.
In diese Mütter dringt der greise Bote, der grosse geht hinein mit hellem Glanze; Er zeigt sich uns in lichter Schönheit prangend, gross ist allein der Götter Geistesfülle.
Der ergraute Bote ist brünstig nach ihnen, der Große geht mit seinem Lichtglanz zwischen Himmel und Erde. Seine Schönheiten anlegend blickt er uns an. -Groß ist die einzige Asuramacht der Götter.
Седой вестник кидается на этих (жен).
Великий бродит среди (них) со (своим) светом.
Неся (свои) красоты, он взирает на нас.
Велико могущество богов, единственно.
विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथ॑: प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः । अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
विष्णुः॑ । गो॒पाः । प॒र॒मम् । पा॒ति॒ । पाथः॑ । प्रि॒या । धामा॑नि । अ॒मृता॑ । दधा॑नः । अ॒ग्निः । ता । विश्वा॑ । भुव॑नानि । वे॒द॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
विष्णुः व्याप्तः गोपाः सर्वस्य गोपायिता प्रिया प्रियतमानि अमृता क्षयरहितानि धामानि तेजांसि दधानः सोऽग्निः परमं पाथः स्थानं पाति रक्षति । यद्वा । धामानि लोकधारकाणि अमृता उदकानि दधानः सन् परमं पाथः उदकस्य स्थानमन्तरिक्षं पाति । सः अग्निः ता तानि विश्वा सर्वाणि भुवनानि भूतजातानि वेद जानाति ॥ गोपाः । गोपायतेः क्विपि अतोलोपयलोपौ । अग्निष्टा इत्यत्र सहितायां ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति षत्वम् ॥ ॥ २९ ॥
“Pervading and protecting (all), possessing grateful and immortal radiance, he preserves the supreme path (or the rains), for Agni knows all these worlds; great and unequalled is the might of the gods.”
Visnu, the guardian, keeps the loftiest station, upholding dear, immortal dwelling-places.
Agni knows well all these created beings. Great is the Gods' supreme and sole dominion.
Viṣṇu, the cow-protector, protects the highest pen, establishing his own dear, immortal domains.
Agni knows all these worlds. – Great is the one and only lordship of the gods.
Der thät'ge Hüter schirmt die höchste Stätte, die lieben Sitze gründend unvergänglich; Es kennet Agni alle diese Welten; gross ist allein der Götter Geistesfülle.
Vishnu, der Wächter, hütet den höchsten Hort, seine lieben, unsterblichen Formen annehmend. Agni kennt alle diese Welten. -Groß ist die einzige Asuramacht der Götter.
Вишну-пастух охраняет высшее пастбище,
Осуществляя (свои) собственные установления, бессмертные.
Агни знает все эти явления.
Велико могущество богов, единственно.
नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् । श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
नाना॑ । च॒क्रा॒ते॒ इति॑ । य॒म्या॑ । वपूं॑षि । तयोः॑ । अ॒न्यत् । रोच॑ते । कृ॒ष्णम् । अ॒न्यत् । श्यावी॑ । च॒ । यत् । अरु॑षी । च॒ । स्वसा॑रौ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
यम्या यमरूपे मिथुनभूते अहश्च रात्रिश्चेत्येते नाना नानाविधानि वपूंषि शुक्लकृष्णादीनि रूपाणि चक्राते कुरुतः । श्यावी कृष्णवर्णा अरुषी शुक्लतया आरोचमाना यत् ये परस्परं स्वसारौ भवतः तयोः मध्ये अन्यत् अर्जुनमहः रोचते किरणसंबन्धाद्दीप्यते । अन्यत् रात्रिलक्षणं कृष्णं तमःसंबन्धात् कृष्णवर्णमाभाति ॥ यम्या । सुपो डादेशः । रोचते । ‘ एकान्याभ्यां समर्थाभ्याम्' इति न निघातः ॥
“The twin pair (day and night) adopt various forms; one of them shines brightly, the other is black; twin sisters are they, one black and the other white; great and unequalled is the might of the gods.”
Ye, variant Pair, have made yourselves twin beauties: one of the Twain is dark, bright shines the other;
And yet these two, the dark, the red, are Sisters. Great is the Gods' supreme and sole dominion.
The twins [=Night and Dawn] have assumed wondrous forms, each one for herself. One of them shines; the other is black;
the dusky one and the ruddy one are sisters. – Great is the one and only lordship of the gods.
