न ता मि॑नन्ति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ । न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांस॑: ॥
न । ता । मि॒न॒न्ति॒ । मा॒यिनः॑ । न । धीराः॑ । व्र॒ता । दे॒वाना॑म् । प्र॒थ॒मा । ध्रु॒वाणि॑ । न । रोद॑सी॒ इति॑ । अ॒द्रुहा॑ । वे॒द्याभिः॑ । न । पर्व॑ताः । नि॒ऽनमे॑ । त॒स्थि॒ऽवांसः॑ ॥
मायिनः कपटबुद्ध्युपेता असुराः देवानाम् इन्द्रादीनां प्रथमा प्रथमानि सृष्ट्यनन्तरभावीनि ध्रुवाणि स्थिराणि केनापि चालयितुमशक्यानि ता तानि लोके प्रसिद्धानि व्रता व्रतानि लोकपालनादिकर्माणि न मिनन्ति न हिंसन्ति । तथा धीराः विद्वांसोऽपि न हिंसन्ति । तथा अद्रुहा देवमनुष्यादिषु प्रजासु द्रोहवर्जिते रोदसी द्यावापृथिव्यौ वेद्याभिः स्वाश्रयतया सर्वैर्वेदनीयाभिः प्रजाभिः सहिते तानि कर्माणि न मिनीतः । तदेतदुपपादयति । तस्थिवांसः पृथिव्यामूर्ध्वतया स्थिताः पर्वताः न निनमे निनमनीयाः न भवन्ति । एतदुक्तं भवति । यद्देवमनुष्यादीनां द्यावापृथिव्याधारकतया अवस्थापनं यच्च पर्वतादीनामुन्नततयावस्थापनं तदिदं देवानां कर्म । तन्न कोऽप्यन्यथयितुमर्हति इति ॥ मिनन्ति । ' मीङ् हिंसायाम्' इत्यस्य लटि ' मीनातेर्निगमे ' इति ह्रस्वः । निघातः । वेद्याभिः । वेदनमर्हन्ति । ‘छन्दसि च' इति यत्प्रत्ययः । निनमे । ' णमु प्रह्वत्वे' इत्यस्य कृत्यार्थे केन्प्रत्ययः । कृत्स्वरः ॥
“Neither the deceptive nor the resolute interrupt the primitive and permanent operations of the gods, nor do the innocuous heaven and earth (interrupt them), nor are the mountains standing (on the earth) to be bowed down.”
NOT men of magic skill, not men of wisdom impair the Gods' first steadfast ordinances.
Ne'er may the earth and heaven which know not malice, nor the fixed hills, be bowed by sage devices.
Neither the tricky ones nor the clever transgress these: steadfast are the foremost commandments of the god.
Neither the two world-halves without deceit nor the mountains standing fast are to be bowed down by knowing wiles.
Nicht Zauberer, nicht Weise stören diese, die ersten festen Satzungen der Götter; Die Welten nicht, die hold aus eignem Trieb sind; unbeugsam sind die Berge, welche feststehn.
Weder die Zauberkundigen noch die Weisen schmälern diese feststehenden ersten Gesetzt der Götter. Nicht sind Himmel und Erde, die truglosen, mit aller Weisheit zu schmälern, noch sind die feststehenden Berge niederzubeugen.
Ни колдуны, ни мудрецы не нарушают
Тех первых прочных заветов богов.
Ни обе половины вселенной, не терпящие обмана, (не провести) с помощью (разных) знаний,
Ни горы, стоящие (прямо), не согнуть.
षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगु॑: । ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥
षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ । ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥
अचरन् स्थायी एकः संवत्सरः षट् षट्संख्याकान् भारान् ।भ्रियते पुष्पविकासादि येष्विति भारा ऋतवः । तान् वसन्तादीन् बिभर्ति अवयवत्वेन धारयति । तथा ऋतं सत्यभूतं वर्षिष्ठं वृद्धतरमादित्यात्मकं तमेव संवत्सरं गावः रश्मयः उप आगुः प्राप्नुवन्ति । किंच तस्मिन्नेव संवत्सरे अत्याः अतनशीला आगमापायिधर्मोपेताः तिस्रो महीः त्रयो लोकाः उपराः उपर्युपरि वर्तमानाः तस्थुः तिष्ठन्ति । लोकत्रयमेव दर्शयति । गुहा गुहायां स्वात्मनि द्वे द्यौश्चान्तरिक्षं चेत्येते निहिते न दृश्येते । एका भूमिः दर्शि सर्वभूताधारतया दृश्यते ॥ भारान् । डुभृञ् धारणपोषणयोः' इत्यस्मादधिकरणे घञ् ।' कर्षात्वतो घञः ' इत्यन्तोदात्तत्वम् । निहिते । दधातेः कर्मणि निष्ठा ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । दर्शि । 'दृशिर् प्रेक्षणे' । कर्मणि लुङि चिणि ' चिणो लुक्' इति प्रत्ययस्य लुक् । वाक्यभेदादनिघातः ॥
“One stationary (year) sustains six burdens (in the season); the (solar) rays spread through that true and extensive (term); three revolving spheres are severally above, two of which are plural ced in secret, and one is visible.”
One, moving not away, supports six burthens: the Cows proceed to him the true, the Highest.
Near stand three Mighty Ones who travel swiftly: two are concealed from sight, one is apparent.
Six burdens does the One, unmoving, bear. The cows have approached the highest truth.
Three great females stand below, as steeds: two were deposited in hiding; one has become visible.
Sechs Lasten trägt der eine unbeweglich, zur höchsten Stätte gingen hin die Kühe; Drei unerschöpfte, grosse standen unten, zwei im Verborgnen, eine nur ist sichtbar.
Sechs Lasten trägt der Eine ohne zu gehen. Zur höchsten Ordnung sind die Kühe gekommen. Drei Erden stehen unten ......; zwei sind verborgen, eine ist sichtbar.
Шесть нош несет неподвижный.
К высшему закону подошли коровы.
Три земли находятся внизу, кобылицы:
Две сокрыты, одна видна.
त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् । त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ॥
त्रि॒ऽपा॒ज॒स्यः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । उ॒त । त्रि॒ऽउ॒धा । पु॒रु॒ध । प्र॒जाऽवा॑न् । त्रि॒ऽअ॒नी॒कः । प॒त्य॒ते॒ । माहि॑नऽवा॒न् । सः । रे॒तः॒ऽधा । वृ॒ष॒भः । शश्व॑तीनाम् ॥
त्रिपाजस्यः ग्रीष्मवर्षांहेमन्ताख्यैस्त्रिभिर्ऋतुभिः पाजस्यमुरो यस्य स त्रिपाजस्यः । त्र्युरस्क इत्यर्थः । उरोवचनश्च पाजस्यशब्दः । ‘इन्द्रस्य क्रोडोऽदित्यै पाजस्यम्' ( वा. सं. २५. ८) इति अश्वमेधमन्त्रे उरःपरतयाम्नानात् , पाजसि बले साधुरिति व्युत्पत्तेश्च सर्वेषामङ्गानां मध्ये उरसो बलवत्त्वात् । वृषभः स्वावयवभूते वर्षर्तौ अपां वर्षकः विश्वरूपः तत्तदृत्वसाधारणकार्यैः पुष्पविकासादिभिर्लिङ्गैर्नानारूपः उत अपि च त्र्युधा । वसंतशरद्धेमन्ताख्यैस्त्रिभिर्ऋतुभिरूधो यस्य स त्र्युधा । प्रजावान् । प्रकर्षेण जायन्त इति व्रीह्यादयः प्रजाः । पुरुध नानाप्रकारेण विद्यमानव्रीहियवादिरूपप्रजावान्। किंच त्र्यनीकः त्रिभिरुष्णवर्षशीताख्यैः अनीकैः गुणैरुपेतः माहिनावान् महत्त्ववान् संवत्सराभिमानी देवः पत्यते आगच्छति। वृषभः सेचनसमर्थः सः संवत्सरः शश्वतीनां बह्वीनाम् ओषधीनां पुष्पफलादिसंपत्तये रेतोधाः रेतस उदकस्य धर्ता भवति ॥ त्र्युधा । बहुव्रीहौ ‘ ऊधसोऽनङ्' इति अनङ् सर्वविधीनां छन्दसि विकल्पितत्वात् पुंस्यपि भवति । ऊकारस्य ह्रस्वश्छान्दसः । ‘उत्तरपदान्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥
“The tree-breasted, the showerer (of rain), the omniform, the three-uddered, the parent of multiform progeny, the possessor of magnitude, followed by three hosts (the year), advances, the vigorous impregnator of the perpetual plural nts.”