Verschieden wirken die verbund'nen Schönen, die eine hell von ihnen, schwarz die andre, Und Schwestern sind die dunkle und die rothe; gross ist allein der Götter Geistesfülle.
Die Zwillingsschwestern haben sich verschiedene Farben zugelegt, die eine Farbe dieser beiden glänzt, die andere ist schwarz. Die dunkle Nacht und die rötliche Usas sind Schwestern. -Groß ist die einzige Asuramacht der Götter.
Сестры-близнецы имеют разные краски:
У одной из двух она сверкает, у другой – черная.
Черная и та, что алая, – две сестры.
Велико могущество богов, единственно.
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची । ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । ऋ॒तस्य॑ । ते॒ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
माता सर्वेषां निर्मातृत्वान्माता पृथिवी च दुहिता दूरे निहिता द्यौः च । 'दुहिता दुर्हिता दूरे हिता दोग्धेर्वा ' (निरु. ३. ४ ) इति यास्कः । एते सबर्दुघे सबरः स्वीयस्य क्षीररूपरसस्य दोग्ध्र्यौ अत एव धेनू जगतः प्रीणयित्र्यौ ते द्यावापृथिव्यौ यत्र अन्तरिक्षे समीची परस्परं संगते सत्यौ धापयेते स्वकीयं रसमन्योन्यं पाययेते ऋतस्य उदकस्य सदसि स्थानभूते तस्मिन्नन्तरिक्षे अन्तः स्थिते द्यावापृथिव्यौ ईळे अहं स्तौमि । यद्वा । वृष्टिलक्षणं रसं द्यौः पृथिवीं धापयते आहुतिलक्षणं रसं द्यां पृथिवीति एवमन्योन्यं माता च दुहिता च भवतः । ऋतस्य सदसि स्थाने यज्ञसदने स्थितोऽहं ते उभे स्तौमि ॥ सबर्दुघे । “ सबःशब्दः क्षीरवाची' इति संप्रदायविद आहुः । तस्मिन्नुपपदे ‘ दुह प्रपूरणे' इत्यस्माद्धातोः ‘ दुहः कब्घश्च ' इति कप्प्रत्ययो घश्चान्तादेशः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । धापयेते । धेट् पाने ' इत्यस्य ण्यन्तस्य लटि निगरणचलनार्थेभ्यश्च' इति परस्मैपदे प्राप्ते ‘पादिषु धेट उपसंख्यानम् ' इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ ।
“Where the mother and daughter, two productive kine, unite, they nourish each other; I worship them both in (the firmament), the dwelling of the waters great and unequalled is the might of the gods.”
Where the two Cows, the Mother and the Daughter, meet and give suck yielding their lordly nectar,
I praise them at the seat of law eternal. Great is the Gods' supreme and sole dominion.
Where the mother and the daughter [also =Night and Dawn], the two sap-yielding milk-cows, give suck jointly,
I reverently invoke the two within the seat of truth. – Great is the one and only lordship of the gods.
Wo beide Kühe, Mutter und die Tochter, vereinigt säugen, reichen Nektar strömend; Sie beide preis' ich in dem heil'gen Sitze; gross ist allein der Götter Geistesfülle.
Wo die beiden immermelken Kühe, Mutter und Tochter, gemeinsam das Kalb säugen, rufe ich die beiden am Sitze der Wahrheit an. -Groß ist die einzige Asuramacht der Götter.
Где мать и дочь, две дойные коровы,
Чудесно доящиеся, вместе дают подоить себя (теленку),
В сидении закона я призываю их обеих.
Велико могущество богов, единственно.
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूध॑: । ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
अ॒न्यस्याः॑ । व॒त्सम् । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ । ऋ॒तस्य॑ । सा । पय॑सा । अ॒पि॒न्व॒त॒ । इळा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
अन्यस्याः पृथिव्याः वत्सम् अग्निं रिहती उदकधारारूपया जिह्वया लिहती द्यौः मिमाय मेघद्वारा ध्वनिं करोति । धेनुः प्रीणयित्री सा द्यौः कया जलवर्जितया भुवा तत्रत्यं जलमादाय स्वकीयम् ऊधः मेघरूपं नि दधे उदकेन निहितमकरोत् । सा जलवर्जिता इळा पृथिवी ऋतस्य सत्यभूतस्यादिस्यस्य पयसा उदकेन अपिन्वत वर्षकाले सिक्ता भवति । आदित्याज्जायते वृष्टिः' (मनु. ३.७६ ) इति स्मृतेः ॥ रिहती । ‘ लिह आस्वादने' इत्यस्य शतरि रूपम् । ‘शतुरनुमः' इति ङीप उदात्तत्वम् । अपिन्वत । ' पिवि सेचने' । मुचादिरात्मनेपदी । निघातः ॥
“Licking the calf of the other, one of them lows aloud; the cow offers her udder for the one that is without mosture (the earth), and she (the earth) is refreshed by the milk of the rain; great and unequalles is the might of the gods.”
Loud hath she lowed, licking the other's youngling. On what world hath the Milch-cow laid her udder?
This Ila streameth with the milk of Order. Great is the Gods' supreme and sole dominion.
Licking the calf [=Agni] of another [=firestick/Night], she [=oblation/ Dawn] lows: in what form has the milk-cow deposited her udder?
Iḍā [/Refreshment] has swelled with the milk of truth. – Great is the one and only lordship of the gods.
Das Kalb der andern leckend brüllte laut sie; in welcher Welt legt hin die Kuh ihr Euter? Sie schwillt vom Trunk und von der Milch des Opfers; gross ist allein der Götter Geistesfülle.
Das Kalb der anderen leckend brüllte sie. In welcher Welt hat die Kuh ihr Euter verborgen? Die Ila schwoll von Milch der Wahrheit. -Groß ist die einzige Asuramacht der Götter.
Она замычала, лижа теленка другой (коровы).
В каком мире спрятала вымя корова?
Это жертвенное подкрепление набухло от молока закона.
Велико могущество богов, единственно.
पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा । ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
पद्या॑ । व॒स्ते॒ । पु॒रु॒ऽरूपा॑ । वपूं॑षि । ऊ॒र्ध्वा । त॒स्थौ॒ । त्रि॒ऽअवि॑म् । रेरि॑हाणा । ऋ॒तस्य॑ । सद्म॑ । वि । च॒रा॒मि॒ । वि॒द्वान् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
पद्या । जगत्स्रष्टुः परमेश्वरस्य पद्भ्यां जातत्वात् पद्या भूमिः । तथा च मन्त्रवर्णः -- ‘पद्यांया भूमिः' (ऋ. सं. १०.९०.१४) इति । यद्वा पादसंचारे साधुः पद्या भूमिः पुरुरूपा नानाविधस्वरूपाणि वपूंषि स्थावरजङ्गमात्मकानि रूपाणि वस्ते आच्छादयति । सैषा भूमिः ऊर्ध्वा उत्तरवेद्यात्मनोन्नता सती स्वसारभूतेन हविषा त्र्यविम् । सार्धसंवत्सरवयस्को वत्सस्त्र्यविरित्युच्यते । तस्प्रमाणमादित्यम्। त्रीन् लोकान् अवति स्वतेजसा व्याप्नोतीति त्र्यविरिति वा । रेरिहाणा लिहती तस्थौ । ऋतस्य सत्यभूतस्यादित्यस्य सद्म स्थानं विद्वान् जानानोऽहं वि चरामि हविर्भिः तमादित्यं परिचरामि ॥ पद्या । पादशब्दात् ' भवे छन्दसि' इति यत् । पद्यत्यतदर्थे ' ( पा. सू. ६.३.५३ ) इति पादस्य पद्भावः । यद्वा । तत्र साधुः' इति यत् । यतोऽनावः' इति
“The earth wears bodies of many forms; she abides on high cherishing her year and a half old (calf); knowing the abode of the truth (the sun), I offer worship; great and unequalled is the might of the gods.”
Earth weareth beauties manifold: uplifted, licking her Calf of eighteen months, she standeth.
Well-skilled I seek the seat of law eternal. Great is the Gods' supreme and sole dominion.
At her feet she of many shapes [=Dawn] clothes herself in wondrous forms. She stands erect, constantly licking the (calf) three
lambing-seasons old.
I roam through the seat of truth as a knowing one. – Great is the one and only lordship of the gods.
Sie legt sich an den schönen Schmuck der Füsse, stand aufrecht nun, das junge Kalb beleckend; Den Sitz des Opfers, ihn durchschreit' ich kundig; gross ist allein der Götter Geistesfülle.