The Bull who wears all shapes, the triple-breasted, three-uddered, with a brood in many places,
Ruleth majestic with his triple aspect, the Bull, the Everlasting Ones' impregner.
The bull of all forms [=Tvaṣṭar?] has three groins and three udders, with offspring in great quantity;
having three faces, he is master [/husband], possessing great force. The bull is the inseminator of each and every female.
Drei Bäuche hat der Stier, der allgestalt'ge, drei Brüste hier und dort der kinderreiche, Mit drei Gesichtern allgewaltig herrscht er, der Stier besamend alle Morgenröthen.
Der Bulle Allgestalt hat drei Bäuche und drei Euter, vielfach besitzt er Nachkommenschaft. Er, der drei Gesichter hat, herrscht als Mächtiger; er ist der besamende Bulle aller Kühe.
У быка о трех животах Вишварупы
Есть также три вымени, у обильного потомством.
Трехликий, правит он, великолепный.
Этот бык-оплодотворитель нескончаемых (коров).
अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ । आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज॑न्ती॒: परि॑ षीमवृञ्जन् ॥
अ॒भीके॑ । आ॒सा॒म् । प॒द॒ऽवीः । अ॒बो॒धि॒ । आ॒दि॒त्याना॑म् । अ॒ह्वे॒ । चारु॑ । नाम॑ । आपः॑ । चि॒त् । अ॒स्मै॒ । अ॒र॒म॒न्त॒ । दे॒वीः । पृथ॑क् । व्रज॑न्तीः । परि॑ । सी॒म् । अ॒वृ॒ञ्ज॒न् ॥
संवत्सरः आसाम् ओषधीनाम् अभीके समीपे पदवीः । पदानि तत्तद्वनविशिष्टपुष्पफलादीनि वेति प्रजनयतीति पदवीः सन् अबोधि बुध्यते सावधानो वर्तते । तथा आदित्यानाम् । आदित्या मासाः संख्यासाम्यात् । यद्वा । आदित्यसंक्रमणनिमित्तत्वादादित्या मासाः । ‘ मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्राद्यः स ज्ञेयः' इति स्मृतेः । तेषां चैत्रादीनां मासानां चारु नाम मधुश्च माधवश्चेत्यादि नामधेयम् अह्वे आह्वयामि । उच्चारयामीत्यर्थः । किंच देवीः द्योतनशीलाः पृथक् इतस्ततः व्रजन्तीः गच्छन्त्यः आपश्चित् आपोऽपि अरमै संवत्सराय अरमन्त संवत्सरसंबन्धिमासचतुष्टये वृष्टिद्वारा रमन्ते । ताः आपः सीम् एनं संवत्सरं परि अवृञ्जन् अष्टसु मासेषु परिवर्जयन्ति ॥ पदवीः । वी गत्यादिषु । क्विप् । अबोधि । बुध अवगमने' इत्यस्य लुङि दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्' इति कर्तरि चिण् । ‘ चिणो लुक्'। निघातः । आदित्यानाम् । आदित्यसंबन्धिन इत्यर्थे दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः' इति ण्यः । अतोलोपयलोपौ । प्रत्ययस्वरः । अह्वे । ह्वयतेर्लुङि सिचः ‘आत्मनेपदेष्वन्यतरस्याम्' इति अङादेशः । गुणः । निघातः । अवृञ्जन् । वृजी वर्जने' इत्यस्य लङि श्नमि रूपम् । निघातः ॥
“(The year) is awake, the path in the vicinity of those (plural nts); I call upon the beautiful name of the Ādityas; the divine waters wandering severally (now) give it delight, and (now) depart from it.”
When nigh them, as their tracer he observed them: he called aloud the dear name of Adityas.
The Goddesses, the Waters, stayed to meet him: they who were wandering separate enclosed him.