Unten kleidet sich die Vielfarbige in schöne Formen; sie richtet sich empor, das anderthalbjährige Rind leckend. Ich durchwandere als Wissender die Stätte der Wahrheit. -Groß ist die einzige Asuramacht der Götter.
Находясь у ног (вселенной), она одевается в многоцветные облики.
Она встала прямо, облизывая полуторагодовалого (теленка).
Я брожу в лоне закона как знаток.
Велико могущество богов, единственно.
प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् । स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
प॒देइ॒वेति॑ प॒देऽइ॑व । निहि॑ते॒ इति॒ निऽहि॑ते । द॒स्मे । अ॒न्तरिति॑ । तयोः॑ । अ॒न्यत् । गुह्य॑म् । आ॒विः । अ॒न्यत् । स॒ध्री॒ची॒ना । प॒थ्या॑ । सा । विषू॑ची । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
पदेइव । पद्येते ज्ञायेते तत्तदसाधारणलिङ्गेनेति पदे । अहश्च रात्रिश्चेत्येते दस्मे सर्वैर्दर्शनीये ते उभे अन्तः नभसि मध्ये निहिते स्थापिते इव वर्तेते । तयोः अहोरात्रयोः अन्यत् रात्रिलक्षणं गुह्यम् अप्रकाशमानतया गूढमिवास्ते । अन्यत् अहः आविः सूर्यप्रकाशेन प्रकटं भवति । सधीचीना अहोरात्रयोः परस्परमेलनरूपा पथ्या मार्गः । काल इत्यर्थः। सा विषूची । पुण्यकृतोऽपुण्यकृतश्च प्राप्नोतीति विषूची भवति । सर्वे जना अहोरात्रयोर्वर्तन्ते । यद्वा । पदेइव देवमनुष्यादीनां स्थानभूते द्यावापृथिव्यौ अन्तरन्तरिक्षे निहिते वर्तेते । तयोरन्यत् अन्या द्यौः गुह्यमस्माभिः अदृश्यमानतया गूढा वर्तते । अन्या पृथिवी आविः सर्वैः दृश्यमानत्वेन प्रकटा भवति। सध्रीचीनेति पूर्ववत् ॥ सध्रीचीना । सहपूर्वादञ्चतेः क्विन् । 'सहस्य सध्रिः' इति सध्र्यादेशः । ‘विभाषाञ्चेरदिक्स्त्रियाम्' इति स्वः(स्वरः) ॥ ॥ ३० ॥
“Like two (distinguishing) impressions, they (day and night) are plural ced visible in the midst (between heaven and earth), one hidden, one manifest; the path (of both) is common, and that is universal (for good and evil) great and unequalled is the might of the gods.”
Within a wondrous place the Twain are treasured: the one is manifest, the other hidden.
One common pathway leads in two directions. Great is the Gods' supreme and sole dominion.
Like two footprints set down within the wondrous one [=Agni? ritual ground?], the one of the two is hidden, the other visible [=Night
and Dawn].
Their pathway has a single goal, (but goes) separately. – Great is the one and only lordship of the gods.
Wie zwei Fusstapfen stehen dort die Schönen, verborgen eine, offenbar die andre; Der Pfad sich einend, hier und dort sich scheidend, gross ist allein der Götter Geistesfülle.
Zwei Formen sind wie zwei Spuren dem Meister aufgeprägt: von diesen ist die eine verborgen, die andere offenbar. In gleicher Richtung geht ihr Weg und ist doch getrennt. -Groß ist die einzige Asuramacht der Götter.
(Ушас и Ночь-) словно два удивительных следа, оставленных внутри (вселенной).
Один из них сокрыт, другой явный.
(Их) путь устремлен к одной цели, (но направлен) он в разные стороны.
Велико могущество богов, единственно.
आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघा॑: शश॒या अप्र॑दुग्धाः । नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
आ । धे॒नवः॑ । धु॒न॒य॒न्ता॒म् । अशि॑श्वीः । स॒बः॒ऽदुघाः॑ । श॒श॒याः । अप्र॑ऽदुग्धाः । नव्याः॑ऽनव्याः । यु॒व॒तयः॑ । भव॑न्तीः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
धेनवः वृष्टिद्वारा सर्वस्य जगतः प्रीणयित्र्यः अशिश्वीः शिशुरहिताः । यद्वा शिशवो न भवन्तीत्यशिश्वीः । शशयाः नभसि शयाना वर्तमानाः केनापि अप्रदुग्धाः अक्षीणरसाः सबर्दुघाः उदकलक्षणस्य क्षीरस्य दोग्ध्र्यः युवतयः परस्परमिश्रणोपेताः नव्यानव्याः अतिशयेन नूतनाः भवन्तीः दिशो मेघा वा आ धुनयन्ताम् आदुहन्तु । मेघपक्षे अशिश्वीर्भवन्तीरित्यत्र लिङ्गव्यत्ययः ॥
“May the kine without their young, abiding (in the heaven), and though unmilked, yet yielding milk and ever fresh and youthfu,l be shaken (so as to perform their functions); great and unequalled is the might of the gods.”
Let the milch-kine that have no calves storm downward, yielding rich nectar, streaming, unexhausted,
These who are ever new and fresh and youthful. Great is the Gods' supreme and sole dominion.
Let the milk-cows [=Dawns? plants crackling as they burn?] be noisy, those which are without young (yet) sap-yielding, unfailing, not
milked out,
becoming young ever anew. – Great is the one and only lordship of the gods.
Die Kühe, frei des Kalbes, mögen rauschen, neumilchend, ungemolken, immerströmend, Die jugendlichen, fort und fort erneuten, gross ist allein der Götter Geistesfülle.
Es sollen heranrauschen die Milchkühe, die kein Junges haben und doch immer melk sind, die ergiebigen, nicht vorgemolkenen, immer wieder aufs neue sich verjüngend. -Groß ist die einzige Asuramacht der Götter.
Пусть примчатся с шумом дойные коровы, хоть и без телят,
(Но) чудесно доящиеся, неиссякающие, кого не выдоить до конца,
Становящиеся юными снова и снова.
Велико могущество богов, единственно.
यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेत॑: । स हि क्षपा॑वा॒न्त्स भग॒: स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
यत् । अ॒न्यासु॑ । वृ॒ष॒भः । रोर॑वीति । सः । अ॒न्यस्मि॑न् । यू॒थे । नि । द॒धा॒ति॒ । रेतः॑ । सः । हि । क्षपा॑ऽवान् । सः । भगः॑ । सः । राजा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
वृषभः अपां वर्षकः यत् यः पर्जन्यात्मेन्द्रः अन्यासु दिक्षु रोरवीति मेघद्वारा भृशं शब्दं करोति सः पर्जन्य इन्द्रः अन्यस्मिन् यूथे दिशां वृन्दे रेतः उदकं नि दधाति तत्र वर्षति । लोके' हि वृषभः कासुचिद्गोषु रेतःसेकार्थं रवं करोत्यन्यस्मिन् गोयूथे रेतः सिञ्चति तद्वत् । सः इन्द्रः क्षपावान् । क्षिपति शत्रूनुदकं वेति क्षेपणवान् । यद्वा । क्षपा रात्रिः ।' तथा रात्रिपर्याययागानां स्तोत्राणां भागभूता या रात्रिः सोच्यते । तद्वान् । सः भगः सर्वैर्भजनीयः । सः राजा हि तत्तत्कर्मानुरूपफलप्रदानेन सर्वेषां राजा खलु ॥ रोरवीति । ‘रु शब्दे' इत्यस्य यङ्लुगन्तस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्याम्' इति प्रथमस्य न निघातः । यूथे । ‘यु मिश्रणे'। ‘ तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९ ) इति थक्प्रत्ययान्तत्वेन निपातनाद्दीर्घः । रेतः । ‘रीङ् क्षरणे' इत्यस्मात् ‘स्रुरीभ्यां तुट् च' इत्यसुन्प्रत्ययस्तुडागमश्च । नित्त्वादाद्युदात्तः ॥
“When the showerer roars in other (regions) he sends down the rain upon a different herd, for he is the victor, the auspicious, the sovereign; great and unequalled is the might of the gods.”
What time the Bull bellows in other regions, another herd receives the genial moisture;
For he is Bhaga, King, the earth's Protector. Great is the Gods' supreme and sole dominion.
Though the bull goes about roaring within the one (herd of) cows, he deposits his seed in the other herd.
For he is the earth-protector; he is the apportioner; he is king. – Great is the one and only lordship of the gods.