In a flash the trail-blazer for these (waters) has awakened—I have invoked the dear name of the Ādityas—
Even the heavenly waters came to a stop for him. Proceeding in separate directions, they bent around him.
An ihrer Spitze ward erweckt der Führer; ich rief den theuren Namen der Aditja's; Die Himmelswasser, die gesondert wallen, sie lauschten ihm und gingen um ihn her nur.
Im entscheidenden Augenblick wurde ihr Pfadsucher erweckt. Der Aditya´s lieben Namen habe ich angerufen. Selbst die göttlichen Gewässer standen ihm still; gesondert gehend wichen sie ihm aus.
Внезапно пробудился пролагатель пути этих (вод).
Я призвал милое имя Адитьев.
Сами воды остановились для него, богини.
Двигаясь врозь, они посторонились для него.
त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् । ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥
त्री । ष॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् । ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥
प्रजापतिः स्वविज्ञानं सिन्धूनां निवेदयति । हे सिन्धवः आपः सर्वसाक्षिण्यो यूयम् । त्री षधस्था त्रयो लोकाः । ते च प्रत्येकं त्रिः भवन्ति । तथा ‘त्रयो वा इमे त्रिवृतो लोकाः' इति श्रुतिः । ‘ न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् । न विव्यचन्त भूमयः ' (ऋ. सं. ८.६.१५) इति प्रत्येकं बहुवचनश्रवणात् । बहुवचनं च कपिञ्जलन्यायेन त्रित्वे पर्यवसितम् । ते च लोकाः कवीनां देवानां निवासस्थानानि भवन्ति । उत अपि च त्रिमाता त्रयाणाममीषां लोकानां निर्माता संवत्सरः सूर्यो वा विदथेषु यज्ञेषु सम्राट् यजनीयतया सम्यग्दीप्यमानो वर्तते । तथा ऋतावरीः उदकवत्यः अप्याः नभस्या आप्तव्या वा तिस्रः योषणाः त्रिसंख्याका इला सरस्वती भारती इत्येवंरूपाः परस्परमिश्रणोपेताः देवताः विदथे यज्ञे दिवः दिवसस्य त्रिः त्रिषु सवनेषु आ पत्यमानाः आगच्छन्त्यो भवन्ति ॥ सधस्था । पूर्वपदात्' इति संहितायां षत्वम् । योषणाः । युष इति सौत्रो धातुः । ल्युटि रूपम् । लित्स्वरः । तिस्रः । ‘ तिसृभ्यो जसः' इत्याद्युदात्तत्वम् । अप्याः। अप् इत्यन्तरिक्षनाम । तत्र भवाः । ‘ भवे छन्दसि' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् ॥
“Rivers, the dwelling-plural ces of the intelligent gods are thrice three; the measurer of the three (worlds) is the sovereign at sacrifices; three feminine le (divinities) of the waters charged with the rains descend from heaven at the thrice (repeated) solemnity.”
Streams! the wise Gods have thrice three habitations. Child of three Mothers, he is Lord in synods.
Three are the holy Ladies of the Waters, thrice here from heaven supreme in our assembly.
Three times three are the seats of the poets, o rivers, and the sovereign king at the rites [/in the (cosmic) divisions] [=Agni] has three mothers. Three are the truthful watery maidens, who act the master at the rite three times a day.
Dreimal drei Sitz', o Ströme, sind der Weisen, und der drei Mütter hat, ist Fürst der Feste, Drei reine Wolkenjungfrau'n sind des Tages dreimal Gebieterinnen bei der Feier.
Dreimal drei sind die Stätten der Seher, ihre Ströme, und dreier Mütter Kind ist der Herr über die Opfer. Drei sind die rechtwandelnden Wasserfrauen, die dreimal des Tages ein Anrecht auf Opfer haben.
Трижды три общих местопребываний у поэтов, о реки,
А также трех матерей имеет самодержец на местах жертвенных раздач.
Три водные жены, связанные с (вселенским) законом,
Властвуют на месте жертвенных раздач трижды в день.
त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्न॑: । त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥
त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या॑णि । दि॒वेऽदि॑वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः॑ । त्रि॒ऽधातु॑ । रा॒यः । आ । सु॒व॒ । वसू॑नि भग॑ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये॑ । धाः॒ ॥
सवितः सर्वस्य प्रेरक हे आदित्य दिवः द्युलोकादागत्य त्वं वार्याणि सर्वैः संभजनीयानि धनानि दिवेदिवे प्रतिदिनं त्रिः आ सुव त्रिवारमस्मभ्यं प्रेरय प्रयच्छेत्यर्थः । तदेवोच्यते । भग सर्वैर्भजनीय त्रातः अस्माकं रक्षक हे आदित्य त्रिधातु त्रिधातूनि पशुकनकरत्नभेदेन त्रिप्रकाराणि वसूनि धनानि रायः । रान्ति क्षीरादीनीति रायो गोधनानि । तानि च नः अस्मभ्यम् अह्नः संबन्धिषु त्रिः त्रिषु सवनेषु आ सुव प्रयच्छ । धिषणे माध्यमिके हे वाक् सातये धनलाभाय धाः अस्मान् कुरु ॥ त्रिः। द्वित्रिचतुर्भ्यः सुच् ' ( पा. सू. ५. ४. १८) इति सुच् । चित्स्वरः । सुव ।' षू प्रेरणे '। तुदादिः । लोटि रूपम् । त्रिधातु ।' डुधाञ् धारणपोषणयोः । इत्यस्मात् ' सितनिगमिमसि' इत्यादिना तुन्प्रत्ययः । धिषणे । आमन्त्रितत्वात् निघातः ॥
“Savitā, descended from heaven, bestow upon us blessings thrice everyday; Bhaga, saviour, grant us thrice a day riches of three elements; Dhiṣaṇa enable us to acquire (wealth).”
Do thou, O Savitar, from heaven thrice hither, three times a day, send down thy blessings daily.
Send us, O Bhaga, triple wealth and treasure; cause the two worlds to prosper us, Preserver!
Three times a day, every day, o Savitar, impel valuables to us, three times daily.
Threefold riches and goods impel here. O Bhaga, o Protector, o Holy Place, position (them) for winning.
Dreimal des Tags, o Savitar, verschaffe uns täglich Schätze, dreimal, wenn es Tag ist, Dreifachen Schatz verschaff, und Güter lass uns, o Bhaga, Tratar, Dhischana erlangen.
Dreimal des Tages weise uns, o Savitri, wünschenswerte Dinge zu, Tag für Tag dreimal am Tage! Weise uns dreifach Reichtümer, Güter zu; o Bhaga, Schützer, o Dhisana, verhilf zum Gewinn!
Трижды в день, о Савитар, избранные дары
Пробуждай для нас – день за днем, три раза в день!
Трояко пробуждай богатства, блага!
О Бхага, спаситель, Дхишана, устрой, чтоб (мы их) добыли!
त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी । आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षन्त सवि॒तुः स॒वाय॑ ॥
त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒ष॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥
सविता देवः दिवः दिवसस्य त्रिः त्रिषु कालेषु आ सोषवीति अस्मभ्यं धनान्यासुवतु। प्रेरयतु । किंच राजाना राजानौ सुपाणी कल्याणपाणी मित्रावरुणौ आपः । आप्नोति सर्वं जगत् इत्यापः अन्तरिक्षम्। नित्यबहुवचनान्तत्वात् बहुवचनम् । चित् अपि च उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यौ एता देवताः सवितुः प्रेरकस्य अस्य देवस्य सवाय सवेन प्रेरणेन रत्नम् अपेक्षितमर्थं भिक्षन्त याचन्ते ॥ सोसवीति । 'षू प्रेरणे' इत्यस्य यङ्लुकि लटि रूपम् । मित्रावरुणा । ‘देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । भिक्षन्त । भिक्ष याञ्चायाम्' इत्यस्य लङि रूपम् । सवाय । ‘ जव सवौ च' (पा. सू. ३. ३. ५६. ४ ) इति अजन्तत्वेन निपातनादन्तोदात्तत्वम् ॥
“May Savitā bestow upon us wealth at the (three periods) of the day, for the well-handed Mitra and Varuṇa, the waters, the vast heaven and earth, solicit precious things from the liberality of Savitā.”
Savitar thrice from heaven pours down abundance, and the fair-handed Kings Varuna, Mitra;
And spacious Heaven and Earth, yea, and the Waters, solicit wealth that Savitar may send us.