Wenn brünstig brüllt der Stier nach andern Kühen, so setzt in andre Kühe er den Samen; Er ist ja Fürst, Vertheiler, Erdbeschützer; gross ist allein der Götter Geistesfülle.
Wenn der Stier unter anderen Kühen brüllt, legt er in die andere Herde seinen Samen, denn er ist der Herrscher, er der Bhaga, er der König. -Groß ist die einzige Asuramacht der Götter.
Когда бык громко ревет среди одних,
Он влагает семя в другое стадо.
Ведь он защитник земли, он Бхага, он царь.
Велико могущество богов, единственно.
वी॒रस्य॒ नु स्वश्व्यं॑ जनास॒: प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः । षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
वी॒रस्य॑ । नु । सु॒ऽअश्व्य॑म् । ज॒ना॒सः॒ । प्र । नु । वो॒चा॒म॒ । वि॒दुः । अ॒स्य॒ । दे॒वाः । षो॒ळ्हा । यु॒क्ताः । पञ्च॑ऽपञ्च । आ । व॒ह॒न्ति॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
हे जनासः जनाः वीरस्य शूरस्येन्द्रस्य स्वश्व्यं शोभनाश्वोपेतत्वं नु क्षिप्रं प्र वोचाम प्रकर्षेण वदाम । तथा देवाः अपि अस्य इन्द्रस्य स्वश्वत्वं नु क्षिप्रं विदुः जानन्ति । किं तत्स्वश्वत्वम् । तदुच्यते । षोळ्हा मासाना द्वन्द्वयोगकाले षोढा दृश्यमाना ऋतवोऽश्वा निरूप्यन्ते । ते च षट्संख्याका ऋतवो हेमन्तशिशिरयोः समासेन पञ्चपञ्च युक्ताः सन्तः कालात्मकमिन्द्रम् आ वहन्ति । तदिदम् इन्द्रस्य स्वश्वत्वं यदृतुभिरूढत्वम् ॥ षोळ्हा । षष्शब्दात् ‘संख्याया विधार्थे धा ' इति धाप्रत्ययः । षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च' (पा.सू. ६.३. १०९. ३-४) इत्युत्वं ष्टुत्वं च । प्रत्ययस्वरः ॥
“We proclaim, people, the wealth of the hero, (Indra), in horses; the gods know his (affluence); six, or five and five, harnessed to his car, convey him; great and unequalled is the might of the gods.”
Let us declare the Hero's wealth in horses, O all ye folk: of this the Gods have knowledge.
Sixfold they bear him, or by fives are harnessed. Great is the Gods' supreme and sole dominion.
The hero’s abundance of horses we will proclaim just now, o people. The gods know of it.
Yoked sixfold, five after five they convey (Indra) hither. – Great is the one and only lordship of the gods.
Lasst preisen nun den Rossbesitz des Helden, ihr Menschen, uns; es kennen ihn die Götter; Ihn fahren sechzig, angeschirrt zu fünfen; gross ist allein der Götter Geistesfülle.
Jetzt wollen wir des Helden schönes Rossegespann verkünden, ihr Leute; die Götter kennen es. Je fünf und fünf in sechs Reihen geschirrt fahren sie ihn her. -Groß ist die einzige Asuramacht der Götter.
Сейчас мы хотим провозгласить владение прекрасными конями.
У героя, о люди. Боги знают об этом.
Запряженные шестью рядами по пять, они привозят (его).
Велико могущество богов, единственно.
दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान । इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । पु॒पोष॑ । प्र॒ऽजाः । पु॒रु॒धा । ज॒जा॒न॒ । इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒स्य॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
सविता अन्तर्यामितया सर्वस्य प्रेरकः विश्वरूपः नानाविधरूपः त्वष्टा त्वष्टृनामकः देवः प्रजाः पुरुधा बहुधा जजान जनयति । ताश्च पुपोष पोषयति । इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि च अस्य त्वष्टुः संबन्धीनि ॥ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् ॥
“The divine Tvaṣṭā the impeller (of all), the multiform, has begotten and nourished a numerous progeny, for all these worlds are of him; great and unequalled is the might of the gods.”
Tvastar the God, the omniform. Creator, begets and feeds mankind in various manner.
His, verily, arc all these living creatures. Great is the Gods' supreme dominion.