Three times a day Savitar keeps impelling (and?) the two kings, Mitra and Varuṇa, of good hands.
Even the waters, even the two broad world-halves beg for his treasure, for Savitar to impel it.
Dreimal des Tags schenkt Savitar uns reichlich, freigiebig Mitra-Varuna, die Herrscher, Die Wasser auch und beide weiten Welten begehren Schatz von Savitar zur Gabe.
Dreimal des Tages weist Savitri an; Mitra und Varuna, die beiden Könige mit der schönen Hand, selbst die Gewässer, selbst die beiden weiten Rodasi bitten um Savitri´s Kleinod, daß er es zuweise.
Трижды в день Савитар мощно пробуждает.
Два царя Митра-Варуна прекраснорукие,
Сами воды, сами две широкие половины мироздания
Просят о сокровище этого Савитара, чтоб (он его) пробудил.
त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः । ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ॥
त्रिः । उ॒त्ऽत॒मा दुः॒ऽनशा॑ । रो॒च॒नानि॑ । त्रयः॑ । रा॒ज॒न्ति॒ । असु॑रस्य । वी॒राः । ऋ॒तऽवा॑नः । इ॒षि॒राः । दुः॒ऽदभा॑सः । त्रिः । आ । दि॒वः । वि॒दथे॑ । स॒न्तु॒ । दे॒वाः ॥
दूणशा दुर्नशा केनापि विनाशयितुमशक्यानि रोचनानि दीप्यमानानि त्रिः त्रीण्युत्तमानि स्थानानि सन्ति । एतेषु त्रिषु स्थानेषु असुरस्य । अस्यति क्षिपति सर्वमित्यसुरः कालात्मा संवत्सरः । तस्य वीराः पुत्राः त्रयः अग्निवायुसूर्यरूपाः राजन्ति शोभन्ते । तानेव विशिनष्टि। ऋतावानः । ऋतं सत्यभूतमग्निहोत्रादिकं कर्म तद्वन्तः । इषिराः यज्ञार्थं शीघ्रगतिमन्तः दूळभासः दुर्दभासः केनापि स्वतेजसा तिरस्कर्तुमशक्या एते सर्वे देवाः विदथे ,अस्मदीये यज्ञे दिवः अह्नः संबन्धिषु त्रिः त्रिषु सवनेषु आ सन्तु समन्ताद्यजनीयतया भवन्तु ॥ उत्तमा । ‘ उत्तमशश्वत्तमौ सर्वत्र ' इत्युञ्छादिषु पाठादन्तोदात्तत्वम् । दूणशा । नशेः कृच्छ्रार्थे खल्। ‘दुरो दाशनाशदभेषूत्वं वक्तव्यम्' इति रेफस्य उत्वम् । उत्तरपदादेः ष्टुत्वम् । लित्स्वरः । दूळभासः । पूर्ववदुत्वष्टुत्वे ॥ ॥ १ ॥
“Three are the excellent uninjurable bright regions, three scions of the powerful (year) are shining; practisers of truth, quick moving, of surpassing radiance; may the deities be present thrice daily at the sacrifice.”
Three are the bright realms, best, beyond attainment, and three, the Asura's Heroes, rule as Sovrans,
Holy and vigorous, never to be injured. Thrice may the Gods from heaven attend our synod.
Threefold are the highest realms of light, difficult to reach; (there?) rule/ shine three heroes of the Lord.
Truthful, vigorous, difficult to deceive—three times a day let the gods be at the rite.
Dreifach die höchsten schwer erreichten Räume, drei Helden auch des höchsten Geistes herrschen; Die heiligen, untrüglichen, die muntern die Götter sei'n dreimal des Tags beim Feste.
Dreifach sind die höchsten, schwer erreichbaren Lichthimmel. Drei Mannen des Asura sind Herrscher. Die gesetzestreuen, eifrigen, schwer zu hintergehenden Götter sollen dreimal des Tages bei dem Opfer zugegen sein.
Трижды (поделены) высшие труднодоступные светлые пространства.
Царствуют три мужа Асуры.
Преданные закону, деятельные боги,
Которых трудно провести, пусть будут трижды в день на месте жертвенных раздач!