God Tvaṣṭar, the impeller providing all forms, flourishes; he has begotten offspring in great quantity,
and all these creatures here are his. – Great is the one and only lordship of the gods.
Tvaschtar, der Gott, belebend, vielgestaltig, erzeugt' und nährte reichlich die Geschöpfe, Und diese Wesen alle sind sein eigen; gross ist allein der Götter Geistesfülle.
Gott Tvastri, der Bestimmer, der alle Formen bildet, hat den Nachwuchs vermehrt und in großer Zahl erzeugt und alle diese sind seine Geschöpfe. -Groß ist die einzige Asuramacht der Götter.
Бог Тваштар, Савитар обладающий всеми обличьями,
Дал процветание потомству, многократно породил (его),
И все эти существа – его (потомство).
Велико могущество богов, единственно.
म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे । शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
म॒ही । सम् । ऐ॒र॒त् । च॒म्वा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । उ॒भे । ते । अ॒स्य॒ । वसु॑ना । न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे । शृ॒ण्वे । वी॒रः । वि॒न्दमा॑नः । वसू॑नि । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
मही महत्यौ समीची परस्परं संगते चम्वा । चमन्त्यदन्त्यनयोः देवमनुष्याः इति चम्वौ। यद्वा । चम्येते अद्येते भूतजातैरिति चम्वौ द्यावापृथिव्यौ । समैरत् इन्द्रः प्रजापश्वादिभिः सम्यगयोजयत् । ते उभे द्यावापृथिव्यौ अस्य इन्द्रस्य वसुना तेजसा धनेन वा न्यृष्टे नितरां व्याप्ते भवतः । वीरः समर्थः स इन्द्रः वसूनि शत्रूनभिभूय तदीयानि धनानि विन्दमानः लभमानः सन् शृण्वे सर्वैः श्रूयते । ‘तवेदिदमभितश्चेकिते वसु' (ऋ. सं. १.५३.३ ) इत्यादिषु दृष्टत्वात् ॥ ऐरत् । ‘ ईर गतौ ' इत्यस्य लङि रूपम् । न्यृष्टे । 'ऋषी गतौ ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । शृण्वे । ‘ श्रु श्रवणे' इत्यस्य व्यत्ययेन कर्मणि श्नुः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । विन्दमानः । ' विद्लृ लाभे ' इत्यस्य लटि शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः ॥
“He has filled the two vast receptacles (heaven and earth) united (with creatures); they are both penetrated by his lustre; the hero spoiling the treasures (of the foe) is renowned; great and unequalled is the might of the gods.”
The two great meeting Bowls hath he united: each of the Pair is laden with histreasure.
The Hero is renowned for gathering riches. Great is the Gods' supreme and sole dominion.
He [=Indra?] has raised up together the two great bowls (to be) united. Both of them are crammed with his goods.
The hero is famed for finding goods. – Great is the one and only
lordship of the gods.
Er schuf vereint die beiden Weltenschalen, sie beide sind gefüllt mit seinem Gute; Gepriesen wird der Held, der Güter auffand; gross ist allein der Götter Geistesfülle.
Er hat die beiden gepaarten großen Gefäße zustande gebracht. Beide sind mit seinem Gute vollgestopft. Er ist berühmt als der Held, der Schätze findet. -Groß ist die einzige Asuramacht der Götter.
Он привел в действие обе великие соединенные чаши -
Обе они набиты его добром.
Героем слывет (тот,) кто находит добро.
Велико могущество богов, единственно.
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ । पु॒र॒:सद॑: शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उप॑ । क्षे॒ति॒ । हि॒तऽमि॑त्रः । न । राजा॑ । पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
विश्वधायाः विश्वस्य धाता सर्वान्नो वा नः अस्माकं राजा इन्द्रः इमां पृथिवीम् अन्तरिक्षं च उप तयोः समीपे क्षेति निवसति । तत्र दृष्टान्तः । हितमित्रो न । यथा कस्यचित् हितोपदेष्टा सुहृत् समीपे निवसति तद्वत् । वीराः समर्था युद्धसहाया मरुतः पुरःसदः युद्धार्थं पुरतो निश्चयेन गन्तार इन्द्रस्य शर्मसदो न । नश्चार्थे । शर्मणि गृहे सीदन्तश्च भवन्ति । यत्र यत्रासौ तत्र तत्र संनिधिं कुर्वाणा इत्यर्थः ॥ क्षेति। ‘ क्षि निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः ॥
“Our king, the nourisher of all, abides (in the firmament) nearest to this earthlike a benevolent friend; the valiant (Maruts) precede him (when abroad), and dwell in his mansion; great and unequalles is the might of the gods.”
Yea, and on this our earth the All-Sustainer dwells like a King with noble friends about him.
In his protection heroes rest in safety. Great is the Cods' supreme and sole dominion.
And he who suckles all of us [=Agni] dwells peacefully on this earth here, like a king with established alliances,
stationed in front like heroes stationed for protection. – Great is the one and only lordship of the gods.
Und er beherrscht allnährend diese Welt uns, gleich einem König, holdgesinnt den Freunden, Wie Helden, die zum Schutz sich vor uns lagern; gross ist allein der Götter Geistesfülle.
Und diese unsere Erde bewohnt der Allnährende wie ein König, der gute Freunde hat, Wacht haltend wie die in Deckung liegenden Männer. -Groß ist die einzige Asuramacht der Götter.
Всекормящий живет на этой нашей
Земле, словно царь, заключивший договор,
Словно герои, находящийся впереди, сидящие под щитом.
Велико могущество богов, единственно.
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति । सखा॑यस्ते वाम॒भाज॑: स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
निः॒ऽसिध्व॑रीः । ते॒ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । ते॒ । इ॒न्द्र॒ । पृ॒थि॒वी । बि॒भ॒र्ति॒ । सखा॑यः । ते॒ । वा॒म॒ऽभाजः॑ । स्या॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
हे पर्जन्यात्मक इन्द्र ओषधीः ओषधयः ते निष्षिध्वरीः निष्षिध्वर्यो नितरां त्वत्कर्तृकसिद्धिमत्यः । उत अपि च आपः त्वत्तो निःसृताः । पृथिवी ते तव भोगयोग्यं रयिं धनं बिभर्ति । पुरू वसूनि पृथिवी बिभर्ति' (ऋ. सं. ३.५१.५) इति हि निगमः । ततः ते तव सखायः हविष्प्रदानेनोपकारकाः स्तोतारः वयं वामभाजः स्याम सर्वे वननीयधनभागिनो भवेम । तदेतद्देवानां महदैश्वर्यम् ॥ निष्षिध्वरीः । ‘ षिधु संराद्धौ । संपदादिलक्षणो भावे क्विप् । तदस्यास्ति इत्यर्थे 'छन्दसीवनिपौ° ' इति वनिप् । वनो र च' इति ङीप् रेफश्च । निसा सह समासः । निसः सकारं छान्दसत्वादनादृत्य • उपसर्गात्सुनोति' इत्यादिना षत्वम् । डीपः पित्त्वादनुदात्तत्वे धातुस्वरः । बिभर्ति । ‘ डुभृञ् धारणपोषणयोः' इत्यस्य लटि ‘ भृञामित्' इत्यभ्यासस्येत्वम् । निघातः । वामभाजः । ‘ भज सेवायाम् ' । ‘ भजो ण्विः ' ( पा. सू. ३:२:६२ ) इति ण्विः । कृदुत्तरपदस्वरः ॥ ॥ ३१ ॥
“The plural nts, Indra, come to perfection by you; from you the waters (flow); earth bears her treasures for you; may we, your friends, be sharers of these blessings; great unequalled is the might of the gods.”
Rich in their gifts for thee are herbs and waters, and earth brings all her wealth for thee, O Indra.
May we as friends of thine share goodly treasures. Great is the Gods' supreme and sole dominion.
The plants and the waters offer tribute to you; the earth bears wealth for you, Indra.
May we be your comrades, sharing in the valuables. – Great is the one and only lordship of the gods.
An Gaben reich sind Kräuter dir und Wasser; die Erde trägt dir reiches Gut, o Indra, Wir sei'n dir Freunde, schönen Schatz empfangend; gross ist allein der Götter Geistesfülle.
Ihren Tribut schulden dir die Pflanzen und die Gewässer; für dich, Indra, trägt die Erde ihren Reichtum. Als deine Freunde wollen wir an dem Gute Anteil haben. -Groß ist die einzige Asuramacht der Götter.
Данники твои – растения и воды.
Земля тебе, о Индра, несет богатство.
Друзья твои, да получим мы долю от (твоего) драгоценного (богатства)!
Велико могущество богов, единственно.